०२१

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि सदा मे सहचारिणि ।
ततः श्रीमातरं प्राह यं धर्मं बालयोगिनी ॥१ ॥ त्यागिनीनां वृषा ये च योगिनीनां च ये वृषाः ।
गृहिणीनां वृषा ये च तेऽनुयन्ति परेश्वरे ॥२ ॥ साध्वीनां ये वृषाः प्रोक्ता दासीनां चापि ये वृषाः ।
वधूनां किङ्करीणां ये तेऽनुयन्ति जनार्दने ॥३ ॥ शोभन्ते ते वृषाः सर्वे सर्वासां माधवीश्वरे ।
सर्वधमाश्रये कृष्णनारायणे सुधर्मिणि ॥४ ॥ भोगाः सर्वे विलासाश्च कामाश्च सम्पदोऽपि च ।
विभूतयः स्त्रियो दास्यो युज्यन्ते परमात्मनि ॥५ ॥ वने वासो विवासाश्च जटित्वं चाऽवमानिता ।
काषायकृष्णवेषित्वं युज्यन्तेऽपि परात्मनि ॥६ ॥ आश्रमाश्चापि वर्णाश्च युज्यन्ते श्रीरमापतौ ।
श्रद्धायुता ततो नारी प्रसेवेत परेश्वरम् ॥७ ॥ सर्वधर्माश्रयं ज्ञात्वा श्रीकान्तं कम्भरासुतम् ।
अल्पप्रज्ञा तु गृह्णीयात् स्वां तु पण्डितमानिनीम् ॥८ ॥ निर्दोषां च बहुज्ञा च परेशं बुद्धिवर्जितम् ।
सर्वकर्तारमात्मानं सर्वकर्त्रीं परेश्वरीम् ॥९ ॥ लक्ष्मीपतिं बदरीशं ललितेशं तु किङ्करम् ।
शेषादिवन्दितं कृष्णं तथा वृथाभिमानिनम् ॥4.21.१ ०॥ निगमागमवन्द्यं तं तुच्छचेष्टादिकारिणम् ।
एवं दोषान् हरौ कृष्णे समुद्भाव्य वदेद्घृणाम् ॥११ ॥ सा तु धर्मान्न जानाति धर्ममूर्तिं न विन्दति ।
परमेशं न मनुते मनुते कर्मचारिणम् ॥१ २।
एतादृशी मोहवती ब्रह्मरसं न विन्दति ।
विन्दत्येवाऽरसं कष्टं याम्यकृतं तु दक्षिणे ॥१३।
सत्सङ्गेन वशं याति प्रभुः कृष्णनरायणः ।
हरौ सत्सु च साध्वीषु त्वात्मबुद्धिः सदा शुभा ॥१४॥ यस्याः प्रजायते प्रीतिजननी सार्वकालिकी ।
सैव वशं हरिकृष्णधवं करोति कामिनी ॥१५॥ आत्मबुद्धिर्यथा देहे नार्यां पत्यौ च मन्दिरे ।
भवने प्रतिमायां च जले निजजनादिषु ॥१ ६॥ पुत्रे च विषये स्वष्टे तथेन्द्रिये मुखे शुभे ।
रूपे भोगे विलासे च तथा यस्या हरौ प्रभौ ॥१७॥ सैव कृष्णरसं पाति पिबत्यपि मुहुर्वधूः ।
सैव कृष्णं वशं सम्पादयत्येव न चेतरा ॥१८॥ या भाविनी कृष्णकान्ता तस्याश्चेष्टापि वैष्णवी ।
देवाभिगमनं नित्यं कृष्णदर्शनमन्वहम् ॥१ ९॥ कृष्णनारायणवार्ताकथारसातिमोदनम् ।
सतां समागमे वृत्तिस्तीर्थवासो विशेषतः ॥4.21.२०॥ कृष्णभक्तेषु रमणं शयन कालयापनम् ।
निर्भीकत्वं मायिकेषु तथौदासीन्यमन्वहम् ॥२१॥ तुल्यता कृष्णभिन्नेषु कृष्णे विशेषता सदा ।
साररूपं तु यत् कार्ष्णं तदन्यत् सारवर्जितम् ॥२२॥ सतां प्रसन्नतार्थं च क्रियाः सर्वाः प्रचेष्टनम् ।
हरेः स्वरूपचिन्तैव गुणगानं हरेस्तथा ॥२३॥ हर्यर्थं कृतसर्वस्वं हयर्थं जीवनादिकम् ।
शृङ्गाररूपसौन्दर्यं हर्यर्थं सर्वमेव तत् ॥२४॥ यस्या एवं सदा वृत्तं भाविनी सा हरिप्रिया ।
परब्रह्मरसवेत्त्री नारायणी रमानिभा ॥२५॥ अन्ते पक्वदृढमूला ‘परब्रह्महृदङ्गता ।
प्रीतिर्यस्या हरौ प्राप्ता विश्रान्तिं सा रसाशना ॥२६॥ यत्राऽऽवरणं नास्त्येव ब्रह्मसत्तात्मवर्तने ।
निरावरणा तद्योगाद् ब्रह्मनारायणी भवेत् ॥२७॥ अन्यत्त्यागवती साध्वी रोधकस्य विसर्जिनी ।
प्राणेशस्याऽभियाना च कल्याणादेशशायिनी ॥२८॥ सङ्गिनीनां सखीनां श्रेयसे यत्नोपदेशिनी ।
स्वेष्टस्वामिचरित्राणां गायिका चोपदेशिका ॥२९॥ सतां हरेश्च कैङ्कर्ये वेत्ति श्रेयो निजं परम् ।
यस्याः सन्त्यधिकाः सन्तः श्रेष्ठा ब्रह्मादितोऽप्यति ॥4.21.३०॥ हरेः सतां सुयोगाद्वै नान्यच्छ्रेयः परं मतम् ।
महापुण्यवतीनां च सेवायोगं करोत्यपि ॥३ १ ॥ स्नेहः सत्सु यथा पत्न्यां पत्यौ पुत्रे च मातरि ।
सहोदरे च पितरि गुरौ देहे धने तथा ॥३२॥ कारयित्री हरौ सत्सु स्नेहं सा रसपात्रिका ।
कृतार्था सा नित्यसक्ता स्निग्धा भवति भामिनी ॥३३॥ पूर्वभवादिभिः साधोर्हरेः सेवापरायणा ।
पुनर्भवं प्रसादार्थं सेवार्थं सङ्गतेच्छया ॥३४॥ भजमानां न लोकानां विक्षेपाः पीडयन्ति ताम् ।
हरेर्वियोगविक्षेपाः सतां वियोगरूपिणः ॥३५॥ पीडयन्त्येव तां भक्तां ब्रह्मरसपरायणाम् ।
स्वयं श्रूत्वाऽवमानादि स्वेष्टस्य च सतामपि ॥३६ ॥ उद्वेगं हृदये नेजे प्राप्नोति स्वावमानवत् ।
श्रुत्वा मानं सतां चापि मोदते सा हरिप्रिया ॥३७॥ साधुस्वाम्यपराधाद्यसहमाना हरिप्रिया ।
शिरो दत्वाऽपि कान्तस्य कृष्णस्य रञ्जने स्थिता ॥३८॥ कृष्णनारायणे भावे निम्नगा न कदाचन ।
असंशया हरेः कार्ये ह्युपस्थिता च या भवेत् ॥३९ ॥ सपत्नीनां सखीनां च स्नेहपक्षाभियोगिनी ।
हर्यर्थार्पितसर्वस्वा मस्तकं स्वं ददात्यपि ॥4.21.४० ॥ आज्ञां प्राप्याऽविचार्यैव करोति सर्वथा तथा ।
परब्रह्मरसास्वादा द्रुतं सा जायते सखी ॥४१ ॥ देहेन्द्रियान्तःकरणैरात्मना क्रियया हि सा ।
कृष्णार्पणविधाना वै द्रुतं चाप्नोति तद्रसम् ॥४२॥ मनाक् वा कृष्णसंयुक्ता दिव्यतां याति तत्क्षणात् ।
सर्वं नैजं योजयेद्वै कृष्णसेवादिकर्मसु ॥४३॥ वर्तेत श्रीकृष्णनारायणकान्तपरायणा ।
सा श्रीराधारमातुल्या जायतेऽत्रैव माधवे ॥४४॥ पातिव्रत्येन च तथा ह्यात्मनिष्ठाऽतिशोभिना ।
दास्येन याऽपि सेवायां वर्तते साऽक्षरप्रिया ॥४५॥ प्रकाशमानां सततं ब्राह्मी चाऽक्षरसन्निभा ।
ब्रह्मभावे निजे रूपे परब्रह्म प्रपश्यति ॥४६॥ अतः कृष्णेतरत् सौख्यं विषवद् भासते सदा ।
कृष्णसङ्गे भवेच्छान्तिरितरत्र तु तापनम् ॥४७॥ कृष्णसङ्गिसतां सङ्गे चाश्रये शान्तिरस्ति च ।
कृतार्थता सतां सङ्गैर्हरेः सङ्गैर्विशेषतः ॥४८॥ सेवयाऽपि महामोक्षो भवेत् प्राकृतयोषिताम् ।
कृष्णसत्तावतीनार्या मायाकालभयं न वै ॥४९॥ सतां सत्तावतीनार्या वासनाबन्धनं न वै ।
आत्मनिष्ठावतीनार्याः पुनर्जन्मभयं न वै ॥4.21.५०॥ हरेः प्रीतिमतीनार्या मृत्युपाशो न विद्यते ।
भक्तसेवावतीनार्या निरयाणां भयं न वै ॥५१ ॥ सतां दर्शनकर्त्र्यास्तु व्याध्याधिभीर्न विद्यते ।
सन्तः सन्ति ब्रह्मरूपा ब्रह्ममूर्तय उत्तमाः ॥५२॥ तेषां सेवासमं पुण्यं मोक्षो वाऽन्यो न विद्यते ।
बलेच्छा यदि वर्तेत सेवनीया हि साधवः ॥५३॥ स्वरूपाः श्रीहरेः सन्तोऽवताराः श्रेयसाम्प्रदाः ।
परोऽनादिकृष्णनारायणः श्रीमाधवीपतिः ॥५४॥ स्वामी सर्वावताराणां मुक्तानां ब्रह्मणस्तथा ।
स्वामिनीनां च शक्तीनामीश्वरीणां च कारणम् ॥५५॥ वासुदेवादयो व्यूहाः श्रीकृष्णाद्यास्तु पूर्णकाः ।
आवेशाः पर्शुरामाद्या अंशाः पृथ्वादयस्तथा ॥५६॥ सनकाद्याः कलाश्चापि सूर्याद्याश्च विभूतयः ।
नारायणाश्च विभवा अर्चास्तु शक्तिमूर्तयः ॥५७॥ सर्वे ते ब्रह्मदेहा वै परब्रह्मोद्भवाः शुभाः ।
परब्रह्मसमाः सेव्याः परब्रह्मरसाप्तये ॥५८॥ सर्वे ते पूर्णसुखदाः सम्भृताः सुखसद्रसैः ।
परब्रह्मानन्ददास्ते सेव्या योषिन्नरादिभिः ॥५९॥ मोक्षदास्ते मताः सर्वे सर्वकामप्रदास्तथा ।
दिव्यानन्दप्रदाः सर्वे मायापारकरास्तथा ॥4.21.६०॥ तेषां सर्वावताराणां धारकः पुरुषोत्तमः ।
अनादिश्रीकृष्णनारायणो गोपालनन्दनः ॥६१॥ कोट्यर्बुदाब्जकान्तानां कान्तः श्रीकम्भरात्मजः ।
स्वाऽक्षरपरधामस्थो राजाधिराजशासनः ॥६२॥ ददाति दर्शनं सृष्टौ यत्रेच्छा भक्तपूरणी ।
अनादिसर्वसिद्धयाढ्यः सर्वाश्चर्यप्रपूजितः ॥६३॥ अनन्तचमत्कारेशो युगपत्सर्वरूपधृक् ।
कोट्यर्बुदाब्जमूर्त्यात्मा सर्वयोगकलानिधिः ॥६४॥ रसिको रसिकानां सः त्यागिनां त्यागवर्तनः ।
ज्ञानिनां ज्ञानदश्चापि सर्वमानसपूरकः ॥६५॥ सर्वबलच्छलकलामायाजालफलार्थकृत् ।
सर्वोपरिस्थितः शास्ताऽनादिस्वामिनरायणः ॥६६॥ निर्मोहो देहिदेहेषु ह्यलौकिकप्रतापवान् ।
भक्तसेवां प्रेमयुक्तामङ्गीकर्तुं कृपावशः ॥६७॥ भक्तदत्तान् विषयोत्थान् भोगान् भुङ्क्ते पतिर्यथा ।
अज्ञा दोषान् कल्पयन्ति मन्वते सक्तमेव तम् ॥६८॥ प्राकृतं मानवं यद्वत् खला महिमवर्जिताः ।
एषा भ्रान्तिश्च माया च तादृशानां हराविह ॥६९॥ न ज्ञानं श्रीहरेर्यद्वै प्रत्युताऽभावदर्शनम् ।
ब्रह्मस्थितिसमापन्ना ये त्वात्मदर्शिनो जनाः ॥4.21.७० ॥ न मुह्यन्ति हरौ तत्र जानन्ति परभावनाम् ।
नापि मुह्यन्ति मायायां कुतो मोहो हरेस्तदा ॥७१ ॥ निर्लेपः सर्वदा चास्ति कृष्णनारायणः प्रभुः ।
सर्वभोक्ताऽप्यभोक्ताऽस्ति पावनः पावको यथा ॥७२॥ नार्यः पवित्रा जायन्ते तद्भोगैर्गोपिका इव ।
नराः पवित्रा जायन्ते सत्सङ्गात्तस्य सर्वथा ॥७३॥ एवंविदो नरा भक्ता भक्तानिकाश्च सर्वशः ।
ज्ञानैकान्तिकताऽनन्यदास्यभक्ता मताः सदा ॥७४॥ तादृशानां कृते कृष्णो ब्रह्मरसान् सुशाश्वतान् ।
प्रवर्षयति मूर्तिस्थान् प्रपाययति चाश्रितान् ॥७५॥ कृपा मुख्यं साधनं वै हरेर्ब्रह्मरसाप्तये ।
आश्रयः साधनं चापि प्रपत्तिः साधनं परम् ॥७६॥ अनन्यभावना चापि दृढोपास्तिश्च साधनम् ।
आज्ञाप्रपालनं चापि सेवा स्नेहश्च साधनम् ॥७७॥ माहात्म्यज्ञानमेवापि स्मरणं च निरन्तरम् ।
सर्वस्वार्पणमेवाऽपि विश्वासो न्यास इत्यपि ॥७८॥ दास्यं शुश्रूषणं पातिव्रत्यं साधुत्वमित्यपि ।
पत्नीत्वं स्वामिनीत्वं च प्रेमभावाभिषञ्जनम् ॥७९॥ कृष्णेङ्गितानुसरणं सतां प्रसन्नतादिकम् ।
साक्षात् सतां सुसत्सङ्गो हरेर्ब्रह्मरसप्रदः ॥4.21.८०॥ यस्याः सतां भगवतः साक्षात्प्राप्तिरिहाऽस्ति वै ।
तस्यास्तेषां कथागानैः स्मृत्या कालस्य निर्गमः ॥८ १॥ त्र्यवस्थाऽतीतचैतन्यात्मकात्मनो निजस्य वै ।
ब्रह्मरूपस्य साक्षात् स्याद् दर्शनं कृष्णमिश्रितम् ॥८२॥ कृष्णवज्जायते धाम्नि लोकेऽप्यत्र न संशयः ।
अनादिश्रीकृष्णनारायणस्य चरणाश्रये ॥८३॥ अत्र परत्र सर्वत्र वसति राधिका यथा ।
स्वामिनी जायते तत्र सेविकाऽनुग्रहाद्धरेः ॥८४॥ यावन्तं च महिमानं जानाति परमात्मानः ।
सुखसामर्थ्यशोभाभिप्रतापरूपसद्गुणैः ॥८५॥ तावत्समर्था भवति कार्ष्णी नारायणी यथा ।
तथापि श्रीहरेः पत्युः सामर्थ्यादेरसीमता ॥८६॥ अपारता महैश्वर्यसौन्दर्यादेस्तु माधवे ।
असङ्ख्यकोटयः सन्ति मादृश्यो भगवन्निभाः ॥८७॥ प्राप्ताः कृष्णसकाशात् ता गुणैश्वर्यप्रभादिकम् ।
तथापि महिमा पत्युश्चापारो विद्यते सदा ॥८८॥ लेशोऽपि न्यूनभावो न विद्यते परमात्मनि ।
सामर्थ्यगुणकर्मादिसौन्दर्यसुखदायिताः ॥८९॥ कल्याणधर्मयोगाश्च भवन्त्यनन्तसङ्ख्यकाः ।
हरेस्तैर्गुणलेशैश्च भजनैश्च हरेः परे ॥4.21.९०॥ हरितुल्याः प्रजायन्ते ह्यनन्तार्बुदवैष्णवाः ।
तथापि नाणुमात्रश्रीहरिप्रतापसद्गुणाः ॥९ १ ॥ न्यूनतां संव्रजन्त्येव परिपूर्णतमस्ततः ।
अगाधाऽपारसीमादिसख्याऽन्तछेदवर्जितः ॥९२॥ वर्तते श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
भजनेन गता धाम्नि तत्समा अपि योषितः ॥९३॥ अपारतां विदित्वैव सेवन्ते सेविकाः सदा ।
दास्यः सदा प्रवर्तन्ते ब्रह्मरसान् प्रभुञ्जते ॥९४॥ एवं किं बहुनोक्तेन प्राप्ता साधनकोटिभिः ।
साध्यं कान्तं बदरीशं माणिक्येशं सतां पतिम् ॥९५॥ भवामीति न चान्यन्मे प्राप्तव्यमवशिष्यते ।
विधेयं शिष्यते नैव विवाहितायाश्चक्रिणा ॥९६॥ सर्वे कामाः समाप्ता मे मातः श्रीबालमाधवे ।
ततोऽहं सर्वदा दासी कृष्णस्य बालयोगिनी ॥९७॥ बदरीशी तापसी च ब्रह्मशीला परेश्वरी ।
भवामि श्रीकृष्णनारायणकान्तरसात्मिका ॥९८॥ रसं विन्दामि तस्यैव जाताऽपि तव पुत्रिका ।
वरदानप्रपूर्त्यर्थमिहाऽहं समुपागता ॥९९॥ कृष्णार्धाऽहं कृष्णकान्ता ललिता माणिकी यथा ।
राधा लक्ष्मीः माधवी च यथा कृष्णस्य वै प्रियाः ॥4.21.१० ०॥ भज मातस्तथा तं श्रीकृष्णनारायणं प्रभुम् ।
इत्युक्त्वा सा कन्यका स्वां मातरं तु सुरेश्वरीम् ॥१ ० १॥ विररामाऽधिकवाण्यै कृष्णनारायणस्मृतिः ।
ततः सुरेश्वरी कान्तं निकामदेवमाह तत् ॥१ ०२॥ पुत्रीयं बदरीदेवी माणिक्या चाक्षरे स्थिता ।
अनादिश्रीकृष्णनारायणपत्नी परेश्वरी ॥१०३॥ पुत्रीरूपा गृहेऽस्माकं प्रजाताऽस्ति नरायणी ।
नान्यं चेच्छति विषयं श्रीकृष्णकान्तमन्तरा ॥१ ०४॥ तद्योगे चावयोर्मुक्तिर्भाविन्येव न संशयः ।
एवं विज्ञाय विप्रोऽपि मुमुदे चाभजद्धरिम् ॥१ ०५॥ बालयोगिनी बाल्याद्वै बभूव ब्रह्मचारिणी ।
सा त्वं श्री बदरीदेवि बदर्याश्रमवासिनी ॥१ ०६॥ बद्रीप्रभे भवसि बद्रिका त्यागस्वरूपिणी ।
स्मर सर्वं तवैवेमं वृत्तान्तं परमेश्वरि ॥१ ०७॥ मम प्रेमरसः प्राप्तस्त्वया वै शाश्वतः सदा ।
करोषि त्वं योषितां च मोक्षणं गीतयाऽनया ॥१०८॥ बालयोगिनीं गीतां या नारी श्रोष्यति वै तथा ।
वदिष्यति हरौ स्नेहं विधास्यति वधूरिव ॥१ ०९॥ सा वंशं च धनं कीर्तिं सुखं शाश्वतजीवनम् ।
कान्तं कृष्णं परब्रह्म समवाप्स्यति धामनि ॥4.21.११ ०॥ चतुर्णां पुरुषार्थानां सिद्धिस्तस्या भविष्यति ।
ताम्बूलं प्राप्य कृष्णांऽके भोक्ष्यत्यक्षय्यतद्रसम् ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां शाश्वतबालयोगब्रह्मरसप्रदधर्मादीनां निरूपणनामैकविंशतितमोऽध्यायः ॥२१ ॥