२२३

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वमजपालकथां तथा ।
चन्द्र्प्रभायाः सरितो निकटे नन्दिपत्तने ॥१ ॥ उद्यमश्रीसमाख्योऽभूद् भरवाटो ह्यजाधनः ।
पञ्चशतानि सन्त्यस्याऽजानां शतं गवां तथा ॥२ ॥ उरणानां पञ्चशतं गर्दभानां शतं तथा ।
शुनां तु दशकं चापि महिषीणां तु विंशकम् ॥३ ॥ चाराणां भृत्यकार्याणां दशकं तस्य विद्यते ।
पत्नीषट्कं पुत्रपुत्रीसप्ततिश्चास्य विद्यते ॥४ ॥ सीम्नि नदीतटेऽरण्ये शाद्वले घाससम्पदि ।
निबीडौषधिसंशोभे पुष्कलतृणभूतले ॥५ ॥ वसति नन्दिपुरतो नातिदूरे सुवृत्तिके ।
यत्राऽन्यभरवाटानां वसतिः पशुरक्षिणी ॥६ ॥ घोषात्मिका विद्यते वै वन्यभक्ष्यादिकारिणी ।
उद्यमश्रीर्महानास्ते यशसा च तथाऽऽयुषा ।७ ॥ पशुधनेन च कुटुम्बेनाऽतिथिप्रसेवया ।
यस्य वासे समायान्ति वनिनो बहवो मुहुः ॥८ ॥ स्वागतं सोऽपि सर्वेषां करोति पयआदिभिः ।
साधवो यतयः सिद्धाः समायान्ति च योगिनः ॥९ ॥ साध्व्यश्चापि समायान्ति सेवाभाविगृहे मुहुः ।
सत्कारयति सर्वान् सः प्रसन्नयति भोजनैः ॥3.223.१० ॥ दानमानैः सुसन्मानैः पादसंवाहनादिभिः ।
स्त्रियः पुत्राश्च पुत्रश्च भरवाट्योऽपि नित्यदा ॥११ ॥ सेवन्ते साधुपुरुषान् साध्वीश्च बहुभावतः ।
सर्वस्वार्पणभावेन साधून्मत्वा प्रभुं हरिम् ॥१२॥ साधुष्वास्ते हरिः साक्षात् साध्वीष्वास्ते रमा स्वयम् ।
अभ्यागतेषु देवाश्चासते पूज्या यतो हि ते ॥१ ३॥ एवं सेवां कुर्वतस्तु भजमानस्य मां प्रभुम् ।
गृहे तस्याऽऽययुः साध्व्यो विंशतिः साङ्ख्ययोगगाः ॥१४॥ यतिन्यस्ताश्च वैष्णव्यो वृद्धा भक्तिपरायणाः ।
तासां दुग्धादिभिश्चापि वन्यभोजनसम्प्रदैः ॥१५॥ सन्मानं स्वागतं चक्रे वासं काण्डगृहे ददौ ।
उषुस्ताः श्रीकृष्णनारायणभक्तानिकाः स्त्रियः ॥१ ६॥ दिव्या दिव्यगुणोपेताः स्नात्वा नद्यामपूजयन् ।
हरिकृष्णं प्राणपतिं श्रीमत्कृष्णनरायणम् ॥१७॥ ततस्ता भोजनं चक्रुर्निवेद्य परमात्मने ।
विश्रान्तिं च समालभ्य सायं सङ्कीर्तनं व्यधुः ॥१८॥ आरार्त्रिकं चरित्राणां कथां चक्रुश्च वार्तिकाः ।
वल्लव्यो बालकाः कन्याः कथां श्रोतुं सहस्रशः ॥१ ९॥ आययुः परितो ज्ञात्वा साध्वीमण्डलमुत्तमम् ।
मातरस्ता हरेर्मूर्तौ विमग्नवृत्तयः सदा ॥3.223.२० ॥ भजन्ते च रटन्त्येनं श्रीकृष्णं वल्लभं प्रभुम् ।
तासु गुरुपदं प्राप्ता सतीश्वरीतिनामिका ॥२१ ॥ साध्वी कथां हरेश्चक्रे शुश्रुवुर्गोपिकास्त्रियः ।
वल्लवाश्च तथा सर्वे श्रद्धया भक्तिभावया ॥२२॥ लक्ष्मीनारायणसंहितायाः कथां सुमोक्षदाम् ।
पापप्रज्वालिकां सतीश्वरी जगाद शोभनाम् ॥२३॥ मनः कृष्णे धृतं येन जितं तेन जगत् खलु ।
जितं भवेन्मनस्तद्वै यद् धृतं परमात्मनि ॥२४॥ इन्द्रियाणि विषयेषु प्रयान्ति मनसा सह ।
अजितं तु मनस्तद्वै विषयं प्रति यद्गतम् ॥२५॥ परावृत्त्य मनोवृत्तिमिन्द्रियवृत्तिका हरौ ।
धारयेत्तन्मनश्चेन्द्रियाणि जितानि तत्तदा ॥२६॥ रागनाशे विरागः स्यात्तेन मनो जितं भवेत् ।
हरौ प्रीत्या च नाऽन्यत्र गच्छेन्मनो जितं भवेत् ॥२७॥ ब्रह्मस्थित्या विनश्येद्वै रागश्च कामनादयः ।
भोगबुद्धिर्विनश्येच्च मनस्तेन जितं भवेत् ॥२८॥ श्रीहरेः श्रीपतेर्दिव्यसुखे यस्य तु मग्नता ।
माहात्म्यज्ञानयुक्तस्य तस्य मनो जितं भवेत् ॥२९॥ देहभावविनाशेन चिद्भावो यस्य वर्तते ।
मनस्तस्य जडं निरुत्साहं जितं भवेदपि ॥3.223.३०॥ नित्यतृप्तिर्हरेः कान्तान्मायिकात्तु निवर्तनम् ।
तस्य तृप्तं स्थिरं चित्तं मनो जितं सदा मतम् ॥३ १ ॥ देहाभिमाननाशेन चात्मनिष्ठाबलेन च ।
रागवासनात्यागेन मनो जितं सदा भवेत् ॥३२॥ नारीरूपं मनः प्रोक्तं जीवात्मा नररूपधृक् ।
मनो भोगं जहात्येव मनो जितं भवेत् स्वतः ॥३३॥ आत्माऽहं चेतनो नारी परमात्मा नरो मम ।
पतिर्भोक्ता सुखदाता नान्यो मे भोगकृत्परः ॥३४॥ साक्षात्कृष्णो बालकृष्णो हरिः श्रीकान्तवल्लभः ।
पाता धाता विधाता सः प्रियः प्राणपतिः पतिः ॥३५॥ स्वामी धामी च निष्कामी सर्वानन्दपरिप्लुतः ।
ममाऽऽनन्दप्रदः कान्तश्चेत्ययं पुरुषोत्तमः ॥३६॥ ईश्वराणामवतारावतारिणीनां शासकः ।
गोलोकाधिपतिः सोऽयं वल्लवीस्वामितां गतः ॥३७॥ वैकुण्ठाधिपतिः सोऽयं पार्षदाणीपतिः प्रभुः ।
मुक्तानिकापतिः कृष्णोऽक्षरधामविराजितः ॥३८॥ श्रीपुरेऽव्याकृतेऽमृते श्रीलक्ष्मीकमलापतिः ।
ललितामाणिकीनाथः प्रभापद्मावतीपतिः ॥३९॥ ब्रह्मप्रियापतिश्चायं हरिप्रियापतिः स च ।
विशालाबदरीनाथः श्वेतद्वीपरमापतिः ॥3.223.४०॥ क्षिरोदशारदास्वामी सीतापतिः सतीपतिः ।
सर्वसाध्वीपतिः कृष्णः कुम्भकारीपतिः स हि ॥४१ ॥ सर्वमुक्तपतिः साधुपतिः सर्वसखीपतिः ।
सर्वदासीपतिः प्राणमात्रपतिः परः पुमान् ॥४२॥ एवं ज्ञात्वा हरिं कान्तं भजेत् सर्वसुखाश्रयम् ।
तस्य मनो भवेल्लग्नं कृष्णे तद्वै जितं मतम् ॥४३॥ स चायं भगवानास्ते हृदये मे मदात्मनि ।
सञ्चिदानन्दरूपश्च साधुसाध्वीषु राजते ॥४४॥ श्रीमद्गोपालबालश्च राजतेऽक्षरक्षेत्रके ।
सर्वसुखनिधिः साक्षाद् वासुदेवः स एव सः ॥४५॥ मानवानां च देवानां पितॄणां सिद्धयोगिनाम् ।
ईश्वराणामवतारकोटीनां सुसुखानि वै ॥४६॥ मुक्तानां ब्रह्मधाम्नां च यानि यानि सुखानि वै ।
तानि सर्वाणि कृष्णस्य श्रीकम्भरात्मजस्य तु ॥४७॥ रोम्ण एकस्य तु प्रान्ते वर्तन्ते चेदृशः प्रभुः ।
सर्वसुखनिधिः स्वामी कृष्णो यो मिलितोऽस्ति नः ॥४८॥ तस्य धाम्नः सुखस्याऽग्रे धाम्नां सुखानि यानि वै ।
सर्वेषां लोकपालानां व्यूहानामीशधामिनाम् ॥४९॥ ग्रहाणां मरुतां विश्वेदेवानामश्विनोरपि ।
साध्यानां च वधूनां च रुद्राणां द्युसदामपि ॥3.223.५०॥ सूर्याणां व्रह्मविष्णूनां तथाऽन्येषां परौकसाम् ।
स्थानानि निरयाण्येव धाम्नश्चास्य परात्मनः ॥५१॥ तमिमं श्रीपतिं कान्तं हित्वा तु निरयाभिधान् ।
कथमन्यान् सुखसञ्ज्ञान् भजेऽहं परमेश्वरी ॥५२॥ एवं विज्ञाय माहात्म्यं दिव्यभावयुता सती ।
त्यजेन्मोहं निरयाणां जितं तस्या मनः सदा ॥५३॥ वासना विलयं यान्ति मायिक्यः सततं तदा ।
एतादृश्या देहवाञ्च्छा भोगवाञ्च्छा च मायिकी ॥५४॥ न जायते सदा दग्धा जाता निर्मूलिका हि सा ।
एतादृशं महिमानं या न वेत्ति हरेस्त्विह ॥५५॥ तस्या नरे भवेद् वृत्तिः प्राकृतेऽपि सकामना ।
पुत्रे मित्रे कलत्रादौ पत्यौ स्नेहोऽपि बन्धनम् ॥५६॥ मनसो वर्तते तस्याः स्वार्थवर्तनयोषितः ।
सा त्यजेत् परमात्मानं कुटुम्बस्नेहकर्षिता ॥५७॥ रोगादिपीडया वा च विषयाऽप्राप्तितस्त्यजेत् ।
केशवे तु मनस्तस्या विषयार्थं चरेत् सदा ॥५८॥ अलाभे विषयाणां तु पामरा सा भवेत्ततः ।
पतत्येव हरेर्भक्तेर्मोक्षमार्गं न विन्दति ॥५९॥ तस्मात् स्नेहो हरौ कार्यः स्वार्थशून्यो निसर्गजः ।
न वै रूपान्न वै कामान्न लोभान्नैव लाभजः ॥3.223.६०॥ न स्वार्थाद्वा प्रकर्तव्यः स्नेहः किन्तु निसर्गजः ।
दिव्यगुणचमत्कारमाहात्म्यज्ञानसम्भवः ॥६१ ॥ कर्तव्यो वै सदा स्नेहो यस्य नाशो न कर्हिचित् ।
गुणा दिव्या हरौ सन्ति सत्यशौचसुखादयः ॥६२॥ अपारं चापि वात्सल्यं माधुर्यं च सुशीलता ।
सौहार्दं च कृपा स्नेहो दया शान्तिः क्षमा रतिः ॥६३॥ प्रीतिर्हितकरत्वं च सहनं दिव्यता धृतिः ।
औदार्यं शाश्वतानन्दित्वं च शरणरक्षिता ॥६४॥ एते गुणाः समायान्ति भक्तेष्वपि प्रसेवनात् ।
सद्वार्ताश्रवणेनापि गुणाः प्राविर्भवन्ति हि ॥६५॥ एवङ्गुणिषु भक्तेषु स्नेहः कृष्णस्य जायते ।
वपुषा मनसा वाण्या दास्यं कार्यं हरेस्ततः ॥६६॥ हरेः रुच्यनुसारेण वर्तितव्यं तु वर्ष्मणा ।
तप आदि प्रकर्तव्यं हरेः रुच्यनुसारतः ॥६७॥ हरेः सतां योगिनां च साध्वीनां श्रद्धया सदा ।
शुश्रूषणं प्रकर्तव्यं कृष्णे स्नेहो दृढो भवेत् ॥६८॥ वचः कटु न वक्तव्यं सत्यं वाच्यं हितं तथा ।
महद्भिर्न विवादोऽपि कर्तव्यो न जयोऽपि च ॥६९॥ निर्मानं कोमलं वाच्यं प्रमाणं नम्रतान्वितम् ।
उत्कृष्टा वाक् प्रवक्तव्या मान्यं चाज्ञावचो हरेः ॥3.223.७० ॥ आदरात् कठिनं चापि ग्राह्यं वचो हरेः सदा ।
क्रियानर्हमसम्भाव्यं ग्राह्यमेव वचो हरेः ॥७१ ॥ एवं भवेद्धरेः स्नेहः सतां स्नेहस्तथा भवेत् ।
दर्शने श्रवणे ध्याने पूजने सेवने हरेः ॥७२॥ सन्निधौ श्रीहरेर्मूर्तावैकाग्र्यं चेष्टसिद्धिकृत् ।
मुहुर्नवं नवं यद्वद्दर्शनं चाप्यलौकिकम् ॥७३॥ स्थिरं चिरं प्रकुर्याच्च नान्यत् पश्येत्तदा खलु ।
एतादृशं दर्शनं वै हरेः स्नेहस्य कारणम् ॥७४॥ बहिर्वा चान्तरे वेदृग् दर्शनं स्नेहकारणम् ।
चलदृष्टिजने प्रीतिर्जायते नैव शार्ङ्गिणः ॥७५॥ सतां चापि भवेन्नैव प्रीतिश्चान्यविलोकिनि ।
नरे नार्यां पशौ चित्रे कपाटे चलदृष्टिके ॥७६॥ बहुधारेण मनसा दृष्टिः क्रियते चञ्चला ।
तया दृष्ट्याऽन्यत्र गन्तुर्न तत्प्रीतिः प्रजायते ॥७७ ॥ यथा कामी जनः पश्येत् कामुकीं त्वेकचेतसा ।
प्रेमैकतानभावेन तथा पश्येत् प्रभुं पतिम् ॥७८॥ अन्तरा त्वागतं किञ्चिन्नानुसन्धेयमण्वपि ।
आद्यक्षणे यथा पत्युर्वधूट्या दर्शनं नवम् ॥७९॥ दृढरूपधृतिप्राप्तिकरं स्फुरणदायकम् ।
तथा नित्यनवं तद्वै दर्शनं स्नेहकारणम् ॥3.223.८० ॥ कथायाः श्रवणे त्वेवमैकाग्र्यं कार्यमेव यत् ।
स्फुरेच्चरित्रश्रवणाद् भगवान् भूतभावनः ॥८१ ॥ सर्वेन्द्रियेषु चक्षुर्वा कर्णो वा मन इत्यपि ।
चञ्चलानि विशेषेण नियन्तव्यानि तानि वै .॥८२॥ कामेन्द्रियं तथा तेभ्योऽधिकं वै चञ्चलं यतः ।
मनो नियम्य कामोऽपि नियन्तव्यो मनोयुतः ॥८३॥ अन्यथा श्रीहरेर्ध्याने पूजने ग्राम्यमूर्तयः ।
विषयाः क्लेशदाश्चापि स्फुरेयुर्विघ्नकारिणः ॥८४॥ प्रबलं चेन्मनो लिङ्गं चक्षुः कर्णः प्रयाति वै ।
विषयेषु तु ग्राम्येषु तदा कार्यं विचारणम् ॥८५॥ हरिं त्यक्त्वाऽन्यविषये गमने लाभ एव न ।
विषया दुःखदाः सर्वे मायाबन्धकरा यतः ॥८६॥ आनन्दमूर्तिः श्रीकृष्णनारायणश्रीवल्लभः ।
तत्र स्थेयं शाश्वतस्याऽऽनन्दस्य परिलब्धये ॥८७॥ सिद्धदशा दिव्यदशा मोदप्रमोदशेवधिः ।
सर्वं कृष्णाद्भवत्येव तस्माल्लभ सुखं महत् ॥८८॥ अन्यत्र यतमानस्य किञ्चित् सुखं भवेदपि ।
सर्वं दुःखबहुलं तन्निरयस्य प्रदं तथा ॥८९॥ तस्माच्छृणु कथां पश्य कृष्णं चिन्तय सर्वथा ।
आनन्दं याहि तस्माद्वै कृष्णात् कान्तान्न चेतरात् ॥3.223.९० ॥ एवं कृष्णे कृतस्नेहाद् वाञ्छितां सिद्धिमाप्नुयात् ।
विभूतिं सम्पदो रूपं श्रीराधामाणिकीप्रभुम् ॥९१ ॥ विष्णुनारायणतुल्यं सर्वमाप्नोति तद्रतेः ।
सदेहे सर्वमाप्येत मृतौ वा धाम्नि सर्वथा ॥९२॥ तस्माद्धरौ सदा स्थेयं चक्षुषा मनसा गिरा ।
कर्णेन हृदयेनापि कामेन यावदात्मना ॥९३॥ एवं नित्यमनुवृत्त्या कृष्णे प्रीतिमतः खलु ।
प्रीतिमत्या योषितो वा स्यात् कृष्णप्रीतिपात्रता ॥९४॥ कृष्णवत् संस्थितिर्दिव्या लक्ष्मीवद्वा भवेत्ततः ।
न न्यूनं स्याद्धरेस्तस्य तस्याः श्रियोर्न निम्नता ॥९५॥ एवं लक्ष्मि महासाध्वी सतीश्वरी तु वल्लवीः ।
वल्लवान् भगवत्स्निग्धानुपादिदेश मुक्तये ॥९६॥ वल्लव्यो वल्लवाश्चापि भरवाटास्तथाऽपरे ।
उद्यमश्रीप्रभृतयो जगृहुर्भक्तिमुत्तमाम् ॥९७॥ ‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ।
इतिमन्त्रं सतीश्वर्या जगृहुर्नाम चोत्तमम् ॥९८॥ बालकृष्ण हरे कान्त राधापते रमापते ।
मोक्षकृत् वल्लभ सर्वकामप्रद पुमुत्तम ॥९९॥ इतिनामानि जगृहुः कीर्तनं चक्रुरादरात् ।
साध्व्यस्तु भजनं कृत्वा प्रातर्भुक्त्वाऽन्यखेटकम् ॥3.223.१० ०॥ प्रययुर्भरवाटाश्च भरवाट्यस्तथा मुहुः ।
भजनं पूजनं चक्रुर्बालकृष्णस्य सर्वदा ॥१० १॥ तासां भक्त्या हि भगवान् राधया रमया सह ।
प्रादुर्बभूव सहसा माणिक्या च श्रिया सह ॥१ ०२॥ चतुर्भुजस्वरूपं तं दृष्ट्वा महोत्सवे गृहे ।
मन्दिरे व्रतदिवसे द्वादश्यां प्रातरेव ह ॥१ ०३॥ आश्चर्यं परमं प्रापुः सहस्रशो जनास्तदा ।
दत्वा स्वदर्शनं चापि प्रसादं पायसं शुभम् ॥१०४॥ मोक्षार्थं वरदानं च दत्वा तिरोऽभवत् प्रभुः ।
सोऽहं लक्ष्मि ततः काले प्राप्ते उद्यमश्रीजनम् ॥१ ०५॥ भरवाटान् भक्तवर्यान् गोपीश्च प्रेमसम्प्लुताः ।
निन्येऽहं मम धामैव गोलोकं नित्यमुत्तमम् ॥१ ०६॥ एवं साध्वीप्रसङ्गेन भरवाट्यश्च वल्लवाः ।
तारिता मायिकाल्लोकात् स्नेहभक्त्या कृपालुना ॥१ ०७॥ एवं नार्यो नरा ये मां भजिष्यन्ति समर्पिताः ।
सर्वे यास्यन्ति परमं मत्पदं कान्तसेवनम् ॥१ ०८॥ पठनाच्छ्रवणादस्य स्मरणाच्चरणादपि ।
भुक्तिर्मुक्तिर्महासौख्यं भवेन्मया समर्पितम् ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने उद्यमश्रीप्रभृतिगोपालकानां सतीश्वरीसाध्वीसेवया भक्तिर्मोक्षणं चेत्यादिनिरूपणनामा त्रयो-
विंशत्यधिकद्विशततमोऽध्यायः ॥२२३ ॥