०२३

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मध्याह्नभोजनान्यपि ।
प्रवृत्तानि समस्तानि सर्वेषां तृप्तिदान्यति ॥१ ॥ दिव्यामृतानि सर्वाणि निहितानि तु चक्रिणा ।
यदग्रे मायिकाः सर्वे रसा निःस्वादतां गताः ॥२ ॥ सङ्कल्पैर्बालयोगिन्या ब्रह्मरसान्वितानि वै ।
मिष्टान्नानि समस्तानि भोजनाऽवसरेऽभवन् ॥३ ॥ जलं ब्रह्मह्रदात्तत्र समुद्भूतं तदाऽक्षरात् ।
गोलोकाद्धृतदुग्धादि दध्याज्यनवनीतकम् ॥४ ॥ वैकुण्ठाद्दिव्यशाकादि श्रीपुराद्भोजनानि च ।
क्षीरोदात् पायसान्नानि बद्रीक्षेत्रात् फलानि च ॥५ ॥ सूर्यलोकाच्चटन्यादि चन्द्राच्छ्रीखण्डकान्यपि ।
हिरण्ययात्तु पात्राणि श्रीलोकाच्छयनानि च ॥६ ॥ विष्णुलोकात् समस्तानि शृङ्गारकाणि चाऽगमन् ।
नाऽपूर्णं विद्यते तत्र किञ्चित् सङ्कल्पितं नवम् ॥७ ॥ अदृष्टं चाऽश्रुतं वापि द्राग् रम्यं समजायत ।
उपस्थितं द्रुतं भोक्तुः सन्निधौ चाऽविलम्बितम् ॥८ ॥ सम्पन्ने भोजने त्वेवं बद्रिके मुखवासनम् ।
ताम्बूलकादि सर्वं च योग्यं समर्पितं तदा ॥९ ॥ विश्रान्तिं च ततः सौधेष्वेव ते मध्यकेऽहनि ।
प्रापुस्ततस्तु सज्जाश्चाऽभवन् दिनव्ययोत्तरम् ॥4.23.१०॥ अनादिश्रीकृष्णनारायणः शृङ्गारितस्तदा ।
वरराजस्वरूपेण शोभान्वितः सुवेषितः ॥११ ॥ सहस्रसूक्ष्ममणिभिर्मध्ये च महता तथा ।
मणिना खचितः श्रेष्ठो मृदुसौवर्णनिर्मितः ॥१ २॥ मुकुटः कल्गिसहितस्तेजःपरिधिशोभितः ।
संवृतः कृष्णशिरसि ललाटे चन्द्रमाः कृतः ॥१ ३॥ कज्जलं नेत्रयोर्दत्तं कर्णयोः कुण्डले शुभे ।
पुष्पावतंसाः परितो वरबोधनकारिणः ॥१४॥ मुकुटे लम्बिता हाराश्चित्रसुगन्धिपुष्पजाः ।
स्वर्णहारा रत्नयुताः कौस्तुभेन समन्विताः ॥१५॥ कण्ठे धृता पीतवर्णनीशारोपरि वक्षसि ।
पीताम्बरं स्वर्णतारैर्ग्रथितप्रान्तशोभितम् ॥१६॥ पटं कटितटे बद्धं स्वर्णभासुरमुज्ज्वलम् ।
पत्त्राणे कौशेयजन्ये रक्तवर्णे पिशङ्गिनी ॥१७॥ स्कन्धयोः श्रेष्ठवसनं प्रावारवरमुत्तमम् ।
सौवर्णप्रान्तसंशोभं पुष्पहारावलिभृतम् ॥१८॥ भुजबन्धौ प्रकोष्ठस्थशृङ्खले कटके तथा ।
ऊर्मिकाश्चाङ्गुलिचक्रांऽगुलीयकानि वै तथा ॥१ ९॥ रत्नाढ्यानि च दिव्यानि धारितानि हि चक्रिणः ।
रशनां स्वर्णनिर्माणां खड्गं सौवर्णतैजसम् ॥4.23.२०॥ धारयामासुरेवैनं नारिकेलफलादिकम् ।
चतुर्दन्तं श्वेतवर्णं हस्तिनं चाद्रिसदृशम् ॥२१ ॥ महाशुद्धं सुरूपैश्च रूपितं स्वर्णकूथिनम् ।
साम्बालिकं सूर्यभावत् तैजसं मुक्तकोटिकम् ॥२२॥ शृङ्गारित कृतसर्वकौतुकः श्रीनरायणः ।
आरोहयच्छत्रयष्टिधरचामरिसेवितः ॥२३॥ वरवाहिनिका देवैर्जुष्टा महर्षिमानवैः ।
दिव्यवाजिगरुडाद्यैः शोभते धामगा यथा ॥२४॥ प्रदीपाश्चौषधीनां च वृतानां विद्युतां तथा ।
मणीनां दिव्यरत्नानां तदाऽऽसन् परितः सुखाः ॥२५ ॥ एवं सा सर्वशोभाढ्या वृद्धजनैरलङ्कृता ।
नारीवर्गैरतिगीता वाहिनी व्यचरत् पुरः ॥२६॥ तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।
पुष्पवृष्टिर्दिव्यहस्तैर्मुक्ताऽभवच्च चान्दनी ॥२७॥ लाजाऽक्षतादिमाङ्गल्यैर्वर्धितः परमेश्वरः ।
हस्तिना संवृतः पृष्ठे ययौ विवाहमण्डपम् ॥२८॥ विशालं चाऽम्बरस्पृष्टं विचित्राम्बरशोभितम् ।
स्वर्णस्तम्भप्रशाखातोरणाद्यैरत्यलङ्कृतम् ॥२९ ॥ नैसर्गिकप्रदीपाद्यैः स्वर्णकलशैर्वर्धितम् ।
कल्पलतादिभिर्व्याप्तं निसर्गगीतिगर्जितम् ॥4.23.३०॥ मगलायतनदैवप्रतिमाद्यभिराजितम् ।
कुण्डविप्रोपकरणैर्वह्निदेवाधिवासितम् ॥३१ ॥ सर्वसमित्समाजुष्टं वेदविप्राऽभिवर्धितम् ।
एतादृशं धामतुल्यं प्राप्य वै मण्डपं वरः ॥३२॥ अवतीर्य गजान्नमस्कृत्य तन्मण्डपेश्वरम् ।
श्वशुरेण तथा श्वश्र्वा सत्कृतः पूजितो हरिः ॥३३॥ लोकाचारैः संस्कृतश्च जलाद्यैर्मालिकादिभिः ।
अक्षताद्यैर्वर्धितश्च गृहोपकरणैस्तथा ॥३४॥ निर्विघ्नीकृत ईशेशो विश्रान्त्यै नीत आलयम् ।
महामन्दिरमध्ये सुस्वर्णसौधान्तरे तदा ॥३५॥ सिंहासने श्वशुराद्यैरुपावेशित आदृतः ।
हारैः स्वागतयत्नैश्च प्रसादितोऽन्नवारिभिः ॥३६॥ प्राघूणिकाः समस्ताश्च जलताम्बूलदानकैः ।
मिष्टान्नकैः फलैश्चापि प्रसादिताः सुखीकृताः ॥३७॥ वाद्यन्ते तत्र वाद्यानि गीयन्ते गीतयः शुभाः ।
उद्धोष्यन्ते वेदमन्त्राः प्रमोदन्ते नराः स्त्रियः ॥३८॥ अथ नार्यः कुमार्यश्च सौभाग्ययोषितस्तदा ।
विविधैर्दिव्यवेषाद्यैः शृङ्गारैर्भूषणादिभिः ॥३९॥ प्रसाधनैः शृङ्गारयामासुस्तां बालयोगिनीम् ।
सुगन्धितैलसाराद्यैः सलिलैस्तीर्थपावनैः ॥4.23.४०॥ चन्दनैः केसरैः पिष्टैः पिशङ्गैः स्वर्णचूर्णकैः ।
संस्नाप्य घर्घरीं स्वर्णबुट्टरत्नादिसम्भृताम् ॥४१॥ निधारयामासुरपि शाटीं सौवर्णभासुरीम् ।
कञ्चुकीं कानकीं सूक्ष्मतन्तूत्थां कचलीं तथा ॥४२॥ चोलीं च कुचलीं स्वर्णवर्णां च नक्तकं शुभम् ।
रक्तरूपां सूक्ष्मशाटीसहायिशाटिकां ददुः ॥४३ ॥ केशवेशं च कबरीं धम्मिलं भूषणानि च ।
सफुलकं ग्रथनं च कृत्वा सुमुकुटं न्यधुः ॥४४॥ ललाटिकां बालपाशीं चूडामणिं च शृङ्खलाम् ।
चूडामणिं कर्णभूषामीरयाने च बालिकाम् ॥४५॥ नत्थीं च चन्द्रिकां फुल्लीं टिप्पकीं रत्नचक्रिकाम् ।
पट्टपत्रीं फुल्लमालां मुद्गमालां च माषजाम् ॥४६॥ चणहारान् मणिहारान् पर्वहारान् न्यधुर्गले ।
कटके शृङ्खले सिंहकटके भुजबन्धके ॥४७॥ ऊर्मिकाश्चाङ्गुलिचक्राण्यपि प्रपद्मपत्रिकाम् ।
रशनां धारयामासुर्झञ्झीरे घुर्घुरीयुते ॥४८॥ किङ्किणीजालनादाढ्यै कटके काम्बिके न्यधुः।
पादाङ्गुलीयकान्यूर्ध्वचन्द्राढ्यानि न्यधुस्तथा ॥४९॥ कण्ठीं ललन्तिकां ग्रैवेयकाणि कुण्डलानि च ।
मुक्ताहारादिकान् हारान् गुच्छगोस्तनमालिकाः ॥4.23.५० ॥ कङ्कणे मेखलां मञ्जीरे च न्यधारयत्तदा ।
नखालक्तकदानं च करपादतलादिषु ॥५१ ॥ ओष्ठगण्डकपोलादौ भाले स्तनयोः रञ्जनम् ।
कज्जलं नेत्रयोर्देहे वेषे स्वर्णादिचूर्णकम् ॥५२॥ न्यधुस्ता योषितः कन्यारूपे रूपाभिवृद्धये ।
पुष्पहारान्नधुश्चापि वधूटीमुकुटे शुभान् ॥५३॥ स्वल्पलज्जां सूक्ष्मशाटिकया व्यरचयन् स्त्रियः ।
ताम्बूलचर्वणं मिष्टभोजं वारिपानकम् ॥५४॥ ददुः प्राप्ते मुहूर्तेऽथ लाग्निके मण्डपं प्रति ।
वरं च महीमानादीनानयामासुरुत्सुकाः ॥५५॥ विप्रा वृद्धा लोमशाद्याः शिष्टाचारं व्यधुस्तदा ।
प्रक्षाल्य चरणौ सुरेश्वरी नीराजनं व्यधात् ॥५६॥ पुपूजाऽक्षतकुसुमैर्लाजाद्यैः समवर्धयत् ।
वरं चाथ गीतिवेदैर्वर्धितो मृत्कपालकम् ॥५७॥ सञ्चूर्ण्य नत्वा देवाँश्च गुरुं वह्निं स मण्डपे ।
कुण्डाग्रे न्यषीदद् दर्शितासने वरराट् स हि ॥५८॥ योषाभिश्चाऽक्षतपुष्पैर्वर्धितो विप्रपुङ्गवैः ।
निपीतो ग्रामयोषाभिश्चक्षुर्भिस्तृषितैरति ॥५९॥ हृदये गमितो दिव्यश्चात्मन्यर्पित इष्टवत् ।
अथ स्त्रियः समानिन्युर्मण्डपं बालयोगिनीम् ॥4.23.६ ० ॥ सुरेश्वरीसहितास्ता जगुश्च लग्नगीतिकाः ।
विप्राः कन्यां तदा गन्धाक्षतपुष्पादिभिर्द्रुतम् ॥६१ ॥ वर्धयामासुरुच्चैश्च मङ्गलानि जगुर्मुहुः ।
दिनं सङ्कल्पयामासुर्न्यषादयन् सुरान्तिके ॥६२॥ कन्यकां वामभागे श्रीकृष्णनारायणस्य वै ।
गणेशादिपूजनं च कारयामासुरित्यपि ॥६३॥ कामफलबन्धनं च मण्डपाग्निप्रपूजनम् ।
कुण्डप्रपूजनं विप्रवृद्धादिपूजनं तथा ॥६४॥ प्रायश्चित्तं तु शुद्ध्यर्थं कारयामासुरित्यथ ।
श्राद्धादितर्पणं चापि कुलदेवादिपूजनम् ॥६५ ॥ कारयित्वा वरगले कन्याहस्तेन मालिकाम् ।
पुष्पाणां दापयामासुः पुष्पाक्षतादिवर्धनम् ॥६६॥ वरहस्तेन कन्यायाः कण्ठेऽपि मालिकां तथा ।
वस्त्रग्रन्थिमतो विप्राश्चक्रुस्ततोऽभिदानकम् ॥६७॥ अग्नेः प्रदक्षिणां चतुर्वारं च नमनार्चनम् ।
कारयामासुरेवैतौ हवनं हविषां तथा ॥६८॥ हस्तग्रहं पिता तत्र कारयामास दानकृत् ।
वरहस्ते ददौ हस्तं कन्यायास्तु निकामतः ॥६९॥ निकामदेवो विप्रर्षिश्चाशीर्वादान् ददौ तदा ।
महाभाग्यवती पुत्रि भव नारायणी सदा ॥4.23.७०॥ बालकृष्णः प्रजग्राह करं कन्यार्पितं करे ।
सहधर्मान् चरतां वै तादात्म्यं चरतां सदा ॥७१ ॥ ददुर्विप्रा आशिषश्च दानं ददुः परे जनाः ।
हस्तद्रव्यं ददुश्चापि बहुरत्नादिसम्भृतम् ॥७२॥ दक्षिणाऽर्हणदानानि विप्रेभ्यः प्रददौ पिता ।
श्रीमद्गोपालकृष्णाद्या ददुर्दानानि भूरिशः ॥७३॥ गोदानादिसमस्तानि महादानानि वै ददुः ।
कवलं च मिथस्तत्र जगृहतुर्वधूवरौ ॥७४॥ अन्योन्यस्य मुखे प्रेम्णा ददतुस्तत्र मण्डपे ।
ऊर्मिकाखेलनं तत्र चक्रतुर्जलपात्रके ॥७५॥ परिहारं तु भूदेवाश्चक्रुर्वै योषितस्तदा ।
गीतिकापूर्वकं रम्ये मन्दिरे दम्पतीं शुभे ॥७६ ॥ निन्युर्हास्यानि चक्रुश्च ददुस्ताभ्यां सुभोजनम् ।
जलपानं तथा ताम्बूलकं ददुश्च वै रहः ॥७७॥ शयनं प्रददुस्तत्र वधूटी पारितोषिकम् ।
प्राप्य सिषेवे कान्तं चाऽथ प्राघुणास्तथा प्रजाः ॥७८॥ भुक्त्वा व्यधुश्च शयनं प्रातर्जातं ततो जनाः ।
पञ्चम्यामाषाढशुक्ले स्नात्वा भुक्त्वा समुत्सुकाः ॥७९॥ दम्पतीवाहिनीयुक्ताः सज्जा गन्तुं ततोऽभवन् ।
पितानिकामदेवश्च धनं प्रादान्महोत्तमम् ॥4.23.८०॥ यौतकं बहुधा तत्र दिव्यं सर्वं विशेषतः ।
प्रददौ कन्यका सापि श्रीमत्कृष्णनरायणम् ॥८ १ ॥ पति प्राह पितरौ मे सह कृष्ण नय त्वया ।
धूनीग्रामे पितरौ मे मद्वियोगेन दुःखितौ ॥८२॥ स्यातां तस्माद् भवत्क्षेत्रं नय कृष्ण कृपां कुरु ।
अथ तावत् समागत्य पादौ धृत्वा हरेरपि ॥८३ ॥ प्राह निकामदेवोऽपि नय नौ वै निजं गृहम् ।
हरिः प्राह तथास्त्वेवं तथा गोपालकृष्णकः ॥८४॥ निन्ये स्नुषापितरौ तौ निजां कुङ्कुमवापिकाम् ।
सुरेश्वरी तथा निकामदेवो बालयोगिनी ॥८५॥ ययुः कृष्णस्य वाहिन्या समं कुङ्कुमवापिकाम् ।
धूनीग्रामजनाश्चाऽन्ये ययुर्भक्ता हरेस्तु ये ॥८६॥ प्रस्थानं चक्रिरे सर्वे मध्याह्ने भोजनोत्तरम् ।
देववाद्यान्यवाद्यन्त पुष्पवृष्टिर्बभूव ह ॥८७॥ सुरेश्वर्या जिता माया जितः कृष्णः सुतार्पणात् ।
जितो मोक्षश्चेति वाणी सुराणामभवद्दिवि ॥८८॥ अथ स्वर्गसमो ग्रामो मण्डपो दिव्यकानकः ।
यज्ञशाला रसशाला महानसानि यान्यपि ॥८९ ॥ सर्वं तिरोऽभवत् सद्यः प्रस्थिते परमेश्वरे ।
मिष्टान्नानि प्रसादानि देवाद्या निन्युरुत्सुकाः ॥4.23.९०॥ तीर्थानि च सुराद्याश्च ययुर्विस्मयमच्युते ।
दासा दास्यो हरिकृता अदृश्यतां ययुर्द्रुतम् ॥९ १ ॥ वाहयित्वा वाहिनीं स्वां बालयोगिनिकापतिः ।
बालकृष्णः प्रियायुक् चाऽऽययौ कुङ्कुमवापिकाम् ॥९२॥ मङ्गलानि समस्तानि तत्राऽऽसन् कृष्णमन्दिरे ।
पिता प्रददौ दानानि भोजनानि मधूनि च ॥९३॥ महीमानादिपूजां स प्रचकार तथाऽर्पणम् ।
धनादीनां यथायोग्यं व्यसर्जयतत्तः परम् ॥९४॥ महीमानाः प्रसन्नाश्च प्रययुः स्वालयाँस्ततः ।
वध्वाः पित्रे च मात्रे च बालकृष्णः सुवर्णजम् ॥९५॥ मन्दिरं नित्यवासार्थं प्रददौ भोग्यजातकम् ।
प्रापतुस्तौ परानन्दं जामातारं हरिं प्रभुम् ॥९६॥ प्राप्यकन्यामहाभाग्यं वीक्ष्य ययतुर्हर्षणम् ।
निवृत्तौ तावृणात् कन्यां दत्वा तु विधिना ततः ॥९७॥ युयुजाते हरेर्मूर्तौ मोक्षार्थं तावहर्निशम् ।
अथैकदा श्रीनिकामदेवः पप्रच्छ तं हरिम् ॥९८॥ श्रेयसे श्रेष्ठमत्रैव साधनं मोक्षकृत्तु यत् ।
बद्रिके श्वशुरं मोक्षमानसं वीक्ष्य वै ततः ॥९९॥ मोक्षयोगं स्वजामाता बोधयामास सर्वथा ।
यत् प्राप्य मानवाश्चापि मोक्षं तूर्णमवाप्नुयुः ॥4.23.१० ०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने महीमानानां भोजनादि, शृङ्गारः, मण्डपं प्रतिगमनम्, श्रीकृष्णस्य शृङ्गारो मण्डपं प्रतिगमनम्, विधिश्चोद्वाहः कुङ्कुमवापिकां प्रत्यागमनं चेत्यादिनिरूपणनामा त्रयोविंशोऽध्यायः ॥२३ ॥