२३३

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं गरदस्यापि मोक्षणम् ।
काशमित्रे रम्यदेशे श्रीनगरे सुखावहे ॥१ ॥ झिल्लिमासरितस्तीरेऽभवद्भक्तो लवादनः ।
कुटुम्बवान् विप्रवर्योऽधीतविद्यः सुधार्मिकः ॥२ ॥ ख्यातवंशी महामानः श्रीपुराधिपमानितः ।
राजा श्रीनगरस्याऽऽसीन्नाम्ना श्रीमानवेश्वरः ॥३ ॥ तेन सम्मानितो नित्यं सभायां कृतशेखरः ।
न्यायालयेऽपि मूर्धन्यः प्रजायां चातिमानवान् ॥४ ॥ लवादनोऽपरो राजा राजेव वर्तते तदा ।
कृतराज्यसमस्ताऽभ्युदयः शिक्षाविभागके ॥५ ॥ सैन्यस्थानातिकुशलो व्यापारे निपुणस्तथा ।
बुद्धिमान् वर्तते चैवं राज्ञ्याऽप्यतीव मानितः ॥६ ॥ एवविधः प्रधानोऽयं गुरुश्चापि नृपस्य वै ।
करोति राज्यकार्याणि राष्ट्रकार्याणि यान्यपि ॥७ ॥ नृपे प्रजायां सैन्ये वा राष्ट्रे क्षतिं प्रवीक्ष्य सः ।
निःसंशयः समानश्च बुद्ध्या वारयति क्षतिम् ॥८ ॥ नृपं प्रजाश्च सैन्यानि त्वापद्गतानि रक्षति ।
आस्तिको देववल्लोके मानपात्रं स वर्तते ॥९ ॥ नित्यं सूर्यं हरं विष्णुं चन्द्रमसं च वेधसम् ।
वह्निमिन्द्रं सुवर्णं च मायां जीवं सचार्हति ॥3.233.१ ०॥ दशायतनभक्तोऽयं दशधर्मान् करोत्यपि ।
जलदानं चर्मदानं लक्ष्मीदानं तु नैकधा ॥१ १॥ ओषध्यर्पणमाभूषार्पणं घृतार्पणं तथा ।
धनुर्दानं स्वर्णदानं कन्यादानं कथार्पणम् ॥१ २॥ एवं धर्मान् करोत्येव तथाऽन्यानपि चोचितान् ।
गृहक्षेत्रालयवाट्युद्यानार्पणं करोत्यपि ॥१३ ॥ राज्यलक्ष्मीव्ययाऽऽदानसमर्थो वर्तते महान् ।
एवंविधोऽयं भक्तश्च दशदेवान् प्रसेवते ॥१४॥ ज्ञानवानपि धर्मात्मा क्वचित्तामसभाववान् ।
करोति तामसं कार्यं दण्डे हिंसात्मकं महत् ॥१५॥ राजानं राजपुत्रं वा स्वपुत्रं वा परं प्रजाः ।
दण्ड्यं दण्डं करोत्येषो धर्मशास्त्रानुसारतः ॥१ ६॥ अथ काले गते राजा प्रौढो युवाऽतिराजसः ।
मृगयायां प्रवृत्तोऽभूद् व्यवाये च शनैः शनैः ॥१७॥ प्रजायां सव्यवायं वै प्रसह्य प्रकरोति हि ।
तेनाऽस्य मानवेशस्य प्रजासु निन्दनं तथा ॥१८॥ त्रासः प्रजायते नित्यं प्रजाधर्षणकारणात् ।
पुत्रा नृपतेरभवन् पञ्च पुत्र्यश्च विंशतिः ॥१९॥ राज्ञ्यः सप्ताऽभवँश्चापि युवत्यश्च तथापि सः ।
कामनाबलसङ्कृष्टो व्यवाये वर्तते सदा ॥3.233.२०॥ मद्यासवपिशतादश्चातिपापपरोऽभवत् ।
अथाऽस्य निग्रहार्थं वै प्रजा लवादनाय ह ॥२१ ॥ मुहुः सम्प्रार्थयामासुर्धर्मदण्डप्रदानकम् ।
लवादनः शुशोचापि राजद्रोहो भवेत्तथा ॥२२॥ अदण्डे तु प्रजाद्रोहः कर्तव्यमत्र किं मया ।
एवं विचार्यमाणे च मार्गः शनैरबुध्यत ॥२३॥ युवराजाय दातव्यं राज्यं राजा निरर्थकः ।
शासनीयः स्वयमेव भविष्यत्यपसत्तया ॥२४॥ लवादनेनैकदा तु राज्ञे सत्त्वस्थिताय च ।
आवेदितं शुभं वाक्यं ज्ञानगोष्ठ्या हितावहम् ॥२५॥ असारः खलु संसारस्तत्र सारो हि मोक्षणम् ।
सेवया तु सतां यद्वा नारायणसमाश्रयात् ॥२६॥ पापनाशस्तथा मोक्षः प्रजायते हि देहिनाम् ।
राज्यं सम्पद् बान्धवाश्च प्राणयाने ह्युपागते ॥२७॥ न रक्षन्ति महाराजं चक्रवर्तिनमित्यपि ।
रक्षत्येव कृतो धर्मो नाऽधर्मो रक्षति क्वचित् ॥२८॥ धर्म एव परे लोके सेवितः सेवते जनम् ।
अधर्मो बाधते त्वत्र परे लोकेऽपि शत्रुवत् ॥२९॥ निवृत्तिं प्राप्य भगवान् भजनीयो हितैषिणा ।
पुत्रे योग्ये धुरं दत्वा मोक्षः साध्यः सुखार्थिना ॥3.233.३०॥ कामानां नैव सीमाऽस्ति वर्धन्ते तृष्णया सह ।
पातयन्ति निरये तेऽर्दयन्ति ज्वालयन्ति च ॥३ १॥ कामाँस्त्यक्त्वा हृदयस्थान् नारायणार्पणं चरेत् ।
व्यवहारस्य भक्तेश्च कामानां न सह स्थितिः ॥३२॥ भक्तिं कर्तुं व्यवहारं कामाँस्त्यजेत् वृषार्थवान् ।
तस्माद् राज्यं कुमाराय देयं शान्तेश्वराय ते ॥३३॥ ज्येष्ठपुत्राय योग्याय शोभनं तद् भविष्यति ।
श्रुत्वा राजाऽन्तरे वह्निज्वालयेव ह्यदह्यत ॥३४॥ सतृष्णस्य विषं सर्वं चामृतं ह्यपि पद्मजे ।
हितवाक्यं त्यागवाक्यं विषायते न संशयः ॥३५॥ स तु नीत्याऽवदत्तं स्वप्रधानं गुरुमुत्तमम् ।
लवादन गुरो योग्यं भवता मे निवेदितम् ॥३६॥ तथापि कस्यचित् कालस्याऽन्ते दास्यामि तत्तथा ।
पुत्रे तु योग्यता पक्वा तावद्राज्ये भविष्यति ॥३७॥ अभ्यासेन ततो राज्यं दास्ये शैघ्र्यं न विद्यते ।
इत्युत्तरितो गुरुराण् मौनमाप्याऽनमन्नृपम् ॥३८॥ राजाऽपि कैतवं नित्यमचिन्तयन्निजार्थकम् ।
गुरुश्चाऽयं राज्यगुरुः प्रधानश्च सभाधिपः ॥३९॥ उत्सादनीयः स्थानाद्वै स्थापनीयोऽपरो गुरुः ।
तदा मे भविता क्षेमं कुशलं सर्वदा तथा ॥3.233.४०॥ विचार्येत्थं त्रिमासान्ते स्थानाद् दूरीचकार तम् ।
लवादनोऽपि दैवेच्छां मत्वाऽत्यजन्निजं पदम् ॥४१ ॥ निवृत्तिं प्राप्य देवान् स ह्यभजद् दश तान् सदा ।
राजा व्यवर्धत चातिव्यवाये स्वप्रजासु वै ॥४२॥ प्रसह्य कन्यका नीत्वा प्रजायास्तु सुरूपिणीः ।
करोति कामनां तासु विमुञ्चति कृतार्थकः ॥४३॥ आक्रोशश्च प्रजास्वेव व्यवर्धतातिरोषतः ।
राजाऽयं नाशनीयो वै प्रधानस्य विवासकः ॥४४॥ एकशब्दः श्रूयते वै सर्वप्रजासु सर्वथा ।
प्रजाव्यवायव्यसनी नाशनीयः नृपोऽपि वै ॥४१॥ अन्यथा महती हानिर्भवेदेव प्रजासु वै ।
इतिनिश्चित्य च सर्वे प्रजाग्र्यास्तु लवादनम् ॥४६॥ मिमिलुर्नृपनाशाय दैवेन नोदिता हि ते ।
लवादनेन सहिता ययुः सेनापतिं प्रति ॥४७॥ सूर्यकान्ताभिधं चापि कथायामासुरुद्व्रतम् ।
राज्ञो विनाशनं स्याद्वै यदि धर्मे न याति सः ॥४८॥ भवान् प्रजानां शास्ताऽपि नीतिमाश्रयतु ध्रुवाम् ।
राजाऽयं राज्यपदतोऽवतार्य एव सर्वथा ॥४९॥ सूर्यकान्तो मर्मवाक्यं श्रुत्वा तथाऽस्तु चाऽवदत् ।
अथ सर्वे ययुः शान्तेश्वरं तु युवराजकम् ॥3.233.५० ॥ राजाऽयं विपथे त्वास्ते पदयोग्यो न विद्यते ।
अवतार्य पदात् त्वं च स्थाप्यः प्रजाभिरादरात् ॥५१ ॥ अन्यथा महती हानिर्भविष्यतीति विद्धि वः ।
कुमारोऽपि तथाऽस्त्वेवं प्राहाऽथ महिषीं प्रति ॥५२॥ श्रेष्ठोत्तमां प्रति सर्वेऽकथयन्नितिनिर्णयम् ।
सापि दैववशात्तथास्त्वेवं प्राह विवेकिनी ॥५३॥ अथ प्रजाभिर्महती सभा कृता निवृत्तये ।
तत्र राज्ञी तथा राज्ञ्यः कुमाराश्च प्रजोत्तमाः ॥५४॥ सेनापतिः प्रधानश्चाययुर्निर्णयहेतवे ।
प्रधानाय नवीनाय निर्णयं ते न्यवेदयन् ॥५५॥ गर्तमणिः प्रधानस्तु निर्णयं नाऽभ्यमोदयत् ।
उत्थाय प्रययौ भूपं न्यवेदयदनिष्टकम् ॥५६॥ राजा रोषेण सहसा गर्तमणिमुवाच ह ।
कारागारे प्रकरोतु सेनापति कुमारकम् ॥५७॥ राज्ञीं प्रजाः पूर्वप्रधानं च तथा विरोधिनः ।
श्रुत्वा गर्तमणिना वै राजभटा नृपाज्ञया ॥५८॥ प्रहिता निगडे कर्तुं राजविरोधिनो द्रुतम् ।
शतशोऽथ राजभटा दुद्रुवुः परितस्तदा ॥५९॥ विधृता बहवस्तत्र कृताश्च निगडेषु वै ।
अथ लवादनस्तत्र राज्ञीं राजकुमारकम् ॥3.233.६०॥ सेनापतिं प्रसम्प्राप्य मन्त्रणां संविधाय सः ।
गरं तीव्रतमं नीत्वा राजानं शरणं ययौ ॥६१ ॥ पुष्पहारं सगरलं कण्ठे राज्ञो न्यधात्तदा ।
राजा सुगन्धमासाद्य शनैर्मूर्च्छामवाप ह ॥६२॥ मृतस्तूर्णं ततो गर्तमणिः सम्भ्रंशितः पदात् ।
लवादनः प्रधानस्य पदे प्रजाभिरादृतः ॥६३॥ कारागारस्थिताः सर्वे लवादनेन मोचिताः ।
शान्तेश्वरो युवराजो राजधिष्ण्येऽभिषेचितः ॥६४॥ मानवेशो मृतश्चेति घोषितं वै प्रजास्वपि ।
राज्ञ्यस्ताश्च कुमाराश्च नृपौर्ध्वदैहिकं व्यधुः ॥६५॥ यज्ञो नृपस्य शुद्ध्यर्थं कृतवान् स लवादनः ।
विप्रा अनाथाः सन्तश्च साध्व्यश्च कन्यकास्तथा ॥६६॥ प्रजाजना भोजिताश्च तोषिताः स्वर्णदानकैः ।
गोदानैर्गृहदानैश्च कन्यादानैः कुमारकाः ॥६७॥ धर्मकार्यैर्मखे राजा मृतः पुण्येन योजितः ।
यमपूर्यां च सूर्म्यादियातना बहुदुःखदाः ॥६८॥ भुक्त्वा स्वर्गं ययौ पश्चान्मखपुण्येन वै नृपः ।
युवराजोऽभवद् राजा राज्यं धर्म्यं व्यधाद्धि सः ॥६९॥ साधुभक्तोऽभवन्नित्यं नारायणपरायणः ।
सहस्रसाधवस्तस्य भुञ्जते नित्यमेव तु ॥3.233.७०॥ करोति राज्यं धर्म्यं च लवादनाऽनुमोदितः ।
अथ साधूत्तमो नाम्ना किंशुकायनसद्गुरुः ॥७१॥ आत्मनिष्ठो भगवन्निष्ठितो लवादनं गुरुम् ।
तथा शान्तेश्वरं भूपं सेनानी सूर्यकान्तकम् ॥७२॥ प्रजाग्र्याँश्चोपादिदेश हितं कल्याणदं तदा ।
कर्मभिर्देहिनो लोके जायन्ते च वियन्ति च ॥७३ ॥ धर्मो ज्ञानं विरागश्च भक्तिर्हरौ च साधुषु ।
कृतं यत् सेवनं पुण्यं दानं सह प्रयाति वै ॥७४॥ धर्मी नृपः पितृतुल्योऽधर्मी दण्ड्यस्तु शत्रुवत् ।
धर्मिणा भूभृता श्रेयः प्रजानां नित्यदा भवेत् ॥७५॥ साघुसेवाविधाता वै राजा प्रजासु राजते ।
बिडालबकवृत्तिस्तु प्रजाभिः परिभूयते ॥७६॥ यस्तु निर्मलहृत् कृष्णसेवापरो जितेन्द्रियः ।
प्रजारक्षाकरो भूपो वर्धतेऽनुग्रहैः सताम् ॥७७॥ बाल्ये कश्चित् साधुधर्मा यौवने विपरीतकृत् ।
बाल्ये दुष्टोऽपि कश्चित्तु यौवने धार्मिको भवेत् ॥७८॥ सतां समागमैर्देही त्वाबाल्याज्जीवनावधिम् ।
सत्पुमानेव जायेत श्रेयोमार्गस्थितः सदा ॥७९॥ असत्पुमानसत्सङ्गादसन्नेवाऽभिवर्धते ।
सहवासव्यवहारखानपानापमानतः ॥3.233.८०॥ गुणा अगुणा दृश्यन्ते बाले युनि विशेषतः ।
बाल्ये पुण्यप्रतापेन धर्मी युन्यपि सभवेत् ॥८ १ ॥ शमेन मनसः शान्तिर्दमेन बाह्यवाजिनाम् ।
ताभ्यां दोषाः प्रदातव्याः कामक्रोधादयोऽखिलाः ॥८२॥ उभावेतौ त्यागिनां च गृहिणां हितकारिणौ ।
साधुसेवापराणां तु दोषा नश्यन्ति मूलतः ॥८३ ॥ जीवो विवेकनिपुणो नाशयेद् दोषमण्डलम् ।
साक्षी कृष्णश्चान्तरात्मा प्रापयेद्धाम चोत्तमम् ॥८४॥ कल्याणमूर्तिर्भगवान् जीवानां श्रेयसे भुवि ।
प्राविर्भवति श्रीकान्तस्तं प्रसेव्य विमुच्यते ॥८५॥ यद्यपि श्रीहरिर्धाम्नि स्थित एव तु मुक्तिदः ।
समर्थोऽस्ति तथाप्यत्र प्रेमिभक्ता भवन्ति ये ॥८६॥ नार्यो नराः प्रेमिणो वै तेषां यो विरहो हरेः ।
असह्यः क्षणमात्रं तु तन्नाशाय यथा सुखम् ॥८७॥ तेभ्यो दातुं भक्तिवशो भक्तेच्छापूरणाय च ।
तदिहानुप्रमोदादिपूरं रूपं दधाति सः ॥८८॥ योगं दत्वा पूरयति भक्तसर्वमनोरथान् ।
सजातीयो हि भवति प्रेमवृद्ध्यर्थमेव ह ॥८९॥ कृपैव सा हरेर्बोध्या भक्तजातीयजन्मनि ।
असङ्ख्यदिव्यसद्गुणैश्वर्यप्रतापतेजसा ॥3.233.९०॥ पूरयन्नरनारीणां मनांसि तद्वशे स्थितः ।
पुत्रत्वेन पतित्वेन सुहृत्त्वेन सखित्वतः ॥९१॥ पितृमातृसतीत्वेन साधुत्वेन प्रवर्तते ।
शिष्यत्वेन गुरुत्वेन नृपत्वेन च वर्तते ॥९२॥ सुखयित्वा यथेष्टं तान् धर्मस्थापनमुत्तमम् ।
आसुराणां विनाशं च कुर्वंस्तदानुषङ्गिकम् ॥९३॥ तिरोभवति भक्तानां तृप्त्युत्तरं निजेच्छया ।
अनादिश्रीकृष्णनारायणः श्रीकम्भरात्मजः ॥९४॥ गोपालबालः श्रीकृष्णो भक्त्या ग्राह्यः श्रियः पतिः ।
कामं क्रोधं छलं लोभं मानमिर्ष्यां च मत्सरम् ॥९५॥ त्यक्त्वा पापानि सन्दह्य भजेत्तं माणकीपतिम् ।
भक्त्या सतां सेवया च स प्रभुः सम्प्रसीदति ॥९६॥ अग्निदस्य गरदस्य नारीहत्योद्भवस्य च ।
पापं नश्यति कृष्णस्य सेवया तत्सतामपि ॥९७॥ बालघ्नस्य धेनुहत्योद्भवस्य नृपनाशिनः ।
मातृघ्नस्य तथा पापं लीयते कृष्णसेविनः ॥९८॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
जपन्तु सततं मन्त्रं पापशुद्धिर्भविष्यति ॥९९॥ इत्युक्त्वा कमले किंशुकायनः प्रददौ मनुम् ।
लक्षप्रजाभ्यस्तत्रैव सर्वान् व्यधात् सुवैष्णवान् ॥3.233.१ ००॥ अनादिश्रीकृष्णनारायणं भेजुश्च मां हि ते ।
लवादनो दशदेवैर्मां ततः पुरुषोत्तमम् ॥१ ०१ ॥ विशेषेणाऽभजत् सर्वे चान्ये राजप्रजादयः ।
भेजुर्मां श्रीकृष्णनारायणं चात्मनिवेदिनः ॥१ ०२॥ साधवः प्रययुर्बद्रीनारायणं ततः खलु ।
लवादनस्य वार्धक्ये सेवया तुष्टतां गतः ॥१ ०३॥ अहं लक्ष्मि पुरो दिव्यमूर्तिराविर्बभूव ह ।
गरदस्य महत्पापं विधूय दिव्यवर्ष्मणा ॥१ ०४॥ दिव्यमुक्तं विधायैवाऽनयं धामाऽक्षरं मम ।
राज्ञीः सर्वास्तथा सेनापतिं च नृपतिं नवम् ॥१ ०५॥ भक्त्या तुष्टोऽनयं सर्वानक्षरं क्रमशः पदम् ।
प्रजाश्च भक्तिसम्पन्नाः पावनीश्चानयं पदम् ॥१ ०६॥ एवं मया समस्तास्ते साधुद्वारा विमोचिताः ।
मायाबन्धनरहिताः कृता लक्ष्मि परेऽक्षरे ॥१ ०७॥ गरदानमहत्पापं सर्वं भक्त्या लयं गतम् ।
एवं भक्त्या विलीयन्ते पापानि सर्वथा रमे ॥१ ०८॥ भुक्तिं मुक्तिं प्रयान्त्येव भजनस्य बलान्मम ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत् सदा ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लवादनाख्यप्रधानस्य राज्ञे गरदस्य भगवद्भक्त्या किंशुकायनसाधुसेवया च तस्य च राज्ञीनां च प्रजानां च मोक्षणमित्यादिनिरूपणनामा त्रयस्त्रिंशत्यधिकद्विशततमोऽध्यायः ॥२३३ ॥