२२४

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वमुष्ट्रपालो मरुद्भुवि ।
नाम्नाऽभवद् दीर्घरम्भो ग्रामे चित्रोर्ध्वसञ्ज्ञके ॥१ ॥ उष्ट्रा यस्याऽभवन् पारेशतं शमीप्रभोजनाः ।
उछ्रायभूनिवासश्च क्रमेलकोर्णविक्रयी ॥२ ॥ उष्ट्रविक्रयकर्ता च धान्यव्यापारकृत्तथा ।
एकदेशादन्यदेशे धान्यप्रापणकारकः ॥३ ॥ प्रायशो वै वने वासं कुर्वन्नुष्ट्राभिरक्षकः ।
वने रात्रौ निवसति दशोष्ट्रपालकैः सह ॥४ ॥ शमीवनेऽतितरले चरन्त्युष्ट्राः समन्ततः ।
दीर्घरम्भादयः कृत्वा वह्निं तदभितस्तदा ॥५ ॥ निषद्य कम्बलैर्युक्ता गृणन्ति रामकीर्तनम् ।
देवानां च कथागीतिं कुर्वन्ति मिलितास्तथा ॥६ ॥ पिबन्त्युष्ट्रापयश्चापि निवेद्य प्रभवे हृदि ।
खादन्ति रोटकान् कृत्वा शमीशिम्ब्यारनालकैः ॥७ ॥ निर्गच्छन्ति वन्यमार्गे यदि केचित्प्रवासिनः ।
तेभ्यो ददति सत्कृत्य दुग्धं च रोटकादिकम् ॥८ ॥ परोपकारः कर्तव्यश्चान्नकम्बलदानकैः ।
मत्वैवं ते चार्पयन्ति कम्बलानपि चोत्तमान् ॥९ ॥ साधवो वा तीर्थयात्रालवो मिलन्ति तत्पथि ।
तेभ्योऽर्पयन्त्यन्नवारि कुर्वन्ति स्वागतादिकम् ॥3.224.१० ॥ रामबुद्ध्यैव सततं पुण्यसत्कर्मवाञ्च्छया ।
यथेष्टं भक्तिभावेन सेवन्ते साधुमण्डलम् ॥११ ॥ अथैकदाऽर्बुदयात्राकरणाय त्रिपुष्करम् ।
प्रागच्छन्मण्डलं साधुसाध्वीनां पथि चागतम् ॥१२॥ कीर्तयद् वाद्यघोषैश्च रामकृष्णजनार्दन ।
नरसिंह हर विष्णो कृष्णनारायणाऽच्युत ॥१ ३॥ दृष्ट्वा तांस्तु दीर्घरम्भो गत्वा प्रतिप्रणम्य च ।
दुग्धं च रोटकान् तेभ्यो ददौ मध्याह्नके जलम् ॥१४॥ सायं ते साधवस्तत्र विश्रान्तिं प्रापुरुत्सुकाः ।
रात्रौ सर्वे तूष्ट्रपाला असेवन्त सतो जनान् ॥१५॥ नामसङ्कीर्तनं कथां रामस्य शुश्रुवुस्तथा ।
अथ साधुवरं रामायणाख्यं वैष्णवोत्तमम् ॥१ ६॥ पप्रच्छ स्वात्मकल्याणं कथं स्यादिति चानतः ।
रामायणः प्रत्युवाच तदा कल्याणसाधनम् ॥१७॥ साधूनां सेवनं चापि रामनाम्नां सुकीर्तनम् ।
भक्तिं विष्णोर्नवधां च कल्याणसाधनानि हि ॥१८॥ रामस्य वन्दनं नित्यमर्चनं बहुवस्तुभिः ।
मानसैरुपचारैश्चाप्यर्चनं हृदयेऽन्वहम् ॥१ ९॥ कल्याणसाधनं चेति ध्यानं रामस्य चिन्तनम् ।
प्रेम्णा पुलकितगात्रो गद्गदाऽक्षरवाक् तथा ॥3.224.२०॥ तत्स्वरूपैकचिन्तश्च भवेद्भक्तोऽर्चने हरेः ।
बाह्यपूजाकरो यद्वा चान्तरार्हणकारकः ॥२१॥ विशिष्यतेऽयं भक्तौ वै सर्वेभ्यो भक्तसम्मतः ।
ऐकाग्र्यरहितः स्नेहरहितस्तु न शस्यते ॥२२॥ पूजने सेवने यस्य श्रद्धा भवति भूयसी ।
कथायां कीर्तने यस्य श्रद्धादरौ विशेषतः ॥२३॥ माहात्म्यं यस्य चोत्कृष्टं भक्ते यस्य सुमित्रता ।
यस्य रामार्चनादौ वै भूरिकालो यथा क्षणः ॥२४॥ नवधाऽपि हरेः सेवा यस्य नूत्नाऽनुवासरम् ।
न गौणी यस्य जीर्णा न क्वचित् क्वापि भवेदियम् ॥२५॥ श्रद्धाभक्तिर्यस्य नित्यं नूतना नूतनोज्ज्वला ।
स मुक्तोऽत्र च मुक्ता सा नरो नारी हि भूतले ॥२६॥ दूरस्था अपि भक्ता ईदृशाः कृष्णान्तिकस्थिताः ।
यदि नैतादृशाः पार्श्वस्थितास्ते दूरवन्मताः ॥२७॥ तस्मात् प्रीत्युदयसिद्ध्यै यतितव्यं निरन्तरम् ।
श्रवणे मनने निदिध्यासने दिव्यदर्शने ॥२८॥ कृष्णे तादात्म्यमापन्नात् साधोर्मुखाद्धरेः कथा ।
श्रोतव्या श्रीहरेः स्मृत्या सहिताऽर्थस्य धारिणी ॥२९॥ श्रुतार्थस्य तु मननं पुनः पुनर्विचारणम् ।
सप्रेममूर्तिसहितं कर्तव्यं वासनापहम् ॥3.224.३०॥ ततः संस्कारजं शुद्धं स्मरणं निदिध्यासनम् ।
कर्तव्यं श्रद्धया प्रीत्या प्रसन्नस्तस्य माधवः ॥३१॥ भवेत्तेन हरेः स्फूर्तिः सहजा नित्यमान्तरे ।
साक्षात्कारो भवेत् स्फूर्तौ दिव्यमूर्तेर्हरेः सदा ॥३२॥ एवं प्रीतिर्हरौ कार्या तया प्रीतिर्हरेर्भवेत् ।
परस्परप्रीतिमतोस्तादात्म्यं जायते ततः ॥३३॥ ब्रह्मचर्यमात्मनिष्ठा वैराग्यं श्रवणादयः ।
कृष्णाश्रयश्च साक्षात्कारहेतवस्त ईरिताः ॥३४॥ मननं च निदिध्यासो भक्तेष्टसिद्धिदायकौ ।
केवलं श्रवणं नैव साक्षात्कारफलप्रदम् ॥३५॥ वासना नहि नश्यन्ति निदिध्यासनमन्तरा ।
हृद्ग्रन्थयो विनश्यन्ति कृष्णाऽखण्डविचिन्तनात् ॥३६॥ निदिध्यासनयुक्तस्य प्रत्यक्षद्रष्टुरेव ह ।
पूर्णकामताऽऽनन्दाश्च वर्तन्ते नेतरस्य तु ॥३७॥ बाह्यं कृष्णस्य द्रष्टुर्वै मन्तुश्च हृदये तथा ।
स्मर्तुः रूपं च सततं द्रुतं स्फुरति केशवः ॥३८॥ अनेवंवर्तमानस्याऽनेवंयत्नकृतोऽपि च ।
नैव स्फुरति विश्वात्मा दिव्यात्मा भगवान् हृदि ॥३९॥ तस्मात् कृष्णस्य हृद्ये साक्षात्कारस्य साधनम् ।
श्रवणं मननं निदिध्यासनं प्रीतिरुच्यते ॥3.224.४० ॥ प्रीत्या सततसन्धात्र्या स्फुरति कान्तवद्धरिः ।
तस्माच्छ्रुतस्य दृष्टस्य हरेस्तु मननं तथा ॥४१॥ स्मरणं प्रेमसहितं श्रद्धान्वितं समाचरेत् ।
तस्योपरि हरेः प्रीतिर्जायते धामयोजिका ॥४२॥ देहे जीवस्य तादात्म्यं यावद्वै वर्तते च तत् ।
कृष्णे स्नेहे महाविघ्नं बोध्यं संसारजन्मकृत् ॥४३॥ तस्माद् देहादयमात्मा भिन्न इत्यवबोधनम् ।
गुरोः सतश्च शास्त्राच्च प्राप्तव्यं च विवेकिना ॥४४॥ भ्रमो नाशयितव्यश्च तादात्म्यस्य जडात्मनोः ।
स्वरूपाणि जडस्यापि चेतनस्यापि सर्वथा ॥४५॥ धर्माश्चापि प्रबोद्धव्या यैर्वैलक्षण्यमेतयोः ।
स्फुरेत्तेन तु तादात्म्यभ्रान्तिर्नश्येत् समूलिका ॥४६॥ जडो दुःखमयो रुग्णो नश्वरो विकृतः क्षयी ।
लालामूत्रमलव्याप्तो जन्ममृत्युजरान्वितः ॥४७॥ खण्डनद्धो बह्ववस्थो मायिको भौतिकश्चयी ।
पिण्डो ह्रासी नैकरूपो देहोऽयं वर्तते सदा ॥४८॥ इन्द्रियाणि समग्राणि सूक्ष्मदेहगुणानि वै ।
दुःखदोषोद्वेगचिन्ताकराणि तादृशानि च ॥४९॥ एतादृशो नाऽहमस्मि चिद्रूपः सुखवानहम् ।
अरोगी शाश्वतो निर्विकारः क्षयविवर्जितः ॥3.224.५०॥ सच्चिदानन्दरूपोऽस्मि जन्ममृत्युजराऽतिगः ।
अखण्डः स्थिर एकोऽहं दिव्यो मायाविवर्जितः ॥५१ ॥ अभौतिकश्चयशून्यः प्रकाशी हासवर्जितः ।
एकरूपो निर्मलश्चाऽसङ्गी द्रष्टाऽमरोऽस्मि च ॥५२॥ शक्तयो मम दिव्याश्चेन्द्रियशक्तिप्रप्रेरिकाः ।
एतादृशो भवाम्येव चेतनो मोक्षधर्मवान् ॥५३ ॥ इत्यात्माऽनात्मनोः सम्यग् विवेकं समचिन्तयेत् ।
सतां मुखाच्छास्त्रतो वा ज्ञात्वा तं परिशीलयेत् ॥५४॥ पक्वे ज्ञाने देहधर्मसाङ्कर्यं नात्मधर्मसु ।
आत्मनिष्ठो भवेत्तेन भगवन्निष्ठ इत्यपि ॥५५॥ ब्रह्मरूपो भवेदेव मुक्तरूपोऽत्र मानवः ।
न तस्य वासना तिष्ठेन्न भ्रमो नापि यातनाः ॥५६॥ आत्माऽनात्मविवेकोऽयं यस्य नास्ति दृढीकृतः ।
स देहधर्मैर्दुःखाद्यैः पीड्यते भ्रमनोदितः ॥५७॥ यावदभ्यासशैथिल्यं तावद्देहात्मधीवशः ।
पशुवत् पाशवीं वृत्तिं चरत्वहम्ममात्मिकाम् ॥५८॥ देहेन्द्रियाद्यैक्यरूपां कामसङ्कल्पमोहिनीम् ।
स्त्रीपुंवित्तरसासक्तिदुःखतृष्णाऽघसम्भृताम् ॥५९॥ मिष्टभोक्ष्ये गरवत् सा दुःखदा चात्ममोदने ।
तया वृत्त्या निरयान् स प्रयात्येव तु मायिकान् ॥3.224.६० ॥ निरयेषु गतिर्नैव यथा स्यात् प्रयतेत तत् ।
आत्मनिष्ठां साधयीत हरेः सतां प्रसेवया ॥६१ ॥ प्रेम्णा माहात्म्यवित्त्या च देहनिष्ठां परित्यजेत् ।
श्रद्धया सम्प्रसेवेत साधून् भक्त्या जनार्दनम् ॥६२॥ आज्ञायां चाति तिष्ठेच्च हरेः साधोर्निरन्तरम् ।
शास्त्रधर्मान् पालयेच्च माहात्म्यज्ञानमर्जयेत् ॥६३॥ एवं निर्वासनत्वं स्यात् कृष्णे स्नेहात्तु तद् द्रुतम् ।
माहात्म्यज्ञानसहिता भक्तिः कृष्णे विवर्धते ॥६४॥ माहात्म्यज्ञानहीनस्य नश्यन्ति भक्तिदा गुणाः ।
माहात्म्यज्ञानयुक्तस्य गुणाः कल्याणकारिणः ॥६५॥ सर्वे त्वागत्य वर्तन्ते हृदये तु यथा सताम् ।
गुणानामागमे सर्वा नश्यन्ति वासना द्रुतम् ॥६६॥ भजमानस्य भक्तस्य वासनाशेषसम्भवे ।
मृत्युश्चेज्जायते तस्य जन्म देवादिषूज्ज्वलम् ॥६७॥ सम्पद्भोगकरं स्याद्वै भक्तानां च गृहे ततः ।
वासनानाशमासाद्य ततो मुक्तिर्भवेत् ध्रुवा ॥६८॥ सवासनस्य भक्तस्य याम्यगतिर्न विद्यते ।
भक्तिफलं देवलोक ईशलोकोऽथवा मतः ॥६९॥ महाचक्रवर्तिराजा भक्तो भूत्वाऽक्षरं व्रजेत् ।
अपारकरुणः कृष्णो भक्तस्य परमा गतिः ॥3.224.७०॥ स तं निर्वासनं कृत्वा स्वभक्तं परिरक्षति ।
कृष्णधाम्नः सकाशात्तु मायिका वैभवा अपि ॥७१ ॥ भक्तानां निरया एव भासन्ते चात्मवेदिनाम् ।
भुक्त्वा त्यक्त्वा ततस्ते तान् प्रयान्ति चाक्षरं पदम् ॥७२॥ रामनाम जपन् कृष्णं स्पृशन् पश्यन् नरायणम् ।
दिव्यश्च निर्मलो ब्रह्मरूपो भूत्वा परं पदम् ॥७३॥ प्रयाति योगिनां स्थानं मुक्तानां पदमुत्तमम् ।
सतां मण्डलमध्यस्थोऽश्नुतेऽक्षरे महासुखम् ॥७४॥ भक्ता यद्वाऽप्यभक्ता वा साक्षाद्धरेस्तु दर्शनम् ।
स्पर्शनं सेवनं कुर्युस्ते दिव्याः सम्भवन्ति वै ॥७५॥ अभक्ताश्चेत् समनस्काः सेवन्ते प्रीतिसम्भृताः ।
तदा ते वासनां त्यक्त्वा प्रयान्ति परमं पदम् ॥७६॥ अपि भक्ता निर्मनस्काः सेवन्ते श्रीपतिं प्रभुम् ।
तदा तेऽपि शनैर्जन्मान्तरे यास्यन्ति तत्पदम् ॥७७॥ तीव्रसंवेगभक्तानामासन्नतम ईश्वरः ।
मन्दसंवेगभक्तानां दूरतमो जनार्दनः ॥७८॥ निर्मनस्कं हरेर्नामकीर्तनं दर्शनं स्पृशिः ।
सेवनाद्यं तु नैव स्यात् सम्पूर्णफलदं क्वचित् ॥७९॥ निर्मनस्कं तु यद्ध्यानं स्फूर्तिहीनं तु तद्भवेत्॥ यत्र नारायणमूर्तिर्नैव भासेत कर्हिचित् ॥3.224.८० ।
तस्माद् भक्ता उभयथा बाह्ये वा चान्तरेऽर्हणे ।
सप्रेमैकाग्र्यवृत्त्याद्यैः शीलयेयुर्महाप्रभुम् ॥८१ ॥ ते श्रीकृष्णप्रतापेन देहान्ते सद्य एव ह ।
ययुः श्रीकान्तगोलोकं मुक्ताः स्युर्दिव्यविग्रहाः ॥८२॥ अन्ये तु पुण्यमासाद्य भक्त्यादीनां पुनर्जनुम् ।
समासाद्य समाप्यैव पुण्यं यास्यन्ति तत्पदम् ॥८३॥ गोपीनामिव सर्वस्वार्पणैर्येषां तु सेवनम् ।
स्पर्शमीक्षा कीर्तनं च व्यवस्थात्रिवपुःकृतम् ॥८४॥ ते प्रयान्ति द्रुतं कृष्णात्मकं दिव्यं प्रमोक्षणम् ।
स्मृतिं विना कृतं सर्वं निष्फलं मोक्षदं न तत् ॥८५॥ उष्ट्रपाला भवन्तो वै कुर्वन्तु तत् तथाविधम् ।
प्रेम्णा प्रीत्या मनसा च सर्वार्पणेन वै हृदा ॥८६॥ सेवनं कीर्तनं चापि स्पर्शनं श्रीहरेः सताम् ।
तीव्रस्नेहाढ्यभक्तानामाशु मुक्तिर्भविष्यति ॥८७॥ वनिनां कीर्तनं सेवा भक्तिश्च मुक्तिसाधनम् ।
विप्राणां कर्मषट्कं च भक्तिर्नवधा मुक्तये ॥८८॥ सतां स्नानं ध्यानमिष्टं पूजा प्रसेवनं तथा ।
वैराग्यं चात्मनिष्ठा च कृष्णनिष्ठा च मुक्तये ॥८९॥ नारीणां कान्तभावेन सेवनं स्नेहपूरितम् ।
सर्वार्पणं चानुवृत्तिर्दासीत्वं मुक्तये हरौ ॥3.224.९०॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
जपन्तु परमं मन्त्रं बालकृष्णं रटन्त्वपि ॥९ १॥ पूजनं मानसं ध्यात्वा कुर्वन्तु परमात्मनः ।
स्मरन्तु तच्चरित्राणि ततो मुक्तिं व्रजन्त्वपि ॥९२॥ इत्युक्त्वा साधवः सर्वे रामायणादयो रमे ।
विरेमुः पूजिताश्चापि भोजिताः प्रययुस्ततः ॥९३ ॥ दीर्घरम्भादयः सर्वे भेजुः साधूक्तरीतितः ।
अनादिश्रीकृष्णनारायणश्रीवल्लभम्प्रभुम् ॥९४॥ हरेकृष्ण हरेराम हरेविष्णो हरेप्रभो ।
बालकृष्ण हरे सीतापते राधापते विभो ॥९५॥ एवं ते भजनं चक्रुरुष्ट्रपाला वने गृहे ।
सम्भूय सततं स्नेहभक्त्या लक्ष्मि प्रभोर्मम ॥९६॥ अथ कालान्तरे याते दीर्घरम्भादिकानहम् ।
मुक्तिं नेतुमाययौ च दिव्यरूपश्चतुर्भुजः ॥९७॥ वैकुण्ठाधिपतिः रामः सीतया सह शोभनः ।
विमानेन तु दिव्येनाऽनयं तं चेतरानपि ॥९८॥ उष्ट्रदानानि साधुभ्यो दत्तानि यानि तान्यपि ।
दिव्यरूपधरानुष्ट्रानादाय समुपाययौ ॥९९॥ सर्वभूषाधरान् रम्यान् स्वर्णवर्णान् विहङ्गमान् ।
किकिणीघुर्घुरशब्दान् नीत्वाऽहं समुपाययौ ॥3.224.१ ००॥ ये ये भक्ता उष्ट्रपालास्ताँस्तान् दिव्यान् विधाय च ।
आरोहयित्वा चोष्ट्रेषु दिव्यधामाऽनयं मम ॥१०१ ॥ एवं मुक्ता उष्ट्रपालाः रामायनप्रसङ्गतः ।
मया सर्वे कृता दिव्या लक्ष्मि भक्त्या कृपालुना ॥१ ०२॥ पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
भुक्तिर्मुक्तिर्भवेच्चापि तथेष्टर्द्धिश्च सम्पदः ॥१०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रामायनाख्यसाधुयोगेन दीर्घरवादीनामुष्ट्रपालानां मोक्षणमित्यादिनिरूपणनामा चतुर्विंशत्यधिकद्वि-
शततमोऽध्यायः ॥२२४ ॥