०१८

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मातरं बालयोगिनी ।
ततश्च पुनरुत्कर्षं प्राह ब्रह्मरसस्य सा ॥१ ॥ भद्रग्रामे मालियानो मालाकारोऽभवत् पुरा ।
मालियानस्य भार्याऽभून्मल्लिकाश्रीतिनामिका ॥२ ॥ उद्यानं पोषयन्तौ तौ फलादिविक्रयार्थिनौ ।
पुष्पमालादिकर्तारौ भक्तौ तौ सम्बभूवतुः ॥३ ॥ यत्र यत्र श्रुतवन्तौ परितस्तौ सुरालयान् ।
सौराष्ट्रे तौ गतवन्तौ सुरपूजां प्रचक्रतुः ॥४ ॥ सूर्यं दामोदरं सोमनाथं श्रीगोपनाथकम् ।
गुप्तप्रयागं चाऽप्यश्वपट्टसरश्च रैवतम् ॥५ ॥ चमत्कारं द्वारवतीं प्रजग्मतुः पुपूजतुः ।
पुष्पहारफलाद्यैश्च तुलसीदलगुच्छकैः ॥६ ॥ कमलैर्विविधैश्चापि स्थलपद्मैर्जलाब्जकैः ।
मालत्यादिकुसुमैश्च पारिजातादिपुष्पकैः ॥७ ॥ चम्पकैर्बकुलैश्चापि वल्लीपुष्पैस्तृणेशजैः ।
तथा च कदलैर्मिष्टैर्नवरङ्गादिभिश्च वै ॥८ ॥ चन्दनैः शीतलैश्चापि केसरादिसुमिश्रितैः ।
पुष्पाणां बहुरूपाणां बहुसुगन्धशालिनाम् ॥९ ॥ अपर्युषितभावानां दिव्यानां चित्तकर्षिणाम् ।
ऊष्णीषं प्रच्छदपटीं चतुष्फालं च धोत्रकम् ॥4.18.१ ०॥ सुरवालं प्रावरणं कम्बलं चाङ्गरक्षकम् ।
शाटीं च घर्घरीं वक्षोबध्निकां कचलीनिकाम् ॥११ ॥ कुचलीं कर्पटीं चौलीं चौलं त्वन्तःपटीं तथा ।
एवमादीनि वस्त्राणि पौष्पाण्येव विधाय तौ ॥१२॥ तत्र तत्र शुभे तीर्थे तद्देवीदेवमूर्तये ।
अर्पयामासतुः प्रेम्णा धारयामासतुर्हृदा ॥१३॥ अर्हयामासतुर्देवं देवीं राधारमाप्रियाः ।
माधवीकृष्णविष्णुश्रीनारायणाऽर्कशङ्करान् ॥१४ ॥ सर्वकौसुमवेषान् सङ्क्लृप्त्वा ददतुर्मूर्तये ।
मूर्तिस्था देवता देव्यो गणेशाद्या हरिस्तथा ॥१५॥ देविकाद्याः प्रसन्ना वै भवन्ति भक्तिवीक्षकाः ।
अथ भूषा समस्ताश्च पुष्पमयीर्विधाय तौ ॥१६॥ अर्पयामासतुर्नित्यं देवेभ्यो भक्तिशालिनौ ।
मुकुटं ग्रथितं पुष्पैः कुण्डले कर्णपूरकौ ॥१७॥ गच्छौ च कन्दुकं हारान् मालाश्च कटकौ शुभौ ।
शृङ्खला विविधाश्चापि रशनाः कटिसूत्रकम् ॥१८॥ केशहारान् स्तनपत्रे भालपत्रे च तन्तिकाम् ।
शिखामणिं तथा चूडामणिं कौस्तुभमुत्तमम् ॥१९॥ पादयोर्झञ्झरीश्चापि चक्राणि चोर्मिकास्तथा ।
नक्तकं केशपूराँश्च तथा धम्मिलमालिकाः ॥4.18.२० ॥ कबरीस्रक् नाभिचन्द्रौ तथानितम्बचन्द्रकौ ।
सक्थिमालाः शुभाः प्रकोष्ठपत्राणि च मञ्जरीः ॥२१॥ पृष्ठसूर्यां कण्ठपत्रां चैवंविधानि यान्यपि ।
भूषणानि भवन्त्येव तानि सर्वाणि तावुभौ ॥२२॥ विधाय विविधैः पुष्पैः कलाकौशल्यशालिनौ ।
तीर्थदेवान् स्नेहभक्त्या मुदा शृङ्गारशोभितान् ॥२३॥ चक्रतुस्तौ प्रत्यहं वै गत्वा गत्वा सुरालयान् ।
श्रद्धा प्रवर्धते नित्यं सुखं तयोः प्रवर्धते ॥२४॥ ख्यातिः प्रवर्धते दिव्या पुण्यं प्रवर्धतेऽव्ययम् ।
पूजां प्रकुर्वतोः पौष्पैस्तयोर्हरेरनुग्रहः ॥२५॥ देवानां कृतपूजानां प्रसन्नताऽपि वर्धते ।
एवं तौ बहुपुण्यौ वै जातौ प्रियतमौ तथा २६॥ अखिलानां तु देवानां पुष्पपूजादिकारिणौ ।
आशीर्वादाऽतिपात्रत्वं प्राप्तौ देवाद्यनुग्रहम् ॥२७॥ अथैकदा हरिः साक्षाद् दातुमियेष दर्शनम् ।
कुङ्कुमवापिकाक्षेत्रे पूजयन्तौ निजं यदा ॥२८॥ अश्वपट्टसरस्तीरे याः सन्ति दिव्यमूर्तयः ।
मन्दिराणि समस्तानि देवालयास्तथा शुभाः ॥२९॥ तत्र तत्र हरिस्तस्मै मूर्तिद्वारा चमत्कृतिम् ।
दर्शयितुं पाययितुं ब्रह्मरसं मधुप्रभम् ॥4.18.३०॥ दातुमियेष तौ दिव्यं दर्शनं प्रतिमोद्भवम् ।
अनादिश्रीकृष्णनारायणः स्वर्णालये यदा ॥३ १॥ प्रातस्ताभ्यां पूजितो वै पुष्पशृङ्गारकाऽम्बरैः ।
तदा स मानवः कृष्णो बभूवाऽक्षरधामगः ॥३२॥ उपविष्टो दिव्यगजासने चाक्षरधामनि ।
दिव्यभूषाम्बरहेतिशृङ्गारकौतुकान्वितः ॥३३॥ असङ्ख्यमुक्तसञ्जुष्टोऽनन्तमुक्तानिकाऽर्चितः ।
अवतारी ह्यसङ्ख्यानामवतारादिवर्ष्मणाम् ॥३४॥ अनन्तैश्वर्यसामर्थ्याश्चर्यशक्तिप्रपूर्णकः ।
राजाधिराजशोभश्च सर्वतत्त्वनियामकः ॥३५॥ अनन्तगाढतेजोभिः पूर्णमूर्तिः परात्परः ।
एवं भूत्वा हि भगवान् ब्रह्मतेजो ह्यदर्शयत् ॥३६॥ गुणातीताऽक्षरब्रह्म सर्वतेजःप्रकारणम् ।
असौमाऽसङ्ख्यभायुक्तं व्यापकं मूर्तिनिःसृतम् ॥३७॥ मालियानाय मल्लिकाश्रियै प्रदर्श्य धाम तत् ।
तत्राऽऽक्षरीं दिव्यभूमिं तैजसीं शान्तशीतलाम् ॥३८॥ महानन्दमयीं दिव्यपीयूषसलिलां शुभाम् ।
शुद्धचैतन्यरूपां तामक्षरब्रह्ममूर्तिजाम् ॥३९॥ दर्शयामास भगवान् धामेशश्रीनरायणः ।
आक्षरं नगरं नैजं दर्शयामास माधवः ॥4.18.४०॥ अनन्तमुक्तवसतिं दर्शयामास तौ ततः ।
दिव्यसमाधौ तौ नीत्वा दर्शयामास वाटिकाम् ॥४१॥ भद्रायनं शुभं ग्रामं महोद्यानं च कौसुमम् ।
दर्शयामास भगवान् यत्पुष्पैः पूज्यते हरिः ॥४२॥ मालियानस्य मल्लिकाश्रिया उद्यान उत्तमः ।
वर्तते त्वक्षरे तत्र फलपुष्पद्रुमात्मकः ॥४३॥ शाश्वतो दिव्यफलदो दिव्यमधुरसप्रदः ।
दिव्यपुष्पोद्भवमिष्टमकरन्दरसप्रदः ॥४४॥ तौ प्रदर्श्य तमुद्यानं हरिः प्राह शुभं वचः ।
पृथ्व्यां यदर्पितं मह्यं तत्सर्वं वाटिकादिकम् ॥४५॥ उद्यानजन्यपुष्पादि महोद्यानफलादिकम् ।
सर्वं वां शाश्वतं त्वत्र विद्यते कुरुतं निजम् ॥४६॥ कल्पद्रुमा रसैः पूर्णा भवन्त्यत्र हि शाश्वताः ।
मिष्टफलप्रदाः सन्ति पिबतं तद्भवामृतम् ॥४७॥ मिष्टफलानामदनं कुरुतं दिव्यतृप्तिदम् ।
इत्युक्त्वा भगवाँस्ताभ्यां पाययामास तद्रसम् ॥४८ ॥ फलाहारं प्रसादेन कारयामास तत्क्षणम् ।
पुष्पशृङ्गाररचनामर्पयामास तौ प्रभुः ॥४९॥ दिव्यं नैजं सुखं मिष्टं शाश्वतं मोदनन्दितम् ।
महानन्दमयं सर्वं ददौ ताभ्यां प्रभुः स्वयम् ॥4.18.५०॥ यो रसः शङ्करे नास्ति नाऽजे नाऽपीश्वरेष्वपि ।
न विष्णौ नाऽवतारेषु न मुक्तेष्वपि यो रसः ॥५१॥ रसो यो वर्तते कृष्णतादात्म्यभाविमात्रके ।
कृष्णमूर्तौ सदा त्वास्ते कृष्णाभिन्ने च वर्तते ॥५२॥ कृष्णाङ्गनायां राधाश्रीप्रज्ञामाधविकादिषु ।
ब्रह्मप्रियासु सर्वासु हरिप्रियासु यो रसः ॥५३॥ श्रीलक्ष्मीकमलापद्मामाणिक्याललितादिषु ॥ यो रसो वर्तते नित्यप्रेमानन्दमहोदधिः ॥५४॥ स्नेहाकर्षणतादात्म्याऽद्वयाऽऽनन्दसुखोदधिः ।
सर्वभानप्रभानादिलयमूर्छातिमूर्छनः ॥५५॥ सर्वेन्द्रियाऽन्तःकरणाकृष्टिपिण्डैक्यरूपधृक् ।
एकतानमहानन्दाऽविच्छिन्नमुत्प्रवाहणः ॥५६॥ एतादृशं परब्रह्ममहानन्दरसं हरिः ।
अङ्के कृत्वा च तौ भक्तौ पाययामास मूर्तिजम् ॥५७॥ ततश्चोद्यानवृक्षाणां पाययामास तन्मधु ।
मकरन्दं च पुष्पाणां पाययामास गन्धिनम् ॥५८॥ कारयामास तृप्तिं तौ तत्रैवाऽक्षरधामनि ।
अथोत्थाप्य समाधेस्तौ दर्शयामास भूतलम् ॥५९॥ कुङ्कुमवापिकाक्षेत्रं मानवं विग्रहं निजम् ।
बालकृष्णालयं दिव्यं साप्तभौमं सुवर्णजम् ॥4.18.६०॥ अथोत्थितौ तौ सहसा प्रणेमतुर्हरिं मुहुः ।
अमूल्याऽपूर्वलावण्यामृतरसप्रपूरितम् ॥६१॥ स्तुत्वा नत्वाऽर्चयित्वैव लब्ध्वा तृप्तिं तु शाश्वतीम् ।
विसर्जितौ श्रीहरिणा ययतुर्मन्दिराद् बहिः ॥६२॥ दिव्यभावान्वितौ पुष्पहारशृङ्गारकान्वितौ ।
अश्वपट्टसरस्तीरे देवानामर्हणाय तौ ॥६३॥ ययतुः पश्चिमाद् भागाद् उत्तरां दिशमुत्सुकौ ।
शङ्करं क्षेत्रपालं चाऽर्चयामासतुरीश्वरीम् ॥६४॥ मूर्तित्रये हरिकृष्णं वीक्षयामासतू रमाम् ।
त्रिकं धृत्वा करे पात्रं महामृतरसान्वितम् ॥६५॥ पाययामास ताभ्यां वै परब्रह्मरसं परम् ।
गणेशं कार्तिकं दुर्गा रुद्रं पुपूजतुस्ततः ॥६६॥ तेषु देवेषु भगवान् कृष्णनारायणप्रभुः ।
प्राप्य पूजां पुष्पमयीं पाययामास तौ रसम् ॥६७॥ कुबेरैन्द्राग्निधर्मादीन् पुपूजतुश्च तौ ततः ।
तेषु देवेषु भगवान् स्वामीश्रीनरवल्लभः ॥६८॥ लब्ध्वा पूजां दिव्यरूपः पाययामास तौ रसम् ।
सूर्यचन्द्रगुरुप्रभृतीन् देवान् तौ पुपूजतुः ॥६९॥ तेषु देवेषु भगवान् स्वामी कृष्णनरायणः ।
पूजां सङ्गृह्य तौ तत्र पाययामास तद्रसम् ॥4.18.७०॥ ब्रह्मविष्णुमहेशादिप्रतिमापूजनं च तौ ।
व्यधातां तेषु देवेषु कृष्णनारायणप्रभुः ॥७१ ॥ पूजां सङ्गृह्य तौ तत्र पाययामास तद्रसम् ।
पितृप्रतिमापूजां च प्रचक्रतुस्ततश्च तौ ॥७२॥ तेषु स्वामिकृष्णनारायणश्रीकृष्णनन्दनः ।
पूजां सङ्गृह्य तौ भक्तौ पाययामास तद्रसम् ॥७३॥ सिद्धर्षिमूर्तिषु ताभ्यां पूजितासु प्रमापतिः ।
पूजां सङ्गृह्य तौ दिव्यं पाययामास तद्रसम् ॥७४॥ ईश्वराणामीश्वरीणां मूर्तिषु माधवीपतिः ।
प्रतिमासु परां पूजां लब्ध्वा पौष्पीं च तद्रसम् ॥७५॥ पाययामास ताभ्यां श्रीकान्तं कृष्णनरायणः ।
मुक्तानिकासु मुक्तेषु चावतारेषु मूर्तिषु ॥७६॥ पार्षदेषु च गोपेषु गोपीषु शारदादिषु ।
समस्ततीर्थदेवेषु प्रतिमासु कृतार्हणाम् ॥७७॥ प्राप्य स्वामिहरिकृष्णो बालकृष्णोऽक्षराधिपः ।
ताभ्यां ब्रह्मरसं दिव्यं पाययामास पानवत् ॥७८॥ हसन् पात्रं करे धृत्वा ब्रह्मरसप्रपूरितम् ।
अन्यहस्तं न्यस्य मूर्ध्नि तौ संस्पृश्याऽङ्कसंस्थितौ ॥७९॥ आधाय चौष्ठयोः पात्रं पाययामास तद्रसम् ।
घटुकैर्घटुकैः कृष्णः प्रेमरसं तु शाश्वतम् ॥4.18.८०॥ पाययामास मूर्तिस्थस्ताभ्यां पूजाफलात्मकम् ।
अश्वपट्टसरस्तीरे ये देवास्तीर्थवासिनः ॥८ १॥ ईश्वराश्चावताराश्च महर्षयश्च साधवः ।
सिद्धाः साध्व्यः पार्षदाश्च शक्त्यो ब्रह्मयोषितः ॥८२॥ तत्र सर्वत्र भगवान् कृष्णनारायणो हरिः ।
दिव्यं स्वं दर्शनं दत्वा पाययामास तौ रसम् ॥८३॥ एवं तं मालियानं च मल्लिकाश्रीं हरिः स्वयम् ।
कृपया पाययामास परब्रह्मरसं निजम् ॥८४॥ तेन तौ दिव्यतां प्राप्तौ ब्रह्मधामादिमुक्तवत् ।
दिव्यदेहौ हि सम्पन्नौ तदा मायांशवर्जितौ ॥८५॥ पुष्पफलादिसेवायाः फलं दिव्यं प्रजग्मतुः ।
परब्रह्मरसपानात् कायाकल्पो व्यजायत ॥८६॥ पाञ्चभौतिकतत्त्वानि व्यलीयन्त तयोस्ततः ।
इन्द्रियाणि समस्तानि चैतन्यानि तदाऽभवन् ॥८७॥ अन्तःकरणमेवाऽपि नित्यज्ञानात्मकं ह्यभूत् ।
मायांशो विलयं प्राप्य ब्रह्मांशः समजायत ॥८८॥ सर्वांशाः सम्परावृत्त्य ब्रह्मांशास्त्वभवँस्तदा ।
नित्यतृप्तौ महानन्दपूर्णौ तौ सम्बभूवतुः ॥८९॥ सप्ताशीतिसहस्राणि वर्षाणां चायुषोऽन्तरे ।
पूजां कृत्वा दिव्यभावं गते ते मालिमल्लिके ॥4.18.९०॥ दिव्यदेहौ षोडशाब्दवयस्कौ तौ बभूवतुः ।
बालकृष्णसमौ रूपे युगलौ सम्बभूवतुः ॥९१ ॥ अथ वैराग्ययुक्तौ तौ पृथ्व्युद्यानगृहादिषु ।
ब्रह्मपारदृशौ तूर्णं चार्थयामासतुर्हरिम् ॥९२॥ न भद्रायननगरं न भूमिर्न दिवं तथा ।
नौ सत्यं रोचते नापि नैशलोकादि सात्त्विकम् ॥९३॥ विना त्वत्पादसेवायुग्धामाऽक्षरनिवासनम् ।
तस्माद् रक्षय नौ कृष्ण यथेष्टं त्वक्षरे पदे ॥९४॥ कुङ्कुमवापिकाक्षेत्रे दिव्येऽक्षरेऽत्र तत्र वा ।
अर्पितौ स्वश्चरणयोस्तव श्रीकान्त सर्वदा ॥९५॥ इत्यभ्यर्थ्य क्षणं मौनं जगृहतुस्ततो हरिः ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥९६॥ इतिमन्त्रं ददौ ताभ्यां विमानं च ददौ शुभम् ।
पार्षदैर्वाहितं दिव्यं प्रेषयामास चाऽक्षरम् ॥९७॥ कृपया श्रीहरेस्तौ वै तेनैव वर्ष्मणा ततः ।
परब्रह्मरसं पीत्वा ययतुर्धाम चाक्षरम् ॥९८॥ स्नात्वा ब्रह्मह्रदे सीम्नि विविशतुस्ततोऽक्षरम् ।
मुक्तौ चरणसेवायां वर्तमानौ बभूवतुः ॥९९॥ इत्येवं मातरं बद्रि प्राह सा बालयोगिनी ।
परब्रह्मरसानन्दमाहात्म्यं दिव्यमुक्तिदम् ॥4.18.१ ००॥ विरराम क्षणं साऽपि माता व्यचिन्तयद् रसम् ।
अनादिश्रीकृष्णनारायणात् प्राप्यं हि सेवया ॥१०१ ॥ उत्कर्षं परमं ज्ञात्वा धारयामास तं हृदि ।
यत् कृप्वाऽपि सती नारी प्राप्नुयात् परमं पदम् ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिन्या मात्रे कथितं मालियानमल्लिकाश्रीभ्यां मालाकाराभ्यां पुष्पफलादिसेवया तेनैव वर्ष्मणा परब्रह्मरसाऽवाप्त्या दिव्यतोत्तरं ब्रह्माऽक्षरधाम शाश्वतं चाऽपुनरागमाय प्राप्तमितिनिरूपणनामाऽष्टादशोऽध्यायः ॥१८ ॥