२२०

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्तस्य पिशुनस्य वै ।
कथां सम्भलनगरे स्थितस्याऽऽत्मनिवेदिनः ॥१ ॥ नान्नाऽभवद् वाटधरो भक्तो नृपस्य सेवकः ।
सुतारसिंहनाम्नस्तु सेवकः पृथिवीपतेः ॥२ ॥ कुशलो राजनीत्यां च चतुरो राजरञ्जने ।
कृतश्रमो व्यवहारे शास्त्रे विनिमयादिषु ॥३ ॥ प्रसादभूतो राज्ञश्च राज्ञ्या मानस्य चाश्रयः ।
राणकुटुम्बभक्तश्च खवासवर्णमूर्द्धगः ॥४ ॥ पश्यति तीक्ष्णया बुद्ध्या करोति मतिना तथा ।
विचारयति ज्ञानेन प्रज्ञया मन्त्रयत्यपि ॥५ ॥ अर्थावधारिणी बुद्धिर्मतिरागाभिगोचरा ।
ज्ञानं विवेकवैशद्यं प्रज्ञा तु प्रतिभा नवा ।.। ६ ॥ एवं वाटधरे चास्ते विज्ञानं कोविदे यथा ।
असाध्यस्य तु कार्यस्य वाटं मार्गयति ध्रुवम् ॥७ ॥ पारं करोति कार्यस्य प्रशस्तोऽतो नृपादिषु ।
यथा वृद्धो यथा मन्त्री यथा न्यायी यथा गुरुः ॥८ ॥ एवंविधोऽयं वाटध्रो यद्यपि श्रेष्ठनीतिमान् ।
तथापि प्रकृतिवशः पैशुन्यं चरति क्वचित् ॥९ ॥ राज्ञ्या नृपाय नृपते राज्ञ्यै नृपस्य मन्त्रिणे ।
मन्त्रिणस्तु प्रजाभ्यश्च राज्ञ्यै नृपाय वै क्वचित् ॥3.220.१ ०॥ अप्रकाशं यथा तत्स्यान्न जानीयु परे तु तत् ।
एक एव विजानीयाच्छ्रोता तथा वदत्यसौ ॥१ १॥ अथैकदा तु सङ्क्रान्तौ दानं राज्ञी ददौ बहु ।
विप्रेभ्यो दीनवर्गेभ्यः साधुभ्यो भोजनादिकम् ॥१ २॥ प्रच्छन्नं मणिरत्नादि राजा जानाति नैव यत् ।
निजहस्तगतं द्वैपीराज्ञी दानं ददौ धनम् ॥१ ३॥ वाटधरो विजानाति द्वैप्या दातुं नियोजितः ।
दानोत्तरं भोजनं च राज्ञी सद्भ्यो ददौ शुभम् ॥१४॥ साधवो भुञ्जते भोज्यमिष्टान्नानि हरिश्रिताः ।
तत्र विरक्तश्चैकोऽभूद् घट्ययनाभिधो यतिः ॥१५॥ वसति घटिकामात्रमेकस्थले तु नाधिकम् ।
तस्य वै भोजने तत्र जायमाने तु पङ्क्तिशः ॥१ ६॥ जातास्य घटिका पूर्णोत्थाय विहाय भोजनम् ।
ययौ वृक्षान्तरं तत्र घटिकां तस्थिवान् पुनः ॥१७॥ जलं पीत्वा पुनस्तस्मादन्यस्थलं ययौ हि सः ।
एव स घटिकां स्थित्वा याति स्थलान्तरं मुहुः ॥१८ ॥ वाटधरो विलोक्यैनं त्यक्तभोज्यं च चञ्चलम् ।
साये सम्मृग्य यत्राऽऽस्ते तत्र तं प्राप्तवान् द्रुतम् ॥१९॥ गत्वा नत्वा फलं प्रार्प्य वन्दनं संविधाय च ।
पप्रच्छ कारणं तत्र चाञ्चल्यस्य नमन् मुहुः ॥3.220.२०॥ घट्ययनस्तु तं प्राह लक्ष्मि चाञ्चल्यकारणम् ।
एक्रत्र’ घटिकोर्ध्वं त्वस्थायित्वं सद्गुणोऽस्ति सः ॥२१॥ बन्धनं न भवेत् क्वापि रागः क्वापि न जायते ।
ममता जायते नैव वैराग्यः सर्वदा भवेत् ॥२२॥ अपरिग्रह एवापि व्रतं तेन तु रक्ष्यते ।
चिरं वासस्तु बन्धाय चिरवासं न चाचरेत् ॥२३॥ जले स्थले पादपे वा चिरवासो भयावहः ।
साधूनां गोदोहमात्रं घटीमात्रं स्थिरासनम् ॥२४॥ घट्यासनं तु मायायां श्रीकृष्णे शाश्वतासनम् ।
विदित्वैवं विवेकेन चाञ्चल्यं नियमो मम ॥२५ ॥ सङ्गात् सञ्जायते स्नेहः स्नेहाच्च ममता भवेत् ।
तयाऽऽसक्तिस्तया तत्र वासना जायते मुहुः ॥२६॥ सहवासो बन्धनं वै वियोगो मोक्षणं परम् ।
वासना सर्वथा त्याज्या सङ्गस्त्याज्यो महात्मना ॥२७॥ निर्वासनत्वमाप्तब्यं वैराग्येण विवेकिना ।
भगवन्निष्ठायुक्तेन चात्मनिष्ठायुतेन च ॥२८॥ दुःखदोषानुदृष्ट्या च विनिर्वासनता भवेत् ।
अहमात्मा हरेर्भक्तो न मायाया न कर्मणाम् ॥२९ ॥ सच्चिदानन्दरूपोऽहं भिन्नो नश्वरवर्ष्मणः ।
अक्षरेशस्य कृष्णस्य दृढाश्रययुतोऽस्म्यहम् ॥3.220.३०॥ मायायां मे न वै रागो रसो नेन्द्रियगोचरे ।
आन्तरे श्रीवासुदेवे वसाम्यानन्दयामि च ॥३ १ ॥ एवं विवेकिनो नित्यं दृढवैराग्यशालिनः ।
श्रेष्ठविषययोगेऽपि रागाङ्कुरो न जायते ॥३ २॥ रमणीये दिव्यभोगे वर्तमानोऽपि चोन्मनाः ।
असङ्ग्युदासीन आस्ते स निर्वासनको मतः ॥३ ३॥ सतां गुणाँश्च गृह्णीयुर्विजानीयुश्च दिव्यताम् ।
तेऽपि दिव्यगुणाढ्याः स्युर्मायाविजयिनः सदा ॥३४॥ ये तु सतां प्रगृह्णन्ति दोषानवगुणाँस्तथा ।
कामादिकाँस्तुं ते कामाद्यावृत्ताः सम्भवन्ति वै ॥३५॥ कामाद्यैः पीड्यमानास्ते भ्रमन्ति चातिदुःखिनः ।
न मोक्षं नापि सुस्वर्गमैहिकं वाऽऽप्नुवन्ति ते ॥३६॥ आप्नुवन्ति हि नरकान् निन्दकाः पापिनः खलाः ।
नरा नार्यः सतां सङ्गे मन्वते दिव्यतां तु ये ॥३७॥ ते यान्ति ब्रह्मपरमं दिव्यभावातिवर्धिताः ।
तदिन्द्रियाणि मायायां कुण्ठितानि भवन्ति हि ॥३८॥ राजा वा स्याद् गृहस्थो वा समृद्धो भोगवानपि ।
ज्ञानमीदृक् समालभ्य विषयोर्ध्वे स वर्तते ॥३९॥ प्रारब्धपुण्ययोगेन चास्ते विषयमध्यगः ।
तथापि साधुवच्चास्ते योगीव लेपवर्जितः ॥3.220.४०॥ भुञ्जन्नपि ह्यभोक्तैव जलं सरोजनी यथा ।
अम्ब्लदन्तश्चणकानां यथा करोति चर्वणम् ॥४१॥ तथा विषयग्रहणे शक्तो नैव प्रजायते ।
वासना लीयते तेन कुण्ठितस्य तु मायिकी ॥४२॥ मायारसं मनाग् वेत्ति यस्तस्य वासना नहि ।
अपसर्पति हृदयान्मायारसं त्यजेत्ततः ॥४३॥ प्रत्यक्षभगवन्मूर्तौ जानीयात् सर्वपूर्णताम् ।
तेनैव सर्वकार्याणि सिद्ध्यन्ति भक्तयोगिनः ॥४४॥ कृत्वा सत्सङ्गमेवाऽत्र ज्ञातव्यं त्वेतदेव यत् ।
एवं ज्ञातुर्हरिः सर्वं साधयत्येव वाञ्छितम् ॥४५॥ हरौ मनोऽर्पयितुश्च नश्यन्ति वासनास्त्विह ।
येनाऽर्पितं मनः कृष्णे तस्य कृष्णं विना क्षणम् ॥४६॥ युगायते वियोगे वा दाहः स्याद्धृदये महान् ।
कृष्णेप्राप्ते भवेच्छान्तिर्दिदृक्षा वर्धतेऽन्वहम् ॥४७॥ कृष्णप्रतापश्रवणे प्रीतिर्भूरितरा भवेत ।
कृष्णसम्बन्धिकार्येषु रुचिः श्रेष्ठतया भवेत् ॥४८॥ कृष्णादेशस्याऽऽचरणे सदा तत्परता भवेत् ।
एवंविधो दूरगोऽपि वर्तते माधवान्तिके ॥४९॥ आज्ञोल्लङ्घनकारी तु प्रेमहीनो ह्यनर्पितः ।
सहस्थितोऽपि दूरवद् बोध्यः स्वार्थी खलाऽधिपः ॥3.220.५०॥ तस्माद् यथा स्वहृदये वसति माधवः प्रभुः ।
तथाऽऽत्मना विधातव्यो वासोऽक्षरे पदेऽस्य वै ॥५१ ॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
एवं मन्त्रं रट नित्य पूजयाऽच्युतमीश्वरम् ॥५२॥ ‘हरे कृष्ण बालकृष्ण नारायण रमापते ।
अनादिश्रीकृष्णनारायण विष्णो जगत्पते ॥५३॥ एवं नित्यं भजनं श्रीहरेः श्रावय सङ्गिने ।
प्राज्ञे राज्ञै प्रजाभ्यश्च तेन श्रेयो भविष्यति ॥५४॥ इत्येवं लक्ष्म्युपदेशं ददौ वाटधराय सः ।
धट्ययनो हरेर्दासः साधुः सद्गुणभूषणः ॥५५॥ वाटध्रोऽपि गृहं गत्वा भेजे यथानिवेदितम् ।
भजनं च तथा चक्रे हरे कृष्णेति नित्यशः ॥५६॥ घट्ययनस्तु प्रययौ ग्रामान्तरं हरिं स्मरन् ।
वाटध्रस्तु महाभक्तो जातो मोक्षकरो यथा ॥५७॥ राज्ञे राज्ञ्यै प्रजाभ्यश्च ददौ मन्त्रं हि मोक्षदम् ।
भजनं कारयामास हरे कृष्णेति सर्वथा ॥५८॥ भक्तियुक्तस्य लोकेऽत्र सद्गुणाः सम्भवन्ति वै ॥ तथापि दुर्गुणो जातिस्वभावो न निवर्तते ॥५९॥ यद्यपि स्यान्महाभक्तो यथा वै गरुडस्तथा ।.
सर्पभक्षित्वमेतस्य जातिगुणो न नश्यति ॥3.220.६०॥ वानरा रामभक्ताश्च पशुधर्मान् त्यजन्ति न ।
सिंहो भक्तोऽपि पार्वत्या हिंसनं न जहाति सः ॥६१॥ क्षत्रियो विष्णुभक्तोऽपि सङ्ग्रामं न जहाति सः ।
किरातो विष्णुभक्तोऽपि वन्यरीतिं जहाति न ॥६२॥ गौः श्रीकृष्णस्य भक्ताश्च रम्भणं न जहत्यपि ।
खवासोऽयं विष्णुभक्तः पिशुनत्वं जहौ न च ॥६३॥ परगुप्तं शत्रवे वाऽन्यस्मै गुणाऽगुणात्मकम् ।
प्रच्छन्नमिव वक्तव्यं तद्वै पिशुनता मता ॥६४॥ यत्फलं जायते क्लेशो युद्धं कलह इत्यपि ।
वैमनस्यं समुद्वेगः क्रोधो वा नाशनं ह्यपि ॥६५॥ तरमात् कार्यं न पैशुन्यं कस्यचिच्चापराय ह ।
गुणानां दर्शनं कार्यं न तु दोषप्रदर्शनम् ॥६६॥ गुणग्राही सुखं याति जायते पुण्यवानपि ।
दोषग्राही भवेद् दुःखी जायते पापवानपि ॥६७॥ हानिप्रदं हि पैशुन्यं शिक्षणं तु गुणप्रदम् ।
पैशुन्यं नैव कर्तव्यं कर्तव्यं शिक्षणं क्वचित् ॥६८॥ योग्यता चेद्भवेत्तर्हि नान्यथा शिक्षणं ह्यपि ।
पित्रे मात्रे तथा भ्रात्रे स्वस्रे ननान्द्रे योषिते ॥६९॥ पतये बन्धवे शिष्यायाऽपि पुत्र्यै सुताय वा ।
वध्वे वृद्धाय बालाय वक्तव्यं पिशुनं नहि ॥3.220.७०॥ राज्ञे राज्ञ्यै ह्यमात्याय राजपुत्राय सर्वथा ।
प्रजाभ्यो नैव वक्तव्यं पैशुन्यं नृपतेः क्वचित् ॥७१ ॥ खवासजातिदोषेण पैशुन्यमेकदाऽकरोत् ।
राज्ञे निवेदयामास राज्ञ्या दानं कृतं त्विति ॥७२॥ गुप्तं हीरकरत्नादि दत्तवती द्विजातये ।
साधुभ्यो भोजनं चापि भूषाश्च प्रददाविति ॥७३॥ अथ राजा गुप्तधनं दाने दत्तं विदित्य च ।
राज्ञीमाहूय पप्रच्छ वद दत्तं धनादिकम् ॥७४॥ अनाज्ञया प्रदत्तं यन्नेष्टं कृतं हि तन्मम ।
प्रच्छन्नं ते धनं सर्वं तवार्थं रक्षितं सदा ॥७५।
न दानार्थं भवेत्तद्वै दत्तं तन्नोचितं कृतम् ।
नार्या विहाय पत्याज्ञां न कर्तव्यं तु किञ्चन ॥७६॥ यातु तै पितरं राज्ञि प्रच्छन्ना न प्रिया प्रिया ।
प्रच्छन्नव्ययकर्त्री या सा क्वचित् सर्वनाशिनी ॥७७॥ प्रजायेत मया नैतादृशी रक्ष्या गृहे प्रिया ।
याहि स्वपितरं देवि वस तत्र चिरं सुखम् ॥७८॥ इत्युक्ता सा बहुशोकं प्राप्ता रुरोद भामिनी ।
अथ राजा खवासस्य द्वाररूपस्य दानके ॥७९॥ दण्डं व्यधाद्धि सर्वस्वहारकं निगडेऽकरोत् ।
कर्ता कारयिता चानुमोदयिता समोऽनये ॥3.220.८०॥ इति राजा ददौ दण्डं जहार गृहवाटिकाः ।
धनद्रव्यं जहाराऽपि भक्तस्य वाटधारिणः ॥८ १ ॥ वाटध्रोऽपि हरिं भेजे निगडस्थोऽतिदीनवत् ।
राज्ञी मानविहीना च स्वसौधेऽशनवर्जिता ॥८२॥ व्रतस्था ह्यभवत्तूर्णं मर्तुकामा तु वैष्णवी ।
दानधर्मे न वै दुःखं कथं दुःखमुपस्थितम् ॥८३॥ दुःखहरो हरिकृष्णो दुःखं मे व्यपकर्षतु ।
इत्येवं मम मूर्त्यग्रे कृताऽनशनिका स्थिता॥८४॥ निगडस्थोऽपि वाटध्रस्तथैवाऽनशने स्थितः ।
दानकार्ये न वै दण्डो भवेन्मत्वा हरिं प्रतिं ॥८५॥ निवेद्य दुःखमुत्पन्नं दध्यौ स्वहृदये प्रभुम् ।
प्रकाशेऽपि स वृत्तान्तः प्रससार प्रजादिषु ॥८६॥ प्रजासु विप्रवर्गेषु साधुषु प्रमदासु च ।
शोको विवेश सहसा राज्ञा योग्यं न तत्कृतम् ॥८७॥ एवं वार्ता तु सर्वत्र प्राचरद् दानशंसिनी ।
दानं धर्मो हि राज्ञां वै राज्ञ्या कृतं शुभं कृतम् ॥८८॥ राज्ञो द्रव्यस्य नास्त्येव न्यूनता राज्यभोगिनः ।
इत्येवं वै प्रजास्वेवाऽभवद् वार्ताऽतिशोभना ॥८९॥ राज्ञीदुःखविनाशार्थं वाटधारस्य शान्तये ।
प्रजाश्चापि हरिं स्मृत्वाऽऽशीर्वादान् सुखदान् ददुः ॥3.220.९०॥ विगतेऽनशने तत्र सप्ताहे निशि माधवः ।
अनादिश्रीकृष्णनारायणोऽहं निगडालये ॥९१॥ भक्तरक्षाकरोऽगच्छं राज्ञ्याश्च मन्दिरे तथा ।
शङ्खचक्रगदापद्मकिरीटहारशोभितः ॥९२ ॥ दत्वा स्वदर्शनं दुग्धपानं राज्ञ्यै ददावहम् ।
वाटध्राय ददावेव दुग्धपानं ततः परम् ॥९३॥ आश्वासनं प्रदायैव राजसौधमुपाययौ ।
विप्ररूपोऽतितेजस्वी धर्मशस्त्रविदां वरः ॥९४॥ राजाऽऽसनं ददौ मे च मया पृष्टो निरामयम् ।
अक्लेशं च कुटुम्बस्य स चाह मां तु सामयम् ॥९५॥ वृत्तान्तं कथयामास क्लेशस्य कारणं नृपः ।
उपादिशं ततो राज्ञे स्त्रीधने स्त्री स्वतन्त्रिका ॥९६॥ तत्रापि दानरूपे तु योग्या सा पुण्यकारिणी ।
पतिस्तरति नार्या वै धर्मिण्या भक्तियोषिता ॥९७॥ गोदानं रत्नदानं च भूषादानं हि तारयेत् ।
पतिं नृपं महापापं श्रेष्ठदानं हि तारयेत् ॥९८॥ तस्माद् राजन् सतीं नारीं प्रमानय यथोचितम् ।
वाटध्रं मानय चापि सत्कार्यकारिणं त्विह ॥९९॥ इत्युक्त्वा तैजसा व्याप्तमदर्शयं स्वयं स्वकम् ।
रुपं राज्ञे मुमुदाऽसौ राजा पपात पादयोः ॥3.220.१ ००॥ ययाचे स क्षमां चापि मोक्षं नारायणालये ।
अदृश्योऽहमभवं च पूजामादाय यत्कृताम् ॥१ ०१॥ राजा राज्ञीं खवासं च मानयामास सत्कृतैः ।
उत्सवं कारयामास दानशंसां शुभां तथा ॥१ ०२॥ कलहं शान्तयामास स्नेहभाषणदानकैः ।
प्रत्यर्पणैस्तु वाटध्रायाऽपि मानं व्यधात्तथा ॥१ ०३॥ एवं लक्ष्मि मया भक्ता राज्ञी तदा सुरक्षिता ।
मर्तुकामा मूर्छिता सा क्षुधया दुग्धपायिता ॥१ ०४॥ वाटधरोऽपि मे भक्तो रक्षितो राजदण्डतः ।
अथ काले समापन्ने राजानं भक्तिवेदिनम् ॥१०५॥ राज्ञीं वाटधरं चापि विमानेनाऽनयं निजम् ।
अक्षरं परमं धाम पैशुन्यवर्जितं ततः ॥१ ०६॥ पठनाच्छ्रवणादस्य स्मरणात् पापनाशनम् ।
भुक्तिं मुक्तिं लभेच्चापि स्वर्गं स्वेष्टं परं रमे ॥१ ०७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वाटधरस्य पिशुनखवासस्य तथा द्वैपीराज्ञ्याश्च सुतारसिंहनृपतेर्दण्डाद् भगवता कृतं रक्षणं मोक्षणं चेत्यादिनिरूपणनामा विंशत्यधिकद्विशततमोऽध्यायः ॥२२० ॥