००७

श्रीबदरीश्वर्युवाच-
कान्तनारायणकृष्ण दाराभाग्यो नृपो हि मे ।
बद्रिकालयमासाद्य किं चकार वदस्व मे ॥१ ॥ श्रीनरनारायण उवाच-
ऋषीकेशात्समारभ्य प्रतिक्रोशं स भूपतिः ।
व्यधाद्वै दण्डवद् बद्रीनाथं दानानि सन्ददौ ॥२ ॥ पद्भ्यां ययौ शनैः सर्वप्रजाभिः सहितो हि मे ।
भोज्यव्ययः समस्तो वै सहस्रदेहिनां निजः ॥३ ॥ व्रतं मध्याह्नभोजित्वं चक्रे राजा प्रजान्वितः ।
सहस्रमालिकाऽऽवर्त्तनं चक्रे प्रत्यहं नृपः ॥४ ॥ प्रजाश्चापि तथा चक्रुर्मालाऽऽवर्त्तनकीर्तनम् ।
हरे कृष्णबालकृष्णबद्रीनाथेशमाधव ॥५ ॥ अनादिश्रीकृष्णनारायणपद्मावतीधव ।
एवं सम्भूय भजनं चक्रुस्ते वाचिकं पथि ॥६ ॥ तीर्थव्रतानि ते सर्वे पालयामासुरुत्सुकाः ।
भूशायित्वं ब्रह्मचर्यं चैकभुक्तत्वमित्यपि ॥७ ॥ नारीणां च नराणां च मिथः स्पर्शविहीनताम् ।
सत्यवचनं चाऽद्रोहं चान्यगाथाविवर्जनम् ॥८ ॥ अस्तेयं चेश्वरवृत्तिं स्वाध्यायं फलभोजनम् ।
सतां सेवां हरेः सेवां साध्वीनां सेवनं तथा ॥९ ॥ कथायाः श्रवणं सायं कीर्तनं वाद्यसंयुतम् ।
वृद्धानां वन्दनं प्रातर्देवानां पूजनं प्रगे ॥4.7.१ ०॥ अहिंसां चापि जीवानां नोच्छेदं तृणशाखिनाम् ।
स्नानं ध्यानं जपं चापि हवनं पितृतर्पणम् ॥१ १॥ पित्रोः प्रसेवनं पत्युः सेवनं साधुसेवनम् ।
नित्यदानं च गोसेवां विप्रसम्मानमर्हणम् ॥१२॥ अन्नवस्त्रप्रदानं च धूपदीपनिवेदनम् ।
व्रतान्येवंविधान्येव चक्रुर्मार्गे हि यात्रिकाः ॥१३॥ सहस्रमानवाः सर्वे दाराभाग्यनृपान्विताः ।
बदरीश जय विष्णो नरनारायण प्रभो ॥१४॥ गङ्गा जयतु बद्रीशी हिमालयो जयत्वपि ।
एवं जयादिशब्दैस्ते सोत्साहा रुरुहुर्गिरिम् ॥१५॥ शिखराणि कज्जलानि धवलानि क्रमात् ततः ।
विलोकयन्तो भक्तौ च मग्ना यान्ति शनैः शनैः ॥१६॥ अथ नारायणस्वामी साधुर्भूत्वा नरोऽपि च ।
तथा श्रीबदरी साध्वी भूत्वा भागवतीप्रभा ॥१७॥ भिक्षुकाणां वेषवन्तो ययुः सङ्घेन संयुताः ।
रात्रौ त्रयो मिलित्वा च मिष्टस्वरैः सुकीर्तनम् ॥१८॥ नरनारायणस्यैव कुर्वन्ति स्नेहगर्भितम् ।
शृण्वन्ति सङ्घशः सर्वे नमन्ति त्रीन् गुरूनिव ॥१९॥ भोजयन्ति परे चापि सेवन्ते त्वपरेऽपि तु ।
अर्पयन्ति यथेष्टं वै त्रिभ्यो यात्रालवो मुहुः ॥4.7.२०॥ त्रिकं चापि दिव्यरूपं भागवतं स्थले स्थले ।
आवेदयति पन्थानं पथ्यं पाथेयमित्यपि ॥२१॥ विक्रेतृरूपमासाद्य पर्वतीयफलादिकम् ।
आपणे त्विव धृत्वा च मार्गे तिष्ठति वै पुरः ॥२२॥ एवं श्रीभगवान् बद्रि सङ्घेन सह वर्तते ।
भक्ता यतः प्रसन्नाः स्युः सेवया दुःखवर्जिताः ॥२३॥ वियोगं निजभक्तानां तत्रापि स्वं प्रयायिनाम् ।
सहते न हरिकृष्णो भक्ताः सहन्त एव न ॥२४॥ तथा बद्रीप्रभो नारायणोऽहं वै त्वया सह ।
नरेण सहितः सङ्घे युक्तेऽभवं निजेच्छया ॥२५॥ मुक्तिदोऽहं हि भक्तानां पार्वतिकोऽघनाशकः ।
दयया प्रेरितः सङ्घे व्यचरं साधुवेषभाग् ॥२६॥ साधूनां सेवया कृष्णसेवया तीर्थयात्रिका ।
सफला जायते बद्रि दर्शनात् पादवाहनात् ॥२७॥ अथ राज्ञस्तु सङ्घस्य परीक्षार्थं मया तदा ।
रुग्णं रूपं मम बद्रि दर्शितं ज्वरवेशितम् ॥२८॥ चलितुं त्वसमर्थोऽहं ज्वराग्निना तदाऽभवम् ।
मम भ्राताऽपि सहसा ज्वराऽऽविष्टोऽभवत्ततः ॥२९॥ मम पत्नी सती नारी साध्वी रुरोध वै भृशम् ।
ज्वराविष्टौ पुमांसौ द्वौ सेवनीयौ कथं पथि ॥4.7.३ ०॥ एकया योषिता साध्व्या रुग्णौ पाल्यौ कथं पथि ।
शीताढ्ये हिममार्गे वै पराधीनौ सुदुःखितौ ॥३१॥ भिक्षुक्याः सन्निधौ तत्र नायान्ति धनमानिनः ।
भिक्षुकी रौति विजने निषद्य सन्निधौ तयोः ॥३२॥ सङ्घस्था मानवाः सर्वे दयायुक्तास्तु तैर्थिकाः ।
ये ये त्वायान्ति तत्पार्श्वे तिष्ठन्ति दययाऽन्विताः ॥३३॥ सेवन्ते ज्वरनाशार्थं देहं संवाहयन्त्यपि ।
धैर्यं वदन्ति नार्यै च यथेष्टं सन्ददत्यपि ॥३४॥ क्रमशस्ते सहस्रं वै मानवा रुग्णसन्निधौ ।
यात्रां निरुध्य मिलितास्त्यक्तुं शक्ता न चाऽभवन् ॥३५॥ राजाऽपि त्वाययौ मार्गे निर्गच्छन् तौ व्यलोकयत् ।
रुग्णौ साधूसत्तमौ च दुःखिनीं साध्विकां प्रियाम् ॥३६॥ अतिष्ठत् सहसा तत्र निषसाद पुरस्तयोः ।
पप्रच्छेप्सितमेवाऽपि धैर्यं ददौ धनं ददौ ॥३९॥ वचनं प्रददौ ताभ्यां साधुभ्यां नृपतिः शुभम् ।
यावद् रोगो न भवतोर्निवर्तेत तु तावता ।३८॥ नाऽस्मात् स्थानात् प्रयास्यामि त्वग्रे बदरिकाश्रमम् ।
सह नीत्वैन यास्यामि मा खेदं कुरुतं युवाम् ॥३९॥ सर्वे वयं निवत्स्यामश्चात्रैव स्वस्थतावधिम् ।
यद्वाऽऽज्ञया तु भवतोर्वां कृत्वा स्कन्धवाहिनौ ॥4.7.४०॥ यास्यामो बदरीतीर्थं सन्तो हि हृदयं हरेः ।
न त्यक्तव्या मोक्षणार्थैः प्राप्ताः सन्तः कदाचन ॥४१॥ साध्वीयं मा शुचं यातु तिष्ठामस्त्वत्सहायिनः ।
बद्रीनाथो द्रुतं चेमौ नीरुग्णौ विदधात्विह ॥४२॥ एवं निश्चित्य राजाऽपि प्रजाश्चापि हरिप्रियाः ।
सर्वे यात्रां विहायैव साध्वर्थं तूषिताः पथि ॥४३॥ अथ भोजनपानादि फलादनं प्रचक्रिरे ।
साधुभ्यां दत्तवन्तश्च मुद्गपक्वादिमण्डकम् ॥४४॥ पपतुस्तौ सुखं साध्वी भोजनं प्रचकार ह ।
सर्वेऽपि भुक्तवन्तस्ते रात्र्यागमोऽभवत्ततः ॥४५॥ रात्रौ सर्वे कीर्तनं च प्रचक्रुः कण्ठरागिणः ।
सवाद्यं श्रीनरनारायणनाम प्रचक्रिरे ॥४६॥ अथापि हिमवर्षा वै निशाऽर्धविगमेऽभवत् ।
शीताऽनलोऽभवद् व्याप्तः सङ्घे सर्वत्र भूतले ॥४७॥ रुग्णौ प्रातर्मृतौ त्यक्त्वा प्राणान् प्रेतौ बभूवतुः ।
रुरोध साध्वी साऽनाथा रुरुदुर्नृपतत्प्रजाः ॥४८॥ हिमस्य विगमे जाते प्रातःप्रकाशनोत्तरम् ।
राजा सर्वान् यात्रिकाँश्च सम्बोधयन्नुवाच ह ॥४९॥ यावन्मृतौ न जीवेतां तावदन्नं त्यजाम्यहम् ।
मरणं साधुभिः साकं मन्ये मोक्षप्रदं मम ॥4.7.५०॥ श्रुत्वैवं यात्रिकाः सर्वे नरा नार्योऽपि बालकाः ।
प्रतिज्ञां तादृशीं चक्रुर्गृह्णामो भोजनं नहि ॥५१ ॥ यावन्नैतौ हि जीवेतां मरिष्यामोऽत्र निर्जलाः ।
यास्यामो ब्रह्मसदनं साध्वर्थे प्राणरोधिनः ॥९२॥ किमत्र यात्रया साधून् त्यक्त्वा स्वार्थपरार्थिनाम् ।
निष्फलं जीवनं तस्य साधूँस्त्यक्त्वा तु जीवति ॥५५३॥ अपि प्राणान् प्रदायैव साधून् संरक्षयेत् सदा ।
गवार्थे ब्राह्मणार्थे वा साध्वर्थे च सतीस्त्रियै ॥५४॥ प्राणपणं विधायाऽपि रक्षां करोति यो जनः ।
तस्य स्वर्गं च मोक्षश्च शरण्यस्य ध्रुवौ मतौ ॥५५॥ अपि पञ्चमहापापप्रसक्तोऽपि सतां कृते ।
प्राणान् जहाति रक्षार्थं सर्वपापात् स मुच्यते ॥५६॥ साधुरक्षाकृतः रक्षां करोति भगवान् हरिः ।
साधुष्वेव हरिश्चास्ते साधुरेव स्वयं हरिः ॥५७॥ या प्रीतिर्निजपुत्रेषु पत्न्यां पित्रोश्च बन्धुषु ।
तां कृत्वा सत्सु देह्यत्र मुच्यते जन्मबन्धनात् ॥५८॥ यो यत्नः स्वकुटुम्बस्य भरणार्थं वितन्यते ।
स चेत् कृतः सतामर्थे यत्नवान् मुच्यते ह्यघात् ॥५९॥ यथा लोकैः पक्षपातः क्रियते स्वकुटुम्बिषु ।
तथा कृतः सतामर्थे तारयत्येव तत्कृतः ॥4.7.६०॥ यथा स्नेहो निजदेहे दैहिके वर्तते नृणाम् ।
तथा चेज्जायते सत्सु मुच्यते भवसागरात् ॥६१ ॥ यथा स्वार्थे कृतयत्नः पुमान्न मनुते श्रमम् ।
तथा सतां कृते यत्ने स्नेहान्न मनुते श्रमम् ॥६२॥ न पारक्यं च मनुते मनुते मोक्षकृच्छ्रमम् ।
स एव लभते धाम्नि नारायणपदाम्बुजम् ॥६३॥ रुग्णं साधुं तु यस्त्यक्त्वा याति देही मदान्वितः ।
स याति याम्यलोकं वै दुःखं याम्यनिभं त्विह ॥६४॥ मातृसेवाफलं पितृसेवाफलं तथा सताम् ।
सेवया लभते कान्तसेवाफलं हि शाश्वतम् ॥६५॥ सर्वतीर्थानि साधूनां मूर्तौ वसन्ति सर्वदा ।
साधुतीर्थाऽवमन्ता न लभते तीर्थजं फलम् ॥६६॥ साध्वोरेतयोर्मार्गेऽत्र गताऽस्वोस्त्यजनं ह्यघम् ।
तदर्थं प्राणदानेन पुण्यं स्वर्गं च मोक्षणम् ॥६७॥ इति निश्चित्य राजा च प्रजा यात्रां विहाय वै ।
अन्नं जलं विहायाऽपि निषेदुः शवसन्निधौ ॥६८॥ चक्रुस्ते भजनं तत्र सततं नामकीर्तनम् ।
अथ साध्वी सती नारी प्राणान् हातुं समिच्छति ॥६९॥ कृत्वा काष्ठानि चैकत्र शवौ निधाय तत्र च ।
यावदग्निं तत्र कर्तुं याति तावन्नृपः स्वयम् ॥4.7.७०॥ उत्प्लुत्य काष्ठचयने निपपात पुरः स्त्रियाः ।
ततो राज्ञी तथा नार्यः प्रजाश्चापि शुचाकुलाः ॥७१ ॥ निपेतुः सहसा काष्ठचितायां मरणाय वै ।
नारी वह्निं समुत्पाद्य शेते तु यावदेव ह ॥७२॥ शेरते भूभृताद्याश्च न निर्गच्छन्ति वह्नितः ।
तादृशीं परमां भक्तिं विलोक्य भगवान् स्वयम् ॥७३॥ चितायाः शान्तवह्नेस्तु सजीवः सनरो हरिः ।
उत्थितश्च हसन् दिव्यवपुश्चतुर्भुजान्वितः ॥७४॥ शङ्खचक्रगदापद्मधरो नरेण शोभितः ।
तथा लक्ष्म्या युतः साध्व्या हसन्नाह नृपादिकान् ॥७५॥ भवन्तो मम भक्ताः स्थ सर्वस्वार्पणकारिणः ।
साधुस्नेहयुतास्तीर्थपावनाश्चात्मसदृशाः ॥७६॥ आत्मनिवेदिनः सर्वे सर्वपापविवर्जिताः ।
वैकुण्ठयोग्या यूयं स्थ मम प्रसन्नतान्विताः ॥७७॥ परीक्षिता मया सर्वे मदर्थकृतयत्नकाः ।
मदर्थप्राणदातारो मदर्थकृतजीवनाः ॥७८॥ त्यक्तसंसारपुत्रादिस्नेहाः साधुपरायणाः ।
धामयोग्या मुक्तियोग्या भवथाऽत्र हिमालये ॥७९॥ मत्प्रसादाद्दिव्यदेहा भवथाऽत्र सुगन्धिनः ।
व्योमगाः सम्भवन्त्येव सर्वे दुःखविवर्जिताः ॥4.7.८०॥ इतो दूरं न मे बद्रिकाश्रमो विद्यतेऽनघाः ।
आयान्तु व्योममार्गेण सहसा तु मया सह ॥८ १ ॥ इत्युक्त्वा भगवान्नारायणो नरश्च बद्रिका ।
व्योममार्गेण सर्वांस्तान्निन्युर्बदरिकाश्रमम् ॥८२॥ बदर्यां अभितस्तत्र तस्थुस्ते भगवत्पराः ।
ऊषुः पक्षं सेवमाना बद्रीनाथं नरं सतीम् ॥८३॥ ऋषीन्देवान्पितृगणान्दिव्यान्दिवः समागतान् ।
वीक्षयामासुरूर्ध्वज्ञा मुक्ता इवाऽभवँश्च ते ॥८४॥ अथैकं तत्र विप्रं च तपन्तं तापसं मुनिम् ।
व्यलोकयन् बदर्यग्रे नारायणजपान्वितम् ॥८५॥ निराहारं ध्यानमग्नं दिव्यमूर्तिं जटान्वितम् ।
व्यपश्यँश्च द्विजस्याऽग्रे त्वायातां कन्यकां शुभाम् ॥८६॥ बदरीमूलतो दिव्यामुद्भूतामद्भुतां प्रभाम् ।
विप्राय बदरं दत्वा व्यलीयत द्रुतं तु सा ॥८७॥ बदर्यां सा लीनभावमुपयाता नरायणी ।
दृष्ट्वाऽऽश्चर्यं तु परमं प्राप्तास्ते नृपमानवाः ॥८८॥ तीर्थविधिं ततश्चक्रुर्नारायणस्य पूजनम् ।
गङ्गास्नानं बदरस्य फलाहारं व्यधुस्तदा ॥८९॥ नामसङ्कीर्तनं चक्रुर्नारायणगतासवः ।
नीराजनं हरेश्चक्रुः प्रसादं जग्धुरुत्सुकाः ॥4.7.९०॥ एकाग्रमानसा जाताः कृष्णे स्नेहद्रवान्विताः ।
तावत्तेषां शरीराणि दिव्यानि तैजसानि वै ॥९ १ ॥ व्यजायन्त क्षणाद् बद्रि विमानं चागतं ततः ।
निर्विकल्पसमाधिस्था दिव्येन्द्रियादिविग्रहाः ॥९२॥ तैरेव विग्रहैर्दिव्यैरारुरुहुर्विमानकम् ।
सर्वे चतुर्भुजा दिव्या नरा नार्यश्च बालकाः ॥९३॥ वैकुण्ठमार्गं विमलं त्वविच्छिन्नं तथाऽम्बरे ।
व्यलोकयन् हरिं नत्वा पार्षदैः सह तैजसैः ॥९४॥ ययुर्वैकुण्ठधामाऽथ जयशब्दास्तदा दिवि ।
देवानामभवन् बद्रि महर्षीणां शुभा रवाः ॥९५६॥ नारायणाः सर्वनरा नारायण्यः स्त्रियस्तदा ।
दिव्या वैकुष्ठयोग्यास्ते वैकुण्ठं विविशुः क्षणात् ॥९६॥ साधुरूपस्य कृष्णस्य सेवाफलं हि मोक्षणम् ।
दाराभाग्यनृपाद्याँस्तान् स्वप्ने ददृशिरे प्रजाः ॥९७॥ मुक्तिं गतान् विमानेन महोत्सवान् प्रचक्रिरे ।
एवं श्रीमाणिकीबद्रि बद्रिकाश्रमयात्रया ॥९८॥ मुक्तिं यान्ति मानवा वै दिव्यदेहा विमानगाः ।
पठनाच्छ्रवणादस्य स्मरणात् संस्तवादपि ॥९९॥ भुक्तिं मुक्तिं लभन्ते वै बद्रीप्रभेतिवादिनः ।
साक्षान्नारायणो यत्र यत्र त्वं बद्रिकाप्रभे ॥4.7.१०० ॥ यत्र महर्षयो दिव्या गङ्गा यत्र च पार्वती।
तत्र वैकुण्ठमेवास्ते पञ्चमं तपसाऽन्वितम् ॥१० १॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दाराभाग्यनृपस्य सहस्रमानवयुतस्य बद्रिकाश्रमयात्रायां साधुसाध्वीरूपबदरीनरनारायणदर्शनं, परीक्षणं, नारायणार्थप्राणदानं, प्रसन्नता,
व्योम्ना वद्रिकाश्रमप्रापणं, दिव्यदेहवत्त्वं, मोक्षणं चेत्यादिनिरूपणनामा सप्तमोऽध्यायः ॥७ ॥