२१६

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शिल्पकलाविदः कथाम् ।
नाम्ना सञ्जयदेवस्य मम भक्तस्य शोभनाम् ॥१ ॥ कुतर्कपुरवासोऽभूद् भक्तो नारायणे मयि ।
कुटुम्बसहितो नित्यं भजते मां श्रियः पतिम् ॥२ ॥ बहुधा शिल्पिनं वेत्ति काष्ठपाषाणधातुजम् ॥ वृक्षवल्लीस्तबकादि देवर्षिमानवादि च ॥३ ॥ पशुपक्षिसर्पकीटादि च तत्त्वादिकं तथा ।
सर्वविधं कलया स विजानाति यथायथम् ॥४ ॥ सर्वविधे शिल्पने सञ्जयदेवो हरिं तु माम् ।
लिखत्येवाऽन्तरे सूक्ष्मं सूक्ष्ममूर्तिस्वरूपिणम् ॥५ ॥ यथाऽन्ये नैव जानीयुस्तथा वै नान्तरीयकम् ।
शिल्पे चान्तरशिल्पं च तदन्तरे तु मां शुभम् ॥६ ॥ विदधाति स्मरन् मां स सबीजं शिल्पिनं यतः ।
दिव्यं भवति श्रीकृष्णाऽर्पितं कृष्णसुयोगवत् ॥७ ॥ एवं कृष्णार्पणं भक्तः करोति मन्मयं सदा ।
सर्वं मदात्मकं शिल्पं सफलोद्यमशोभितम् ॥८ ॥ भक्तो निजान्तरे भक्तिं मनुते तत्कलात्मिकाम् ।
यत्र नारायणश्चाऽहं निर्मीतः सम्भवामि ह ॥९ ॥ शिल्पकलासु सर्वासु मां च नारायणं हरिम् ।
चष्टे ध्यायति कुरुते नमति पूजयत्यपि ॥3.216.१० ॥ प्रातर्नित्यं समुत्थाय ध्यात्वाऽर्हणं करोति मे ।
मूर्तेः पञ्चामृतस्नानं तीर्थस्नानं तथाऽर्घ्यकम् ॥१ १॥ भूषाशृङ्गाराऽम्बराणि समर्पयन्ति मे सदा ।
धूपं दीपं च नैवेद्यं ताम्बूलकं जलं तथा ॥१२॥ सुगन्धितैलसारं च महार्हासनमञ्चकम् ।
समर्पयति नत्वा मे कृत्वा च दण्डवत् स्तवम् ॥१ ३॥ नित्यमर्थयति श्रेयश्चैहिकं पारलौकिकम् ।
सतां समागमं कृष्णसेवां श्रीकृष्णकीर्तनम् ॥१४॥ करोति सञ्जयो नित्यं केशवत्या स्वयोषिता ।
पुत्रेण सुरदेवेन साकं गृहे निशामुखे ॥१५॥ नृत्यं च गायनं कृष्णचमत्कारकथाश्रवम् ।
करोति शुभनैवेद्यं प्रसादस्य प्रदानकम् ॥१६॥ भुक्त्वा प्रासादिकं पश्चादुद्योगे वर्तते सदा ।
एवं सञ्जयदेवो मे भक्तिनिष्ठो हि वर्तते ॥१७॥ तस्याऽऽज्ञायां शिल्पिनोऽन्ये वर्तन्ते कर्मचारिणः ।
तेऽपि सञ्जययोगेन भजन्ते परमेश्वरम् ॥१८॥ अथैकदा नृपो नाम्ना खड्गवर्मा विहारराट् ।
स्वस्य नूतनसौधस्य निर्मित्यै तं समाह्वयत् ॥१९॥ साप्तभौमस्य कक्षासु कोणे कोणे स्थले स्थले ।
यावत्प्रसिद्धजातीनां पुत्तलीस्थापनाय तु ॥3.216.२० ॥ आज्ञां चकार नृपतिर्धनव्ययेऽप्युदारताम् ।
प्रदर्शयन् ददानश्च तोषयन् कर्मशिल्पिनः ॥२१ ॥ भक्तोऽयं नृपतेराज्ञां स्वीचकारातिमोदवान् ।
शुभेक्षणेक्षितिं योग्यविधिना सम्प्रपूज्य सः ॥२२॥ खनित्वा मङ्गलं तत्र नृपहस्तेन संव्यधात् ।
प्रासादः सप्तभौमो वै सम्पन्नश्चेन्द्रसौधवत् ॥२३॥ स्थले स्थले पुत्तलानि प्रातिष्ठिपन्महान्त्यपि ।
रम्याणि च विचित्राणि सौम्यमनोहराणि च ॥२४॥ नारायणस्य कृष्णस्य राधायाश्च श्रियास्तथा ।
सरस्वत्याश्च लक्ष्म्याश्च माणिक्या ब्रह्मयोषिताम् ॥२५॥ श्रीहरेरवताराणामीश्वराणां शुभान्यपि ।
ईश्वरीणां प्रतिमाश्च महर्षिसुरयोगिनाम् ॥२६॥ देवीनां देवतानां च मानवानां च पक्षिणाम् ।
पशूनां वन्यजातीनां ग्रामीणानां च देहिनाम् ॥२७॥ पावनानां मङ्गलानां ख्यातानां प्रतिमास्तथा ।
उद्भिज्जानां सुरम्याणां दृश्यानि सरितां तथा ॥२८॥ पर्वतानां ग्रहाणां च विद्युतां व्योमचारिणाम् ।
मेघानां च समुद्राणां दृश्यान्यपि व्यदर्शयत् ॥२९॥ एवंविधं महासौधं रचयित्वा स्थले स्थले ।
सूक्ष्मं नारायणं मां स समस्थापयदच्युतम् ॥3.216.३०॥ प्रसन्नमानसो भक्तो वास्तुं तस्य न्यवेदयत ।
राजा विप्रान् समाहूय वास्तुपूजामकारयत् ॥३ १॥ हवनानि भोजनानि पूजनानि ह्यकारयत् ।
दानानि दक्षिणाः पारितोषिकाणि ददौ नृपः ॥३२॥ शिल्पिने स्वर्णशृङ्गारैरलङ्कृतं गजं ददौ ।
ग्रामाणां पञ्चकं चापि दासान् दासीस्तथा ददौ ॥३ ३॥ शिल्पिभ्यश्च यथायोग्यधनादीनि नृपो ददौ ।
अथाऽलङ्कृतहस्तीन्द्रं समारुह्य गृहं निजम् ॥३४॥ यावत् सञ्जयदेवस्तु प्रयाति तावदेव तु ।
मार्गे गजः प्रमत्तोऽतिमदाविष्टोऽभवद् द्रुतम् ॥३५॥ अप्रधृष्यश्चातिबलो विचित्तोन्मत्तसञ्चरः ।
अशासनीयोऽप्यभवन्महाविभ्रम उद्व्रतः ॥३६॥ हस्तिपकाऽनियम्यश्चाऽगम्यो भीतिकरस्तथा ।
महाबृंहणकर्ता च महावेगद्रवान्वितः ॥३७॥ धावमानोऽनियमितो दुद्रावोत्पथसञ्चरः ।
मानवा दुद्रुवुर्भीताः प्राणरक्षार्थमेव ह ॥३८॥ न केऽपि तत्र तिष्ठन्ति यत्र याति हि वारणः ।
अम्बालिका सकूथा च विवृता पतिता क्षितौ ॥३९॥ पतितः सञ्जयश्चापि हस्तिपकः पपात च ।
गजः सञ्जयदेवं मे भक्तं निगृह्य शुण्डया ॥3.216.४० ॥ दूरे चिक्षेप सहसा भक्तः पपात खातके ।
खातमध्ये ह्यनिःसारे पातपीडातिमूर्छितः ॥४१॥ सस्मार मां हरिं तत्र हृदये भक्तरक्षकम् ।
गजो दूरं गतो यावत्ततः खातं तु मानवाः ॥४२॥ आययुस्तस्य वीक्षार्थं रक्षार्थं परितो जनाः ।
तत्पूर्वं तु तदा लक्ष्मि भक्तपार्श्वं गतोऽभवम् ॥४३॥ हस्ताभ्यां संस्पृशँस्तं च मूर्छां पीडामनाशयम् ।
दर्शनं मे ददौ तस्मै कृष्णनारायणात्मकम् ॥४४॥ हस्ते धृत्वा बहिस्तं चाऽनिष्कासयं तु गर्ततः ।
स्वस्थो भक्तो विरोगश्च बाधापीडाविवर्जितः ॥४५॥ भजन्यां च रहन् मां च मोहमानो हि मानवान् ।
जगाद भगवानत्राऽऽगतो मे रक्षणाय वै ॥४६॥ तत्काराभ्यां नीरुजोऽहं विपीडोऽत्र भवामि ह ।
एवं नारायणं सर्वे भजन्तां परमेश्वरम् ॥४७॥ इत्युक्त्वाऽदर्शयत् सर्वानङ्गुल्या मां पुरःस्थितम् ।
विप्ररूपधरं कृष्णं तेजोव्याप्तसुविग्रहम् ॥४८॥ प्रणेमुस्ते हरिं मां च दिव्य मानवविग्रहम् ।
कल्याणं प्रार्थयाञ्चक्रुश्चोपादिदेश चाप्यहम् ॥४९॥ कल्याणं जायते कृष्णभक्त्या सतां प्रसेवया ।
सर्वमित्यर्थकर्तव्यं श्रीकृष्णप्रीतिहेतुकम् ॥3.216.५०॥ सतां प्रसन्नता लभ्या गुणा लभ्याः सतां तथा ।
देवाधिकाः सदा सन्तो मान्या मुमुक्षुभिः शुभाः ॥५१ ॥ विष्णुवच्चाऽर्चनीयास्ते सेवनीयाश्च विष्णुवत् ।
सतामाज्ञा पालनीया वचोधार्यं च मानसे ॥५२॥ वर्तितव्यं च निश्छद्म सतामग्रे तु दासवत् ।
कृष्णतुल्यान् सतो दृष्ट्वा नमनीयं तदग्रतः ॥५३॥ मन्तव्यं हृदये नैजे सन्तः श्रीकृष्णमूर्तयः ।
महान्तस्ते समर्थाश्च दिव्याः सर्वात्मना शुभाः ॥५४॥ पावनाः श्रीकृष्णरूपा विक्रियावर्जिताः पराः ।
मायापारगताः सन्ति मायायामहमस्मि च ॥५५॥ मम मायाविलोपो वै सत्सेवया भविष्यति ।
पामरस्य मम सर्वाण्यघान्येष्यन्ति सङ्क्षयम् ॥५६॥ एवं सतां गुणग्राही गुणसिन्धुर्भवेदिह ।
ये तु लोके दुष्टजना निन्दन्ति साधुयोगिनः ॥५७॥ कथयन्ति मिथो निन्दां सतां चागुणवर्णनाम् ।
यथेमे साधवः सन्ति विवेकवर्जिताः खलु ॥५८॥ लोके स्थातुं न जानन्ति भोक्तुं पातुं च भाषितुम् ।
परिधातुं च वसनं दातुं जानन्ति नैव च ॥५९॥ कर्तुं चाभ्यागतस्य स्वागतं विदन्ति नैव च ।
महत्त्वं ख्यापयितुं स्वं यतन्ते चोपदेशदाः ॥3.216.६० ॥ कामो लोभो रतिः क्रोधो विद्यन्तेऽस्य यथा मम ।
नाऽयं साधुर्मृषा साधुरेवं गृह्णन्ति दूषणम् ॥६१ ॥ एतादृशाश्चर्मनेत्रा निरयालयभोगिनः ।
दुःखिनोऽत्र प्रजायन्ते मृत्वा याम्याधिकारिणः ॥६२॥ कदापि ते न जायन्ते गुणिनो मोक्षसन्मुखाः ।
आसुरास्ते तु विज्ञेयाः सतां द्रोहकरास्त्विह ॥६३॥ यूयं शिल्पकलाज्ञा वै सञ्जयोऽयं विशेषतः ।
यावत्कलासु मूर्तिं मे धारयत्येव सर्वथा ॥६४॥ तत्र सर्वत्र भक्तिर्मे भवत्यस्य च वस्तया ।
तादृशीभक्तियोगेन विप्ररूपी जनार्दनः ॥६५॥ समायातोऽस्मि रक्षाकृत् प्रसन्नः सेवया मम ।
सतः संसेव्य च हरिं यान्तु मोक्षं परं पदम् ॥६६॥ कृष्णार्चा कृष्णवत् पूज्या मान्या सेव्या च कृष्णवत् ।
सन्तस्तथैव सम्पूज्याः मान्याः सेव्याश्च कृष्णवत् ॥६७॥ कृष्णो महान्तः सन्तश्च सर्वैश्वर्यादिसम्भृताः ।
सर्वरक्षाकराः सन्ति सर्वगाः शक्तिशालिनः ॥६८ ॥ परकायं प्रविशन्ति रक्षन्त्यापद्विपत्तितः ।
कृष्णो मूर्तिं समाविश्य वर्तते रक्षणाय वै ॥६९॥ मूर्तौ निजेच्छया साक्षात् प्रविश्यैव विराजते ।
साक्षान्मे तु यथा तद्वन्मर्यादा सर्वथा सदा ॥3.216.७०॥ मूर्तेरग्रे सतामग्रे पालनीया हि गौरवात् ।
सतां हृदये साक्षाद्वै स्वयमाविश्य सर्वथा ॥७१ ॥ वर्तेऽहं वै ततो नित्यं सेवनीया हि साधवः ।
मर्यादा पालनीया वै सतां मूर्तेश्च मे समाम् ॥७२॥ ये तु मत्वा हि पाषाणं मूर्तिं सतस्तु मानवान् ।
प्राकृतान् साधुपुरुषान् मत्वा निन्दन्ति नास्तिकाः ॥७३॥ मम वचांसि साधूनां वचांसि मोक्षदान्यपि ।
मानयन्ति मृषा निरर्थकानि ते तु मायिका ॥७४॥ निन्दकाः पापिनो यास्यन्त्येव दुःखं तु नारकम् ।
तेषां चात्मपरात्मादिविज्ञानं नैव जायते ॥७५॥ कृष्णस्य निश्चयो नैव जायते मूर्तिगस्य मे ।
कल्याणं तादृशानां वै नैव भवति नैव हि ॥७६॥ दौर्मत्यं खलु तेषां तु मूर्तावेवेति नैव च ।
किन्तु सत्सु तथा तद्वत् स्वेष्टदेवेषु तादृशम् ॥७७॥ अनीशत्वादिनास्तिक्यं जायते बहुपापिनाम् ।
ईश्वरानवताराँश्च मन्वते नैव सर्वथा ॥७८॥ गोलोकं चापि वैकुण्ठं श्रीपुरं चाक्षरं पदम् ।
ब्रह्मपदं च विभवान् मन्वते नैव ते खलाः ॥७९॥ खलानां सम्प्रसङ्गेन जायते खलता तथा ।
पूर्वपापादियोगेन जायते खलता ह्यपि ॥3.216.८०॥ नास्तिकानां वचोभिश्च कथाभिः सङ्गतस्तथा ।
कामक्रोधाभिमानाद्यैर्दोषैश्च खलता भवेत् ॥८१ ॥ खलस्य हृदये भावो न तिष्ठते सतां हरेः ।
तस्मात् खरादितुल्यस्य खलस्य सङ्गमः क्वचित् ॥८२॥ वर्तव्यो नैव लोकेऽत्र मुमुक्षुभिस्तु मानवैः ।
श्रोतव्या सुकथा दिव्या दिव्यबोधप्रदा हरेः ॥८३॥ सतां कथा दिव्यलीला श्रोतव्या सेवकैः सदा ।
कर्तव्यः सङ्गमश्चापि सतां नारायणस्य च ॥८४॥ दिव्यता च सतां बोध्या बोध्या मूतौ स्थितिर्मम ।
विज्ञेयं मम माहात्म्यं सतां बोध्यं च मादृशम् ॥८५॥ एवंविधस्य भक्तस्य रक्षां करोमि सर्वथा ।
यथा रक्षा कृता गर्ते सञ्जयस्य मया त्विह ॥८ ॥ मूर्तौ स्थित्वा परां रक्षां करिष्ये मां भजन्त्विति ।
सर्वजीवेषु कृष्णोऽहं निवसामीत्यहिंसया ॥८७॥ सर्वथा वर्तितव्यं मे भक्तैर्दयापरैरिह ।
अद्रोहो बलवान् धर्मः प्रीणनं धर्म उत्तमः ॥८८॥ सर्वस्वार्पणभावैश्च प्रीणयेन्न तु हिंसयेत् ।
कायेन वाचा मनसा क्रियया सेवयाऽपि च ॥८९॥ प्रीणयेन्मां सतश्चापि स्वर्गं मोक्षं लभेत्ततः ।
क्रोधाऽहङ्कारमानाद्या दोषा वर्ज्या हि हिंसकाः ॥3.216.९०॥ शान्ततया सदा स्थेयं भजनीयो जनार्दनः ।
भजनीयाः साधवश्च भगवत्पादसद्रसाः ॥९१॥ इत्युक्त्वा मम भक्तेभ्यो दत्वा मन्त्रं मदाश्रयम् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥९२॥ भक्तकृतां प्रपूजां सङ्गृह्य तिरोऽभवं द्रुतम् ।
गजस्तु राजपुरुषैर्धृतश्चातिप्रयत्नकैः ॥९३॥ शमितश्चोपचारैश्च सञ्जयाय ततो ददुः ।
अथ स्मृद्धं मम भक्तं पूर्णायुष्येऽहमच्युतः ॥९४॥ लक्ष्मि मोक्षप्रदानार्थं प्रत्यक्षस्तद्गृहेऽगमम् ।
हस्तियाने तु भक्तं तं समादाय तथाऽपरान् ॥९५॥ प्रदर्श्य दिव्यतां मे चाऽनयं पत्तीयुतं द्रुतम् ।
धामाऽक्षरं परं दिव्यं तथाऽपरान् सुशिल्पिनः ॥९६॥ अप्रापयं परं धाम नरान्नारीश्च भावुकीः ।
एवं रक्षा मया लक्ष्मि कृता गर्ते च हस्तितः ॥९७॥ मम मूर्तिं शिल्पविदः कुर्वन्ति पूजयन्ति माम् ।
दिव्यभावास्तु ते भक्त्या यान्ति मे परमं पदम् ॥९८॥ यादृशीषु तादृशीषु शालग्राम शिलास्वहम् ।
सत्सु सतीषु साध्वीषु योगिष्वपि वसाम्यहम् ॥९९॥ सर्वत्राऽवस्थितश्चाऽस्मि प्रतिष्ठापितमूर्तिषु ।
विशेषतः स्थितश्चाऽस्मि भक्तमानसपूरकः ॥3.216.१ ० ०॥ यत्र मम निवासोऽस्ति काष्ठे कुड्ये शिलातले ।
सर्वं दिव्यं भवत्येव दिव्यस्य मे प्रसङ्गतः ॥१०१ ॥ माया दिव्या मम योगान्नारी नरो द्रुमादयः ।
मम योगेन दिव्यास्ते जायन्ते मोक्षदाः सदा ॥१ ०२॥ दोषा गुणाः प्रजायन्ते जडानि चेतनानि वै ।
मम योगेन दिव्यानि जायन्ते यानि कान्यपि ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शिल्पकरस्य सञ्जयदेवस्य भक्त्या भगवता गजतो रक्षणं कृतं मोक्षणं चेत्यादिनिरूपणनामा
षोडशाधिकद्विशततमोऽध्यायः ॥२१६ ॥