२१५

पुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शिलाहारकथां तथा ।
नाम्ना दामशिलादौ वै पुरा सुदामपत्तने ॥१ ॥ न्यवसत् सकुटुम्बोऽयं खन्यश्मविक्रयोद्यमः ।
शतशो वै जना भृत्या यत्रोद्यमं प्रकुर्वते ॥२ ॥ शिलास्तु महतीर्दीर्घा निष्कासयन्ति भूस्तरात् ।
प्रेषयन्ति विदेशेषु देवराजालयार्थिकाः ॥३ ॥ शिखराणि विचित्राणि प्रासादा भिन्नजातयः ।
श्वेतशिलामया दिव्याः शिल्पकलादिशोभिताः ॥४ ॥ जायन्ते शिल्पिवर्याणां कलाभिस्तच्छिलाकृताः ।
पाषाणानां हि खननं दिवा तु खनिभूस्तरे ॥५ ॥ सततं तदभिज्ञैस्तु क्रियते दामनोदितैः ।
द्रष्टा दामशिलादो वै प्रमाता मूल्यकृत्तथा ॥६ ॥ निरीक्षणं यथाकालं कुरुते खनिभूस्तरे ।
कर्मचारा यतन्ते च निष्कासनेऽधिरोहणे ॥७ ॥ शक्ट्या गन्त्रिकायां च बहुसाधनसम्पदः ।
तत्र दामशिलादो वै क्रयार्थं चाऽऽगतार्थिने ॥८ ॥ शिला ददाति मूल्येन दाम्ना यथोचिताः शुभाः ।
मूर्तियोग्या बहुमूल्याः सौधयोग्यास्तथाविधाः ॥९ ॥ गृहयोग्या भित्तियोग्याः स्तरयोग्यास्तथाऽपराः ।
विभिन्नमूल्यभावैश्च ददाति तास्तदर्थिने ॥3.215.१ ०॥ भृत्या दामशिलादस्य गन्त्र्यामारोहयन्ति ताः ।
वृषभैरुष्ट्रकैर्हस्तिवर्यैश्च गेण्डकैस्तथा ॥१ १॥ महिषैर्यन्त्रवयैश्चाऽऽकर्षयन्ति सुगन्त्रिकाः ।
सर्वत्र रक्षणं नारायणो हि भगवान् स्वयम् ॥१ १॥ करोत्यारोहणे चावरोहणे च प्रसारणे ।
उत्थापनेऽपसरणे विवर्तने विदारणे ॥१३॥ शतभारास्तत्र काचित् काचित्ततोऽधिगुर्विणी ।
तदर्धाश्च तदर्धाश्च खन्यन्ते नित्यमेव ताः ॥१४॥ क्वचिच्छिलातिभारेण शकटी भङ्गमेति हि ।
शिलातले हि शकटी चूर्णिता कच्चरायते ॥१५॥ अकस्मादापदाद्यासु रक्षत्येव प्रभुर्हरिः ।
विचार्येत्थं कर्मचारान् दामशिलाद उत्तमम् ॥१६॥ हरे नारायण स्वामिन् वल्लभ श्रीपते हरे ।
इत्येवं भजनं सङ्कीर्तनं च रटनं हरेः ॥१७॥ उपादिदेश सततं रक्षणं येन मोक्षणम् ।
स्वयं करोति भजनं भृत्यान् प्रकारयत्यपि ॥१८॥ शिलासु कृष्णनामानि गुणवन्ति न्ययोजयत् ।
कृष्णशिला रामशिला नारायणशिला तथा ॥१९॥ लक्ष्मीशिला रमोपला राधोपला हरोपला ।
देवोपला मन्दिराऽश्मा मूर्त्युपला सतीशिला ॥3.215.२०॥ विष्णुशिला ब्रह्मशिला परमेशशिलेति च ।
देवीशिला सूर्यशिला तीर्थशिला गुरूपला ॥२१ ॥ मोक्षशिला चात्मशिला मुक्तिशिलेति वै तथा ।
अवतारशिला तद्वद् गोलोकप्रस्तरस्तथा ॥२२।
वैकुण्ठशिला चक्राश्मा शालग्रामशिला तथा ।
भगवत्प्रस्तरश्चापि जनार्दनशिलेति च ॥२३॥ योगशिला ज्ञानशिला ध्यानशिलेति नामभिः ।
शिलावर्गाः कृतास्तेन नारायणप्रसत्तये ॥२४॥ नारायणं रटिष्यामि शिलायोगेन मानवाः ।
शुभनाम ग्रहीष्यन्ति पापनाशकमुत्तमम् ॥२५॥ इत्यभिप्रेत्य नामानि हरेः सुयोजितानि वै ।
तेन दामशिलादेन शिलासु मोक्षदानि हि ॥२६॥ मानवा अपि गृह्णन्ति शिलाव्याजेन शार्ङ्गिणः ।
नामानि भृत्यवर्गाश्च श्रेष्ठिनः पावनानि वै ॥२७॥ एवं भक्तेन सद्भक्तिः कारिता कीर्तनात्मिका ।
पाविताश्च नरा नार्यः प्राकृता अपि नामभिः ॥२८॥ पुण्यं महत्तमं तस्य जातं प्रसन्नतात्मकम् ।
ममाऽनुग्रहरूपं वै वर्धतेऽपि निरन्तरम् ॥२९॥ भक्तभक्तिं समाकर्ण्य तद्गृहं मानवा रमे ।
सन्तो भक्ताः समायान्ति धार्मिका यात्रिभिक्षुकाः ॥3.215.३०॥ मिलित्वा ते प्रकुर्वन्ति भजनं मम कीर्तनम् ।
शिलाजन्यां मम मूर्तिं सम्प्रतिष्ठाप्य वै गृहे ॥३१॥ पूजयन्ति सदा भावैर्महोत्सवैः सुवस्तुभिः ।
गायनं नर्तनं गीतिं कुर्वन्ति रासमग्रतः ॥३२॥ धूपदीपादिकं चापि नैवेद्यं च जलं च मे ।
समर्प्य मत्प्रसादं ते गृह्णन्ति च वियन्ति च ॥३३॥ एवं सत्सङ्गसङ्घो वै दामशिलादमन्दिरे ।
पुष्टिं प्राप्तस्तदा लक्ष्मि प्रसन्नोऽहं विशेषतः ॥३४॥ अभवं च प्रतिमायां वर्तमानो निरन्तरम् ।
कृतां सेवां च गृह्णामि रक्षां करोमि सर्वथा ॥३५॥ अथैकदा गृहे भक्तश्चासीद् भृत्यास्तु वै खनौ ।
क्रोशदूरेऽभवन् सर्वे शिलानिष्कासने रताः ॥३६॥ दीर्घा महोपला तैश्च निष्कासिता बहिः कृता ।
आरोपिता शकट्यां च भग्ना सा शकटी द्रुतम् ॥३७॥ शकटीपार्श्वगा भृत्याः कर्मचारास्तु येऽभवन् ।
तेषु द्वित्राः शकट्यां वै कच्चरिताः शिलातले ॥३८॥ हाहा शोकस्तदा तत्र व्यजायत जनेषु वै ।
जलं कच्चरिताः पातुं प्रार्थयामासुरेव ते ॥३९॥ ददुर्वारि ततो मूर्छां प्रापुस्ते मरणोन्मुखाः ।
अथाऽन्ये सस्मरुर्नारायणं मां रक्षकं प्रभुम् ॥3.215.४०॥ प्रयत्न सहसा चक्रर्भाराक्रान्तावनाय ते ।
शकटीं च शिलां चाप्युत्तोल्य सम्भूय मानवैः ॥४१ ॥ निष्कासिताः कच्चरिता द्वित्रास्ते कर्मचारिणः ।
अभाना गतभानास्ते मृत्यून्मुखाः सुदुःखिताः ॥४२॥ वर्तन्ते तावदेवाऽपि कर्मचारैर्निवेदितः ।
भक्तो दामशिलादो वै गृहे गत्वा तु सत्वरम् ॥३॥ आययौ स खनिं यावत् स्मृत्वा नारायणं हि माम् ।
तावदहं साधुवेषोऽटवीतश्चाययौ खनिम् ॥४४॥ भोजनार्थं भिक्षुकः सन् जलार्थं भिक्षयन् जलम् ।
विलोक्य तान् कच्चरितानाश्चर्यपरमोऽभवम्॥४५॥ स्तब्धोऽभवं क्षणं ते तु प्रार्थयामासुरच्युतम् ।
हरे कृष्ण दीनबन्धो समुज्जीवय दीननॄन् ॥४६॥ मनुष्यहत्या भक्तस्य यथा न स्यात् प्ररक्षय ।
रङ्करक्षाविधाता त्वं भक्तेच्छापूरको भवान् ॥४७॥ सर्वदुःखप्रहाता त्वं प्ररक्षय निजाञ्जनान्।
नाऽत्रौषधं भवेच्छक्तमस्थिकच्चरचूर्णिते ॥४८॥ देहे रक्तातिरिक्तेऽत्र विना त्वां जीवनं नहि ।
चमत्कारं विना सिद्धिं विना नैषां हि जीवनम् ॥४९॥ मृतप्राया मृगाश्चेमे नान्यस्त्वां योगिनं विना ।
नवीकर्तुं समीकर्तुं सन्धिं कर्तुं क्षमोऽपरः ॥3.215.५०॥ इत्येवं वदमानानां शृण्वन् साधुर्जलं करे ।
समादाय ददौ तेभ्यो मुखे त्वाचमनीयकम् ॥५१॥ रक्षां निधाय कुक्षिस्थं भस्म धृत्वा करद्वये ।
मर्दयामास भग्नानां देहेष्वभित आदरात् ॥५२॥ तावत्ते स्वस्थतां प्राप्ताः सन्धिता नीरुजीकृताः ।
रक्तपूर्णा अभवँश्च यथापूर्वं तथैव ते ॥५३॥ उत्थिताः स्वप्नतो यद्वत् प्रणेमुः साधुयोगिनम् ।
जीवनं प्राप्य विश्रान्तिं लेभुः क्षणं सतः पुरः ॥५४॥ साधुर्भिक्षां जगृहे च जलान्नं बुभुजे ततः ।
तेऽपि सर्वे प्रसादं च सम्यग् बुभुजिरे मम ॥५५॥ अथ शान्त्या निषेदुस्ते सेवमानाः पदाम्बुजे ।
पप्रच्छुर्मां पापनाशकरं साधनमुत्तमम् ॥५६॥ नारायणस्य विज्ञानं मूर्तिरूपं तथोत्तमम् ।
अहं वै कथयामास सर्वं तेभ्यो यथातथम् ॥५७॥ सतां सेवा हरेर्भक्तिस्तीर्थानां सेवनं तथा ।
पापनाशकराण्येव भवन्ति भगवत्कृपा ॥५८॥ सतां समागमेनैव विज्ञानं श्रीहरेर्भवेत् ।
सच्छास्त्राणां शीलनेन कथायाः श्रवणेन च ॥५९॥ पूर्वसंस्कारबलतो विज्ञानं जायते हरेः ।
योगाभ्यासेन सहसा कल्मषाणां विनाशने ॥3.215.६० ॥ योगिगत्या ब्रह्मगत्या कृष्णमूर्तिः प्रकाशते ।
पिण्डेऽस्ति घटना रम्या यादृशी तादृशी पुनः ॥६१ ॥ वैराजे वर्तते चापि सूक्ष्मा स्थूलेत्यभेदतः ।
देहे तु मानवे नाड्यो ब्रह्माण्डे नदिकास्तु ताः ॥६२॥ देहे तु कुक्षयः सन्ति ब्रह्माण्डे चाऽब्धयस्तु ते ।
पादमूलं तु पातालं मूर्धा सत्यं कटिर्हि भूः ॥६३॥ देहस्थेन्द्रियनाडीनां वैराजेन्द्रियनाडिकाः ।
कारणानि ततश्चैक्यभावा भवन्ति ता इमाः ॥६४॥ योगाभ्यासरता जिह्वाप्रान्तं यान्ति समाधिना ।
तदा वैराजजिह्वाया अन्तं पश्यन्ति योगिनः ॥६५॥ एवं सर्वेन्द्रियाणां तु प्रान्तं यान्ति समाधिना ।
तदा वैराजेन्द्रियाणामन्तं पश्यन्ति योगिनः ॥६६॥ सुषुम्णा वर्तते मध्ये देहेऽत्र नाभिमूर्ध्वगा ।
वामे चेडा पिङ्गला तु दक्षे स्थिता सदाऽस्ति वै ॥६७॥ सुषुम्णान्तं तु मूर्धानं गत्वा वैराजमीक्षते ।
सा तु दीर्घा ब्रह्मरन्ध्राद् वैराजं योगमृच्छति ॥६८॥ तेजःकिरणरूपा वै वैराजात्पुरुषावधिम् ।
महापुरुषरन्ध्रात् सा तेजःकिरणसञ्ज्ञिता ॥६९॥ अक्षरेण च तादात्म्यं गता ततो हरौ हि सा ।
प्रमातादात्म्यमापन्ना विद्यते किरणात्मिका ।
अतः सुषुम्णामार्गेण योगी याति परं पदम् ॥3.215.७०॥ हरेः किरणं निर्यन् स्यात् सर्वावतारमन्तगम् ।
ईश्वरेषु च जीवेषु वर्तते व्यापकं हि तत् ।
तद्ब्रह्म तच्च विज्ञानं सत्त्वं प्रकाश एव तत् ॥७१ ॥ तस्य भासा सर्वमिदं विभाति ज्ञानदीप्तिमत् ।
स्नेहातिशयतश्चैवंविदः प्रभा विवर्धते ॥७२॥ जाग्रति वा स्वापके वा सुषुप्तौ वा यदा यदा ।
हरौ स्याल्लीनता यस्य स्नेहेन तत्र तं व्रजेत् ॥७३ ॥ सङ्कल्पेन हरेश्चापि शक्त्या चापि हरेस्तथा ।
ज्ञानशक्त्या क्रियाशक्त्या चेच्छाशक्त्या हरेस्तथा ॥७४॥ जीवेशाः सम्प्रवर्तन्ते जानन्तः क्रिययाऽन्विताः ।
कर्मवशा सर्वजीवाः स्वतन्त्रा नहि सन्ति वै ॥७५॥ हरेर्ज्ञानक्रियेच्छाभिः क्रियेच्छाज्ञानिनः खलु ।
फलप्रदाता भगवान् कर्मणामस्ति सर्वथा ॥७६॥ हरेस्ताः शक्तयो नॄणां स्वस्वकर्मानुसारतः ।
ज्ञानादीन् प्रेरयन्त्येव तेन सृष्टिः प्रवर्तते ॥७७॥ सृष्टेर्जीवा हरौ ध्यानाभ्यासाद् दिव्या भवन्ति वै ।
दिव्यदृष्टय एवापि तदा ब्रह्मसुदर्शनम् ॥७८॥ मायागुणादिशून्यं तन्निर्गुणं ब्रह्म तैजसम् ।
निजैर्दिव्यगुणैर्युक्तं सगुणं ब्रह्म शाश्वतम् ॥७९॥ परेशं परमात्मानं परब्रह्म सनातनम् ।
प्राप्नुवन्ति महात्मानः सतां सत्सङ्गसत्फलाः ॥3.215.८ ०॥ नराकारं दिव्यमूर्तिं श्रीपतिं तं सतां पतिम् ।
दिव्यमूर्तिं परात्मानं यान्ति तद्योगिनस्त्विमे ॥८१॥ दिव्यतां यान्ति बहवस्तत्समा ब्रह्मरूपिणः ।
यथा ब्रह्मप्रिया दिव्या यथा मुक्ता ह्यसङ्ख्यकाः ॥८२॥ यथा लक्ष्मीर्यथा राधा यथा सती सरस्वती ।
तथा दिव्या भवन्त्येव नरा नार्यः परात्मगाः ॥८३॥ तस्मान्नारायणः कृष्णो भजनीयो हि रक्षकः ।
मोक्षदः स्वर्गदश्चापि सुषुम्णामार्गलब्धिमान् ॥८४॥ खनौ नारायणो नित्यं स्मरणीयो जनार्दनः ।
सतां मूर्तौ हरिश्चास्ते सेवनीयः सतां गतिः ॥८५॥ इत्युक्त्वा निर्भयान् कृत्वा ददौ मन्त्रं तदा त्वहम् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥८६॥ अथ ते मां गुरुं मत्वा लक्ष्मि निजालयं प्रति ।
निन्युः साधुस्वरूपं मां चमत्कारिजनं गुरुम् ॥८७॥ भोजयामासुरत्यर्थं पाययामासुरिष्टकम् ।
पायसं शर्करायुक्तं सेवयामासुरादरात् ॥८८॥ पूजयामासुरेवाऽपि क्षमां ययाचिरे ततः ।
पादामृतजलं मे ते पपुर्मयाऽपि वै तदा ॥८९॥ आशीर्वादैर्योजिताश्च कृपया भक्तिगोचराः ।
भुक्तिर्मुक्तिर्भवतां वै यथेष्टा जायतां सदा ॥3.215.९०॥ अथाऽहमभवं लक्ष्मि जिगमिषुस्तदा तु ते ।
कृष्णप्रत्यक्षलाभार्थं कृष्णदर्शनलालसः ॥९१॥ ययाचिरे मया तथाऽस्त्विति तत्र नियोजिताः ।
अपश्यन् मां शङ्खचक्रगदाब्जधारिणं हरिम् ॥९२॥ आश्चर्यं परमं प्राप्ताः प्रत्यक्षयोगिनो यथा ।
दिव्या दिव्यस्वरूपास्ते व्यजायन्त तदा द्रुतम् ॥९३॥ ननृतुश्च जगुश्चापि मुमुदुश्चातिहर्षुलाः ।
पुपूजुर्मां परब्रह्म रक्षकं प्राणरक्षकम् ॥९४॥ अथाऽहं तत्र मूर्तौ मे तिरोऽभवं हि पश्यताम् ।
तेषां तदा समारभ्य तेऽपि मूर्तिनिषेविणः ॥९५॥ सर्वथाऽऽत्मनिवेदाश्चाऽभवन् भक्ताः सहस्रशः ।
अथ काले समायाते भक्तं दामशिलादकम् ॥९६॥ तस्य भृत्यान् बहून् भक्तान् तथा पत्नीं कलाभिधाम् ।
विमानेनाऽनयं धामाऽक्षरं मे शाश्वतं परम् ॥९७॥ एवं लक्ष्मि मया रक्षा कृता भक्तिश्च कारिता ।
ज्ञानं दत्तं च सामर्थ्यं मुक्तिश्चापि कृता शुभा ॥९८॥ एवं मदीयभक्तानां प्रान्ते मोक्षं करोम्यहम् ।
ददामि दिव्यतां चापि भक्त्या साध्यो यतोऽस्म्यहम् ॥९९॥ पठनाच्छ्रवणादस्य स्मरणात् स्तवनादपि ।
भुक्तिर्मुक्तिर्भवत्येव तथेष्टा शुभदा गतिः ।
वल्लभः श्रीगुरुः स्वामी प्रभुः सर्वगतिस्त्वहम् ॥3.215.१ ००॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शिलाहारस्य दामशिलादनामकभक्तस्य भृत्यानां रक्षणं दामशिलादादेश्चान्ते मोक्षणं च भगवता कृतमित्यादिनिरूपणनामा पञ्चदशाधिक-
द्विशततमोऽध्यायः ॥२१५ ॥