०२६

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततोऽनादिनरायणः ।
भक्तं निकामदेवं तं प्राह योगं तु निर्भयम् ॥१ ॥ श्रीकृष्णनारायण उवाच-
शृणु निकामदेव त्वं निर्भीकयोगमुत्तमम् ।
यज्ज्ञात्वा न भयं तस्य मायाकालाद्यकर्मणाम् ॥२ ॥ अनादिश्रीकृष्णनारायणस्य ध्यातुरन्वहम् ।
नदानतीर्थतपसां पुण्यभोगभयं भवेत्॥३ ॥ सर्वपुण्यानि वै कृष्णे मयि न्यस्तानि येन तु ।
तस्याऽक्षरं परन्धाम निर्भयं प्राप्यमेव हि ॥४ ॥ सर्वकर्माधिकं कर्मोपासनं मम सर्वदा ।
स्मरणं चानुमननं सर्वथा भयनाशनम् ॥५ ॥ मायालेशानुसक्तिस्तु पापं चात्र महात्मनाम् ।
हरेः स्मरणरूपं तत्प्रायश्चित्तं महात्मनाम् ॥६ ॥ मुहूर्तस्मृतिमात्रेण मम धामाऽभिगो भवेत् ।
किं पुनः सततं भक्तो निर्भीकोऽन्यसमागमात् ॥७ ॥ जाग्रत्स्वप्नसुषुप्तानां पारे तिष्ठति योगवित् ।
योगः स एव मनसो वृत्तिर्मय्येव सर्वदा ॥८ ॥ गच्छंस्तिष्ठन् श्वसन् कृष्णं नारायणं तु मां स्मरेत् ।
प्रलपन् विविशन् भुञ्जन् रमन् मां सर्वथा स्मरेत् ॥९ ॥ सर्वकर्मसु रक्तोऽपि चित्तं कुर्यात्तु यो मयि ।
तस्य लेपो न भोगानां भोगमध्याऽधिवासिनः ॥4.26.१ ०॥ स्मृतिर्मे परमो धर्मो ध्यानं तपश्च वै मखः ।
शुद्धिः सर्वा परा शान्तिः सर्वं मे स्मरणे स्थितम् ॥११ ॥ दुर्लभं यत्परं दूरमगोचरं यदक्षरम् ।
तथापि प्राप्यमेवाऽस्य स्मर्तुर्मे कृपया मम ॥१२॥ अप्यध्वरशतानां यद् वैगुण्यं विक्रमादिकम् ।
निर्दोषं प्रत्युत पूर्णं श्रीकृष्णस्य स्मृतेर्मम ॥१ ३॥ न स्मृत्या सदृशं मेऽत्र शोधनं चाऽद्यकारिणाम् ।
भवानां दाहिका चापि मोक्षदा सा मम स्मृतिः ॥१४॥ निष्पन्नध्यानवृत्तेस्तु मुक्तिरत्रैव जन्मनि ।
स्मर्तुर्मेऽनलवत् कक्षं स्मृतिर्दहति वासनाम् ॥१५॥ हरौ चात्मस्थिते चित्तस्थिते तु सर्वकिल्बिषम् ।
स्वयं लीनं भवत्येव ततो भयं न विद्यते ॥१६॥ कलहो दूषणं दोषो राग उद्वेजनं क्षयम् ।
न क्रामेन्मानसं स्मर्तुर्यतस्तच्चित्तगोऽस्म्यहम् ॥१७॥ तिथिर्मासः क्षणं योगश्चन्द्रो लग्नं शुभं दिनम् ।
तदेव यत्र गोविन्दः स्मर्यते सर्वथा शुभः ॥१८॥ सा क्षतिः सा परा हानिर्व्यसनं तत्परं तथा ।
यत्र क्षणेऽनादिकृष्णनारायणो न चिन्त्यते ॥१९॥ कलौ कृतयुगस्तस्य यस्य चित्ते जनार्दनः ।
कृते कलियुगस्तस्य यच्चित्ते न जनार्दनः ॥4.26.२०॥ अग्रे पृष्ठे पुर ऊर्ध्वेऽधोऽभितो मध्यवर्तुले ।
हृदये यस्य गोविन्दः कृतकृत्यो हि सोऽस्ति हि ॥२१ ॥ शुभेऽशुभे मनो यस्याऽनादिकृष्णनरायणे ।
तस्य फलं महत् स्वर्गं दुःखदोषादिवर्जितम् ॥२२॥ असन्त्यज्याऽपि गार्हस्थ्यं स्मरते मां तु यः सदा ।
छिनत्ति पौरुषीं मायां मय्यर्पितक्रियो हि सः ॥२३॥ यस्य चित्ते हरिश्चास्ते क्षमावान् सोऽपराधिषु ।
अज्ञेषु दयया युक्तो मोदवान् धार्मिकेषु सः ॥२४॥ स्मरेन्नारायणं मां तु त्यागभोगादिकर्मसु ।
जाग्रत्स्वप्नसुषुप्त्यादौ दुष्कर्मस्वपि चाधिकम् ॥२५॥ हृदयस्थोऽहमेतस्य लाभं जयं यशो धनम् ।
सम्पादयामि सततं शान्तिमानन्दमुत्तमम् ॥२६॥ असङ्ख्यपक्षिपादपपशूनां मोक्षदोऽस्म्यहम् ।
स्मरतां मम चैश्वर्यं किं प्रपन्ननृणां तदा ॥२७॥ श्रीकृष्णपादपच्छाया शीतातपविवर्जिता ।
अमृतपददा मायाभीहन्त्री किं न सेव्यते ॥२८॥ न शापस्य भयं तस्य न च राज्ञो भयं तथा ।
न तु याम्यभयं तस्य यस्य चित्तं मयि प्रभौ ॥२९॥ ध्यानं स्मरणसञ्जुष्टं पवित्रमुत्तमं सदा ।
येन पापाशनोऽप्यत्र लिप्यते न कदाचन ॥4.26.३ ०॥ यथा तु विषये चित्तं तथा यस्य हरौ मयि ।
तथा मे सत्सु सत्सङ्गे स मुक्तोऽत्र प्रमुक्तिदः ॥३ १ ॥ कृष्णनारायणभक्तिर्हृदये वासकारिणी ।
तत्सङ्गसङ्गिसङ्गाढ्यान् तारयत्यघसागरात् ॥३२॥ तज्ज्ञानं श्रीहरिर्यत्र सा कथा यत्र माधवः ।
सत्कर्म तद् यत्र चाहं तच्चित्तं यन्मदर्पितम् ॥३३॥ जिह्वा सा या हरिं स्तौति सा त्वग् या स्पृशति प्रभुम् ।
तौ हस्तौ चाश्लेषितौ मां तद्वर्ष्म यन्मदर्थकम् ॥३४॥ शिरःफलं नमो मेऽत्र पाणिफलं मदर्चनम् ।
मनःफलं मननं मे वचःफलं गुणस्तवः ॥३१॥ मेरुतुल्यः पापराशिर्मत्स्मृतेर्द्राग्विनश्यति ।
साध्वसाधु चरितं चार्पितं मयि न लेपकृत् ॥३६॥ अनाथानां हरिर्नाथोऽबलानां तु बलं हरिः ।
सकामानां हरिर्दाता सर्वेषां शरणं हरिः ॥३७॥ अनादिश्रीकृष्णनारायणाऽऽश्रयोऽत्र भूसुर ।
तीर्थं तत्परमं मायाकालकर्मादिनाशकम् ॥३८॥ शूद्रं चर्मकरं चाण्डालं वा भक्तियुतं मम ।
विप्रवत् पावनं मन्ये मम योगं गतो हि सः ॥३९॥ धनिनां स्तावकाः प्रायो यदि स्तुवन्ति मां तथा ।
धनेश्वरानिह कृत्वा मोचयामि च बन्धनात् ॥4.26.४० ॥ वह्निर्वनेऽभिसंव्याप्तः शुष्काऽऽर्द्रदाहको यथा ।
तथाऽहं हृदये न्यस्तो दहामि वासनादिकम् ॥४१ ॥ प्रज्वलन्तं महारण्यं नाश्रयन्ति मृगेश्वराः ।
तथा मया प्रकाशन्तं नाश्रयन्ति मदादयः ॥४२॥ यावद्वेगेन भक्तिर्मे विश्वासोऽपि यथा मम ।
तथाऽत्र फलमाप्नोति कृपाऽत्र मे विशिष्यते ॥४३॥ पुत्रदारकुटुम्बादौ मग्ना सीदन्ति देहिनः ।
सीदन्ति मयि ते चेद्वै द्रागुत्तरन्ति मद्बलात् ॥४४॥ मुक्तिमुखं तु पिहितं येन साधुनिषेवणम् ।
तस्य मुक्तिं न पश्यामि कदापि भाविसर्जने ॥४५॥ पूजयेत् परमात्मानं मां सदा हृदये बहिः ।
ध्यायेन्मां सर्वगं मूर्तं कान्तं श्रीवल्लभम् प्रभुम् ॥४६॥ गुरुं पतिं स्वामिनं मां जुष्टं साक्षिणमच्युतम् ।
परब्रह्माऽनादि कृष्णं नारायणं परेश्वरम् ॥४७॥ एवंविधं तु मां ध्यायन् पूज्य सन्मान्य मानद ।
अवाप्स्यसि ध्रुवं तात शाश्वतं मेऽक्षरं पदम् ॥४८॥ इत्येवं बोधितो विप्रो निकामदेव आदृतः ।
महाहर्षं समापन्नः सामोवाच तु निर्भयम् ॥४९॥ नृत्यन् गायन् हसन् देहं कूर्दयन् चेष्टयन् मुहुः ।
उवाचाऽऽवेशयोगेन निर्भयं साम गायनम् ॥4.26.५० ॥ ‘बालकृष्णं प्रपन्नोऽस्मि किं मे कालः करिष्यति ।
अक्षरेशं परमेशं ब्रह्मेशं पुरुषोत्तमम् ॥५१ ॥ शङ्खचक्रगदापद्मधारिणं परमेश्वरम् ।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥५२॥ अनादिश्रीकृष्णनारायणं श्रीपतिमच्युतम् ।
गोपालजं प्रपन्नोऽस्मि किं मे माया करिष्यति ॥५३॥ सर्वावतारिणं सर्वशक्तिसेवितमाधवम् ।
काम्भरेयं प्रपन्नोऽस्मि किं मे पापं करिष्यति ॥५४॥ कुङ्कुमवापिकातीर्थं लोमशस्य शुभाश्रमम् ।
अश्वसरः प्रपन्नोऽस्मि किं मे कर्म करिष्यति ॥५५॥ भगवन्तं सर्वधाम्नां नारायणनरायणम् ।
राधाकान्तं प्रपन्नोऽस्मि किं मे तृष्णा करिष्यति ॥५६॥ मायातारं कृष्णनारायणं श्रीमाधवीपतिम् ।
माणिकीशं प्रपन्नोऽस्मि किं मे कामः करिष्यति ॥५७॥ सर्वान्तर्यामिणं साक्षाद् बालयोगिनीस्वामिनम् ।
परमेशं प्रपन्नोऽस्मि किं मे भ्रान्तिः करिष्यति ॥५८॥ अक्षरेशं च मुक्तेशं मुक्तानिकापतिं हरिम् ।
ब्रह्मप्रियेशं प्राप्तोऽस्मि किं मे सम्पत् करिष्यति ॥५९॥ ईश्वरेशं चेश्वराणीपतिं हरिप्रियापतिम् ।
प्रभुम्पतिं प्रपन्नोऽस्मि कि मे तमः करिष्यति ॥4.26.६०॥ पद्मावतीस्वामिनं च जडचेतनवर्तिनम् ।
लक्ष्मीनाथं प्रपन्नोऽस्मि किं वासना करिष्यति ॥६१ ॥ एकरूपं बहुरूपं विश्वरूपं तु बालकम् ।
सतां पतिं प्रपन्नोऽस्मि किं मे बन्धः करिष्यति’ ॥६६॥ ‘ओन्नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ।
नमोऽक्षरनिवासाय नमो गोलोकवासिने ॥६३॥ नमो वैकुण्ठनाथाय नमः श्रीपुरवासिने ।
नमो ललिताकान्ताय सर्वकान्ताय ते नमः ॥६४॥ बालयोगिनीकान्ताय बद्रीकान्ताय ते नमः ।
निकामदेवनाथाय वासुदेवाय ते नमः ॥६५॥ नमोऽमृतनिवासाय नमोऽव्याकृतवासिने ।
नमः कैलासवासाय हिरण्यगर्भवासिने ॥६६॥ नमः सिद्धाधिवासाय नमः सुरादिवासिने ।
नमः पितृनिवासाय नमो मानवरूपिणे ॥६७॥ नमः सर्वनिवासाय नमो मदात्मवासिने ।
सुरेश्वरीहृदिस्थाय नमोऽनन्तस्वरूपिणे ॥६८॥ नमो देहेन्द्रियप्राणान्तरात्मवासिने सदा ।
नमस्ते परमानन्द नमस्ते ज्ञानसम्भृत ॥६९॥ नमस्ते ज्ञानविज्ञानप्रद श्रीपुरुषोत्तम ।
नमस्ते विश्वकृद्विष्णो नमस्ते सर्वकारण ॥4.26.७०॥ नमस्ते गोपगोपीश नमः सर्वार्थसाधक ।
नमस्तेऽनुग्रहदातर्नमस्ते मोक्षद प्रभो ॥७१ ॥ जय कृष्ण जय विष्णो ममाऽभयद माधव ।
जय शान्त चिदानन्द सच्चिदानन्द केशव ॥७२॥ जय जीव जयद त्वं जय साक्षाज्जनार्दन ।
जय शास्त्रादिसन्न्यस्तबीजगर्भाद्युपासन ॥७३॥ त्वं गुरुस्त्वं पिता भ्राता सुहृद् बन्धुः प्रसूर्मम ।
त्वं मोक्षस्त्वं परानन्दस्त्वं मे सर्वस्वमच्युत ॥७४॥ त्वमुद्धर्ता च पाता च नेता त्वं विरतिर्भवान् ।
जगत् सर्वं तव रूपरूपितं सम्प्रकाशते ॥७५॥ त्वं परब्रह्म भगवन् देवाद्यैस्तु दुरासदः ।
मया त्वासादितश्चाऽत्र बालयोगिनीवैभवात् ॥७६॥ कस्त्वां जानाति चात्मेश मुक्तगम्यं परात्परम् ।
सनातनपुमांसं तं पुराणपुरुषोत्तमम् ॥७७॥ परं रूपमजान्तो दिवौकसो महर्षयः ।
अवतारमयीमूर्तीस्ते भजन्ति सुगोचराः ॥७८॥ अवतारा भजन्ते त्वां पुमांसमवतारिणम् ।
नारायणा असङ्ख्यास्त्वां भजन्ते परमायणम् ॥७९॥ नारायण्यश्च मुक्तान्यस्त्वां भजन्ते परं पतिम् ।
सन्तो मुक्तास्त्वां भजन्ते सर्वावस्थासु सत्पतिम् ॥4.26.८०॥ तवाऽज्ञानेन भगवन् मानुषादिनिसर्गतः ।
क्षन्तुमर्हसि सर्वं मे यत् कृतं न कृतं तव ॥८ १ ॥ सर्वावस्थासु सर्वत्र सर्वकालेषु सर्वथा ।
अचला तु हरे भक्तिस्तेंऽघ्रियुगेऽस्तु मे प्रभो ॥८२॥ प्रीतिस्त्वय्येव सततं भवत्वात्यन्तिकी मम ।
सर्वकामफलदातस्त्वयि भक्तिर्दृढास्तु मे ॥८३॥ स्तोत्रं कर्तुमनन्तस्य कः शक्नोति तु मानवः ।
तथापि व्यापृतं वाक्यं क्षमस्व नाथ ते नमः ॥८४॥ पुरुषोत्तमयोगेन निर्भयत्वं प्रजायते ।
तव योगेन पुरुषः पुरुषोत्तमतां व्रजेत् ॥८५॥ अधन्यो जायते धन्यस्त्वसाधुः साधुतां व्रजेत् ।
अभाग्यो भाग्यवान् स्याच्च ते स्तवात् पुरुषोत्तम ॥८६॥ अपि लोकबहिष्कार्या यदि ते शरणं गताः ।
साधुशीला हि ते सर्वे जायन्ते पङ्क्तिपावनाः ॥८७॥ येषां सर्वाधिपे कृष्णे भक्तिरव्यभिचारिणी ।
अपि चाण्डालकर्माणस्तेऽपि विप्रोत्तमोत्तमाः ॥८८॥ अपि शौचसमाचाराः कृष्णे ते सङ्गवर्जिताः ।
श्मशानवासास्ते सर्वे सर्वकिल्बिषसम्भृताः ॥८९॥ तव ध्यानपरा ये च तव पूजापरायणाः ।
तव प्रसादभोक्तारस्ते सदा विघसाशिनः ॥4.26.९०॥ आराध्य सततं त्वां श्रीहरिं सर्वसुखप्रदम् ।
प्राप्य त्वां परमात्मानमेष्टव्यं नावशिष्यते ॥९ १ ॥ साधुभिश्चिन्त्यते यश्च साध्वीभिः काम्यते तु यः ।
पीयते योगमापन्नैर्यः स कृष्णोऽस्तु मे हृदि ॥९२॥ भावपुष्पैः पूजयामि श्रद्धाञ्जलिप्रदोऽस्मि च ।
आत्मानं दक्षिणां कृत्वाऽर्पयामि ते परेश्वर ॥९३॥ यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् ।
निर्गतं कर्मसंयुक्तं दत्तं तासां बलप्रदम् ॥९४॥ तथा त्वं हृदयस्थोऽपि मानवानां बलाय न ।
त्वमेव निर्गतः साक्षाद् भूतो बलाय विद्यसे ॥९५॥ विनाऽऽराधनया कृष्ण त्वं कृपावशगो मम ।
प्रत्यक्षं मानवं रूपं दृष्टं नारायणाच्युत ॥९६॥ सदैव सेवितं चापि दिव्यं रूपं प्रदर्शय ।
यद्यहं पात्रमस्म्यत्र कृपापात्रं भवामि चेत् ॥९७॥ विप्रत्वं मे गतं चापि त्वय्येव तत्समर्पितम् ।
मुक्तत्वं वर्तते मे चेत् सर्वांशे तव भक्तिमान् ॥९८॥ एवं श्रीबदरीदेवि प्रार्थितः परमेश्वरः ।
कृपयैव भूसुराय दिव्यं रूपमदर्शयत् ॥९९॥ अक्षरस्थं चाऽवतारैरसङ्ख्यैराप्रपूरितम् ।
मुक्तैर्मुक्तानिकाभिश्च सेवितं कमलादिभिः ॥4.26.१ ००॥ तथा श्रीबालयोगिन्या बदर्या जुष्टमुत्सुकम् ।
कृपयाऽदर्शयत् कृष्णनारायणो निकामिने ॥१ ०१॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीकृष्णनारायणकृतनिर्भययोगोपदेशोत्तरं निकामदेवस्य दिव्यज्ञानाप्तिलाभोत्तरं स्तुतिरित्यादिनिरूपणनामा षड्विंशोऽध्यायः ॥२६ ॥