२११

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं चण्डालस्य कथामपि ।
रायणाग्रमवसतेर्नाम्ना कपिक्षयस्य वै ॥१ ॥ कपिक्षयो हि चाण्डालो रैवताचलसन्निधौ ।
अभवत् सकुटुम्बः स रायणायां सुनीतिमान् ॥२ ॥ प्रथमं जातिदोषेण हिंस्रोऽभवद् वने भ्रमन् ।
वानरान् वनजान् रक्तान् मारयित्वा स खादति ॥३ ॥ अतस्त्वन्यवनेवासैः कपिक्षयेतिबोधितः ।
वानरमारनाम्नैव प्रसिद्धिमगमद्वने ॥४ ॥ अथैकदा वने वृक्षषण्डे स्थितं तु मण्डलम् ।
वानराणां महद्वीक्ष्य तान् हन्तुं शरमादधे ॥४५ ॥ यावन्मुक्तो न वै बाणस्तावद्वानरसत्तमः ।
दिव्यवाण्या जगादैनं शृणु त्वं श्वपचोत्तम ॥६ ॥ श्रुत्वा यथेष्टं यात्रार्थं समाचर निबोध मे ।
पुरा त्वं वृषलीगामी द्विजो वेश्यारतोऽभवः ॥७ ॥ नाम्ना प्राज्ञेश्वरो विप्रो धर्मकर्मादितत्परः ।
शृङ्खलाग्रामवास्तव्यो यत्र हिंसा जना अपि ॥८ ॥ वसन्ति स्म च तत्सङ्गात् तेषामन्नस्य योजनात् ।
दानमानसहवासान्मनस्ते हिंस्रकं ह्यभूत् ॥९ ॥ देशकालक्रियावाणीसहायानामसत्तया ।
असत्ते हृदयं जातं पापप्रियं शनैः शनैः ॥3.211.१०॥ ब्राह्मणस्य शुभो देहस्त्वया वेश्यासमागमात् ।
अधर्मं योजितश्चाप्यभक्ष्याऽपेयादिभिस्तथा ॥११ ॥ क्षुद्रक्रियापरो जातो मद्यमांसपरायणः ।
अथ कालेन मरणं तव जातं ततो भवान् ॥१ २॥ ययौ याम्यपुरं तत्र भुक्तवान् यमयातनाः ।
अवशिष्टेन पापेन चाण्डालोऽत्र प्रवर्तते ॥१ ३॥ सा वेश्या वृषली तेऽत्र भार्याऽपि सहगाऽस्ति वै ।
सहमित्राणि पापानि ते तेऽत्र सुतबान्धवाः ॥१४॥ वर्तन्ते चाण्डालयोनौ पापाः पापनिबन्धनाः ।
पापानि त्वं पुरा कृत्वा चाण्डालत्वमुपेयिवान् ॥१५॥ ब्राह्मणत्वं त्वया पूर्वं मलवन्मलिनीकृतम् ।
विनाशितं महत्पुण्यं स्वर्गं च मोक्षणं तदा ॥१ ६॥ इदानीं च पुनस्त्वं वै वर्तसे मांसभोजने ।
घातको वानराणां यन्नरघ्नो भवसि ध्रुवम् ॥१७॥ वानरा नरमानुष्यास्तत्पापं नरघातजम् ।
बालघातित्वमेवापि स्त्रीघातित्वमपि ध्रुवम् ॥१८॥ जायते तव चाण्डाल मानवे दुर्लभे पुनः ।
उदरार्थं कुटुम्बार्थं कुरुषे हिंस्रकर्म यत् ॥१९॥ पुनस्ते यातनाः सन्ति याम्याश्चाधोगतिः पुनः ।
यैः पूर्वे पातितस्त्वं वै तत्कृते यतसे पुनः ॥3.211.२०॥ कीदृशो मूर्खवर्योऽसि को लाभस्ते निपातिभिः ।
पश्य मूर्ख मनुष्यस्य सार्थक्यं धर्मकर्म वै ॥२१॥ तथा पश्य निजं मोक्षं पापानां नाशनं सुखम् ।
तीर्थं स्वर्णावतीनद्यां दामोदरं नरायणम् ॥२२॥ पश्य पुण्यं कुरु द्राक् च त्यज हिंसां सुखी भव ।
भवाऽत्र पावनो भक्तो भज कृष्णनरायणम् ॥२३॥ नारायणह्रदे स्नात्वा कुरु सर्वाघनाशनम् ।
संस्नात्वा रेवतीकुण्डे कुण्डे तथा च वामने ॥२४॥ कुङ्कुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ।
स्नात्वा श्रीसोमतीर्थे च सरस्वत्यां सुखी भव ॥२५॥ मूलद्वारवतीपुर्यां स्नाहि याहि दिवं ततः ।
गोपनार्थं शुभं तीर्थं कृत्वा याहि गवायनम् ॥२६॥ रे मूढ भज गोविन्दं श्रीपतिं कृष्णवल्लभम् ।
दयां कृत्वा वृषं धृत्वा कृत्वा भक्तिं हरेस्तथा ॥२७॥ याहि ब्रह्मपरं लोकं सनातनं च शाश्वतम् ।
कुङ्कुमवापिकातीर्थे वर्तते परमेश्वरः ॥२८॥ दिव्यमानुषदेहो वै ब्रह्मप्रियापतिः कृतिः ।
स एव भगवान् जगत्स्रष्टा पाताऽन्तरस्थितः ॥२९॥ राधालक्ष्मीपतिः श्रीमद्बालकृष्णः परेश्वरः ।
सेवितो नरनारीभिर्वर्तते मानवो यथा ॥3.211.३०॥ देहान्तेऽपि महापापी तस्य स्मरणमात्रतः ।
सर्वपापविनिर्मुक्तो याति धामाऽक्षरं परम् ॥३१ ॥ तं गत्वा भज गोपालबालकं कम्भरासुतम् ।
आत्मवन्तं परेशं तं समाश्रय हृदि स्थितम् ॥२॥ राधारमापतेस्तस्य माहात्म्यज्ञानमञ्जसा ।
साक्षात्कर्तव्यमेवाऽतो मुक्तिर्भवति शाश्वती ॥३३॥ गाढस्नेहाद् भगवति प्रसन्नत्वं प्रजायते ।
तेन मुक्तिः करगता भगवद्धामदायिनी ॥३४॥ स्नेहः कार्यः सर्वथा वै शृणु चाण्डाल वच्म्यहम् ।
नवोढाया यथा पत्यौ तथा चाद्ये सुते यथा ॥३५॥ यथा मातरि बालस्य लोभिनस्तु धने यथा ।
क्षुधितस्य यथाऽन्ने च भयभीतस्य रक्षके ॥३६॥ यादसां तु जले यद्वत् पतङ्गस्याऽनले यथा ।
तथा स्नेहः सदा कार्यः परमेशे सुखप्रदे ॥३७॥ त्वचा स्प्रष्टव्य ईशेशो भालनीयश्च चक्षुषा ।
श्रोतव्यश्चापि कर्णाभ्यामास्वाद्यश्चूम्बनादिभिः ॥३८॥ गन्धस्तस्यैव चाऽऽदेयो रूपं ग्राह्यं हरे सदा ।
आश्लेषणीयो भगवान् कीर्तनीयश्च माधवः ॥३९॥ आनन्दनीयः श्रीकृष्णः सर्वार्पणं हरौ तथा ।
कर्तव्यं च हरेर्गुणग्रहणं कार्यमन्वहम् ॥3.211.४०॥ माहात्म्यगुणवित्त्याद्यैः स्नेहः कृष्णे प्रजायते ।
यद्वा साहजिकः स्नेहो भक्तस्यैव प्रजायते ॥४१॥ यथा स्त्रीपुत्रवित्तादौ तथा कृष्णनरायणे ।
स्नेहं साहजिकं प्राप्तो ब्रह्मभूयाय कल्प्यते ॥४२॥ नैसर्गिकस्नेहवन्तो भवन्ति दिव्यबुद्धयः ।
दिव्यक्रियाश्च हर्यर्थं स्नेहस्तेषां प्रपुष्यति ॥४३॥ स्नेहस्य पोषणे विघ्नो मानं चेत्तत्र वर्तते ।
नाशनीयं सर्वथा तच्छ्रेयोऽध्वनि विघातकृत् ॥४४॥ दुःस्वभावाः समस्ता वै नाशनीयाः प्रयत्नतः ।
अतिशत्रुधिया ते वै नाशनीया मुमुक्षुणा ॥४५॥ मित्रवद् देहवासा ये दुःस्वभावास्तु ते यदि ।
मोक्षे विरोधिनः स्युश्चेद्धन्तव्याः सत्समागमैः ॥४६॥ सत्सङ्गः सर्वदा कार्यः सतां सङ्गो महौषधम् ।
आत्माऽस्मि बलवान् कृष्णसहायवान् सुधर्मवान् ॥४७॥ यदिच्छति करोत्येव समर्थो मुक्तयेऽपि च ।
रजसां तमसां वेगानुन्मूलयेद्धरिश्रितः ॥४८॥ देहाध्यासः कुसङ्गश्च पूर्वकृत्कर्मसञ्चयः ।
मायामोहकराः सन्ति हन्तव्याः सत्समागमैः ॥४९॥ विवेकेन प्रहन्तव्यो देहाध्यासः सतां मुखात् ।
सत्सङ्गेन कुसङ्गश्च हन्तव्यः सत्समागमात् ॥3.211.५०॥ पूर्वजन्मकृताः सर्वे संस्काराः पापकारिणः ।
हन्तव्यास्ते सतां नित्यप्रसत्त्या महतामिह ॥५१ ॥ अतिपापस्य पुंसस्तु पापफलं प्रपीडनम् ।
आपदश्च समायान्ति तदा तन्नाशहेतवे ॥५२।
इतस्ततो धावति द्राक् समन्ताद्धनदो भवन् ।
तथापि विपदो यान्ति वृद्धिं दूरे न यान्ति च ॥५३॥ अथ भग्नमना भूत्वा याति दुःखतरं जनम् ।
श्रुत्वा साधुं च वा वृद्धं निवेदयति चापदः ॥५४॥ साधोस्तु वचनं प्राप्य करोति व्रतपूजनम् ।
सत्सङ्गं भजनं चापि सेवां स्मरणं शार्ङ्गिणः ॥५५॥ एवं बीजबलेनाऽस्य लीयन्ते कल्मषाणि वै ।
अकल्मषं च हृदयं जायते निर्मलं ततः ॥५६॥ भक्तियोग्यं तत्र कृष्णः सतां वाण्या विराजते ।
प्रकाशते शनैश्चापि पुण्यः प्रजायते जनः ॥५७॥ एवं वै शुभतां यान्ति संस्कारा मलिना अपि ।
चाण्डालो विप्रतां याति दुष्टः सुजनतां तथा ॥५८॥ प्रसादेन सतां रङ्को राजतां लभते द्रुतम् ।
प्रसादेन सतां मूर्खः पाण्डित्यं लभते तथा ॥५९॥ प्रसादेन सतां पापी पुण्यं स्वर्गं प्रविन्दति ।
प्रसादेन सतां दुष्टो जायते पङ्क्तिपावनः ॥3.211.६० ॥ अतिप्रसन्नताप्राप्त्यै साधूनामग्रतः सदा ।
निश्छद्म वर्तितव्यं वै यथाऽनुवृत्तिमेत्य तु ॥६१॥ यत्र यत्र रुचिस्तेषां तत्तत् साध्यं विशङ्कया ।
यत्र यत्राऽरुचिस्तेषां तत्तत् त्याज्यं द्रुतं सदा ॥६२॥ मानं च लोकलज्जां च गुणगर्वं विहाय वै ।
सतां दास्यं प्रकर्तव्यं धार्यं वचः सतां हृदि ॥६३॥ सतां प्रसादे विघ्ना ये भवन्ति सेवनेऽपि च ।
सर्वे ते दुर्गुणास्त्याज्या ग्राह्याः प्रसन्नताप्रदाः ॥६४॥ गुणा यैः स्युः प्रसन्ना वै सन्तस्ते तु गुणा मताः ।
धर्मः स एव चोक्तोऽस्ति येन प्रसन्नता भवेत् ॥६५॥ सतां चाऽप्रीतिहेतुर्यः स तु दुर्गुण एव वै ।
हेयः स एव भक्तेन कार्या प्रसन्नता सताम् ॥६६॥ अनुकूले दासभक्ते प्रसीदन्ति हि साधवः ।
सतां गुणानां ग्रहणैर्दोषा नश्यन्ति हृद्गता ॥६७॥ सन्तो महान्त सेव्यास्ते दिव्यतासंविधायिनः ।
गुणानां ग्रहणे भक्तिर्वर्धते परमात्मनि ॥६८॥ सतां निष्कामित्वगुणग्रहे निष्कामितां व्रजेत् ।
सतां निःक्रोधतागुणग्रहे निःक्रोधतां व्रजेत् ॥६९॥ सतां निर्लोभतागुणग्रहे निर्लोभतां व्रजेत् ।
सतां निर्मोहतागुणग्रहे निर्मोहतां व्रजेत् ॥3.211.७० ॥ सतां दिव्यरूपगुणग्रहे दिव्यसुरूपवान् ।
भवेत् सतां भगवत्त्वगुणग्रहे भवेत्तथा ॥७१ ॥ महैश्वर्यादिशाली वै भवेद् भक्त्या तथोत्तमः ।
अन्यत्राऽरुचिरस्याऽस्ति कृष्णे सत्सु रुचिः सदा ॥७२॥ भावः कृष्णे सत्पुरुषेऽन्यत्राऽभावोऽस्य वर्तते ।
एवंविधस्य वो दास्यं हरौ सत्सु प्रवर्धते ॥७३ ॥ वर्धमानं परं दास्यं निर्मलं प्रीतिहेतुकम् ।
विवर्तते वै स्वामित्वे स्वामिनः कृपया क्वचित् ॥७४॥ यथा शिष्ये सेवके वा स्वामित्वं कृपया भवेत् ।
तथा दासे दास्यभावः स्वामिभावत्वमाव्रजेत् ॥७५॥ हरेरग्रे सतामग्रे पक्षपातो न विद्यते ।
स्त्री शूद्रो वापि चाण्डालो भक्त्या याति परां गतिम्॥७६॥ इत्येवं वानरेणापि लक्ष्मि कपिक्षयो वनी ।
प्रबोधितस्तदाऽऽश्चर्यं प्राप्तवान् बोधमाप्तवान् ॥७७॥ कृतकृत्यं निजात्मानं मेने वै पुण्यभागिनम् ।
येन वै वानराल्लब्धं ज्ञानं मोक्षप्रदं शुभम् ॥७८॥ अथाऽयं प्रतिपप्रच्छ वानरं को भवानिह ।
ज्ञानदो मोक्षदश्चापि हिंसादिदोषनाशकः ॥७९॥ मायादोषहरश्चापि सर्वाऽज्ञानविनाशकृत् ।
वने त्वं चरसि कोऽत्र वद मे तु यथातथम् ॥3.211.८० ॥ धन्योऽहं कृतकृत्योऽहं जातोऽस्मि तव वाक्यतः ।
विशेषतो भविष्यामि विदित्वा त्वां च पावनः ॥८ १ ॥ श्रुत्वैवं वानरः प्राह वयं चेमे वनेचराः ।
वानरा रक्तवर्णा ये ते सर्वे स्वर्गदेवताः ॥८२॥ भवामो दिव्यदेहाश्च सर्वे स्वर्गनिवासिनः ।
स्वर्गं पुण्यं प्रभुञ्जामः क्षयं पुण्यं प्रयाति च ॥८३॥ नूतनं नाऽर्ज्यते तत्र भोगभूमिर्यतो दिवम् ।
कर्मभूभिः पृथिवीयं पुण्यं चात्र कृतं मिलेत् ॥८४॥ पुण्यार्थं वानरैः रूपैः पर्वते रैवताचले ।
फलपत्रादिकं लब्ध्वा देवार्पणं प्रपूजनम् ॥८५॥ कृत्वा भुङ्क्ष्मः प्रसादं वै पावनं मोक्षदं शुभम् ।
जलं च स्वर्णरेखाया नारायणह्रदात्तथा ॥८६॥ दामोदरह्रदात् पीत्वा वर्धयामः सुपुण्यकम् ।
तीर्थे स्नात्वा भाविमोक्षं चेच्छामो मोक्षकामिनः ॥८७॥ न वयं वानराः किन्तु देवा वानररूपिणः ।
स्वर्गान्ते मानवे लोके जन्म यथा न वै भवेत् ॥८८ ॥ मोक्षो भवेद् यथाऽस्माकं तथा कुर्मोऽत्र तीर्थकम् ।
भवानपि तथा तीर्थं करोतु वै फलादनः ॥८९॥ कुटुम्बेन सहितस्त्वं प्रयास्यसि परां गतिम् ।
लोमशं योगिनं गत्वा चाश्वपट्टसरोवरे ॥3.211.९०॥ मन्त्रं गृह्ण हरेस्तत्र पावनत्वं भविष्यसि ।
इत्युक्तः स प्रणम्यैव चाण्डालो देवतागणम् ॥९१ ॥ शीघ्रं नारायणकुण्डवारि पीत्वाऽश्वसारसम् ।
ययौ लोमशनिलयम् प्रणनाम जगाद च ॥९२॥ वृत्तान्तं सकलं पश्चादश्वपट्टसरोवरे ।
स्नात्वा च कृपया मन्त्रं जग्राह लोमशात् तु सः ॥९३॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
कुटुम्बेन सहितोऽयं भक्तोऽभवद्धरेर्मम ॥९४॥ अश्वपट्टसरोयात्रां चक्रे जातश्च पावनः ।
पापं तस्य गतं नाशं भक्त्या मे लोमशाश्रयात् ॥९५ ॥ अथ कालान्तरे प्राप्ते काले तत्याज वर्ष्म सः ।
भार्याऽपत्यानि सर्वाणि वर्ष्माणि तत्यजुस्तदा ॥९ ६॥ ‘हरेकृष्ण बालकृष्ण लक्ष्मीकान्त रमापते’ ।
वदन्तस्ते दिव्यदेहा अभवन् मुक्तियोगिनः ॥९७॥ विमानं चागतं तत्र मम पार्षदसेवितम् ।
तत्राऽऽरुह्य ययुः सर्वे धामाऽक्षरं मम प्रियम् ॥९८॥ एवं भक्तस्य कल्याणं कृतं कीशप्रसङ्गतः ।
मया लक्ष्मि कृपयैव चाण्डालस्य हि शाश्वतम् ॥९९॥ एवमन्येऽपि मे भक्त्या सतां भक्त्या च पावनाः ।
सेवन्ते मां सतश्चापि तेऽपि यान्ति परां गतिम् ॥3.211.१० ०॥ पठनाच्छ्रवणादस्य स्मरणाद् यान्ति मोक्षणम् ।
सकामाः सम्पदो यान्ति निष्कामा मत्पदं परम् ॥१०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कपिक्षयात्मकस्य चाण्डालस्य वानररूपदेवोपदेशेन हरौ भक्त्या सकुटुम्बस्य मोक्षणमित्यादिनिरूपणनामैकादशाधिकद्विशततमोऽध्यायः ॥२११ ॥