२२६

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वम् आजीवनीनदीतटे ।
सौराष्ट्रे त्वभवद्वैद्यो नाम्ना गदार्दनेश्वरः ॥१
जीरदुर्गकृतावासश्चौषधितत्त्वमर्मवित् ।
विप्रः कुटुम्बसहितो जीरदुर्गे निजापणम् ॥२
कृत्वा करोति रुग्णानां चिकित्सां चौषधं ततः ।
नामाऽभवद्धि विख्यातं रोगनाशकलाविदः ॥३
परितो ग्रामवर्गेषु देशलोकेषु चाप्यति ।
प्रजाजनाः समायान्ति तद्गृहं रोगनुत्तये ॥४
सोऽपि नारायणं कृष्णं स्मृत्वा ददाति चौषधम् ।
सुफलं तद्भवत्येव गुणकृद्रोगहारकम् ॥५
यज्ञभस्मान्वितं देवप्रसादशर्करान्वितम् ।
तुलसीपत्रचूर्णाढ्यं काष्ठौषधं च धातुजम् ॥६
भस्मादि च रसान् वह्निपक्वान् शरन्निवर्तकान् ।
कफनाशकरान् जीर्णज्वरघ्नानासवाँस्तथा ॥७ ।
विरेचकान् गूटिकांश्च पाचकान् वायुनाशकान् ।
शक्तिदान् धातुपुष्टिकृद्वृक्षबीजानि यानि च ॥८ ।
जन्तुजान् चूर्णितान् रोगहराँस्तुषाँश्च मूलजान् ।
पत्रजान् पुष्पजाँश्चापि त्वचां चूर्णानि यान्यपि ॥९ ।
ददाति रोगिणे रोगान्नाशयत्येव सर्वथा ।
विषं हरति शीघ्रं च सर्पादीनां रसोद्भवम् ॥3.226.१ ०॥ एवंविधस्य वैद्यस्य शालायां मानवा दश ।
कुर्वन्ति पेषणं चापि मर्दनं पाचनं तथा ॥११ ॥ सारनिःसारणं चूर्णनं च प्रज्वालनं सदा ।
औषधानि यथायोग्यं सम्पादयन्ति यत्नतः ॥१२॥ वर्षारम्भे स्वयं गदार्दनः क्षेत्रे नदीतटे ।
याति काचादिपात्राणि नीत्वा जन्तुमये स्थले ॥१ ३॥ सरीसृपाँस्ताम्रकणशेन्द्रगोपान् पिपीलकान् ।
रक्तपुष्टिकरान् जन्तून् धृत्वा दधाति पात्रके ॥१४॥ सहस्रशः प्राणरौधैर्व्यसवस्ते भवन्ति हि ।
उत्तेजकानि तैलानि कर्तुं गर्तादिगोधिकाः ॥१५॥ धृत्वा काचे तु निक्षिप्य व्यसून् करोति वैद्यराट् ।
निर्दयो निजलाभार्थं परप्राणविघातकः ॥१६॥ विप्रोऽपि राक्षसधर्मा हिंसामार्गपरोऽभवत् ।
नाणकाणां प्रलोभेन तृष्णया हिंसकोऽभवत् ॥१७॥ एवं गदार्दनः काले काले जन्तुविनाशकः ।
औषधार्थं कोटिजन्तुनाशकृद्धिंसकोऽभवत् ॥१८॥ जन्तवोऽपि मूर्छिता अर्दिताः शपन्ति तं द्विजम् ।
नः प्राणघ्नस्य ते प्राणान् हरिष्यन्त्यपि जन्तवः ॥१९॥ चतुरशीतिलक्षासु योनिष्वेव मुहुर्मुहुः ।
अस्मद्वद्दुःखमासाद्य मृत्युं याहि पुनः पुनः ॥3.226.२०॥ शप्तश्चैवं बहुशापैस्तीव्रवेगैः स वैद्यकः ।
कर्मविपाककालेन ज्वराविष्टोऽभवच्छनैः ॥२१॥ ज्वरनाशाय सहसाऽयुजत् स गूटिकादिकम् ।
ज्वरः शान्तिं न चायाति प्रत्युत सम्प्रवर्धते ॥२२॥ प्रारब्धागतविघ्नं हि कोट्युपायैर्न नश्यति ।
शापागतं महादुःखं त्वन्योपायैर्न लीयते ॥२३॥ वैद्यस्य यमराजस्य देवस्य च वृषस्य च ।
ईश्वरस्य समर्थस्य मानवस्य तु का कथा ॥२४॥ लीयते शापदस्यैव प्रसादेन न चान्यथा ।
अत्र ते जन्तवो नष्टाः प्रसादः कुत आलभेत् ॥२५॥ जीर्णज्वरो हि वैद्यस्य बलवत्त्वमुपागमत् ।
नित्यं गदार्दनरक्तं शोषयत्येव भूतवत् ॥२६॥ अथाऽयं तन्निरासार्थं क्वाथान् पिबति नित्यशः ।
अप्रारब्धहताः क्वाथा विपरीता भवन्ति यत् ॥२७॥ रक्तनाशकराश्चाप्युष्णताविवर्धकास्तथा ।
नाडीषु मांसपिण्डेषु सूक्ष्मछिद्रकरा अपि ॥२८॥ व्यवर्तन्त समस्तास्ते क्वाथाः क्षतकरास्ततः ।
मूत्रे मले ष्ठीवनेऽस्य रक्तभागः स्रवत्यपि ॥२९॥ निर्वृत्तात्युपचारोऽपि वैद्यो रुग्णतरोऽभवत् ।
न बुद्धिर्न बलं द्रव्यं नोपचारा विभाग्यके ॥3.226.३०॥ महापापे प्रभवन्ति योजिताः कुशलैरपि ।
लक्ष्मि प्रसिद्धवैद्यस्य कृतश्रमस्य शान्तये ॥३ १ ॥ अन्ये वैद्याश्चाययुश्च चिकित्सार्थं विदूरतः ।
कृत्वा मूलचिकित्सां ते प्रयोजयन्ति चौषधम् ॥३२॥ तथाप्यघहतस्याऽस्य लेशलाभो न दृश्यते ।
आशाहताश्च ते भूत्वा प्रयान्ति निजमन्दिरम् ॥३३॥ रक्तस्रावा हि वैद्यस्य न शान्तिं प्रगताः खलु ।
तत्रौषधैः कृतैर्लक्ष्मि प्रत्युताधिकतां गताः ॥३४॥ वर्षं त्वेवं गतं तस्य याम्यसदृशदुःखिनः ।
ततो मात्रा तु भस्मोत्था भक्षिता भिषजा स्वयम् ॥३५॥ साऽपि विकृतिमासाद्य विस्फोटान् परितो व्यधात् ।
पाचपूर्णं च दुर्गन्धं स्फुटितं वर्ष्म चाऽभितः ॥३६॥ पाचस्रावि क्लेदितं च नारकं कुण्डवद्ध्यभूत् ।
न पार्श्वे केऽपि गच्छन्ति वैद्यो रोदिति शूलितः ॥३७॥ उत्पन्नकीटजन्तुकृद्दंशैरर्दित इत्यधी ।
आक्रूश्यत्यतिदुःखेन जन्तुखादितमांसकः ॥३८॥ एतादृशमहादुःखं प्राप्तवान् वैद्यराट् रमे ।
दुःखी मां भजते नित्यं दुःखनाशाय केवलम् ॥३९॥ शापदुःखविनाशेऽहं समर्थो न भवामि वै ।
शापदस्य हृदयेऽहं स्थितस्तदा समर्दितः ॥3.226.४०॥ शापदस्त्वहमेवाऽस्मि कथं चाऽशापकृत् पुनः ।
विना तं शापदं जन्तुं प्रभवामि निवृत्तये ॥४१ ॥ एवं विधस्य वैद्यस्य भजमानस्य मामपि ।
दुःखं निवर्तते नैव मरणं नापि जायते ॥४८२॥ भोजनं प्राणधारं चाऽऽदत्तेऽस्य जाठरो लघु ।
तेन प्राणा न प्रयान्ति शापभोगप्रबन्धिनः ॥४३॥ बहुदानानि पुण्यानि कृतवान् वैद्यराडपि ।
प्राणाः स्थानं न मुञ्चन्ति याम्यपुरीसमप्रभाः ॥४४॥ ओषधानां प्रयोगैश्च मनाक् स्वास्थ्यं प्रदृश्यते ।
मासं स्वास्थ्यं दृश्यते च मांसमज्जा विवर्धते ॥४५॥ पुनश्च जन्तवस्तत्र जायन्ते च सहस्रशः ।
कीटा दशन्ति बहुधा याम्यकुण्डो यथा त्विह ॥४६॥ एवं मुहुः शापवशादस्य वैद्यस्य वर्तते ।
दशवर्षाणि चैवं वै व्यतीतान्यस्य रोगिणः ॥४७॥ यावन्तो जन्तवस्तेन मारितास्तावदेव तत् ।
दुःखं साक्षादत्र जातं याम्यं तथापि शिष्यते ॥४८॥ मध्ये लक्ष्मि तथा तस्य पुत्राः षट् पापिसङ्गतः ।
अतिरिक्तातिसारैश्च शनैः क्रमान्मृतिं ययुः ॥४९॥ विध्वस्ता विधवा जाताः षडेवाऽपत्यवर्जिताः ।
गदार्दनस्य पुत्र्यश्च सप्त ताः सङ्गदोषतः ॥3.226.५०॥ सर्वा अपि तु विधवा जाताः पितृप्रपापतः ।
आसनाच्छयनाद्वासाद् भोजनात् सहकर्मणः ॥५१ ॥ उत्पादाद् दायभागाच्च पापं सङ्क्रमते जने ।
जन्तूनां मारणे तेषां कुटुम्बिनां यथा भयम् ॥५२॥ दुःखं चाऽभूत्तथा शापादस्य कुटुम्बिनां तथा ।
सर्वमत्रैव सञ्जातं दुःखं तीव्रप्रवेगिनः ॥५३॥ एवं निर्वंशतां प्राप्ता पत्नी त्वेकाऽवशिष्यते ।
सापि चिन्तापरा भ्रातॄन् निजानाहूय सर्वथा ॥५४॥ द्रव्यं सर्वं ददौ तेभ्यो गृहं शून्यमिवाऽभवत् ।
पत्नी भ्रातर एवापि द्रव्यपाशेन पाशिताः ॥५५॥ रुग्णाः सर्वेऽभवँस्तूर्णं मृतास्ते द्रव्यभोगिनः ।
निर्वंशास्तेऽपि जाता वै पापद्रव्यप्रसङ्गतः ॥५६॥ वैद्यस्याऽन्नं न भोक्तव्यं प्रायश्चित्ती यतो भवेत् ।
लक्ष्मि शतघ्नो वैद्यो वै तदन्नं पापदं मतम् ॥५७॥ पश्य वैद्या निर्दया वै यमदूतसमाः सदा ।
छेदने घातने मृत्युदाने शवादिसेवने ॥५८॥ नग्नशवाऽभ्यसने च नग्नशवावलोकने ।
नग्नदुर्गन्धकीटाढ्यशवानां नित्यदर्शने ॥५९॥ रोगसंस्कारकरणे पाचक्लेदादिशीलने ।
यमदूतसमा वैद्या अशुद्धाः प्राणपारगाः ॥3.226.६०॥ अनुभूतिं विना ये ते पापिनः प्राणहारकाः ।
तेषामन्नं न भोक्तव्यं विनष्टिकृत् तदन्नकम् ॥६१॥ नहि सर्वे त्विह लोके धन्वन्तरिसमाः खलु ।
तत्त्वज्ञा यदि पुण्याः स्युरहिंसकास्तु पावनाः ॥६२॥ अश्विनीपुत्रसदृशाः पूज्यास्ते तु मताः सदा ।
लोककल्याणकर्तारो हिंसामार्गविवर्जिताः ॥६३॥ यथापेक्षौषधानां तु प्रयोगिणः सुभक्तयः ।
जन्तुहिंसाविहीनाश्च काष्ठधात्वादियोगिनः ॥६४॥ दुर्लभास्ते देववैद्यास्तेषां पूजा तु पुण्यदा ।
अथ लक्ष्मि गते काले पत्नी गदार्दनस्य सा ॥६५॥ क्षयरोगेण वै व्याप्ताऽभवन्नाम्ना मुकुन्दिनी ।
वैष्णवी पतिभक्ता च श्रद्धाभावगुणान्विता ॥६६॥ सा त्वाबाल्याद्धरेर्भक्ताऽभवत् स्नात्री प्रपूजिका ।
भक्तिमती धर्मवती पातिव्रत्यपरायणा ॥६७॥ व्रतदानतपःकर्त्री नित्यं साधुप्रसेविका ।
कृष्णकथाया रक्ता च शौचसन्तोषशोभना ॥६८॥ तन्वा मनसा वाण्या च कर्मभिः साधुसेविका ।
कृष्णसेवापरा नित्यं नवधाभक्तिसंयुता ॥६९॥ हारनैवेद्यधूपादिविधात्री विष्णुपूजिका ।
आत्मनिवेदिनी महाभागवती हरिप्रिया ॥3.226.७०॥ शीलसत्यपरा साध्वीधर्मयुक्ताऽऽत्मनैष्ठिकी ।
दिव्या दिव्यगुणोपेता भगवन्नैष्ठिकी सदा ॥७१ ॥ ध्यानपरा च सर्वस्वार्पणपरा हरौ मयि ।
लक्ष्मि त्वेतादृशी भक्ता किन्तु सङ्गात् सुदुःखिता ॥७२॥ पत्युरर्धं समस्तं वै भुज्यते निजयोषिता ।
सैवं दुःखपरा रुग्णा वर्तते भजते तु माम् ॥७३॥ तस्या वर्षे गते क्षीणायास्तु पतिर्मृतोऽभवत् ।
पराधीना च विधवा रुरोद कुररीव सा ॥७४॥ पत्युरसद्गतिं वीक्ष्य स्मृत्वा पुत्रीसुतादिकान् ।
मृतान् भ्रातॄँश्च वै स्मृत्वा स्वस्या असद्गतिं तथा ॥७५॥ चुक्रोशाऽऽक्रन्दनैर्धैर्यवर्जिता क्षयरोगिणी ।
श्रुत्वा चाक्रोशनं देवाः क्षणं स्तब्धास्तदाऽभवन् ॥७६॥ ऋतवश्चापि तत्त्वानि क्षणं जडानि चाऽभवन् ।
अथाऽहं सहसा लक्ष्मि चान्तरात्मा निजानुमः ॥७७॥ मुकुन्दिन्या हृदयस्थो वत्सलो दुःखितोऽभवम् ।
धैर्यं ददौ चान्तरात्मा सद्विचारेण चाप्यहम् ॥७८॥ सापि विज्ञानमासाद्य धैर्यमालम्ब्य मां हरिम् ।
अस्मरद् बहुधा लक्ष्मि नाथ नाथ कृपां कुरु ॥७९॥ भक्ताया चापि दुःखायां विधवायां कृपां कुरु ।
सर्वस्वनाशयुक्तायां शेषायां वत्सलो भव ॥3.226.८०॥ दुःखानां नास्ति मे सीमा समुद्धर भवार्णवात् ।
प्रथमं मां मारयित्वा ततः पतिं प्रमारय ॥८१॥ सधवाया गतिर्मे स्याद् विधवाया गतिर्नहि ।
एषाऽहं वह्निमुत्पाद्य सजीवा प्रज्वलामि वै ॥८२॥ सतीत्वं सर्वथा योग्यं विधवात्वं भयावहम् ।
कृपा तेऽस्ति समायाहि जीवयैनं निरोगिणम् ॥८३ ॥ नैवं चेन्मरणं देहि युगपत्तूभयोरपि ।
इत्युक्त्या सा मम भक्ता क्षणं दध्यौ तु मां हृदि ॥८४॥ तावन्मया पार्षदा मे प्रेषितास्तत्पतिं प्रति ।
याम्यदूतैर्नीयमानं दुःखिनं शरणैषिणम् ॥८५॥ पार्षदैर्मे द्रुतं गत्वा वियोजितो यमार्थिभिः ।
गृहीतश्चानीत एव देहं प्रवेशितः पुनः ॥८६॥ उत्थितः सहसा देहोऽकस्माद् बन्धनबन्धितः ।
शवार्थिनोऽभवन् स्तब्धा महाश्चर्यसमन्विताः ॥८७॥ केचिज्जगदुः पापानामपूर्णं पापभोगनम् ।
पुनः पापप्रभोगायाऽऽगतो याम्यैर्न रक्षितः ॥८८॥ अपरे तु तदा प्राहुः सत्याः पत्न्यास्तु भक्तितः ।
उत्थितश्चातिभक्त्या वै नीरोगोऽयं भविष्यति ॥८९॥ अन्ये प्राहुर्वासनिको वर्ततेऽयं हि पापवान् ।
न याति परलोकं स्वां पत्नीं विहाय चैकलः ॥3.226.९०॥ इतरे तु तदा प्राहुः कर्मरेखा हि दुर्गमा ।
इत्येवं ते विरेमुश्च निर्बन्धनं व्यधुश्च तम् ॥९१॥ अथ लक्ष्मि तदा चाऽहं पत्न्या भक्तेः प्रतापतः ।
पुरो दिव्यमभवँश्च मूर्तिमान् पार्षदैः सह ॥९२॥ चतुर्भुजो दिव्यदेहः कृष्णनारायणः प्रभुः ।
अवदं च मुकुन्दिन्यै वरं वृणु मदग्रतः ॥९३॥ साऽपि चोत्थाय सहसा पतिता पादयोर्मम ।
गदार्दनोऽपि मां वीक्ष्य नीरोग इव निद्रितः ॥९४॥ उत्थाय न्यपतच्छीघ्रं पादयोर्मम भूतले ।
वरदानाय च मया नियुक्तावूचतुश्च तौ ॥९५॥ मोक्षं देहि कृपासिन्धो परमेश रमापते ।
सर्वं कालेन नीतं नौ ह्यावां निर्वासनौ कृतौ ॥१६॥ वैद्यवैद्यो महाकालस्तद्वैद्यः परमेश्वरः ।
याम्यहूतौ द्रावितौ त्वत्पार्षदैरिह सर्वथा ॥९७॥ मोक्षं देहि यथेष्टं वा नियोजय परेश्वर ।
एवं प्रार्थयमानाभ्यां तथेत्युक्त्वा विमानके ॥९८॥ अध्यारोप्य दिवं श्रेष्ठं प्रेषयामास पार्षदैः ।
सतीभक्तिप्रतापेन सती मुकुन्दिनी तदा ॥९९॥ दिवं त्यक्त्वा सतीलोकं पत्या सह ययौ द्रुतम् ।
पार्षदा मे तु तां स्वामिसहितां वै मुकुन्दिनीम् ॥3.226.१०० ॥ अवस्थाप्य सतीलोकं प्रययुर्मम धाम ह ।
एवं कालान्तरे प्राप्ते तौ यास्यतः परं पदम् ॥१०१ ॥ लक्ष्मि भक्ताप्रतापेन वैद्यो याम्यं विहाय च ।
सतीलोकं ययौ यस्य पापपुञ्जोऽभवन्महान् ॥१ ०२॥ तथापि स्त्रीप्रतापेन कृपया मे लयं गतः ।
अर्धाङ्गनाकृतं पुण्यमर्धं तु लभते पतिः ॥१ ०३॥ व्रतदानादिकं भक्तिः सर्वमर्धं प्रपद्यते ।
एवं सम्बन्धिनः पुत्राः स्त्रियो मित्राणि चापरे ॥१ ०४॥ कुर्वन्ति प्रेतनाम्नाऽपि पुण्यं प्रेते प्रपद्यते ।
तस्माच्छ्राद्धं मखं दानं कुर्वन्ति पृष्ठतो जनाः ॥१ ०५॥ भक्तितुल्यं मोक्षदं वै साधनं नेतरद् रमे ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिश्च वै भवेत ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गदार्दनेश्वरनामकवैद्यस्य पापैर्दुःखानि तत्पत्न्या मुकुन्दिन्या भक्त्या च मोक्षणमित्यादिनिरूपणनामा षड्विंशत्यधिकद्विशततमोऽध्यायः ॥२२६ ॥