श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं गायकस्य महात्मनः ।
व्रतर्दिनः कथां रम्यां मम प्रसन्नतान्विताम् ॥१ ॥
व्रतर्दीं त्वभवद्भक्तो नाकिरालाख्यपत्तने ।
वैश्यो वीणामृदङ्गादियावद्वाद्यविशारदः ॥२ ॥
यस्याग्रे बहवः शिष्याः शिष्यिकाश्च वसन्त्यपि ।
अभ्यासार्थं गानकलादीनां गायनशीलिनः ॥३ ॥
देशदेशान्तरेभ्यश्च समायान्ति व्रतर्दिनम् ।
गानविद्याधिपं श्रुत्वा शिक्षां प्राप्य प्रयान्ति च ॥४ ॥
अथ राजाऽभवन्निम्बटिकानगरीशासकः ।
पुण्ड्रवर्मा धर्मवाँश्च भगवद्भक्तितत्परः ॥५ ॥
सौराष्ट्रे गायकश्रेष्ठं श्रुत्वा व्रतर्दिनं नृपः ।
आह्वयामास गीत्यर्थं राजधानीं निजां प्रति ॥६ ॥
दूतो गत्वाऽऽवेदयत्तं गायकं राजभाषितम् ।
एहि राजोत्सवे राजेत्याह त्वां गायकोत्तम ॥७ ॥
व्रतर्दी प्रत्युवाचेत्थं न राजोत्सवगायनम् ।
करिष्ये भगवद्भक्तो भवाम्यात्मनिवेदनः ॥८ ॥
विना हरिं न मे जिव्हा गास्यत्यन्यं कदाचन ।
विना हरिं न मे नेत्रं द्रक्ष्यत्यन्यं कदाचन ॥९ ॥
विना हरिं न मे चित्तं ध्यायत्यन्यं कदाचन ।
भगवतश्च भक्तानां भक्तोऽहं दास्यसंहितः ॥3.202.१० ॥
सोऽहं कथं राजगुणान् गायामि मायिकानिह ।
वद त्वं भूभृते दूत नान्यं गास्यति गायकः ॥११ ॥
व्रतर्दी गायकः कृष्णगायको नान्यगायकः ।
मोक्षगायक एवाऽऽस्ते भक्तानामपि गायकः ॥१ २॥
अभक्तानां गायको न व्रतर्दी भवति क्वचित् ।
इति प्रत्युक्तदूतश्च ययौ राज्ञे न्यवेदयत् ॥१ ३॥
राजा तुतोष सहसा धन्योऽहं भूपतिः सदा ।
मम राज्ये महाभागवतोऽस्ति कृष्णगायकः ॥१४॥
मया भागवतेनापि भवितव्यं प्रमुक्तये ।
वैष्णवेन भवितव्यं श्रोतव्यं कीर्तनं ततः ॥१५॥
व्रतर्दिना प्रगीतं च कृष्णकीर्तनमुत्तमम् ।
श्रोतव्यं सर्वथा पश्चाद् भूत्वा सत्पात्रभूभृता ॥१ ६॥
विचार्येत्थं प्राह दूतं भाव्यं भक्तिमता मया ।
तस्मादागच्छ गेहं मे मां प्रपावय भूभृतम् ॥१७॥
कृत्वा च वैष्णवं भक्तं ततः श्रावय कीर्तनम् ।
इत्येवं ब्रूहि भक्तेशं व्रतर्दिनं प्रयाहि च ॥१८॥
श्रुत्वा दूतो ययौ शीघ्रं राजोक्तं तु व्रतर्दिने ।
कथयामास सर्वं स श्रुत्वा तुतोष गायकः ॥१ ९॥
सज्जो भूत्वा ययौ भूपमन्दिरं गणमण्डितः ।
राजा तं मानयामास भक्तं व्रतर्दिनं मुहुः ॥3.202.२० ॥
ययाचे तु ततो वैष्णवत्वं च दीक्षणं नृपः ।
व्रतर्दी तूर्णमाश्रुत्य धृत्वा दत्वा जलं करे ॥२१ ॥
नृपाय प्रददौ मन्त्रं श्रावयामास सत्वरम् ।
‘ओमनादिकृष्णनारायणः स्वामी पतिश्च मे’ ॥२२॥
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
राजा गृहीत्वा मन्त्रं च कण्ठीं दधार तौलसीम् ॥२३॥
मूर्तिं मे बालकृष्णस्य जगृहे गायकाऽर्पिताम् ।
राज्ञी कन्याश्च पुत्राश्च राज्ञः कुटुम्बकं तथा ॥२४॥
सर्वे भृत्यास्तथा दास्योऽभवँस्तत्र हि वैष्णवाः ।
हरये चार्पितं वारि फलं चान्नं च चन्दनम् ॥२५॥
व्रतर्दी प्रददौ राजकुटुम्बाय प्रसादकम् ।
भुक्त्वा पीत्वा प्रसादं च सभां चक्रे ततो नृपः ॥२६॥
मध्यसिंहासने कृष्णमस्थापयत् सुशोभितम् ।
राजा कृष्णस्य सेवायां धृत्वा छत्रमनुत्तमम् ॥२७॥
अतिष्ठत्तत्कुटुम्बं च चामरे व्यजने तथा ।
वेत्रं च नक्तकं धूपपात्रं ध्वजं पताकिकाम् ॥२८॥
दर्पणं पानपात्रं च ताम्बूलपात्रकं तथा ।
सुगन्धसारपात्रं च तैलसारं च चन्दनम् ॥२९॥
पूजापात्रं पुष्पहारान् धृत्वाऽतिष्ठद् यथायथम् ।
पूजयित्वा बालकृष्णं व्रतर्दी गायनं व्यधात् ॥3.202.३०॥
*एहि कृष्ण एहि कृष्ण कान्त एहि एहि ।
- देहि कृष्ण देहि कृष्ण दर्शनं सुदेहिन् ॥३ १ ॥
नवीनभक्तमण्डलं विधेहि दिव्यसत्कुलम् ।
जहीहि जन्मवासनां प्रदेहि धामवासनम् ॥ एहि कृष्ण० ॥३२॥ त्वमेव मुक्तसत्पतिस्त्वमेव धामसद्गतिः ।
त्वमेव चावतारधृक् त्वमेव सर्वसाक्षदृक् ॥ एहि कृष्ण० ॥३३॥ पुरा भवान् पुमुत्तमस्ततो भवान्नरोत्तमः ।
ततो भवान् जनार्दनस्ततोऽस्ति सर्वमर्दनः ॥ एहि कृष्ण० ॥३४॥ प्रसन्नमानसो भवान् सुसम्पदां प्रदो भवान् ।
निजाऽर्थ्यसौख्यदो भवान् निजात्मशान्तिदो भवान् ॥ एहि कृष्ण० ॥३५॥ राधारमापतिर्भवान् प्रमासतीपतिर्भवान् ।
सतां श्रियाः पतिर्भवाँश्च माणिकीपतिर्भवान् ॥ एहि कृष्ण० ॥३६॥ ब्रह्मप्रियापतिर्भवान् हरिप्रियापतिर्भवान् ।
अजाप्रजापतिर्भवान् व्रतर्दिनः पतिर्भवान् ॥ एहि कृष्ण० ॥३७॥ निधिश्च तेजसां भवान् निधिश्चमत्कृतां भवान् ।
निधिः परामुदा भवान् निधिः पराविदां भवान् ॥ एहि कृष्ण० ॥३८॥ सुतो वृषस्य वै भवान् सुतश्च गोपजो भवान् ।
सुतश्च काश्यपो भवाँश्च कम्भरासुतो भवान् ॥ एहि कृष्ण० ॥३९॥ सदैव चित्सु वर्तसेऽप्यचित्सु वर्तसे हरे ।
प्रवर्तसे प्रवर्तसे स्वभक्तमण्डले हरे ॥ एहि कृष्ण एहि कृष्ण कान्त एहि एहि ।
देहि कृष्ण देहि कृष्ण दर्शनं सुदेहिन्’ ॥3.202.४०॥ इत्येवं मां प्रार्थयत् स लक्ष्मि गीतिप्रमङ्गलम् ।
अकरोन्मां स्मरँस्तत्र व्रतर्दी प्रेमपूरितः ॥४१ ॥ गायिका गायकाश्चाप्यपूरयन् गीतिकास्वरान् ।
श्रुत्वाऽहं प्रेमरशनाऽऽकृष्टो मूर्तेर्द्रुतं बहिः ॥४२॥ आविर्जातोऽतिसुभगो मनोहरः सुयौवनः ।
रूपरूपानुरूपश्चाऽवयवैः पुष्ट उज्ज्वलः ॥४३॥ श्रिया च राधया युक्तो हारमुकुटशोभितः ।
सर्वाऽऽभूषाभिरामश्च सर्वशृङ्गारशोभनः ॥४४॥ प्रसन्नहास्यवदनो दिव्यतेजोऽभिदीपितः ।
सर्वसुगन्धवात्सल्यलावण्याऽऽनन्दसम्भृतः ॥४५॥ सर्वकामप्रपूरश्च सभानन्दविवर्धनः ।
निरोधयन् सभास्थानां चेतांसि मयि संस्थितः ॥४६॥ अक्षरे परमे व्योम्नि यत्सुखं परमात्मनः ।
तत्समस्तं सभास्थेभ्यो ददौ क्षणं कृपावशः ॥४७॥ दिव्यतायास्तिरोभावं क्षणोत्तरं व्यधां रमे ।
राधारमायुतं मां ते व्यलोकयन् नृपादयः ॥४८॥ मुमुहुर्मम रूपे ते हृत्सु न्यधुश्च मां हि ते ।
पुपूजुः सर्वभावैश्च वरार्थं नोदिताश्च ते ॥४९॥ वव्रुर्मुक्तिं परां सेवामददां च तथाऽस्त्विति ।
तिरोभावं द्रुतं चापि सभाऽऽश्चर्यपराऽभवत् ॥3.202.५०॥ व्रतर्दिनः प्रतापेन ह्यवापुः कृष्णदर्शनम् ।
भेजुस्ते मां दिव्यभावैरनन्यभावनैः सदा ॥५१ ॥ पातिव्रत्येन मां भेजुर्नृपाद्या वैष्णवास्ततः ।
परिहारोऽभवद् भक्तो मुमुदे दर्शनान्मम ॥५२॥ पारितोषिकमासाद्य ययौ समण्डलो निजम् ।
आलयं स वितर्दी वै नृपो नृपालयं ययौ ॥५३॥ अथ काले ततः प्राप्ते नृपादीन् भक्तमण्डलम् ।
निन्ये धामाऽक्षरं मे च व्रतर्दिमण्डलं तथा ॥५४॥ तथा ये ये वैष्णवाश्चाऽभवन् वै लक्षशो जनाः ।
चमत्कारं स्मरन्तो मे भजन्तो मां निरन्तरम् ॥५५॥ निन्ये तान्मेऽऽक्षरं लोकं शाश्वतं धाम चोत्तमम् ।
शृणु लक्ष्मि जना लोके भवन्ति त्यागवृत्तयः ॥५६॥ तीव्रत्यागविरागस्य स्नेहो मय्यतिशोभते ।
रागिणस्तु स्मृतिर्नित्यं विषयाणां प्रजायते ॥५७॥ तुच्छार्थस्नेहबद्धास्ते कृष्णस्नेहं न कुर्वते ।
कृष्णे स्नेहविहीनास्ते मोक्षं फलं न यन्ति वै ॥५८॥ तस्मात् स्नेहः सदा कार्यो मयि श्रीपरमात्मनि ।
हातव्यश्चान्त्यजः स्नेहो मम माहात्म्यवेदिना ॥५९॥ आत्मज्ञानेन च त्याज्यः स्नेहो मायिकवस्तुषु ।
आत्माऽयं सच्चिदानन्दो जडाद्भिन्नः शरीरतः ॥3.202.६० ॥ नाऽस्य देहो न सौधश्च न कुटुम्बं न वाटिकाः ।
न जातिर्न कुलं योगो धनं नाऽस्य च सम्पदः ॥६१ ॥ मायाहीनो भवाम्येवेत्यात्मानं चिन्तयेत् सदा ।
एतादृशं निजं मत्वा दैहिकं नहि संस्मरेत् ॥६२॥ कुटुम्बिनो न स्मर्तव्याः पूर्वजाश्चाद्यजा अपि ।
भगवद्भक्तिहीना ये ये तु बन्धनकारिणः ॥६३॥ यत्स्मृत्या बन्धनं वै स्यात् स्मर्तव्या न तथा क्वचित् ।
श्राद्धकाले प्रस्मर्तव्यास्तृप्त्यर्थं मुक्तयेऽपि च ॥६४॥ यज्ञे दाने तीर्थकार्ये धर्मकार्ये व्रतादिषु ।
स्मर्तव्यास्तृप्तये तेषां मुक्तये मन्दिरे हरेः ॥६५॥ अन्यथा रागवशतः स्मर्तव्या न कदाचन ।
स्मर्तव्याः साधवो दिव्याः स्मर्तव्याः प्रतिमा मम ॥६६॥ ब्रह्मप्रियास्तथा साध्व्यः स्मर्तव्या मोक्षसिद्धये ।
ज्ञानिभिर्ज्ञानविज्ञानैर्विस्मर्तव्यास्तु बान्धवाः ॥६७॥ बन्धनस्य प्रदा नार्यो नराश्चापि कुटुम्बिनः ।
विषया मोक्षविघ्नाश्च विस्मर्तव्याः समस्ततः ॥६८॥ ब्रह्मदृष्ट्या येन सर्वे पुत्राद्या विस्मृताः खलु ।
तस्य प्रीतिर्हरौ स्याच्च मोक्षप्रदेषु सत्सु च ॥६९॥ सर्वै सन्तो भवन्त्येव दिव्या ब्रह्मनिवासिनः ।
यथा हरिस्तथा सन्तः स्मर्तव्या मोक्षदा हि ते ॥3.202.७०॥ आश्रयणीयाः सततं साधवश्च हरिस्तथा ।
भजनीयः स्वयं साक्षाद्धरिश्चाऽहं जनार्दनः ॥७१ ॥ एवंविधस्य भक्तस्य भीर्न कालस्य कर्मणाम् ।
मायाया यमराजस्य भीर्नापि बन्धनस्य च ॥७२॥ अनादिश्रीकृष्णनारायणेच्छा भक्तयोगिनः ।
प्रारब्धं खलु मन्तव्यं नेतरत् पापिजीववत् ॥७२॥ एतादृशः प्रवन्द्यो वै सर्वेषां पूज्य एव सः ।
गृहस्थो वा यतिर्वा स विशेषो नाऽत्र विद्यते ॥७४॥ एवंविधस्य भक्तस्य समलोष्ठादिकस्य च ।
पत्तलाब्जरजो मूर्ध्ना धारयन्ति सुरादयः ॥७५॥ सर्वदा च सुरैरस्य दर्शनं क्रियते प्रगे ।
मम प्रतापमालम्ब्य कुर्वन् भक्तिं स्थितो गृहे ॥७६॥ त्यागे बा प्रस्थितश्चाऽयं पारं यात्यञ्जसाऽम्बुधेः ।
एतादृशो मम भक्तो देहान्ते चिन्मयाकृतिः ॥७७॥ ब्रह्ममुक्तो दिव्यदेहः सेवायां धाम्नि मे भवेत् ।
तस्य वै दर्शनं मायापापकालादिनाशकृत् ॥७८॥ कर्मनाशकरं लक्ष्मि तुल्यं ममेक्षया मतम् ।
सर्वक्रिया मदर्थं वै यस्य तस्याऽहमच्युतः ॥७९॥ सर्वथा तु वशीभूतः प्रवर्ते तस्य गोचरः ।
यो भक्तो यद्दिनाल्लक्ष्मि सत्सङ्गं प्रकरोति वै ॥3.202.८ ०॥ तत आरम्य कुरुते विवेकं गुणदोषयोः ।
ईदृग्गुणान् लब्धवाँश्च त्यक्तवान् दुर्गुणानिमान् ॥८ १॥ प्रतिवर्षं व्यतिरेकं विचिन्तयति लाभकृत् ।
सत्सङ्गस्य प्रतापेन सतां हरेश्च सेवया ॥८२॥ गुणाः प्राप्ता इमे सर्वे दोषा गताश्च ते मम ।
शेषाणां खलु दोषाणां नाशने यत्नवान् भवेत् ॥८३॥ शेषाणां सद्गुणानां सङ्ग्रहणे यत्नवान् भवेत् ।
एवं प्रयत्नशीलस्य गुणाः स्युर्मम तुष्टिदाः ॥८४॥ दोषाणां प्रक्षयः स्याच्च दिव्यताऽत्र भवेत्तथा ।
कृष्णसुखं चोत्तमं च जायतेऽस्य हि शाश्वतम् ॥८५॥ मनो निर्वासनं स्याच्च निःसङ्कल्पं स्थिरं भवेत् ।
अनेकेषु चरित्रेषु कृष्णनारायणस्य मे ॥८६॥ मनश्चावर्तयेन्नित्यं रममाणं मयि क्रियात् ।
महाशान्तिमयं स्याद् यत् त्यागिनां गृहिणामपि ॥८७॥ देहयात्रामात्ररूपो व्यवहारस्तु बाह्यतः ।
कर्तव्यो नटवल्लक्ष्मि मनो धार्यं हरौ मयि ॥८८॥ चरित्राणि सतां नारायणस्य कृष्णयोषिताम् ।
भक्तानां श्रीहरेश्चापि चिन्तनीयानि सर्वदा ॥८९॥ मनो निर्वासनं तेन भवेन्मोक्षे यथा सुखम् ।
तेषां समागमः कार्यो मोक्षकृद् यत्फलं भवेत् ॥3.202.९० ॥ व्रतर्दिनः प्रसङ्गेन गायकस्य नृपोत्तमः ।
पुण्ड्रवर्मा ययौ मुक्तिं तथाऽन्ये च सहस्रशः ॥९१ ॥ अतः सेव्या मम भक्ताः सत्याश्चोन्मूलिताशयाः ।
दिव्यक्रिया मम ध्यानपराश्चाश्रिततारकाः ॥९२॥ अन्तरायविहीनाश्च सर्वविघ्नविवर्जिताः ।
धर्मं भागवतं दिव्यं मम सेवां समाश्रिताः ॥९ ३॥ सतामाश्रयकरणात् प्रसन्नतासमर्जनात् ।
आज्ञानुवृत्तिकरणाद्धामाऽक्षरं करे भवेत् ॥९४॥ एवं लक्ष्मि भूतले वा स्वर्गे सत्ये विकुण्ठके ।
गोलोके चाऽक्षरे श्वेतद्वीपे श्रीपुरकेऽमृते ॥९५॥ अव्याकृते बदर्यां वा ये वर्तन्ते मदाश्रिताः ।
मुक्ता मुक्तानिकाः सर्वे सर्वस्वाऽर्पणकृष्णकाः ॥९६॥ शाश्वतानन्दभोक्तारस्तथा व्रतर्दिगायकाः ।
सर्वे मुक्तिं मम प्राप्ताः शाश्वन्तानन्दसेविनः ॥९७॥ ये ये कलाविदो लोकेऽर्पयन्ति तत्कला मयि ।
ते ते यान्त्यक्षरं धाम कृपया मे न संशयः ॥९८॥ येषामग्रे च यो धर्मो गुणः कला क्रिया तथा ।
साधनं श्रीहरिं प्रसादयितुं वै स्वकं भवेत् ॥९९॥ तेन प्रसादनीयः श्रीकृष्णनारायणो हरिः ।
प्रसादनीयाः सन्तश्च नरैश्च योषिताङ्गणैः ॥3.202.१ ००॥ तदा दिव्यो भवेद् भावो देहो मनस्तथाऽऽन्तरम् ।
गुणाः क्रिया वर्तनं च सेवा दिव्याः समस्ततः ॥१०१ ॥ हरेर्भूत्वा हरिं प्राप्य मोदते स समर्पकः ।
पठनाच्छ्रवणाल्लक्ष्मि तथैव मोदते मयि ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने व्रतर्दिनामकगायकभक्तस्य योगेन पुण्ड्रवर्मनृपस्य सप्रजस्य वैष्णवत्वं मोक्षणं चेत्यादिनिरूपणनामा द्व्यधिकद्विशततमोऽध्यायः ॥२०२ ॥