२३५

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं जीर्णोद्भवस्य सत्कथाम् ।
आरामनगरे वीणानदीतीरेऽतिविस्तरे ॥१ ॥ जीर्णोद्भवाभिधश्चासीत् कर्षुकः कृषिमान्महान् ।
शतपुत्रः शतभृत्यो विंशतिस्त्रीपतिर्बली ॥२ ॥ शतपुत्रीपिता पौत्रचतुःशताभिशोभनः ।
पौत्रीशतद्वयशोभन्महासौधनिवासकृत् ॥३ ॥ एवं विशालवंशाढ्यः कृषीवलोऽतिपावनः ।
धर्मदानरतो नित्यं गोसेवादिपरायणः ॥४ ॥ पञ्चशतं गोधनं तु महिषीद्विशतं तथा ।
अश्वशतं वर्ततेऽस्य वृषभाष्टशतानि च ॥५ ॥ क्षेत्राणि वाटिका महोद्यानानि सस्यभूमयः ।
घासबीडमरण्यं च भूम्युच्छ्रयोऽस्य सन्ति च ॥६ ॥ योजनं भूतलं वीणानदीतीरेऽस्य वर्तते ।
तत्र कृषिं करोत्येषो बीजाधानं यथर्तु च ॥७ ॥ धान्यानि विविधान्येव जायन्तेऽन्नानि सर्वशः ।
द्विदलाः कन्दमूलानि भवन्ति पुष्पपत्रिकाः ॥८ ॥ फलानि कणिशाः शिम्ब्यो भवन्ति वेषवाटकम् ।
ग्रन्थयो दण्डसस्यानि शाकानि भाजिकास्तथा ॥९ ॥ आरनालानि सर्वाणि तिक्तकटूनि यानि च ।
भवन्त्यस्य महावाट्यादिषु क्षेत्रेषु सर्वथा ॥3.235.१ ०॥ ओषधयोऽपि विविधाः प्रजायन्ते प्रसेचिताः ।
नरा नार्यः प्रयतन्ते कृष्युद्यमपरायणाः ॥११ ॥ उत्पादयन्ति बीजोप्त्या खाद्यान्नानि बहून्यपि ।
उत्पन्नेभ्यः समस्तेभ्यो विंशत्यंशं प्रपूर्णकम् ॥१२॥ धर्मार्थं स ददात्येव दानपूजादिकर्मसु ।
जीर्णोद्भवगृहे नित्यमनाथाः साधवो द्विजाः ॥१ ३॥ भिक्षुका यात्रिणः साध्व्यो दीना अदन्ति भोजनम् ।
दधीनि पिच्छलान्येव पयांसि मधुराणि च ॥१४॥ घृतानि पुष्टियुक्तानि शर्करा गूडकाँश्च वै ।
मधूनि मिष्टगरिष्टान्नानि श्रेष्ठानि भुञ्जते ॥१५॥ अर्पयन्ति हरये मे पक्वान्यन्नानि तेऽन्वहम् ।
एवं धर्मप्रसङ्गेन वर्धन्ते चास्य सम्पदः ॥१६॥ न हीयन्ते पुण्यवशाद् भुज्यमानाश्च साधुभिः ।
अथाऽस्य भाग्यमेवाऽपि बहुस्मृद्धं व्यजायत ॥१७॥ यद्गृहे वै मखाः पञ्च सम्पाद्यन्ते द्विजैः सदा ।
मखेऽस्याऽभ्यागतः साधुर्नाम्ना चैतन्यकाऽऽयनिः ॥१८॥ महाभागवतो भक्तोत्तमस्त्यागविरागवान् ।
आययौ स्वागतं तस्य जीर्णोद्भवश्चकार ह ॥१९॥ जलं शुभासनं मिष्टं मधुपर्कं ददौ नमन् ।
वासं च हरिशालायां ददौ सेवां चकार च ॥3.235.२०॥ रात्रौ देवार्चनं कृत्वा भुक्त्वा चैतन्यकायनिः ।
चक्रेऽनादिकृष्णनारायणलीलादिकीर्तनम् ॥२१॥ ब्रह्मणोऽस्य त्रिपञ्चाशद्वत्सरेषु हरेर्जनिम् ।
अकीर्तयत्तत्र तत्र कृता लीलाः प्रमोक्षदाः ॥२२॥ ततः स स्तवनं चक्रे शुश्रुवुः सर्वकर्षुकाः ।
यः परब्रह्म भगवान् श्रीकृष्णो वल्लभः प्रभुः ॥२३॥ अक्षरे परमे व्योम्नि राजते मुक्तसेवितः ।
यस्माद् भवन्ति सृष्टौ वै प्राविर्भावा अनेकशः ॥२४॥ सोऽयं श्रीकम्भरापुत्रश्चास्ते गोपालबालकः ।
सौराष्ट्रे कुङ्कुमवापीक्षेत्रेऽश्वपट्टसारसे ॥२५॥ यत्र श्रीलोमशश्चास्ते ब्रह्मप्रिया वसन्ति च ।
सर्वतीर्थानि देवाश्चेश्वरा विभूतयः श्रियः ॥२६॥ लक्ष्मीराधारमापद्मावतीश्रीर्माणिकीप्रधीः ।
हरिप्रिया वसन्त्येताः श्रीकृष्णब्रह्मयोषितः ॥२७॥ असङ्ख्याः साधवो यत्र स्वतःप्रकाशरूपिणः ।
दिव्या वसन्ति ऋषयः शरण्यं प्रभजन्ति च ॥२८॥ नमस्तस्मै नृनाट्याय सर्वान्तर्यामिणे नमः ।
आभ्यन्तरेभ्यः शधुभ्योऽवनं करोति यो हरिः ॥२९॥ नमस्तस्मै कृष्णनारायणाय परमात्मने ।
आध्यात्मिकेभ्यस्तापेभ्यश्चाधिदैविकतस्तथा ॥3.235.३०॥ आधिभूतादिकष्टेभ्यो रक्षकाय नमोनमः ।
सामन्तविक्रमात् क्रूराल्लुण्टकाद् वनचन्द्रकः ॥३१ ॥ सुखादेवी च तत्पत्नी वणिजो येन रक्षिताः ।
सायनायनसाधोस्तु समागमेन मोक्षिताः ॥३२॥ स कृष्णो वर्तते रक्षाकरस्तस्मै नमोनमः ।
धनिष्ठकोषं विप्रं च वाराङ्गनासु वर्तितम् ॥३३।.
स्नेहलतां च तत्पत्नीं गुरुं सोमायनं तथा ।
नृपं मालवसिंहं च ररक्ष मोक्षणं ददौ ॥३४॥ नमस्तस्मै परेशाय श्रीकान्ताय तु शार्ङ्गिणे ।
राजीवाख्यं नृपं राज्ञीं साध्वीं कुन्दनदेविकाम् ॥३५॥ अरक्षयत् तथाऽमोक्षयद् यस्तस्मै नमोनमः ।
देवविश्रामस्य रक्षां काण्डिकायाश्च मोक्षणम् ॥३६॥ कृतं येन च तस्मै श्रीहरये वै नमोनमः ।
हर्षुलमालिनं पत्नीं तस्य विद्रुमवल्लकीम् ॥३७॥ उद्दधार हरिर्यः श्रीपतिस्तस्मै नमोनमः ।
शाणधरं पितृहणं कर्षुकं च ररक्ष यः ॥३८॥ वृषहं निम्बदेवं च तस्मै कृष्णाय ते नमः ।
भाण्डं कालीन्दरं साधुकमलायनयोगतः ॥३९॥ मोक्षणं चाप्रापयद् यस्तस्मै कृष्णाय ते नमः ।
नर्तकं रायणदेवं बोधायनस्य योगतः ॥3.235.४०॥ गायकं नाकिरालाख्ये पत्तने तु व्रतर्दिनम् ।
राजानं पुण्ड्रवर्माणं य उद्दधार ते नमः ॥४१ ॥ वायकं तूलवायाख्यं समुद्दधार यः प्रभुः ।
काष्ठहारं तथा जङ्गलदेवं ते नमोनमः ॥४२॥ पण्यकृद्वात्सल्यधीरं पत्नीं मञ्जुलिकां तथा ।
साधुं साध्वीं कृतवान् यस्तस्मै तुभ्यं नमोनमः ॥४३॥ तिलकरङ्गं वनपं शिखादेवीं च तत्प्रियाम् ।
उद्दधार हरिर्यः स हृदयस्थोऽपि रक्षतु ॥४४॥ क्षेत्रपं नाञ्जकदेवं तथा स्तेनमहामयम् ।
उद्दधार हरिर्यश्च तस्मै कृष्णाय वै नमः ॥४५॥ किरातं सागराख्यं तत्पत्नीं च सारिकां तु यः ।
उद्दधार हरिर्यश्च तस्मै श्रीपतये नमः ॥४६॥ हूणं सारङ्गनामानं ररक्ष यश्च ते नमः ।
यज्ञराधं पुष्कसं च ब्रह्मायनप्रसङ्गतः ॥४७॥ कुटुम्बयुक्तं यः कृष्णोऽमोक्षयत्ते नमो नमः ।
कपिक्षयं तु चाण्डालं प्राज्ञेश्वरं द्विजं तथा ॥४८॥ अमोक्षयद्धरिर्यश्च तस्मै कृष्णाय ते नमः ।
नालीकरं लोहकारं पत्नीं कुन्दनिकां च यः ॥४९॥ अमोक्षयद् भवपाशात्तस्मै श्रीविष्णवे नमः ।
चर्मकारं मङ्गलाख्यं पत्नीं विभावरीं च यः ॥3.235.५०॥ विषाद् ररक्ष भगवान् यस्तस्मै वै नमोनमः ।
रथकारं हरिदासं पत्नीं श्रीमानवीं तु यः ॥५१॥ अमोक्षयत् प्रभवे ते वारं वारं नमोनमः ।
शिलाहारं दामशिलादकं पत्नीं कलाभिधाम् ॥५२॥ तद्भृत्याँश्चाऽमोक्षयद् यस्तस्मै कृष्णाय ते नमः ।
शिल्पिनं सञ्जयदेवं पत्नीं केशवतीं च यः ॥५३॥ राजानं खड्गवर्माणं तथाऽन्यान् शिल्पिनोऽपि च ।
उद्दधार हरिस्तस्मै बालकृष्णाय वै नमः ॥९४॥ चित्रकृत्सम्भरदेवं च चित्रंसरितां प्रियाम् ।
चित्रकारानपरान् योऽमोक्षयत्ते नमोनमः ॥५५॥ अङ्गारहारिणं मौक्तिकेशिनं तु निजाश्रितम् ।
तथाऽपरान् कर्मचारान् यो ररक्ष च ते नमः ॥५६॥ चक्रधरं लुब्धकं यः पौतिमाष्योपदेशतः ।
अमोक्षयद्धि संसारात्तस्मै कृष्णाय ते नमः ॥५७॥ वाटधरं पिशुनं यो नृपं सुतारसिंहकम् ।
घट्ययनप्रसङ्गेनाऽमोक्षयत्ते नमोनमः ॥९८॥ वाटधरं सवासं च द्वैपीराज्ञीमरक्षयत् ।
अमोक्षयच्च यः कृष्णस्तस्मै नित्यं नमोनमः ॥५९॥ गृहकारं शिवजयं वृषपर्वप्रसङ्गतः ।
अमोक्षयत्तु यः कृष्णस्तस्मै श्रीहरये नमः ॥3.235.६०॥ यश्च सङ्गरयादस्कं जालकारममोक्षयत् ।
पत्नीं रूपावतीं शुक्लायनर्षिसेवया हरिः ॥६१ ॥ तथा जात्या भरवाटमुद्यमश्रीतिनामकम् ।
सतीश्वरीं च तत्पन्नीं वल्लवीश्चोद्दधार यः ॥६२॥ उष्ट्रपालं दीर्घरम्भं रामायनप्रसङ्गतः ।
उद्दधार हरिर्यस्तं वल्लभं प्रणमे प्रभुम् ॥६ ३॥ रत्नप्रभं खरपालं नृसिंहस्वामियोगतः ।
उद्दधार हरिर्नारायणस्तं प्रणमाम्यहम् ॥६४॥ गदार्दनेश्वरं वैद्यं तत्पन्नीं च मुकुन्दिनीम् ।
अमोक्षयद्धि संसाराद् यस्तं नमामि मापतिम् ॥६५॥ कीशनकुलपालस्य देश्यावनस्य मोक्षणम् ।
तत्पत्न्याः पुरिकायाश्च चक्रे यस्तं नमामि वै ॥६६॥ नापितं हर्षधर्माख्यं पत्नीं निगमिकां च यः ।
भूभृतं स्वर्णधन्वानं राज्ञीं च पञ्चदेविकाम् ॥६७॥ कल्याणधामसाधोस्तु समागमेन तान् प्रभुः ।
उद्दधार हरिर्नारायणस्तं प्रणमामि वै ॥६८॥ यश्च रूटाणकीदेवीमाभीरीं दैत्यधर्षिताम् ।
अरक्षयद् ब्रह्मप्रियामध्ये रूपेश्वरीं तु ताम् ॥६९॥ मन्दारकलिकाद्याश्च तथाऽन्या दिव्यरूपिणीः ।
व्यधाच्छ्रीभगवान् पत्नीस्तं नमामि जनार्दनम् ॥3.235.७० ॥ धीवरं धीरपर्वाणं निर्वाणायनयोगतः ।
कृत्वा तु पावनं कृष्णोऽमोक्षयत्तं नमाम्यहम् ॥७१ ॥ तारकादर्शकं शूलारोपकं चोद्दधार यः ।
सुपथानकभूपं च कृतशल्यां शूल्यङ्गनाम् ॥७२॥ उद्दधार जटी भूत्वा हरिश्रीकृष्णनन्दनः ।
गोपालनन्दनं कृष्णं वल्लभ तं नमाम्यहम् ॥७३॥ ज्वालाप्रसादनामानं चाग्निदं च प्रभावतीम् ।
नारायणायनयोगादमोक्षयन्नमामि तम् ॥७४॥ लवादनं तु गरदं नृपं श्रीमानवेश्वरम् ।
शान्तेश्वरं युवराजं सूर्यकान्तं तु सैन्यपम् ॥७५॥ किंशुकायनयोगेन समुद्दधार यः प्रभुः ।
श्रीकृष्णन्देशिकं भक्तहृदयस्थं नमामि तम् ॥७६॥ विखण्डलं शस्त्रधरं भार्यां हरसतीं च यः ।
निर्मोहनायनयोगादमोक्षयच्च ते नमः ॥७७॥ एवं लक्ष्मि स्तवनं वै साधुश्चैतन्यकायनिः ।
चक्रे नेमे हरिं सर्वस्थितं च परितस्तदा ॥७८॥ श्रुत्वा दृष्ट्वा कर्षुकास्ते पराश्चर्यं प्रपेदिरे ।
जीर्णोद्भवः कर्षुकेशो नत्वा पप्रच्छ तं मुनिम् ॥७९॥ येषां रक्षा तथा मुक्तिः कृता श्रीपरमात्मना ।
किमत्र कारणं तन्मे ब्रूहि चैतन्यकायने ॥3.235.८०॥ श्रुत्वा मुनिस्तु तानाह मन्त्रं नारायणस्य मे ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥८ १ ॥ जप मन्त्रमिमं नित्यं जपन्त्वन्ये मुमुक्षवः ।
भुक्तिर्मुक्तिर्भवेदेव साक्षान्नारायणो भवेत् ॥८२॥ आपत्काले महारक्षां विदध्यात्परमेश्वरः ।
इत्युक्त्वा विररामाऽसौ निद्रां जग्राह मां स्मरन् ॥८३ ॥ कर्षुका निद्रिताश्चासन् जपन्तो मन्त्रमेव तम् ।
प्रातरुत्थाय साधुस्तु स्नात्वा प्रपूज्य मां ततः ॥८४॥ निवेदितान्नं भुक्त्वा च प्राप्य पूजां ययौ वनम् ।
कर्षुकास्ते नित्यमेव जपन्ति मन्त्रमुत्तमम् ॥८५॥ पूजयन्ति हरिं मां च कुर्वन्त्यपि महोत्सवान् ।
चातुर्मास्ये कृतवन्तो व्रतानि विविधानि मे ॥८६॥ अथाऽऽश्विने वाटिकासु क्षेत्रेषु वनभूमिषु ।
अरण्येषु च बीडेषु स्तम्बसस्यतृणानि च ॥८७॥ फलद्रूपाणि सर्वाणि कणिशान्यभवन् यदा ।
धान्यर्द्धिसम्भृतान्येव पक्वप्रायाणि सर्वथा ॥८८॥ चतुर्योजनभूमौ वै क्षितिः सा सस्यशालिनी ।
पक्वपत्रौषधिभिश्च स्वर्णवर्णा प्रशोभते ॥८९॥ अथ वै दैवयोगेन वायुवेगेन सीमतः ।
उपरिस्थप्रदेशाद्वै वह्निः कर्षुकचुल्लिकाम् ॥3.235.९० ॥ त्यक्त्वा च वायुनोत्क्षिप्तः सहसा सस्यभूमिषु ।
शुष्कतृणेषु चाऽव्याप्नोत् ततः सस्येषु सर्वतः ॥९१ ॥ ततः क्षेत्रेषु कणिशैः सस्ययुक्तेषु सर्वतः ।
दावाग्निवत् स चाऽव्याप्नोत् क्रोशार्धं प्रससार ह ।९२॥ हाहाकारः कर्षुकस्य प्रजायामभवत्तदा ।
दुद्रुवुः शान्तये वह्नेः सहस्रशो हि मानवाः ॥९३॥ किन्तु वायुप्रवेगेण चोड्डीयोड्डीय दूरगः ।
व्योम्ना भूत्वाऽन्यवाट्यां च परे क्षेत्रे ससार ह ॥९४॥ निरोऽद्धुं शक्यते नैव भयदः प्रससार वै ।
उत्पन्नकणनाशार्थः सर्वतृणादिदाहकः ॥९५॥ दुर्भिक्षापादकरूपः प्रससार समन्ततः ।
कृतयत्ना जनाः सर्वे निराशाश्चाभवँस्तदा ॥९६ ॥ चैतन्यायनतः प्राप्तं मन्त्रं जेपुः प्ररक्षकम् ।
एकैकां मालिकामावर्तयन् यावत्तु ते स्थिराः ॥९७॥ स्मरन्तो हृदये रक्षाकरं मां दुःखनाशनम् ।
तावन्मया हि रक्षार्थं चिन्तितं चाम्बरे द्रुतम् ॥९८॥ मेघमुद्भाव्य वृष्टिं वै विद्युद्गर्जनया युताम् ।
अकरवं घटिकान्ते सस्याग्निः प्रशशाम ह ॥९९॥ क्रोशमात्रे भस्मसाद्वै जातं यत्तत्र सर्वथा ।
विशेषतोऽकरवं वै वृष्टिं सस्यसमृद्धये ॥3.235.१०० ॥ पुनस्तत्र हि सस्यानि तृणानि कणिशानि वै ।
व्यजायन्त यथापूर्वं यथर्त्वनुसृतानि वै ॥१०१ ॥ एवं मया तदा लक्ष्मि वृष्ट्यऽग्निः शामितः खलु ।
ततश्च कर्षुकैः सर्वैरन्नकूटो नवः कृतः ॥१ ०२॥ नवे वर्षे सर्वमिष्टान्नानि शाकानि यानि च ।
ओदनानि द्विदलाश्च क्षारान्नानि पराणि च ॥१० ३॥ भर्जितान्नानि रस्यानि स्वादूनि चोत्तमानि च ।
पक्वान्नानि सुधाक्तानि पायसान्युत्तमानि च ॥१ ०४॥ निवेदितानि सर्वाणि मह्यं विशालमन्दिरे ।
तत्र मूर्तावहं लक्ष्म्या साकं प्रत्यक्षतां गतः ॥१ ०५॥ बुभुजे सर्वभक्ष्याणि भोज्यानि लेह्यकानि च ।
चोष्याण्यपि च पेयानि तथा ताम्बूलकानि च ॥१ ०६॥ चतुर्भुजः प्रभुः साक्षाद् भुक्त्वा दत्वा प्रसादजम् ।
नीराजनां तथा पूजां लब्ध्वा तूर्णं तिरोऽभवम् ॥१ ०७॥ आश्चर्यं लेभिरे सर्वे वैष्णवा मत्प्रसादजम् ।
बुभुजिरे च ते दिव्या व्यजायन्त च पावनाः ॥१ ०८॥ नित्यं चक्रुश्च मे भक्तिं सर्वे कुटुम्बिनस्तु ते ।
अथ काले चागते च यथाक्रमं यथोचितम् ॥१ ०९॥ अनयं स्वं पदं दिव्यमक्षरं कर्षुकान् रमे ।
शतं तु कन्यकाः सर्वाः स्वामिव्रतपरायणाः ॥3.235.११ ०॥ भजित्वा मां प्रजाता वै ब्रह्मप्रियास्तवाश्रिताः ।
इमास्ता देवमणिकाप्रभृतयस्त्वदालये ॥११ १॥ वर्तन्ते दिव्यदेहिन्यः सर्वथा कृष्णगोपिकाः ।
अन्ये मुक्ता अभवँश्च ममाराधनया रमे ॥१ १२॥ एवं लक्ष्मि मया भक्ताः कर्षुका मोक्षितास्तदा ।
पठनाच्छ्रवणादस्य स्मरणाद्वर्तनादपि ॥१ १३॥ जायन्ते मुक्तसदृशा ममाऽऽनन्दप्रभोगिणः ।
सर्वकामप्रपूराश्च मदन्यूना मदात्मकाः ॥१ १४॥ श्रीनारायणीश्रीरुवाच-
हरे स्वामिन् पते सर्वसुखदे स्नेहपात्रिका ।
भक्ता पत्नी तव तोषार्थं कथं स्यात् सुरूपिणी! ॥१ १५॥ श्रीपुरुषोत्तम उवाच-
सर्वाङ्गसुन्दरी नैजां भवितुं व्रतमुत्तमम् ।
मम कुर्याज्जन्मजयन्त्याख्यमूर्जाऽसिताष्टमीम् ॥१ १६॥ उपावसेत्तु वा फलं पयो दध्यादि भक्षयेत् ।
यथालब्धोपचारैर्मां श्रीयुक्तं पूजयेत् सती ॥१ १७॥ चन्द्रवन्मुखलाभार्थं स्वर्णचन्द्रं ददेत्तु मे ।
नेत्रभ्रुभालशोभार्थं स्वर्णपत्रत्रयं ददेत् ॥११८॥ कपोलकर्णनासौष्ठसौष्ठवार्थं सुवर्णजम् ।
स्वर्णपत्रशष्कुलीसत्पुष्पबिम्बानि वै ददेत् ॥१ १९॥ दन्तस्वरसुगन्धार्थं स्वर्णकुन्दप्रदा तथा ।
शर्कराकेसरकैशरादिप्रदा भवेद् व्रते ॥3.235.१२०॥ सुस्तनार्थं दाडिमादिफले स्वर्णे ददेत् व्रते ।
सुशोभितकरार्थं तु स्वर्णेक्षुदण्डमर्पयेत् ॥१२१ ॥ सुपार्श्वोदरवक्षोऽर्थं स्वर्णकलशपट्टिकाः ।
स्वर्णरूप्यफलकानि दद्यात् सौन्दर्यदानि हि ॥१ २२॥ रशनास्तनुकट्यर्थं श्रोण्यर्थं द्वौ घटौ ददेत् ।
स्वर्णजौ योनिसौक्ष्म्यार्थं स्वर्णोर्मिकाश्च मौक्तिकान् ॥१ २३॥ स्वर्णकपर्दिकां शङ्खलिकां शुक्तिं ददेत्तथा ।
अलोमजघनार्थं तु ददेत् पात्रं सुवर्णजम् ॥१२४॥ योन्यारोग्यकृते दद्यात् कस्तूरीहीरकादिकम् ।
चारुसक्थिकृते दद्याद् रूप्यकदलिकाद्वयम् ॥१२५॥ स्वेष्टलिङ्गपादजङ्घाचार्वर्थं कदलीफलम् ।
वाहनं पादुके स्वर्णे रजोऽर्थं मौक्तिकान् ददेत् ॥१ २६॥ लक्ष्मीं नारायणं साध्वीं प्रसाद्य सर्वमाप्नुयात् ।
व्रतोत्तरदिने साधून् भोजयेत् फलमाप्नुयात् ॥१२७॥ इति ते कथितं सर्वं सर्वकामप्रपूरकम् ।
सर्वा नार्यो लभेरन् मे व्रते दानेन वाञ्च्छितम् ॥१ २८॥ इत्येवं ते कथितानि चरित्राणि निजानि वै ।
भक्तरक्षाकराण्येव षोडशे वत्सरे मम ॥१२९॥ त्वया श्रुतानि सर्वाणि मनोऽभिलषितानि वै ।
साधुमाहात्म्ययुक्तानि महामोक्षप्रदानि च ॥3.235.१ ३०॥ कृपयैव मयोक्तानि श्रेयसे स्मरतां रमे ।
ध्यायतां मुक्तये चापि वदतां पापनुत्तये ॥१३१ ॥ महानन्दप्रदान्येव तादाऽत्म्यभावयोगिनाम् ।
सर्वस्वार्पितनारीणा ब्रह्मप्रियात्वदानि च ॥१ ३२॥ सर्वस्वार्पितपुंसां तु ब्रह्ममुक्तत्वदानि च ।
सकामानां सर्वकामपूरकाणि सुखानि च ॥१ ३३॥ निष्कामानां कृपया मे मत्तुल्यताप्रदानि च ।
लक्ष्मि लीला मम दिव्या दिव्या मद्योगिमानवाः ॥१ ३४॥ सर्वं दिव्यं मम क्षेत्रं परधामात्मकं भुवि ।
षोडशं विगतं वर्षं महानन्दपरिप्लुतम् ॥१ ३५॥ सप्तदशं जन्मदिने ममायाति द्रुतं खलु ।
उत्सवोऽत्र महान् भावी लोमशाद्यैः प्रवर्तितः ॥१ ३६॥ विरमामि समस्तानां पत्नीनां श्रान्तयेऽपि च ।
‘ओन्नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥१ ३७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जीर्णोद्भवाऽभिधकृषीवलस्य चैतन्यकायनिसाधुयोगेन भगवद्दर्शनं मोक्षणं, स्त्रीसौन्दर्यादिप्रदव्रतदानवर्णनं चेत्यादिनिरूपणनामा पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५ ॥