२१४

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं रथकारस्य शोभनम् ।
वृत्तान्तं मम भक्त्याढ्यं सुतारग्रामवासिनः ॥१ ॥ रङ्गमयीसरित्तीरे रथकारोऽतिपावनः ।
सुतारपुर्यामभवन्मम भक्तः कुटुम्बवान् ॥२ ॥ काष्ठयानानि सर्वाणि गन्त्रीश्च शकटानि च ।
अनश्चक्राणि सर्वाणि काष्ठासनानि मञ्चकान् ॥३ ॥ बृसीः खद्वाश्च पर्यङ्कान् कपटान् प्रकरोति सः ।
काष्ठपात्राणि रम्याणि काष्ठपुत्तलपुत्तलीः ॥४ ॥ कारुवर्यः करोत्येव नौका गजाश्वगोवृषान् ।
विविधान्युपकरणान्यपि स्वकलया तथा ॥५ ॥ करोति पेटिकाश्चापि पेटकान् सुचतुष्किकाः ।
तत्र सर्वत्र कार्येषु हरेर्नाम लिखत्यपि ॥६ ॥ स्वनाम हरिदासेति लिखित्वा च ततः परम् ।
हरिश्चेति हि सर्वेषु वस्तुष्वयं लिखत्यपि ॥७ ॥ गृहे च काष्ठशालायां लिलेख श्रीहरे प्रभो ।
गृहजालान्तरे काष्ठप्रतिमां परमात्मनः ॥८ ॥ अनादिश्रीकृष्णनारायणस्याऽस्थापयद्धि सः ।
प्रातः समूजयत्येनां प्रतिमां मम शोभनाम् ॥९ ॥ श्रिया साकं पुष्पपत्रचन्दनाऽक्षतकुङ्कुमैः ।
भूषावस्त्रद्रवधूपदीपनैवेद्यवारिभिः ॥3.214.१ ०॥ एवं सम्पूज्य नित्यं वै प्रसादं ग्रसते ततः ।
अन्येभ्यः सम्प्रदायाऽपि ततः कार्ये प्रवर्तते ॥१ १॥ उद्यमे स्मरति मां लक्ष्मीनारायणं प्रभुम् ।
हरिकृष्णं बालकृष्णं हरिदासः सुभक्तराट् ॥१ २॥ अथैकदा विचारोऽस्याऽभवद् देवादिगोचरः ।
अन्योद्योगं विहायैव प्रतिमोद्योगमावहे ॥१३॥ यासां निर्माणकार्ये वै ध्यानं देवात्मकं भवेत् ।
स्मरणं चापि देवानां रूपरङ्गादिकर्मसु ॥१४॥ सततं स्यात् कीर्तनं चार्पणं मूर्तिमयं भवेत् ।
एवं विचार्य च हरिदासो हर्यर्थमुत्सुकः ॥१५॥ हरिमूर्तिमयोद्योगं समारभत भावतः ।
पुरुषोत्तममूर्तिं स व्यरचयत् सुशोभनाम् ॥१६॥ अनादिश्रीकृष्णनारायणमूर्तिं समाणिकीम् ।
राधाकृष्णयुगलं च लक्ष्मीनारायणोभयम् ॥१७॥ वासुदेवं श्रिया साकं विष्णुं च कमलायुतम् ।
नरं नारायणं चापि शेषशायिनरायणम् ॥१८॥ श्रीपतिं श्रीगरुडस्थं गजस्थं माणिकीस्थितम् ।
विमानस्थं रथस्थं चाऽरचयद् दिव्यशोभनम् ॥१९॥ दुःखहाश्रीसहितं च गोभिश्च सहितं प्रभुम् ।
मत्स्यं कूर्मं च वाराहं कपिलं च हरिं तथा ॥3.214.२०॥ वासुदेवं राजराजं पृथुं दत्तं नृसिंहकम् ।
हंसमृषभं परशुधरं यज्ञं च वामनम् ॥२१॥ रामं कुमारं व्यासं च हयग्रीवं च नारदम् ।
बालकृष्णं च बुद्धं च कल्किं नारायणीपतिम् ॥२॥ हरं सतीं च ब्रह्माणं सावित्रीं च सरस्वतीम् ।
प्रज्ञां पारावतीं दुर्गां गङ्गां च कालिकां तथा ॥२३॥ सूर्यं वह्निं चन्द्रमसं गणेशं कालभैरवम् ।
नन्दं सुनन्दं लिङ्गं चाऽरचयत् प्रतिमाः शुभाः ॥२४॥ काष्ठानां सवनानां वै ससर्जानां सागशाखिनाम् ।
वटानां शिंशपानां च करोति प्रतिमाः शुभाः ॥२५॥ स्वल्पा मध्याश्चोत्तमाश्च विविधाः स करोति वै ।
रङ्गशृङ्गारयुक्ताश्च संस्कृताश्चिह्नितत्वचः ॥२६॥ भजन् रटन् हरिं नाम निर्माति प्रतिमाः सदा ।
यासां रूपाणि हृदये भासन्ते न तदा तु सः ॥२७॥ रहो निषद्य मां स्मृत्वा रूपं धारयते मम ।
हृदये स्वे चैकतानो मन्मूर्तौ स प्रजायते ॥२८॥ समस्तेन्द्रियवृत्तीनां लयो भवति वै मयि ।
यथा तथा स यतते योगिवद् ध्यायति स्थिरः ॥२९॥ दिनार्धं वा दिनं याति समाधाविव तस्य वै ।
तथापि प्रेममग्नोऽसौ न निर्याति समाधितः ॥3.214.३० ॥ मूर्तिश्चिन्तामणिकल्पा वर्तते माधवस्य यत् ।
तस्याः सकाशात् सङ्कल्पाः पूर्णा भवन्ति धारिताः ॥३ १ ॥ इतिनिश्चययुक्तस्य हरिदासस्य सर्वथा ।
यावन्नोदेति रूपं वै कर्तव्यप्रतिमात्मकम् ॥३२॥ तावत् समाधौ मन्मूर्तौ स्थिरस्तिष्ठति तन्मयः ।
इच्छन् द्रष्टुं नूत्नरूपं रचनार्हं सुशोभनम् ॥३३॥ अथ मे कृपया मूर्तेः रूपं यदाऽभिजायते ।
कर्तव्यप्रतिमारूपं दृष्ट्वा धृत्वा पुनः पुनः ॥३४॥ अभ्यस्य च ततो भक्तो बहिर्याति न चान्यथा ।
यादृग् दृष्टं स्वरूपं वै साध्यमूर्तेस्तथाविधम् ॥३५॥ काष्ठाच्छिल्पकलाभिश्च निष्कासयति शोभनम् ।
सौम्यं सुहास्यवदनं सर्वयोग्यसुशस्त्रकम् ॥३६॥ योग्यशृङ्गारभूषाढ्यं तथोत्करोति काष्ठजम् ।
दारवं सुन्दरं रूपं यादृशं हृदि वीक्षितम् ॥३७॥ तादृशं संविधायैव विक्रीणाति सुरङ्गितम् ।
एवं समस्तदेवानां हनुमद्यतियोगिनाम् ॥३८॥ साध्वीनां देवतानां च कृत्वा करोति विक्रयम् ।
ध्यायति देवताः सर्वा विशेषतस्तु वल्लभम् ॥३९॥ लक्ष्मीं नारायणं श्रीशं ध्यायति पुरुषोत्तमम् ।
ततोऽहं मत्प्रतिमातस्तदिष्टं पूरयाम्यपि ॥3.214.४०॥ ख्यातिस्तस्याऽभवल्लोके हरिदासो हरेस्तनुः ।
राजानश्चापि तस्माद्वै कारयन्तीष्टदेवताः ॥४१ ॥ हरिदासोऽपि कृत्वैव ददात्येव शुभोत्तमाः ।
हरिदासेन नियमः कृतो नारायणं विना ॥४२॥ नारायणांशं च विना मानवी प्रतिमा मया ।
न वै कार्या क्वचिद् भक्तिविरोधिनी तु मायिकी ॥४३ ॥ निम्नचिन्तनदा नैव कार्या मानुषपुत्तली ।
अभक्तानां नैव कार्या तथा मानुषपुत्तली ॥४४॥ भक्तानां तु शुभा कार्या तदिष्टदेवतायुता ।
एवमात्मनिवेदित्वं ररक्ष नित्यदा हि सः ॥४५॥ प्रसन्नोऽहं ततो लक्ष्मि परीक्षार्थमुपाययौ ।
चक्रवतीश्वरो भूत्वा तीर्थव्याजेन मार्गगः ॥४६॥ हस्त्यश्वरथवान् पारेसहस्रसैनिकान्वितः ।
राज्ञीदासीदासवर्गसहस्रपरिसेवितः ॥४७॥ रत्नहीरकहाराद्यैर्भूषितश्छत्रशोभितः ।
महाश्वेतगजपृष्ठे स्वर्णाम्बालिकयाऽन्विते ॥४८॥ निषण्णश्चामरैर्युऽक्तो जयशब्दाभिपूजितः ।
अस्त्रशस्त्रधरैश्चापि भटैः सम्परिवारितः ॥४९॥ गुर्वमात्यप्रधानाद्यैर्वन्दितः सेवितस्तथा ।
लक्ष्मि त्वं च मम पत्नी साम्राज्ञी शोभनोत्तमा ॥3.214.५०॥ सहस्रशोभनादासीयुवतीगणमण्डिता ।
मया प्रेरितभृत्याभिरक्षिता भृत्यपूजिता ॥५१ ॥ महासौवर्णरत्नाढ्यनरयानस्थिता तथा ।
उपाययिथ साकं वै मया पूर्वप्रप्रेषिता ॥५२॥ एवंविधोऽहं सम्राट् वै रङ्गमयीनदीतटे ।
तीर्थयात्रामिषेणाऽग्रे वृक्षषण्डे विनिर्ययौ ॥५३॥ तीर्थतटं महाशालग्रामतीर्थाऽभिधं वरम् ।
समाश्रित्य स्थिरतार्थमवातरं गजान्मम ॥५४॥ ससैन्योऽहं न्यवसंश्च स्नानपूजादिमानसः ।
अथाऽऽययुः सुताराख्यनगरस्थाः प्रजाजनाः ॥५५॥ गुरवश्चापि विप्राश्च भिक्षुकाः सकुतूहलाः ।
लिप्सया दक्षिणादेश्च विक्षणेच्छान्विता अपि ॥५६॥ आययौ नगरं सर्वे द्रष्टुं राजानमित्यपि ।
तथापि भक्तराजोऽसौ नाऽऽयाति मायिकं विदन् ॥५७॥ अथाऽहं तीर्थविधिना कृत्वा तीर्थं ततः परम् ।
दत्वा दानान्यनेकानि शुश्राव प्रतिमाः शुभाः ॥५८॥ ददर्श प्रतिमाश्चापि तीर्थतटे स्थिरीकृताः ।
पप्रच्छ मानवाँस्तत्रागतान् शिल्पिवरं प्रति ॥५९॥ ते प्राहुरत्र नगरे वर्तते शिल्पिराण्ननु ।
आकारितो मया दूतैर्हरिदासोऽपि नाययौ ॥3.214.६०॥ विना भागवतं सन्तं विना नारायणं हरिम् ।
विना भक्तं हरेरन्यस्याऽन्तिकं नैमि सोऽवदत् ॥६१ ॥ ततोऽहमुक्तवान्नाम मदीयं कृष्णदासवत् ।
श्रीकृष्णदासवर्याऽहं कृष्णभक्तो भवामि ह ॥६२॥ आयाहि शिल्पिवर्य त्वं प्रतिमार्थं मदिच्छया ।
दूतैर्गत्वा तथैवोक्तः सोऽपि श्रुत्वा ह्युपाययौ ॥६३ ॥ पुष्पहारान् गृहीत्वैव न्यधारयन्नृपोरसि ।
राजानं कृष्णभक्तं वै ज्ञात्वा नेमेऽतिभावतः ॥६४॥ राजाऽपि तस्य सम्मानं प्रचकार सुविज्ञवत् ।
शिल्पी लक्ष्मि मया राज्ञा पृष्टो मूर्तिविधापने ॥६५॥ क्रीणनार्थं च मूर्तीनां मूल्येऽपि पृष्ट एव सः ।
सोऽपि कृष्णस्य मूर्तिं वै ददौ मे राधया युताम् ॥६६ ॥ सहस्ररूप्यमुद्राभिस्तथा लक्ष्मीं नरायणम् ।
लब्ध्वाऽहं मुद्रिका दत्वा स्वर्णशतं तथोत्तरम् ॥६७॥ पारितोषिकमेवापि दत्वाऽकथयं मत्कृते ।
ममैकां मम राज्ञ्याश्च मूर्तिमेकां विधापय ॥६८॥ दास्ये यथेष्टं कनकं रत्नानि हीरकाँस्तथा ।
स प्राह राजन् भक्तोऽस्मि नारायणपरायणः ॥६९॥ नारायणविभूतीनां नारायणस्य वै तथा ।
देवानां देवतानां च करोमि प्रतिमाः सदा ॥3.214.७०॥ मानवीं न करोम्येव मायिकीं न करोमि च ।
यस्याः सङ्क्लृप्तने वृत्तिर्नारायणं न चिन्तयेत् ॥७१ ॥ मायां च मायिकीं चापि पुत्तलीं न स्मरे क्वचित् ।
तव राजन्महिष्याश्च पुत्तल्याः करणे तु मे ॥७२॥ स्मरणं मानवं स्याद्वै भक्तौ क्षतिर्भवेन्मम ।
ततोऽहं न करिष्ये वै पुत्तलीं ते क्षमस्व माम् ॥७३॥ यद्यपि त्वं प्रभक्तोऽसि तथापि राजसोऽसि वै ।
राज्ञो चेयं महामाया मोहिनी वर्तते तव ॥७४॥ तत्स्मृतिं न करिष्येऽहं विना लक्ष्मीं नरायणम् ।
यदि लक्ष्म्या समं राज्ञी त्वं साकं माधवेन तु ॥७५॥ भक्ताविवोभौ तिष्ठन्तौ सेवायां स्तश्च रोचते ।
ते यदि तर्हि कुर्वेऽहं मूर्तिं श्रीपतिना सह ॥७६॥ केवलां नैव कुर्वेऽहं नेच्छामि पारितोषिकम् ।
नमस्ते च क्षमस्वाऽपि राजा मान्यः प्रजाजनैः ॥७७॥ इत्युक्त्वा भक्तराट् लक्ष्मि हरिदासो गृहं ययौ ।
राजाऽहं मम भक्तं सम्परीक्ष्यैवं तु पृष्ठगः ॥७८॥ पद्भ्यां तस्य गृहं प्राप्तो लोकाश्चाश्चर्यमाप्नुवन् ।
ददौ स भक्तराण्मह्यं काष्ठासनं विवेकतः ॥७९॥ अन्नं जलं श्रीहरयेऽर्पितं ददावदर्शयत् ।
प्रतिमा मे ‘समस्ताश्च ध्यानार्थं स उपाविशत् ॥3.214.८० ॥ अविगणय्य मे भीतिं धैर्यं धृत्वा हरेः शुभम् ।
समाधौ हृदये मग्नस्तदाऽहं हृदयेऽभवम् ॥८१ ॥ राजरूपस्तथा लक्ष्मी राज्ञीरूपा यथायथम् ।
लक्ष्मीं नारायणं मां च ज्ञात्वा शीघ्रं समुत्थितः ॥८२॥ स्वागतं दण्डवच्चापि चक्रे प्रदक्षिणं तु माम् ।
कीर्तनं सहसा चक्रे ननर्त मोदविह्वलः ॥८३॥ अथाऽन्ये तु जनास्तत्र दर्शका येऽभवँस्तदा ।
सर्वे दृष्ट्वा महाश्चर्यं श्रुत्वा भक्तोदितं तथा ॥८४॥ नारायणो हि सम्राण्मे भूत्वा गृहमुपागतः ।
लक्ष्मीर्भूत्वा महाराज्ञी चाययौ भाग्यवानहम् ॥८५॥ अहो भाग्यमहो भाग्यं सुतारग्रामवासिनाम् ।
अहो भाग्यं मम पत्न्याः श्रीमानव्याः शुभोत्तमम् ॥८६॥ कुटुम्बस्य च मे भाग्यं भृत्यानां भृत्ययोषिताम् ।
भाग्यं श्रेष्ठतमं त्वद्य यद्गृहे वल्लभोहरिः ॥८७॥ यद्गृहे श्रीः समायाता राज्ञीरूपा हरेः प्रिया ।
श्रीमानव्याः श्रेयसे च हरिदासस्य मुक्तये ॥८८॥ अहो प्रतिमानिर्मातुः फलं साक्षाद्धरिर्गृहे ।
आत्मनिवेदितालाभश्चाहो साक्षात्प्रभुर्गृहे ॥८९॥ कला मे सुकला जाता जीवनं मे सुजीवनम् ।
प्राप्तः साक्षान्मया कृष्णनारायणः श्रिया युतः ॥3.214.९०॥ श्रुत्वैवं जनताश्चापि पुपूजुः श्रीपतिं नृपम् ।
दण्डवत् ताः प्रचक्रुश्च भक्तः पपात पादयोः ॥९१॥ तावल्लक्ष्मि मया नैजं रूपं चतुर्भुजं परम् ।
प्रकाशितं त्वया लक्ष्म्या साकं दिव्यमनोहरम् ॥९२॥ नदीतटे तु यत् सैन्यं सर्वं तत्र क्षणान्तरे ।
तत्तिरोभावितं तत्र महाश्चर्यं ततोऽभवत् ॥९३॥ गृहेऽहं भगवान् साक्षाद् दत्वा मे दर्शनं ततः ।
लब्ध्वा पूजां वरदानं मोक्षार्थं सम्प्रदाय च ॥९४॥ प्रसन्नतां समर्प्यैव ततस्तूर्णं त्वया सह ।
क्षणं स्थित्वा जगादाऽहं भक्ताय चात्मवेदिने ॥९५॥ यो मामेवं हि भजते तत्कृते सर्वथा त्वहम् ।
कल्पलतासमश्चाऽस्मि पूरयामि मनोरथान् ॥९६॥ शिल्पिनो ये मम मूर्तिं मम ध्यानपरायणाः ।
लोभस्वार्थविहीनाश्च करिष्यन्ति शुभाशयाः ॥९७॥ तेषां मोक्षं करिष्यामि यथा ते भक्तराडिह ।
इत्युक्त्वा स्वस्वरूपं च कृष्णे लक्ष्म्यां गृहान्तरे ॥९८॥ पूजनार्थं स्थापिते च स्थापितायां तिरोभवम् ।
अथ भक्तोऽपि नित्यं मां ध्यायति स्मरते तथा ॥९९ ॥ काले ‘प्राप्ते विमानेन तद्गृहं समुपस्थितः ।
श्रीमानवीं स्त्रियं तस्य हरिदासं च तं तथा ॥3.214.१० ०॥ आरोहयित्वा दिव्यौ तौ कृत्वाऽनयं ममाऽक्षरम् ।
अन्यान् कालेन तद्वच्चाऽनयं धामाऽक्षरं मम ॥१०१ ॥ एवं लक्ष्मि मया भक्तो रथकारो हि तारिताः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ॥१ ०२॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हरिदासाख्यस्य रथकारस्य भक्त्या सकुटुम्बस्य भगवता मोक्षः कृत इत्यादिनिरूपणनामा चतुर्दशाधिकद्विशततमोऽध्यायः ॥२१४ ॥