००४

श्रीबद्रीश्वर्युवाच-
नरनारायणविष्णो कृष्णनारायणप्रभो ।
कृष्णकान्तहरे कृष्णश्रीमाणिकीरमाऽऽर्त्तिहन् ॥१ ॥ कथं स बदरो राजा बदरीफलतां गतः ।
नरश्च बीजतां प्राप्तस्तन्मे ब्रूहि नरायण ॥२ ॥ श्रीनरनारायण उवाच-
शृणु बद्रीरमे देवि तत्कथां पावनीं शुभाम् ।
मोक्षकरीं हि भक्तानां पापिनां पापनाशिनीम् ॥३ ॥ बदरो वै महाभक्तो राज्यं धनं गृहादिकम् ।
सम्पदः स्त्रीजनं यानवाहनानि प्रजास्तथा ॥४ ॥ कोशं रत्नानि भूमिश्च देहदैहिकमित्यपि ।
सर्वं कृत्वा हि कृष्णार्थं व्यवर्तत स साधुवत् ॥५ ॥ न्ययुङक्त दासदासीश्च साधुसेवासु सर्वदा ।
सौधेषु साधवस्तस्य निवसन्ति हरेर्जनाः ॥६ ॥ कीर्तनानि सदा तस्यालये भवन्ति बद्रिके ।
सर्वस्वं श्रीकृष्णभक्तयोगार्थं त्वकरोद्धि सः ॥७ ॥ आत्मनिवेदितां प्राप्तस्त्वेकदाऽचिन्तयन्नृपः ।
निवेदितं मया सर्वं हरये परमात्मने ॥८ ॥ मायिकं सर्वमेवाऽपि तथाऽऽत्माऽपि निवेदितः ।
पार्थिवं च जलीयं च तैजसं प्राण इत्यपि ॥९ ॥ सर्वं निवेदितं श्रीमन्नारायणाय चक्रिणे ।
गेहं यानं भोजनादि वस्त्रालङ्कारभूषणम् ॥4.4.१ ०॥ गन्धसुगन्धतैलादि कृष्णार्थं चौपयोगिकम् ।
सर्वं प्रजायते योग्यं सेवार्हं जडवस्तुकम् ॥१ १॥ किन्तु निकृष्टमत्यर्थं वर्ष्म दुर्गन्धिसम्भृतम् ।
समलं विकृतं क्लेद्यं नोपयोगाय चक्रिणः ॥१२॥ भवत्येवाऽशुचि नित्यं मलमूत्रसमन्वितम् ।
स्नाय्य्वस्थिमांससंव्याप्तं न्यक्कृतं कुणपं शवम् ॥१३॥ सर्वथा नोपयोगार्थं स्वामिनो मे प्रजायते ।
जीवच्छवं मृतं भस्म विष्टा मृद् वा प्रकीर्तितम् ॥१४॥ कथं कृष्णकृते कार्ष्णसतां कृतेऽस्य योजनम् ।
उपयोगि कथं स्याच्च कथं न स्यान्निरर्थकम् ॥१९॥ यन्मया पोषितं लक्षवत्सरैः सेवितं शुभैः ।
तस्य कथं सतामर्थे ह्युपयोगो भवेदिह ॥१६॥ सार्थक्यं च भवेदस्य मानवस्य हि वर्ष्मणः ।
करोमि तपसा दिव्यं सतां भोग्यं हरेस्तथा ॥१७॥ भक्त्या वा चोपयोगस्थं कुर्वे सेवार्हमेव तत् ।
नृपाय साधवः सेवां दिशन्ति न कदाचन ॥१८॥ नृपदेहो दीनवच्च करोति सेवनं न च ।
तस्मान्नृपस्य देहोऽयं निष्फलोऽद्य प्रवर्तते ॥१९॥ सफलं तं करोम्येव तपसाऽऽराधनेन च ।
यद्धिष्ण्यं न तु देवाय तद्धिष्ण्यं धिक्कृतं मतम् ॥4.4.२०॥ यच्छिरो देवनमने नोपयुक्तं तु धिक्कृतम् ।
ये नेत्रे न दर्शनार्थे देवानां तेऽपि धिक्कृते ॥२१ ॥ ये श्रोत्रे न श्रवणार्थे देवानां तेऽपि धिक्कृते ।
यल्ललाटं न देवार्हचन्दनादिप्रसादवत् ॥२२॥ तन्निर्भाग्यं सदा बोध्यं भालं भल्लुकभालवत् ।
या नासा श्रीहरेर्गन्धग्राहिणी नैव वर्तते ॥२३॥ सा शुष्कतिलपुष्पाभा गह्वराढ्या न शोभना ।
यन्मुखं श्रीहरेर्वाचं न गृणाति कदाचन ॥२४॥ न कीर्तनं न मोदं च तन्मुखं मूर्खकर्कवत् ।
या जिह्वा न रसं वेत्ति नारायणप्रसादजम् ॥२५॥ सा तु दर्वीव बोध्या वा दर्दुरीव च निर्गुणा ।
यन्मुखं सुन्दरं रम्यं हरेर्भोग्यं न चेद्यदि ॥२६।
राहुग्रस्तं सदा तत्तु बोध्यं सुयोषितामपि।
नरस्य च मुखं तत्तु वानरास्यसमं मतम् ॥२७॥ यन्मुखं न हरेर्नारायणाऽऽस्यरसवेदि तत् ।
ताम्बूलरसशून्यं च तद्बिलं मूषकस्य वै ॥२८॥ यः कण्ठो न हरेः कीर्तिगीतिमग्नोऽतिसुस्वरः ।
स बोध्यः कीचकवद्धि वृथास्वननिनादवान् ॥२९॥ यद्वक्षो न हरेर्योग्यं यन्नोरः श्रीहरेः श्रितम् ।
यत्र नास्ति हरेर्वासस्तद्वक्षो वृक्षनीडकम् ॥4.4.३०॥ यद्वक्षसि स्वयं कृष्णो न शेते हारवत्तु तत् ।
शववक्षोऽशुचिबोध्यं वृथास्तनविलम्बितम् ॥३१ ॥ यौ स्तनौ श्रीकृष्णकान्तकरपद्मतलाऽस्पृशौ ।
तौ पिण्डौ चाऽमङ्गलौ वै रसालीग्रन्थिसदृशौ ॥३२॥ यौ स्कन्धौ कृष्णहस्ताभ्यां नाऽऽश्लिष्टौ स्तम्बिनौ तु तौ ।
यः पृष्ठः कृष्णशयने स्पृष्टो नैव स काष्ठवत् ॥३३॥ उदरं यद् रमाकान्तोदरलग्नं न तद् दरम् ।
नाभिः कृष्णेन दृष्टा न सा गर्तः खनिरूपवत् ॥३४॥ कटिर्जघनं गुप्तं च स्पृष्टं कृष्णेन नैव यत् ।
तद् याम्यं चालयं बोध्यं पापाश्रयं समस्तकम् ॥३५॥ नितम्बौ सक्थिनी जानू जङ्घे पादौ च पत्तले ।
कृष्णस्पर्शमनापन्ने वृक्षस्तम्बनिभे तु ते ॥३६॥ मनो यत् कृष्णविरहं रौरवं तत्तु वै मतम् ।
बुद्धिर्या कृष्णशून्या सा कुम्भिपाकात्मिका खनिः ॥३७॥ चित्तं कृष्णविहीनं यत् तत्तु शृगालसदृशम् ।
अहन्ता कृष्णशून्या या सा वृकीव विनाशिनी ॥३८॥ गुणत्रयं कृष्णशून्यं तत्तु त्रिदोषरूपि यत् ।
अवस्थात्रितयं कृष्णशून्यं त्वघत्रयं हि तत् ॥३९॥ रूपं कृष्णानपेक्षं यत् तत् श्वित्रं सर्वदा मतम् ।
रसः कृष्णविहीनो यः स वै वैतरणी नदी ॥4.4.४० ॥ गन्धः कृष्णविहीनस्तु मलपात्रनिभः स वै ।
शब्दः कृष्णेन विधुरो घूकशब्दो हि सर्वथा ॥४१ ॥ स्पर्शः कृष्णेन हीनस्तु विषानलसमः स हि ।
रतिः प्रीतिः सुखं मोदः कृष्णहीनास्तथोत्सवाः ॥४२॥ सर्वे ते नारका बोध्या आनन्दा निरयात्मकाः ।
कृष्णयुक्तं समस्तं वै स्वल्पं महत्तु यद् भवेत् ॥४३॥ तत्तु दिव्यं शाश्वतं च मोक्षप्रदं महामृतम् ।
श्रीकृष्णस्य सतामर्थे यद् भवेदुपकारकम् ॥४४॥ चेन्निकृष्टं भवेत् तत्तु चोत्कृष्टं सुरवन्दितम् ।
अपि मज्जाऽस्थिचर्मादि कृष्णार्थं योजितं भवेत् ॥४५६॥ सर्वं दिव्यं मुक्तिदातृ सार्थकं नरवर्ष्म तत् ।
वृक्षाः कृष्णकृते यानरूपा भवन्ति सार्थकाः ॥४६॥ हस्तिदन्तास्तृणवल्ल्यो भवन्ति भूषणासनम् ।
चमरीपुच्छवालानां चामरं जायते शुभम् ॥४७॥ कस्तूरिका मृगस्याऽपि मता कृष्णोपयोगिनी ।
मृगसिंहादिचर्माणि भवन्ति चासनान्यपि ॥४८॥ शुक्त्यादीनि च रत्नानि भूषणानि भवन्त्यपि ।
कन्दमूलफलानां च नैवेद्यं जायते हरेः ॥४९॥ कणानां मिष्टभोज्यानि जायन्ते परमात्मनः ।
दुग्धादीनि गवोत्थानि पेयानि सम्भवन्त्यपि ॥4.4.५०॥ माक्षिकं च मधुरं च मधु भक्ष्यं प्रजायते ।
कौशेयं कीटजं वस्त्रं कृष्णार्थं चौपयोगिकम् ॥५१ ॥ धातवः खनिजाश्चापि हेतिरूपा भवन्त्यपि ।
शङ्खः सामुद्रजन्तूत्थो वाद्यरूपो भवत्यपि ॥५२॥ मणयोऽपि शरीरोत्था मौक्तिकानि च वै स्रजि ।
धार्यन्ते कृष्णकान्तेन सर्वं तथौपयोगिकम् ॥५३॥ अपि हंसस्य पृष्ठं च गरुडस्य गजस्य च ।
अश्वस्यापि हरेः शुभासनयोग्यं भवत्यपि ॥५४॥ किन्त्वयं नरदेहो वै नास्ति कृष्णौपयोगिकः ।
सतां वा नोपयोगार्थस्ततो निरर्थकः सदा ॥५५॥ एवं व्यचिन्तयद् राजा बहुधा निजवर्ष्मणः ।
अपि वै कज्जलं कृष्णं कृष्णनेत्रासनं भवेत् ॥५६॥ तत्तुल्योऽपि न वै देहो नरस्याऽतो निरर्थकः ।
नारीदेहो हरेरर्थे दास्या इव कृतार्थकः ।५७॥ तत्तुल्यो न नरदेहो यः कृष्णार्थो न वर्तते ।
तस्मान्मया तु कृष्णार्थः साधुसाध्व्यर्थ इत्यपि ॥५८॥ ऋषिमुन्यर्थ एवापि कर्तव्यस्तापसार्थकः ।
भुक्तं राज्यं कृतं सर्वं कर्तव्यं नाऽवशिष्यते ॥५९॥ विशालाख्यो युवा पुत्रो योग्योऽस्ति राज्यकोविदः ।
तस्मै समर्प्य राज्यं मे कार्यं कृष्णार्पणं तनु ॥4.4.६०॥ विचार्येत्थं स बदरः समाहूय प्रजाजनान् ।
प्रकाशं हृदयं कृत्वा प्राप्य प्रजामतानि च ॥६१॥ महोत्सवेन पुत्राय विशालाख्याय वै धुरम् ।
ददौ राज्यस्य धर्म्यां च मनो मोक्षेऽकरोत्ततः ॥६२॥ नरनारायणशालां समासाद्य हिमालये ।
व्यचिन्तयन्निजं देहं सतां सेवौपयोगिकम् ॥६३॥ नारायणस्य सेवायां तथा यथौपयोगिकम् ।
तस्थौ समाधौ सहसाऽऽत्मन्यात्मानं निधाय सः ॥६४॥ स्नेहातिशयमासाद्य नरनारायणप्रभौ ।
तल्लीनः सम्बभूवैव विस्मृत्य देहमात्मनः ॥६५॥ ब्रह्मानलेन सम्पूर्णो ज्ञानाऽग्निनाऽतिभासुरः ।
स्नेहशिखिना द्रवितो विदेहः सहसाऽभवत् ॥६६॥ सर्वेषां मुनिवर्याणां पश्यतां द्रवतां गतः ।
रोमलोहितमांसानि स्नाय्वस्थिमज्जिकास्ततः ॥६७॥ वीर्यं चैतानि सर्वाणि रसात्मकानि चाऽभवन् ।
बदर्याः श्रीमाणिकीश्रीरूपायाः पादभूस्थले ॥६८॥ रसः सर्वः खाद्यरूपो व्यलीयत तदा द्रुतम् ।
महाश्चर्यमिदं जातं श्रीपादयोः समर्पितः ॥६९॥ यादृशी भावना चान्ते तथा भवति देह्यपि ।
तूर्णं बदरो राजाऽसौ रसभावमुपागतः ॥4.4.७०॥ द्रवखाद्यस्वरूपो वै बद्रीमूलेष्वलीयत ।
बद्रीस्तम्बे चाविवेश रसरूपोऽतिमिष्टकृत् ॥७१ ॥ शाखासु सहसा व्याप्तः पुष्परूपोऽभवत्तथा ।
फलरूपोऽभवच्चापि बदराणि ततोऽभवन् ॥७२॥ महाश्चर्यमिदं जातं बदरेण निजं वपुः ।
कृत्वा रसं द्रवितं तत् फलरूपं प्रपादितम् ॥७३॥ बद्रीफलानि मिष्टानि तानि पक्वानि सर्वशः ।
सुगन्धीनि सुरूपाणि महान्ति तृप्तिदानि च ॥७४॥ माणिक्याश्रीगर्भजानि पावनानि तदाऽभवन् ।
प्रसादजानि सर्वाणि बदराणि तदाऽभवन् ॥७५॥ नरनारायणो देवो जग्राह कानिचित्तदा ।
नैवेद्येऽभुङ्क्त भग्वान् मधुराणि फलानि वै ॥७६॥ अथाऽन्ये ऋषयो देवा गन्धर्वा मानवाः सुराः ।
ये ये त्वासन् हिमाद्रौ ते चखदुः सत्फलानि वै ॥७७॥ एकं फलं वर्षकालतृप्तिदं तद् व्यजायत ।
मधुगर्भं समस्तं वै तापसानां हि तृप्तिकृत् ॥७८॥ चतुर्दशसु लोकेषु प्रशंसा संव्यजायत ।
सुधाश्रेष्ठानि हिमवद्गिरौ बद्रीफलानि वै ॥७९॥ नारायणप्रसादानि प्राप्यन्ते तृप्तिदानि वै ।
परम्परया त्वाकर्ण्य पितरः सिद्धचारणाः ॥4.4.८ ०॥ ऋषयो मानवा देवास्तथाऽन्ये देहिनो गिरौ ।
आययुः फललाभार्थं नारायणोऽपि सन्ददौ ॥८१ ॥ प्राप्य फलानि सर्वेऽपि सुधोर्ध्वस्वादवन्ति वै ।
अत्त्वा तृप्तिं वार्षिकीं चावापुः सर्वे सुखप्रदाम् ॥८२॥ ये येऽदन्ति फलान्यस्यास्ते ते प्रयान्ति दिव्यताम् ।
बलं पुष्टिं च वीर्यं च सहस्रधाऽऽप्नुवन्ति ते ॥८३ ॥ श्रुत्वा श्रुत्वा समायान्ति नीत्वा नीत्वा प्रयान्ति च ।
दृष्ट्वा हिमालयं बद्रीं नरनारायणाश्रमम् ॥८४॥ बदराणि विचित्राणि मोदन्ते त्वण्डवासिनः ।
महोत्सवः समस्तानां जातो बदरभोजिनाम् ॥८५॥ अब्धौ तु पर्वतं वीक्ष्य माणिक्यां बदरीं तथा ।
कृष्णनारायणं वीक्ष्य नरनारायणात्मकम् ॥८६॥ तापसं जटिनं चापि नवां सृष्टिं हि मेनिरे ।
यात्रार्थं तीर्थवर्यं वै जातं बदारकाश्रमम् ॥८७॥ सुवताराः पार्षदाश्च व्यूहा ईश्वरकोटयः ।
ईश्वराण्यः सुरा देव्यश्चाययुः फलवाञ्च्छया ॥८८॥ यथा यथा बदराणि नीयन्ते तु तथा तथा ।
द्रागेव नूतनान्येव प्रोद्भवन्ति द्रुमेऽभितः ॥८९॥ बदरोऽयं महाराजः स्नेहबदरसद्रसः ।
फलरूपोऽतिभक्त्याऽभूत् सर्वभोग्यशरीरकः ॥4.4.९०॥ अव्ययश्चाऽक्षयश्चाऽपि तथा सङ्ख्याविवर्जितः ।
दिव्यरसो ब्रह्मरसात्मकः श्रीरस उत्तमः ॥९१॥ व्यजायत कृपयाऽपि नरनारायणस्य वै ।
लक्ष्म्याश्च कृपया चापि फलपुत्रात्मकः सदा ॥९२॥ माणिक्याफलरूपः स सदा दिव्यफलोऽभवत् ।
बद्रीदेवी सफलाऽभूद् वृक्षरूपाऽपि सर्वदा ॥९३॥ नारायणोऽपि भगवान् फलपुत्राऽन्वितोऽभवत् ।
ब्रह्मचर्यव्रतस्थोऽपि बदरस्य पिताऽभवत् ॥९४॥ माणिक्याश्रीः सदा शीलव्रता च बालयोगिनी ।
बदराख्यफलैर्वंशपुत्रवती सदाऽभवत् ॥९५॥ तानौमानि बदराणि नारायणात्मकानि वै ।
लक्ष्यात्मकानि दिव्यानि मुक्तभोज्यानि चाऽभवन् ॥९६॥ तस्माद्बद्रीफलभोक्ता कृष्णमूर्तेर्महासुखम् ।
भुङ्क्ते मूर्त्यानन्दभोक्ता स एव बदरीवने ॥९७॥ अमायिकानि सर्वाणि बदराणि शुभानि वै ।
चैकतत्त्वमयान्येव सन्ति तद्बदरीद्रुमे ॥९८॥ एवं वै बदरीदेवि बदरः फलतां गतः ।
अतिभक्त्या रसभावं द्रवं प्राप्य द्रुमे स्थितः ॥९९॥ महाभागवतानां हि सर्वं कृष्णार्पणं मतम् ।
दिव्यं सर्वं भवत्येव श्रीकृष्णानुग्रहात्तथा ॥4.4.१ ००॥ मायाऽप्यमाया भवति देहोऽप्यदेह इत्यपि ।
गुणाश्चाऽगुणतां यान्ति जडं दिव्यं सचेतनम् ॥१० १॥ कृष्णार्पितं समस्तं वै कृष्णात्मकं प्रजायते ।
एवं श्रीमाणिकीदेवि तव भक्तकथानकम् ॥१ ०२॥ दिव्यं श्रीबदरीदेवि मोक्षकृत् कीर्तितं मया ।
पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं गतिं लभेत् ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वदराख्यनृपस्य स्वदेहस्यौपयोगिकतासिद्ध्यर्थं बदरीमूले तपसा भक्त्या रसात्मकता बदरात्मकफलरूपता चेत्यादिनिरूपणनामा
चतुर्थोऽध्यायः ॥४ ॥