२०१

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्तस्य नर्तकस्य वै ।
नाम्ना रायणदेवस्य कथां भक्तिविधायिनीम् ॥१ ॥ आखोटके महाग्रामे भक्तो रायणदेवकः ।
न्यवसत् सकुटुम्बो वै भजते स्म च मां सदा ॥२ ॥ पूर्वजन्मकृतं पुण्यं सर्वत्रैवोपतिष्ठते ।
प्राग्जन्मनि मयूरोऽभूद् ग्रामगोपुरसन्निधौ ॥३ ॥ उपशल्यतरौ नित्यनिवासश्चरतेऽभितः ।
साधवो ये समायान्ति तैर्थिका यात्रिकाश्च वै ॥४ ॥ विहारिणः पृथिव्यां ये ते वाटे ग्राममाप्य च ।
तरुषण्डेऽवतिष्ठन्त्यासते दिनद्वयं च वा ॥५ ॥ भजनं तत्र कुर्वन्ति पाचयन्ति च भुञ्जते ।
निवेदितं हरये ते जलं पिबन्ति सर्वथा ॥६ ॥ उच्छिष्टानि च पात्राणि पत्राणि च जलान्नकम् ।
क्षिपन्ति तरुषण्डेषु स्थितपक्ष्यर्थमित्यपि ॥७ ॥ उच्छिष्टान्नानि पानीयं पशवः पक्षिणस्तथा ।
कीटाद्या भक्षयन्त्यापः पिबन्ति च वियन्ति च ॥८ ॥ हरेः प्रसादाऽन्नवारि मयूरोऽत्ति पिबत्यपि ।
साधोः प्रासादिकं चापि सम्यक् पिबति चात्ति च ॥९ ॥ एवं प्रसादमाप्तस्य तस्य सुपुण्यमूर्जितम् ।
पापं तु प्रलयं प्राप्तं मृतः कालेन सोऽभवत् ॥3.201.१० ॥ हारीतकाख्यशूद्रस्य पत्न्यां कस्तूरिकास्त्रियाम् ।
गर्भे विवेश पुण्येन पक्षी मानवजन्मवान् ॥११ ॥ गर्भे वासोत्तरं तत्राऽष्टमे मासि सुभक्तिमान् ।
बोधायनो महर्षिश्च साधुधर्मा समाययौ ॥१ २॥ विप्रो भिक्षाकृतेऽगाच्च हारीतकगृहं तदा ।
हारीतकः प्रार्थयच्च ज्ञात्वा दैवज्ञभूसुरम् ॥१ ३॥ गृह्ण भिक्षां पायसान्नं घृतं च शर्करास्तथा ।
स्थिरो भवाऽत्र दिवसे संशयान्मे निराकुरु ॥१४॥ इत्युक्त्वा प्रददौ भिक्षां मिष्टमन्नं घृतं पयः ।
पिष्टं फलानि मधूनि चासनं जलमुत्तमम् ॥१९॥ बोधायनः पाचयित्वा निवेद्य परमात्मने ।
बुभुजेऽथ प्रसादं च शेषं सर्वं ददौ तदा ॥१६॥ हारीतककुटुम्बाय बुभुजेऽपि कुटुम्बकम् ।
सायं स्वास्थ्ये स्थिरवृत्तौ पप्रच्छ तं महामुनिम् ॥१७॥ पत्न्या गर्भे बालको वा बाला वा किं भवेदिति ।
कथङ्गुणं मदपत्यं भविष्यतीति मे वद् ॥१८॥ चिरायुर्वापि वै स्वल्पायुश्च भक्तो भवेन्न वा ।
कथं नारायणे देवे भक्तिः श्रद्धा भवेदपि ॥१ ९॥ कथं मोक्षो दिव्यता च कथं नारायणाश्रयः ।
कथं साधोः प्रसङ्गश्च सेवा धर्मावलम्बनम् ॥3.201.२०॥ कथं मुक्तिः कथं त्यागः कथं संसारनाशनम् ।
कथं चैश्वरता स्याच्च मुक्तता गृहमेधिनः ॥२१ ॥ इत्येतानि समस्तान्यमृतानि मे प्रपायय ।
इत्युक्तः साधुवर्यस्तु बोधायनो हि भक्तराट् ॥२२॥ प्रत्युवाच कुटुम्बस्य सन्निधौ यत्र गर्भिणी ।
वर्तते सा शृणोत्येव कथां परमपावनीम् ॥२३॥ शृणु हारीतक! त्वं वै पत्नी ते च शृणोत्वपि ।
कुटुम्बं ते शृणोत्वत्र हितं वच्मि हितोत्तमम् ॥२४॥ बालकस्ते हि भविता पुत्रश्चोद्धारकृच्छुभः ।
साधुभक्तो हरेर्भक्तः पूर्वसंस्कारवानिह ॥२५॥ मयूरवत् समस्तानि नृत्यानि प्रकरिष्यति ।
साधुप्रसादभोक्ता च चिरायुर्भक्तिमान् सदा ॥२६॥ मुक्तिं तव कुटुम्बस्य भक्त्या स वै करिष्यति ।
लक्ष्मीप्रदस्ते सततं भाग्यशाली भविष्यति ॥२७॥ नारायणप्रदश्चापि वैष्णवः स भविष्यति ।
परात्परतरे कृष्णे महानन्दनिधौ प्रभौ ॥२८॥ लग्नवृत्तिर्हि भविता चाऽऽबाल्यात्तव बालकः ।
प्राग्जन्माऽस्य मयूरस्य ततो नृत्यकलाविदाम् ॥२९॥ मूर्धन्योऽयं तव पुत्रो भविष्यति प्रभक्तराट् ।
तस्य नृत्ये च ये नृत्यविदो जनास्तथाऽपरे ॥3.201.३ ०॥ नर्तक्यश्चापि सर्वाश्च मिलिष्यन्ति कलाविदः ।
सर्वे त्वत्पुत्रसङ्गेन भविष्यन्त्यपि वैष्णवाः ॥३ १ ॥ मोक्षमार्गे श्रयिष्यन्ति यास्यन्ति परमं पदम् ।
अपि जीवा मायिका वै मायासृष्टे जगत्यपि ॥२॥ वर्तन्ते बहवो नित्यं नृत्यगीतिविलासिनः ।
पूर्वं नारायणेनेदं सृष्टं जगद् यदा तदा ॥३३॥ जगत्प्रवाहसिद्ध्यर्थं स्नेहपाशोऽपि निर्मितः ।
स्नेहबद्धमिदं सर्वं कलया भ्रमते जगत् ॥३४॥ नराणां योषितां प्रीतिः साहजिकी तया भवेत् ।
स्नेहस्य कलया पुत्रे पत्यौ वित्ते गृहे स्त्रियाम् ॥३५॥ वाट्यां क्षेत्रे पशौ लाभे कुटुम्बे जायते हि सा ।
प्रस्वां पितरि मायैव निहिता विश्ववर्द्धिनी ॥३६॥ तादृश्या मायया बद्धा जीवाः कलाविदोऽपि ये ।
तव पुत्रं मिलिष्यन्ति ते भविष्यन्ति वैष्णवाः ॥३७॥ तव पुत्रस्य योगेन भक्तिं मोक्षप्रदायिनीम् ।
करिष्यन्ति हरेर्योगं प्रलप्स्यन्ति च नर्तने ॥३८॥ मायापरो यो भगवान् जनानां श्रेयसे भुवि ।
आविर्भूय सदा चास्ते तं ते बालो भजिष्यति ॥३९॥ पूर्वपुण्ययुता लोका भजिष्यन्ति हरिं तदा ।
तरुषण्डे च ये पक्षिपशवश्च तरुमृगाः ॥3.201.४० ॥ मृता ये तेऽभितश्चात्र साधुप्रसादभोजिनः ।
मानुष्यं प्राप्य वर्तन्ते पावनाः पुण्ययोगिनः ॥४१ ॥ सर्वे ते वै नर्तकाश्च गायका वादका अपि ।
ग्रामेऽत्र परग्रामे वा जातास्ते वैष्णवोत्तमाः ॥४२॥ प्राक्श्रीकृष्णतदीयेक्षाप्रसादादिप्रभोगिनः ।
संस्कारिणः प्रजातास्ते ग्रामेऽत्र बालकाः शुभाः ॥४३ ॥ तेषां सतां प्रसङ्गेन हरेर्वार्ताश्रवेण च ।
कृष्णभक्तिर्वर्तते च वर्तिष्यते दृढाऽधिका ॥४४॥ ते च सर्वे मिलित्वैव करिष्यन्ति सतां हरेः ।
सेवां भक्तिं भृत्यतां च परिचर्यां प्रमोक्षदाम् ॥४५॥ श्रद्धावन्तो भविष्यन्ति सर्वे ते कृपया सताम् ।
अतिप्रीतिं गमिष्यन्ति साधौ च परमेश्वरे ॥४६॥ समर्थाश्च भविष्यन्ति स्वीयस्निग्धान् परानपि ।
भवपाशान्मोचयितुं प्रीतिं कारयितुं हरौ ॥४७॥ तेन सङ्क्ष्यन्ति वै तुच्छसुखे सुसाधुयोगिनः ।
दृढाः सर्वे सतां सङ्गे हरेः सङ्गेऽतिनिष्ठिताः ॥४८॥ मायानाशकराः सर्वे भविष्यन्ति विरागिणः ।
भक्त्यन्तरायकृत्सर्वं त्यक्ष्यन्ति ब्रह्मनिष्ठिताः ॥४९॥ चिरेण मां प्रसाद्यैव फलमाप्स्यन्ति शाश्वतम् ।
अक्षरं ब्रह्म परमं दिव्यं दिव्यस्वरूपिणः ॥3.201.५० ॥ सतां प्रसङ्गतो भक्तिर्वर्धते परमात्मनि ।
सतां प्रसङ्गतो ज्ञानं जायते परमात्मनः ॥५१ ॥ हरेर्माहात्म्यविज्ञानैः श्रद्धा नित्यं प्रवर्धते ।
विवेकेन हरौ नित्यं दिव्यता भासते न वा ॥५२॥ सत्सु प्रकाशते चापि दिव्यता भगवन्निभा ।
विवेकेन भवेत् कृष्णनारायणे दृढाश्रयः ॥५३॥ तस्याश्रयेणाश्रयिणामाश्रयो जायते सताम् ।
सदाचाररतस्यैव सत्सेवां कुर्वतो भवेत् ॥५४॥ महाभागवतधर्मालम्बनं सेवनादि च ।
सेवया सततं प्रवर्तते कृपा सतां हरेः ॥५५॥ कृपया मुक्तता त्यागः संसारविलयस्तथा ।
नारायणेन तादात्म्यं जायते ध्यानतो हरेः ॥५६॥ ऐकाग्र्यं च निरोधश्च समाधिर्जायते हरौ ।
सर्वानन्दमहानन्दभोगोऽस्य जायतेऽनिशम् ॥१७॥ तस्मात् सन्तो भोजनीयाः सेवनीया जलान्नकैः ।
कार्या च दासवत् सेवा दासीवद् भृत्यवत्तथा ॥५८॥ पत्नीवत् पुत्रवच्चापि सेवा कार्या सतां सदा ।
पितृवन्मातृवच्चापि माननीयाश्च राजवत् ॥५६॥ स्वामिवत् पतिवद् भ्रातृवच्च रक्षकवत्तथा ।
सेवनीयाः सदा सन्तो हरिप्रसङ्गयोगिनः ॥3.201.६० ॥ प्रसादनीयाः ततोऽत्र वन्दनीया मुहुर्मुहुः ।
क्षमापनीयाः सततं तोषणीयास्तु देववत् ॥६ १ ॥ पूजनीया हि सन्तोऽत्र रक्षणीयास्तु पुत्रवत् ।
सतां प्रसन्नतां प्राप्य भुक्तिर्मुक्तिर्भवेदिह ॥६२॥ सतामाज्ञां समालम्ब्य वर्तनीयं हि सत्पथे ।
सर्वतोऽपि समाकृष्येन्द्रियाऽन्तःकरणानि च ॥६३॥ निधातव्यानि कृष्णे वै व्रजेयुः कुपथं न यत् ।
कुपथं चेद् व्रजेयुश्च समाकृष्य द्रुतं तदा ॥६४॥ हठात् कृष्णे प्रयोज्यानि सुखदे परमेश्वरे ।
यादृङ्मानं न्यूनभावं माहात्म्यं श्रीहरेर्भवेत् ॥६५॥ तादृग्बलं तु विषये यात्यन्तःकरणं बहिः ।
न्यूनतापरिहारार्थं कार्यः सङ्गः सतां सदा ॥६६॥ कृष्णे एव रुचिः साध्या हेयः सङ्गस्तु चापरः ।
कुपथे व्रजतो भीतिः कृष्णपथे तु निर्भयम् ॥६७॥ कृष्णप्राप्तौ देहिनां तु प्राप्तव्यं नाऽवशिष्यते ।
कृष्णानन्दपरः कश्चिदानन्दो नावशिष्यते ॥६८॥ तं हरिं चेद् विहायाऽत्र तुच्छसौख्यस्य लब्धये ।
यतन्ते चेत्तदा बोध्या ते जनास्तु बुभुक्षवः ॥६९॥ संसारिणस्त एवोक्ता निरयार्थं प्रजन्मिनः ।
लुम्पन्ति भगवद्वाणीं सतामाज्ञां वहन्ति न ॥3.201.७० ॥ ते प्राप्नुवन्ति सततं क्लेशं तुच्छार्थधाविनः ।
यद्यपि स्युर्बुद्धिमन्तो बहुश्रुताः प्रतर्किणः ॥७१ ॥ अथ यः स्वल्पधीश्चापि सेवते श्रीहरिं सतः ।
श्रेयोऽध्वानं श्रयतेऽत्र वर्तते सत्पुमर्थके ॥९२॥ सद्गुणान् गृह्णते नित्यं साधूनां भक्तियोगिनाम् ।
भागवतं महाध्वानं दिव्यं समधितिष्ठति ॥७३॥ स एव बुद्धिमान् प्रोक्तः स्वर्थमोक्षपरायणः ।
स एव साधुरेवोक्तो मोक्षार्थकृतनिश्चयः ॥७४॥ बहुबुद्धिस्तु निरयं गमिष्यति प्रभोगवान् ।
तुच्छार्थधावनपरः साधुमार्गविनिन्दकः ॥७५॥ हरेः सतां गुणानां स दूषको नास्तिकः खलः ।
धिया दूषितया प्राप्नोत्येव पापं यमालयम् ॥७६॥ क्षीरं शर्करया युक्तं विषाक्तं चेद् विनाशकृत् ।
तथा धीर्दूषिता श्रेयोविघातिनी महत्यपि ॥७७॥ तया युक्तः पतत्येव द्रोग्धा जन्मान्तरे भवेत् ।
सद्गतिर्न भवेत्तस्य तत्सङ्गिनोऽपि नैव च ॥७८॥ न चायं भाषणयोग्यः पातयत्येव भाषणात् ।
अवगुणान् दर्शयित्वा मालिन्यं निदधात्यतः ॥७९॥ अल्पमतिर्भावयुक्तः सेवकः सङ्गमोचितः ।
गृह्णन्नाशीर्वचांस्येव श्रेयोमार्गे स्थितो हि सः ॥3.201.८०॥ मानं कपटं क्रोधं च तथेर्ष्यां प्रजहाति यः ।
साधूनां दासभावेन सेवको वर्तते तु यः ॥८१ ॥ दिव्यभावं विदन् सत्सु सतां क्रियासु सर्वथा ।
स एवं साधुरत्रोक्तः सर्वथा सेवनोचितः ॥८२॥ स एकोऽनुग्रहपात्रं सता हरेश्च सर्वथा ।
आश्रितानां समुद्धारकर्ता ह्यपि प्रतापवान् ॥८३॥ स एव मोक्षदः स्याद्वै यथा सन्तो हरिर्यथा ।
अन्यस्त्वासुरबुद्धिर्वै भूतः प्रेतो भवेदिह ॥८४॥ राक्षसो द्रोहकर्ता वा भवेद् दैत्यो हि पापकृत्॥ नैव मुक्तिर्भवेत्तस्य द्रोहिणो वै हरेः सताम् ॥८५॥ वैरभावेन कृष्णे स युज्यते च चिरेण वा ।
अनुग्रहेण कृष्णस्य क्वचिज्जहाति दैत्यताम् ॥८६॥ ततः कालान्तरे कृष्णकृपया वैति सद्गतिम् ।
तस्मात्तुच्छे पदार्थे तु प्रीतिः कार्या न सर्वथा ॥८७॥ हरौ सत्सु सदा कार्या प्रीतिः सेवाऽनुवृत्तिता ।
यस्य सर्वं जगत् स्वर्णं लोष्ठं समं दिवं च भूः ॥८८ ॥ सर्वं ब्रह्ममयं यस्य तं प्रसेवेत दासवत् ।
दासीवत् सम्प्रसेवेत साध्वी नारायणी भवेत् ॥८९॥ इत्येवमुपदिश्याऽथ लक्ष्मि बोधायनो मुनिः ।
ययौ देशान्तरं प्राप्य पूजां कालेन वै ततः ॥3.201.९०॥ कस्तूरिका सुतं दिव्यं सुषुवे भक्तयोगिनम् ।
बोधायनोक्तं विज्ञानं गर्भे यः श्रुतवान् परम् ॥९१॥ सर्वज्ञानेन सहितो जज्ञे पुत्रः प्रतापवान् ।
भक्तिं चक्रे हि बाल्यात् स नर्तनं गायनं तथा ॥९२॥ कथां चक्रे विवेकाढ्यां पूजां करोति नित्यदा ।
भजनं कीर्तनं चक्रे सर्वां कृष्णमयीं क्रियाम् ॥९३॥ अथ बोधायनो द्रष्टुं समायातः पुनस्त्विमम् ।
भक्तं विलोक्य शिष्यं तं नाम्ना रायणदेवकम् ॥९४॥ मुमुदे दीक्षयामास शतशिष्यैर्युतं च तम् ।
शतशिष्याभिरेवाऽपि सहितं रायणं मुनिः ॥९५॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
दीक्षां भागवतीं मन्त्रं दत्वा मुनिर्ययौ वनम् ॥९६॥ सर्वे रायणदेवाद्या नर्तकाः साधवस्तथा ।
गायकाश्चापि साध्व्यश्च भेजुर्मां नृत्यकीर्तनैः ॥९७॥ सहस्रशो जनाश्चैषां शिष्याश्च पुरुषाः स्त्रियः ।
सञ्जाता वैष्णवा लक्ष्मि मम भक्तिपरायणाः ॥९८ ॥ समाजे त्वेकदा तेभ्यो दर्शनं परमं ददौ ।
अहं साकं श्रिया लक्ष्म्या नारायणश्चतुर्भुजः ॥९९॥ तैश्च सम्पूजितश्चाहं पाययामास पज्जलम् ।
तेभ्यो मुक्तिं दिव्यगतिं ददौ ब्रह्ममयीं पराम् ॥3.201.१०० ॥ तच्छिष्याश्च प्रशिष्याश्च वर्तन्ते भूतलेऽपरे ।
ते भजन्तेऽनादिकृष्णनारायणं प्रभुं च माम् ॥१ ०१ ॥ एवं मया साघुयोगान्नर्तकश्चोद्धृतो रमे ।
उद्धृताश्चापि नर्तक्यो मोक्षमार्गं प्रणोदिताः ॥१ ०२॥ एवं मम बलं भक्तेः साधोः सेवाबलं तथा ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रायणदेवस्य नर्तकस्य बोधायनोपदेशेन गर्भस्थस्य विज्ञानं भक्तिश्च हरिदर्शनं मोक्षश्चेत्यादिनिरूपणनामा एकाधिकद्विशततमोऽध्यायः ॥२० १ ॥