००३

श्रीनरनारायण उवाच-
शृणु बद्रीरमे पार्वतिके यज्जातमुल्बणम् ।
विद्रावकं हि देवानां रक्षणं च यथा पुनः ॥१ ॥ सुस्थिरेषु तु देवेषु विश्वस्ते तु हिमाचले ।
यत्र हेमानलो हैमशिलातलेऽर्दितोऽभवत् ॥२ ॥ शिखरं तत् सहसैवाऽम्बरे मूलात् परापतत् ।
भूकम्पश्चापि शृङ्गेषु चान्येषु संव्यजायत ॥३ ॥ शब्दो भयङ्करश्चापि प्रलयाग्नेरिवाऽभवत् ।
मुहुर्भूधूननं जातं शिलावर्षा भुवोऽभवत् ॥४ ॥ समुत्पतन्ति तलतश्चोपला हैमभासुराः ।
हेमानलेन तलतो नोदिताः क्षेपितास्तथा ॥५ ॥ हिमे शिलातलाद्धेमासुरो बलात् पुनस्तदा ।
उत्तस्थौ योगबलतो महाश्चर्यमिदं ह्यभूत् ॥६ ॥ देवा भयङ्गताश्चान्ये ब्रह्मविष्णुशिवादयः ।
सुराद्या देहिनः सर्वे वीक्ष्योपद्रवमुल्बणम् ॥७ ॥ सस्मरुः श्रीभगवन्तं श्रीकृष्णवल्लभं प्रभुम् ।
तथा बदरं राजानं महाभागवतं तदा ॥८ ॥ हेमानलोऽपि गदया योद्धुं तदाऽम्बरेऽभवत् ।
पर्वतप्रायदेहः स हिमोपलेव भासुरः ॥९ ॥ यं यं देवं गिरौ तत्र व्यलोकयद् व्यपोथयत् ।
हाहाकारो महान् जातस्तावद् विमानकः प्रभुः ॥4.3.१ ०॥ अनादिश्रीकृष्णनारायणश्रीबदरीश्वरः।
विमानेनाऽऽगमत्तत्र यत्र हेमाऽनलोऽसुरः ॥१ १॥ वीक्ष्य दिव्यविमानं तद् योद्धुमुपाद्रवद्धरिम् ।
भगवान् गदया तूर्णं सन्नद्धश्च तदाऽभवत् ॥१२॥ श्रियं रमामवस्थाप्य विमाने बहिराययौ ।
बदरोऽपि महाराजस्तूर्णं तत्राऽप्युपाययौ ॥१३॥ वीक्ष्य हेमानलं महाऽसुरं चोज्जीवितं पुनः ।
महाश्चर्यं प्राप राजा तेनाऽयुद्ध्यद् गदाकरः ॥१४॥ कृष्णेन बदरेणापि ताडितो गदयाऽसुरः ।
जातक्लमोऽभवद् भग्नकटिः पपात भूतले ॥१५॥ बदरस्तं समुत्तोल्य जीवन्तं तत्र गर्तके ।
यत्राऽभवत् स तत्रैव चिक्षेप हिमगर्तके ॥१६॥ हिमशैलं पुनस्तत्र स्थापयामास माधवः ।
बदरश्च तदा कृष्णनारायणं परं प्रभुम् ॥१७॥ प्रार्थयामास बहुधा ह्यनुत्थाय वै पुनः ।
भगवानाह वै राजन् शृणु हैमानलीकथाम् ॥१८॥ तपस्तेपे पुराकल्पे प्रसादाय स चक्रिणः ।
हस्ते कृत्वा हरेर्मूतिं वर्षसहस्रकं तदा ॥१९ ॥ ततो वर्षसहस्रं वै त्वेकपादेन चोत्थितः ।
ततो वर्षसहस्रं वै वटशाखावलम्बितः ॥4.3.२०॥ अधोमुखस्तपस्तेपे हस्ते पश्यन् हरिं हि माम् ।
ततो वर्षसहस्रं स प्रज्वाल्याऽनलमूर्धनि ॥२१॥ लम्बमानो हि शाखायां तपस्तेपेऽतिदारुणम् ।
अनाहारस्ततो वाय्वाहारो वर्षसहस्रकम् ॥२२।
वटशाखाजटामध्ये प्रोतदेहोऽभवद्धि सः ।
शुष्कमांसाऽस्थिकुणपः शाखाजटान्तरेऽभवत् ॥२३॥ जटारूपोऽभवत्तत्र पिपीलिकाधिरोधितः ।
मृत्तिकावल्मिकैराच्छादितश्छन्नतरोऽभवत् ॥२४॥ हस्ततले मम मूर्ति चाऽत्यजन् वल्मिकोऽभवत् ।
दशवर्षसहस्रान्ते चाहं प्रसन्नतां गतः ॥२५ ॥ तस्य करे स्थितश्चाऽहं चैतन्यरसमाददन् ।
वटदुग्धं ददँश्चाप्याप्लावयं तस्य वर्ष्म तत् ॥२६॥ वर्षावेगेन च धूलीः सर्वा धूताऽभवत्ततः ।
अधोमुखः प्राप्तरसोऽसुरो हेमानलोऽभवत् ॥२७॥ शनैः सम्प्राप्तचैतन्यश्चोन्निद्र इव चक्षुषा ।
उद्धाटितेन परितो व्यलोकयत्तदा पुरः ॥२८॥ अदर्शयं मम रूपं चतुर्भुजं श्रियाऽन्वितम् ।
असुरः प्राञ्जलिर्भूत्वा नेमे मां स जटान्तरे ॥२९॥ प्राप्तमद्विषयज्ञानः प्रसन्नमानसोऽभवत् ।
जिज्ञासमान इव तु विह्वलोऽभूत्तु मां प्रति ॥4.3.३०॥ मया सम्बोधितश्चायं वरदानाय वै तथा ।
तपःसमापनार्थं च तदा वव्रे स विह्वलः ॥३ १॥ यदि त्वं वरदानाय कृष्ण प्रवर्तसे त्विह ।
यदि सत्यव्रतत्वं वै यदि योग्योऽस्मि पात्रकम् ॥३२॥ तदाऽहं ते श्रियाः पादौ वीक्ष्य मोहं गतोऽस्म्यतः ।
श्रियाः पादौ कोमलौ भासुरौ सर्वशुभाश्रयौ ॥३३॥ सुस्पृश्यौ दर्शनीयौ च देहि मे चाऽव्ययौ यथा ।
मम देहं स्पृशमानौ भवेतां चरणौ श्रियाः ॥३४॥ राज्यं तथा परं श्रेष्ठं देहि वैभवसम्भृतम् ।
सामर्थ्यं च तथा देहि भूतैः पराभवो न मे ॥३१५॥ श्रियोऽधीनो भवाम्येव नान्यस्य कस्यचित् क्वचित् ।
यदि देहि वरं तं वै तदा त्यक्ष्यामि वै तपः ॥३६॥ अन्यथा त्वमसद्वक्ता विश्वास्यो नासि माधव ।
यथागतस्तथा याहि तपश्चरामि वै चिरम् ॥३७॥ इत्येवमर्थितः कृष्णनारायणः परेश्वरः ।
सर्वेषां शृण्वतां बद्रि तथाऽस्त्वेवं जगाद ह ॥३८॥ प्राप्ते कर्मविपाके ते सर्वं सत्यं भविष्यति ।
इत्युक्त्वा भगवान् कृष्णस्तिरोभवच्छ्रियाऽन्वितः ॥३९॥ हेमाऽनलोऽयं सहसा तपस्त्यक्त्वा गृहं ययौ ।
मेरौ गत्वा स गदया युद्धार्थं च विनिर्ययौ ॥4.3.४०॥ पृथिव्यर्धं कृतं तेन कल्पेऽत्र प्राक्तपोबलात् ।
सम्राड्राजा वर्ततेऽयं तदा विष्णुरिवापरः ॥४१ ॥ स चायं बदरस्यापि राज्यं जेतुमुपाययौ ।
श्रीतरेण न केनापि भूतेन भौतिकेन वा ॥४२॥ पराभवं त्वासुरः स समवाप्स्यति वै क्वचित्॥ एवं लब्धवरश्चाऽयं हिमशैलशिलोपमः ॥४३॥ उत्क्षिप्यापि भुवो गर्भादुत्तस्थौ प्राक्तपोबलात् ।
सोऽयं क्षिप्तो बदरेण त्वया गर्तेऽत्र वै पुनः ॥४४॥ किन्तु यावच्छ्रिया पादौ तद्देहे न पतिष्यतः ।
तावन्नैव पराभाव्यश्चाऽसुरोऽयं भविष्यति ॥४५॥ श्रियाः पद्भ्यां निश्चलोऽयं भूगर्भे सन्निवत्स्यति ।
अव्ययौ चरणौ लब्ध्वा निश्चलात्मा भविष्यति ॥४६॥ तस्माद् बदर माणिक्यां श्रियं मम प्रियां त्विह ।
आराधय निवासार्थं देवकार्यार्थमित्यपि ॥४७॥ मया दत्तवरस्यापि याथार्थ्याय जयाय च ।
अन्यथा निष्फलः सर्वो यत्नस्तेऽत्र भविष्यति ॥४८॥ इत्युक्तो बदरो राजा तुष्टाव परमेश्वरीम् ।
माणिक्यां श्रीं महामुक्तानिकां श्रीबालयोगिनीम् ॥४९॥ ‘नमश्चराचरस्थायै चमत्कारमयीश्रियै ।
नारायण्यै ह्यभेदायै बालकृष्णाङ्गयोषिते ॥4.3.५०॥ नमः श्रीपुरुषोत्तम्यै हरिण्यै ब्रह्मयोषिते ।
नमोऽनादिकृष्णनारायणाङ्गनायै ते नमः ॥५१ ॥ नमो माणिक्यवर्णायै धारिण्यै श्रीहरेर्नमः ।
नमः श्रीकृष्णकान्तायै पारब्राह्म्यै नमोनमः ॥५२॥ भक्तकार्यातिसम्पादयित्र्यै मात्रे नमोनमः ।
प्रसन्ना भव देवेशि हेमानलप्रशान्तये ॥५३॥ महासुरोऽयं श्रीकान्तामृते मृधो न जायते ।
त्वं मातस्तन्मर्दनं वै कुरु देवार्थसाधिके ॥५४॥ नमस्तस्यै सर्वहन्त्र्यै रक्षयित्र्यै च ते नमः ।
महानारायणपत्न्यै माणिक्यायै च ते नमः ॥५५॥ एवमभ्यर्थ्य तां शक्तिं हृदा पूजां चकार सः ।
अर्पयामास पुष्पाणि माणिक्याचरणे तदा ॥५६॥ तावत् सा परमा लक्ष्मीश्चाक्षरब्रह्मवासिनी ।
पुरो बभूव सहसा प्रसन्नास्या हि सुप्रभा ॥५७॥ अनादिश्रीकृष्णनारायणरूपानुरूपिणी ।
युवती तेजसा व्याप्ता चक्रपद्मादिधारिणी ॥५८ ॥ अङ्कुशं शूलमुत्कृष्टं दधाना करयोस्तथा ।
कृष्णं कान्तं प्रियं प्राणं वीक्षमाणा पुनः पुनः ॥५९॥ आज्ञां वोढुं सत्वरा सा तत्परा बलशालिनी ।
तन्वी प्रपूर्णपुष्टास्या नवयौवनशालिनी ॥4.3.६०॥ स्वर्णवर्णा कनकाभा पद्मायतसुलोचना ।
शुकनासा कुन्ददन्ता बिम्बौष्ठी शीतलस्पृशा ॥६१ ॥ विद्युद्भास्वरवस्त्राढ्या कौस्तुभेन विराजिता ।
कर्णनासाभालबाहुप्रकोष्ठपादभूषणा ॥६२॥ कट्यां रशनया युक्ता शृङ्गारकज्जलान्विता ।
कबरीधम्मिलशोभा सिन्दूरचन्द्रकान्विता ॥६३॥ सुस्तनी सुनितम्बा च सुमध्या च सुगन्धिनी ।
तेजःपरिधिसंव्याप्ता चन्द्राभनखशोभिता ॥६४॥ अलक्तकातिसौन्दर्या स्वर्णरोमावलिश्रिता ।
प्रेमरसमहापूर्णा कृष्णनारायणी प्रिया ॥६५॥ सुगन्धिपुष्पहारालिव्याप्तवक्षःस्थलोत्तमा ।
स्थलपद्मनिभसक्थिद्व्यशोभामनोहरा ॥६६ ॥ कृष्णनारायणं कान्तं त्यक्तुं नेच्छावती सदा ।
गृहीतश्रीकृष्णकरा नित्ययुक्ता महासती ॥६७॥ भगवत्प्रेमपात्रं सा श्रीकृष्णाङ्गनिवासिनी ।
शीतशैलसमा देहे तापसीव परेश्वरी ॥६८॥ सर्वैश्वर्यादिसम्पन्ना वात्सल्यगुणसागरा ।
लावण्याऽऽनन्त्यसञ्जुष्टा नैकसखीप्रवन्दिता ॥६९॥ भगवन्मुखलग्नाक्षी पूर्णानन्दातिमोदिनी ।
हसमाना बदरं सा जगाद् पुरुषोत्तमौ ॥4.3.७०॥ वद राजँस्तव श्रेयो विधास्ये सहसा त्विह ।
सुरकार्यं कृष्णकार्यं विधास्ये द्रुतमत्र च ॥७१॥ श्रुत्वा राजाऽसुरचूर्णनार्थं व्यजिज्ञपच्छ्रियम् ।
नारायणेच्छया सापि पद्भ्यां हन्तुमुपाद्रवत् ॥७२॥ तावद् दैत्यवरो गर्ते हिमोपलात्मकोऽभवत् ।
नारायणस्तदा लक्ष्मीं माणिक्यां प्राह सत्वरम् ॥७३॥ नारायणि द्रुतं त्वत्र पद्भ्यां तिष्ठाऽसुरोपरि ।
तव पद्भ्यां हतः स्पृष्टोऽसुरः पुनर्न वै बहिः ॥७४॥ उद्गमिष्यति दुष्टात्मा वरदानबलात्तथा ।
कुरु कार्यं बदरस्य देवानां च हितावहम् ॥७५॥ तदा तु खिन्नचित्ता श्रीमाणिक्या त्ववदत् प्रभुम् ।
कथमेकाकिनी कृष्णमृते न्वत्र वसामि वै ॥७६॥ अनादिश्रीकृष्णनारायणस्त्वं मे पतिः सदा ।
पत्नी चाहं तव कृष्ण पातिव्रत्यपरायणा ॥७७॥ पतिं विना क्षणं स्थातुं नोत्सहे विजने हिमे ।
यथेष्टं कुरु कृष्ण त्वं शाधि धर्म्यं व्रतं मम ॥७८॥ श्रूत्वा विचारमकरोद् भगवान् भूतभावनः ।
माणिक्ये त्वं भव बद्री बहुपादा द्रुमात्मिका ॥७९॥ अङ्कुशं शूलमेवापि कण्टकौ ते महायुधे ।
भवतां पत्रसहिते सर्वासुरविनाशके ॥4.3.८०॥ सदा त्वं तापसी वार्क्षी बदरी भव शोभना ।
पादैर्हेमानलं स्पृष्ट्वा भूगर्भे तं प्रपेषय ॥८ १॥ निश्चला शाश्वती देवी बद्रीदेवी सदा भव ।
बदरेण स्तुता राज्ञा वदरेणाभिवाञ्च्छिता ॥८२॥ बदरेण तथाऽऽकृष्टा त्वायाताऽसि यतस्त्विह ।
बदरीतिसदानाम्ना सफला त्वं भविष्यति ॥८३॥ बद्रिकाश्रम एवाऽयं दिव्यावासो भविष्यति ।
अहं नित्यं बदर्यास्ते छायायां तापसोत्तमः ॥८४॥ धर्मपुत्रो नरनारायणात्मा सम्भवामि च ।
जटी शीली ब्रह्मचारी त्वन्मूलावासशोभनः ॥८५॥ भवाम्यत्र जगत्कल्याणार्थं नरनरायणः ।
यावच्चन्द्रस्तथासूर्यो यावत् स्थास्यति मेदिनी ॥८६॥ तावत्तापसवेषोऽहं तापसी त्वं तु बद्रिके ।
निवत्स्यामोऽत्र धवले शीतले हिमकाश्रमे ॥८७॥ हेमानलोऽपि भूगर्भे तव पादतले सदा ।
सम्पिष्टस्तव भक्तो वै सुषुप्तः सम्भविष्यति ॥८८॥ श्रेयो जगतां परमं तथा स्यात्तत्तथा कुरु ।
इत्युक्त्वा माणिकीदेवी बभूव बद्रिका द्रुतम् ॥८९॥ हेमानलासुरमूर्ध्नि कृत्वोपलाप्रवर्षणम् ।
पादाँस्तत्र निधायैव माणिक्या सा स्थिराऽभवत् ॥4.3.९०॥ बद्रीरमा महादिव्या वार्क्षी देवी तु शाश्वती ।
तापसी तापसेनापि नारायणेन संयुता ॥९१ ॥ न्यवसत्तत्र सहसा धर्मपुत्रेण चक्रिणा ।
उपद्रवाः प्रशान्ताश्चाऽसुरभीतिर्लयं गता ॥९२॥ देवाद्या निश्चलास्त्वासन् पुपूजुर्बदरीश्वरीम् ।
नरनारायणं कृष्णनारायणं समर्चयन् ॥९३॥ बद्रीनाथं बद्रिकां च बदरं च नृपं तथा ।
बद्रिकाश्रममेवैनं स्थलं प्राहुः सुरादयः ॥९४॥ दिव्यं च पावनं बद्रीश्वरि त्वद्वासशोभनम् ।
तत आरभ्य देवा वै मासषट्कं पुनः पुनः ॥९५॥ तीर्थं कुर्वन्ति हिमवच्छिखरे बद्रिकाश्रमे ।
मासद्वयं तु पितरश्चतुर्मासाँश्च मानवाः ॥९६॥ बद्रिकाश्रमयात्रां ते कृत्वा हेमानलासुरम् ।
पापरूपं हृदयस्थं चार्दयन्ति हिमालये ॥९७॥ भूत्वा ते पावना बद्रीश्वरि ते दर्शनात्तथा ।
ममापि दर्शनात् पूता मुक्ता भवन्ति देहिनः ॥९८॥ यथाऽक्षरे परे धाम्नि ब्रह्मलोके वसाम्यहम् ।
माणिक्यासहितस्तद्वच्चात्र बद्रिकया युतः ॥९९॥ वसामि सर्वथा बद्रि लोकानां श्रेयसां कृते ।
एवं त्वं सर्वथा श्रेष्ठा सर्वपादपपूजिता ॥4.3.१ ००॥ तापसी वर्तसे त्वत्र हिमाद्रौ मत्सधर्मिणी ।
नारायणी त्वं बदरी माणिक्या वाहिनी मम ॥१०१ ॥ नारायणोऽहं भगवान् नरयुक् पुरुषोत्तमः ।
नरनारायणनाम्ना भजनीयो भवामि ह ॥१ ०२॥ एवं ते वै समाख्यानं प्रोक्तं श्रीबदरीश्वरि ।
बदरस्य सुभक्तस्य भक्त्या सम्भृतमुत्तम् ॥१ ०३॥ बदरोऽपि सदा भक्त्या रसरूपो व्यजायत ।
फलात्मा ते बदर्या वै वर्तते ते सुतो यथा ॥१ ०४॥ बीजं फले नररूपं फलगर्भे वसाम्यहम् ।
तेन त्वन्या बदर्योऽत्र प्रजायन्ते हि बद्रिके ॥१ ०५॥ एतत्स्थानं प्रतीकं मे मूलं स्थानं तु मे गिरौ ।
इतो दूरे दिव्यरूपं यस्य यात्रा न जायते ॥१ ०६॥ पश्य त्वं माणिकि तद्धि मानवानां न दृष्टिगम् ।
न गतिर्मानवानां तु मुक्तानां गतिरस्ति यत्॥१ ०७॥ पठनाच्छ्रवणादस्य स्मरणान्मोक्षणं भवेत् ।
आसुरोपद्रवशान्तिस्तथा ब्रह्ममयी गतिः ॥१ ०८॥ सर्वश्रेयःप्रदाशक्तिः प्रजायेत परा यथा ।
सर्वाः श्रियो वसेयुश्च बद्रीकथाश्रवाऽन्तिके ॥१ ०९॥ भुक्तिर्मुक्तिर्भवेच्चापि न तिष्यस्य पराभवः ।
नरनारायणश्चाऽहं श्रोतुश्चित्ते वसामि हि ॥4.3.१ १० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पुनहेम्मानलोत्थानं, शिखरक्षेपाद्युपद्रवाः, बदरेण हरिणा च गर्ते निक्षेपः, हेमानलस्यपूर्वतपःकथा, वरदानं श्रीपादाक्रान्तत्ववरप्राप्तिः, श्रीमाणिक्यायास्तन्मर्दनार्थं बदरीरूपता, तत्पादैर्मर्दनं, श्रीकृष्णनारायणस्य नरनारायणरूपता, बदरस्य फलरूपता, नरस्य बीजरूपता, बद्रिकाश्रमतीर्थप्राकट्यं, मूलं बद्रिकाश्रमं तु भिन्नं दूरे चेत्यादिनिरूपणनामा तृतीयोऽध्यायः ॥३ ॥