०१२

श्रीनरनारायण उवाच-
पार्वतिके! शृणु बद्रीप्रिये! च बालयोगिनी ।
साऽऽह मात्रे धर्मभृतं वर्तनं शीलयोषिताम् ॥१ ॥ या सती श्रीपतिं प्राप्य वर्तते सा वधूरिति ।
सर्वस्वाऽर्पणशीला च कृष्णधर्मा मता हि सा ॥२ ॥ कृष्णं कान्तं निजं देहं तथा सर्वेन्द्रियाण्यपि ।
एकीकृत्याऽन्तःकरणैरभिन्ना जायते सदा ॥३ ॥ आकृष्टा श्रीपतौ नित्यं लोष्ठं वै चुम्बके यथा ।
तथा जायेत मग्ना वै समाधौ च निमज्जति ॥४ ॥ तत्र कोट्यर्कभाव्याप्तं कृष्णं कान्तं समीक्षते ।
कृष्णाऽभिन्नस्वरूपा सा योगसिद्धा तपस्विनी ॥५ ॥ बहुरूपधरा दिव्या जायते बालयोगिनी ।
शृणोति धामशब्दान् सा ब्रह्माण्डानि च पश्यति ॥६ ॥ तथा स्वाभाविकाऽनन्तैश्वर्याढ्या जायते सदा ।
यत्र दातुं समिच्छेत् स्वदर्शनं स्वेच्छया तु सा ॥७ ॥ तत्र तत्राऽऽविर्भवति कृष्णवत् कृष्णकामिनी ।
यथा कृष्णस्तथा कार्ष्णी व्यापिनी जायते परा ॥८ ॥ तस्या योगात् कुपात्रं या नारी कृष्णातिरेकिणी ।
विमुखापि भवेत् सद्यःसमाधिस्था कृपाकृणात् ॥९ ॥ विमुच्यते सद्य एव सेवया कृष्णयोषिताम् ।
महापापान्मुच्यतेऽपि साध्वीसेवापरायणा ॥4.12.१ ०॥ अतिपुण्यवती बोध्या तीर्थरूपा हि साध्विका ।
साध्वीसंयोगमापन्ना साध्वी सती प्रजायते ॥१ १॥ दैवीयोगाद् भवेद् दैवी दिव्या मुक्तानिका सती ।
अनुग्रहोऽस्ति दैवीत्वे हेतुः साध्व्याः कुयोषिति ॥१ २॥ सेवया साधवः साध्व्यस्तोषणीयाः सदा त्विह ।
प्रसादनीयाः सर्वदानैश्च मोक्षप्रदा यतः ॥१ ३॥ कृष्णमदो हि साधूनां भक्तिस्नेहमदोऽपि च ।
तन्मदेनाऽऽश्रितां साध्वीं मदयन्ति हि साधवः ॥१४॥ कृष्णध्यानैकहृदयाः कृष्णनारायणे रताः ।
कृष्णे चान्यान् वेशयन्ति कार्ष्णान् कुर्वन्ति सर्वथा ॥१५॥ कृष्णेतरं सर्वसृष्टिसुखं नेच्छन्ति साधवः ।
ममाऽपि मातः कृष्णस्य सुखं प्ररोचतेऽन्वहम् ॥१६॥ तदन्यन्निरयैस्तुल्यं भासते दुःखमुल्बणम् ।
यत्र नास्ति प्रभाकान्तस्तत्र दुःखं हि मायिकम् ॥१७॥ यत्रास्ति माधवीस्वामी तत्राऽऽनन्दो हि शाश्वतः ।
जितेन्द्रियता सा मातः कृष्णे यदिन्द्रियस्थितिः ॥१८॥ यावदर्थं प्रसेवेत कृष्णान्वितं जितेन्द्रिया ।
कृष्णस्य बहुधा भक्त्या तस्या दिनानि यान्ति वै ॥१९॥ निवृत्तिधर्मनिरता सा कृष्णार्थप्रवृत्तिका ।
निःसङ्गा प्रमदा चास्ते बध्यते न हरिं विना ॥4.12.२०॥ हर्याज्ञया क्रियायां सा वर्तमानाऽपि निर्गुणा ।
निर्विकारा बाह्यरूपे जडेवाऽन्तस्तु सन्मतिः ॥२१॥ कृष्णतद्भक्तसम्बन्धिप्रवृत्तौ निरता हि सा ।
निवृत्तिधर्मिणी सैव भक्तियुक्ता च मुक्तिगा ॥२२॥ कृष्णमृते क्रिया सर्वा चास्त्यधोगतिदायिनी ।
कृष्णार्थकृतसर्वस्वा त्यागिनी चोत्तमा हि सा ॥२३॥ प्रवृत्तौ वर्तमानायाः कृष्णार्थां च सतां कृते ।
हरेः कृपापात्रिकायाः क्रिया न बन्धदायिनी ॥२४॥ इष्टः पतिस्तु भगवान् कृष्णनारायणो हरिः ।
राधाप्रज्ञापाशवतीबद्रीलक्ष्मीरमापतिः ॥२५॥ अक्षरे चापि गोलोके वैकुण्ठे बदरीवने ।
वर्तते श्रीमहाराजः कृष्णनारायणः पतिः ॥२६॥ स एवाऽनन्तकोट्यण्डसर्गस्थित्यन्तकारकः ।
वासुदेवादिरूपः सः केशवादिस्वरूपधृक्॥२७॥ प्रत्यक्षः स नराकारः कोट्यर्बुदाब्जशक्तिधृक् ।
क्षेत्रे कुङ्कुमवाप्यां वै बालकृष्णो विराजते ॥२८॥ बदर्यां श्रीनरनारायणः सोऽपि विराजते ।
तस्य शक्तिः शीलसाध्वी सैवाऽस्ति बालयोगिनी ॥२९॥ तस्या धर्मा मम धर्मा मातर्विद्धि सदा शुभाः ।
नराकृतेर्भगवतो लीलाः श्रव्या हि मोक्षदाः ॥4.12.३ ०॥ कामक्रोधादिभावेन येन केन भयादिना ।
स्नेहेन स्वार्थभावेन कृष्णं प्राप्ता हि निर्गुणाः ॥३ १॥ निर्गुणं जन्मकर्मादि चरित्रे श्रीपतेः प्रभोः ।
अनादिश्रीकृष्णनारायणस्पर्शोऽपि निर्गुणः ॥३२॥ विदित्वा निर्गुणं नारायणं यात्यक्षरं पदम् ।
कृष्णलीलाः कृष्णभक्तैराकृष्टैदिव्यतां गतैः ॥३३॥ विधातव्याः स्मरणार्थं बाधिका या न देहिनाम् ।
लोकानां दर्शनार्थं वै स्फूर्त्यर्थं भक्तिशालिनाम् ॥३४॥ पापिनां पापनाशार्थं ध्यानार्थं स्नेहिनां तथा ।
इदङ्कारस्मरणार्थं लीलाः कार्या हरेरनु ॥३५॥ नाटकादि प्रकर्तव्यं कृष्णभक्तिविवर्धकम् ।
यथाकथञ्चिज्जीवानां कृष्णभक्तिर्भविष्यति ॥३६॥ गुरोगौंरवबोधार्थं भर्तव्यं सुप्रदर्शनम् ।
विधेयदर्शनं चापि योजनीयं हरेरपि ॥३७॥ एवं वै श्रीकृष्णलग्नचित्तानां मोक्षणं भवेत् ।
पृथिव्यां नरदेहानां सार्थक्यं योषितां तथा ॥३८॥ कृष्णलीलादर्शनेन जायते श्रेय इत्यपि ।
कृष्णस्तस्य भक्तिमन्तो भक्ताः श्रेयस्करास्तु ये ॥३९॥ तेषां दिव्यचमत्कारलीलाः कार्या जनैर्भुवि ।
मुमुक्षूणां यथा भक्तिर्विवर्धेत विशेषतः ॥4.12.४०॥ विवेकेन शरीरादौ निस्पृहत्वं यथा भवेत् ।
एकस्मिन् श्रीपतौ साररूपे स्वात्मा यथा लगेत् ॥४१ ॥ सच्चिदानन्दरूपस्य हरेर्दास्यं यथा भवेत्॥ त्यागो भक्तिर्दिव्यता च भवेयुश्च यथा सदा ॥४२॥ तथा कृष्णचरित्राणि त्वनुकार्याणि नाऽन्यथा ।
दर्शनैः स्पार्शनैर्भावैर्मुक्तिः स्याद् देहिनां यतः ॥४३॥ ब्रह्मीभूताश्च दिव्याङ्गास्ते न यान्ति पुनर्भवे ।
आविर्भवन्ति चेल्लोके स्वातन्त्र्येण हरीच्छया ॥४४॥ तेषां तु विषया दिव्या भवन्ति भगवन्मयाः ।
वर्तन्ते ते प्रहित्वैव देहत्रयस्य भावनाम् ॥४५॥ सच्चिदानन्दरूपे स्वे चिन्तयन्ति हरिं पतिम् ।
हरेर्बलात्तु तेषां वै हृत्यु चोपशमस्थितिः ॥४६॥ वर्ततेऽतो न विषयाः प्रवेष्टुं तत्र वै क्षमाः ।
ये त्वायान्ति भवन्त्येव दिव्यास्ते भगवन्मया ॥४७॥ कृष्णस्य च सतां सेवापरा दिव्या तथा भवेत् ।
स्थितिं चोपशमाख्यां च लभते श्रीपतौ सदा ।
विवेकिन्यां तु दास्यां वै प्रीयन्ते सुतरां हि ते ॥४८॥ प्रीणनात्तु सतां साध्व्या नोपसर्गा भवन्ति हि ।
आत्मनो दिव्यतां ज्ञात्वा मोदते सा नरायणी ॥४९॥ आत्मनिष्ठा तथा मातः कृष्णनिष्ठा तु देहिनः ।
पक्षौ द्वावम्बरे गन्तुं चिदाकाशे हि चेतनौ ॥4.12.५०॥ विज्ञानं स्नेह एवैतौ परमेशप्रसञ्जकौ ।
स्नेहः स्वप्ने सुषुप्तौ च तुर्यायां कृष्णयोजकः ॥५१॥ पातिव्रत्यं विना नैव मातः कृष्णोऽनुसज्जते ।
दास्यं विना न वै कृष्णो दासीं गृह्णाति वक्षसि ॥५२॥ दास्यं तु सर्वथा चाज्ञाकरं किन्तु निजार्थकम् ।
पातिव्रत्यं तु कृष्णस्यार्थकं स्वार्थविवर्जितम् ॥५३॥ दास्याच्छ्रेष्ठं पातिव्रत्यं पत्यर्थं सर्वथाऽर्पणम् ।
तदधीनत्वमेवेदं पत्नीव गृहबन्धनम् ॥५४॥ दास्यं यावन्मनो मग्नं तावत् स्नेहात् प्रवर्तते ।
मनो वियुक्तं चेद् दास्या दासीत्वं विगमायते ॥५५॥ अतो वध्वा वधूटीत्वं पातिव्रत्यं प्रशस्यते ।
सर्वसाधनमूर्धन्यं स्वामिव्रतं प्रशस्यते ॥५६॥ हरेः प्रसन्नताप्राप्त्यै हरेः प्राप्त्यै तु योषिता ।
आन्तरं दीयते लक्ष्मीपतये तु यया तया ॥५७॥ प्राप्त एव हरिः कान्तः साधितश्च निजीकृतः ।
आन्तरं सर्वथा दानं स्वामितामर्जयत्यनु ॥५८॥ स्वामित्वं दुर्लभं मातः कृष्णे प्राकृतयोषिताम् ।
स्वामिनीत्वं तु सुतरामपुण्याया न जायते ॥५९॥ माणिकीत्वं च राधात्वं लक्ष्मीत्वं बदरीत्वकम् ।
अक्षरे चापि गोलोके वैकुण्ठे बदरीवने ॥4.12.६०॥ बहुस्नेहेन कृष्णस्य परया कृपयाऽर्ज्यते ।
भक्तिर्यथा परोक्षे वै देवे भवति देहिनाम् ॥६१॥ तथा साक्षाद्धरौ कान्ते गुरौ कार्या हि योषिता ।
तस्याः सर्वे प्रसिद्ध्यन्ति दिव्याद्यर्था हि शाश्वताः ॥६२॥ सतां योगाद्धरेर्योगाद् गुरोर्योगात् पुनः पुनः ।
प्राप्तव्यं लभ्यते सर्वं परं पदं कृतार्थता ॥६३॥ स्नेहोऽस्ति मधुना तुल्यः कृतः कृष्णे तु मोक्षदः ।
कृष्णयोगेन कामिन्याः सन्मात्रं ब्रह्म भासते ॥६४॥ आत्मा ब्रह्मत्वमाप्नोति कामना नावशिष्यते ।
अभ्यासवशतः कृष्णे ब्रह्मणि ब्रह्मतां व्रजेत् ॥६५॥ ब्रह्मीभूतायास्तु पत्न्याः कृष्णे कार्ष्णेषु चान्वहम् ।
स्नेहरसः प्रवर्तेत सौहार्दं च प्रमोदनम् ॥६६॥ हरेर्गुणाकृष्टचित्ताः श्रीर्लक्ष्मीः माधवी प्रिया ।
माणिक्या राधिका बद्री कुर्वन्ति हरितोषणम् ॥६७॥ हरेर्दयानिधेर्योगाद्धरिण्यस्ताः सदाऽभवन् ।
हरेः सतां सेवया ता नारायण्योऽभवन् सदा ॥६८॥ नासां कृष्णं विना चान्यद् रोचते भयदं न च ।
नारायणीनां सर्वासां वशे सर्वं प्रवर्तते ॥६९॥ एतादृश्यस्तु या नार्यः कृष्णकान्ते शमं गताः ।
कृष्णसंयोगदार्ढ्येन यातास्ताः परमां गतिम् ॥4.12.७०॥ यान्ति तथाऽक्षरं धाम परं सर्वार्थपूरकम् ।
प्राकृता अपि देहिन्यः किमु दास्यादिशोभनाः ॥७१॥ देहे त्वात्माऽऽत्मनि श्रीशो वर्तते पुरुषोत्तमः ।
भक्तायाः परमं प्रीतिं वीक्ष्य बहिः स वर्तते ॥७२॥ ददात्यानन्दमुत्कृष्टं निजसङ्गमसम्भवम् ।
रमते रमयत्येव चाश्लिष्यन्निजमूर्तिकम् ॥७३॥ स्नेहमाहात्म्यसंव्याप्ता सेवा विघ्नैर्न हीयते ।
पातिव्रत्यं कथं नित्याधीनं त्वभिभवेद् दृढम् ॥७४॥ तन्नामस्मरणात् तस्य कीर्तनात्तस्य संस्मृतेः ।
तत्प्रणामात्तस्य सङ्गात्तस्य स्पर्शात्तदङ्कनात् ॥७५॥ तदंशधारणात्तस्य शय्यावासात्तदन्वयात् ।
तद्दर्शनात्तद्रमणात् श्वादाऽपि सवनायते ॥७६॥ गणिकाऽपि तस्य सङ्गान्मुक्तासु गणनायते ।
किं पुनः पातिव्रत्येन दास्येन सेविका वधूः ॥७७॥ अहो श्वादा प्रमाकृष्ण नामयुक्ता गरीयसी ।
अहो तपांसि यज्ञाश्च तीर्थानि च व्रतानि च ॥७८॥ कृष्णकान्तस्य नानैव चरितार्थानि सर्वशः ।
हरेः सर्वेश्वरस्यैव नाम्ना निर्भयता भवेत् ॥७९ ॥ देहिनां कृष्णकृष्णेतिगृह्णतां भीर्निवर्तते ।
सेवया पादमूले वै विशत्येषाऽकुतोभये ॥4.12.८०॥ महतां सेवया कृष्णे प्रवेष्टुं क्षण आप्यते ।
सकामाऽपेक्षया मातर्निष्कामाया महत्सुखम् ॥८१॥ कृष्णार्थं तु सकामाऽपि निष्कामा परिकीर्तिता ।
अनन्यभक्ता साध्वीयं कृष्णेतरन्न वाञ्छति ॥८२॥ श्रेयसे सा हरिं प्राप्ता ततो हरिः प्रसीदति ।
श्रेयोऽर्थया सुभक्त्या श्रीहरिस्तूर्णं प्रसीदति ॥८३॥ साक्षात्कृष्णे प्रसन्ने सिद्ध्यन्ति सर्वमनोरथाः ।
सुखदो निजभक्तानां कृष्णः कार्ष्णा न चेतराः ॥८४॥ अतश्चात्ममतिः कार्या कृष्णे कार्ष्णेषु सर्वथा ।
तत्पार्श्वं सर्वथा ग्राह्यं रक्ष्यं दृढं निजं यथा ॥८५ ॥ सोढव्यं स्वापमानादि मृत्युर्वा पार्श्वरक्षिणा ।
तेषु प्रीतिर्विशेषेण कर्तव्या देहतोऽधिका ॥८६ ॥ अभावो न ग्रहीतव्यस्तेषां मातः कदाचन ।
एवंविधाया भक्ताया भयं नास्ति यमादिजम् ॥८७॥ तां नाभिभवितुं शक्ता महाकालादयोऽपि हि ।
अतः कृष्णे मनो योज्यं वज्रभूवज्रकीलवत् ॥८८॥ एवं कृष्णमानसा तु देहे सत्यस्ति धामनि ।
कृष्णे कार्ष्णेषु या मैत्री साऽक्षरस्य प्रयोजिका ॥८९ ॥ पार्थक्यं कृष्णभक्तेभ्यो विघ्नं तत्र महत्तरम् ।
निःस्नेहेन वर्तनं च धामतो दूरताप्रदम् ॥4.12.९ ०॥ आत्मज्ञानं हरेर्ज्ञानं भक्तानां ज्ञानमित्यपि ।
गोपुरत्रयमेवाऽस्ति हरेर्धाम्नि प्रवेशने ॥९ १ ॥ सन्तः साध्व्यः सदा ज्ञानत्रये तिष्ठन्ति सोत्सुकाः ।
स्नेहो दास्यं सेवनं च त्रयं चान्तर्गतिप्रदम् ॥९२॥ सन्तः साध्व्यस्त्रयं लब्ध्वा कृष्णावासं प्रयान्ति हि ।
सर्वार्पणं पातिव्रत्यं विश्वासः शयनं त्रयम् ॥९३ ॥ सन्तः साध्व्यस्त्रिभिर्यान्ति श्रीहरेः शयनं प्रति ।
तादात्म्यैकरसं ते वै विदन्ति शयनं गताः ॥९४॥ अपरोक्षानुभूत्या तं साक्षात्पश्यन्ति सद्रसम् ।
कान्तं कृष्णं महानन्दं चानुभवन्ति तन्मयाः ॥९५॥ एवंविधानां भक्तानां संसारः किङ्करिष्यति ।
क्रियाः सर्वा भवन्त्येषां दिव्या देहोद्भवा अपि ॥९६॥ ब्रह्माण्डनाशमायाति भक्तानाशं व्रजन्ति न ।
भक्तास्तथाविधा दिव्या मोदन्तेऽक्षरमन्दिरे ॥९७॥ वृन्दावनं सदा दिव्यं दिव्यं च तुलसीवनम् ।
बद्रीवनं तथा दिव्यं दिव्या कुङ्कुमवापिका ॥९८॥ दिव्या साकेतनगरी दिव्यो वै रासमण्डपः ।
गोप्यो दिव्या ब्रह्मपत्न्यो दिव्या हरिप्रियाः सदा ॥९९॥ दिव्यास्ते त्वक्षरे लोके चाऽत्रापि सन्ति चाऽपृथक् ।
ब्रह्मप्रियाः सदा दिव्या दिव्यकान्तेन दिव्यता ॥4.12.१ ००॥ कृष्णो दिव्यश्च तद्धाम दिव्यं व्यापकमत्र च ।
तत्र ये ये सेवकाश्चाऽऽलया भोगा विभूतयः ॥१० १॥ दिव्या एव ततो मातर्दिव्येयं बालयोगिनी ।
त्वं दिव्या वर्तसे नित्यं मा भौतिकीं विभावय ॥१०२॥ श्रीकृष्णशरणं प्राप्ता दिव्या भवन्ति देहिनः ।
ब्रह्मीभूता भवन्त्येव सखीत्वं च व्रजन्त्यपि ॥१०३॥ नारायणीत्वं शक्तित्वं व्रजन्ति कृष्णसेविकाः ।
विष्णुत्वं च नरत्वं च व्रजन्ति कृष्णसेवकाः ॥१ ०४॥ एवं श्रीकृष्णयोगोऽयं मातस्ते कथितो मया ।
इत्युक्त्वा विररामैव बद्रि सा बालयोगिनी ॥१ ०५॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां नारीणां महाभागवतधर्माढ्यतादिमत्त्वमित्यादिनिरूपणनामा द्वादशोऽध्यायः ॥१२ ॥