२००

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भाण्डभक्तस्य वै कथाम् ।
भाण्डीयनगरे भाण्डोऽभवच्छूद्रो हि भक्तराट् ॥१ ॥ गायने वादने शक्तो नाम्ना कालीन्दरः पुरा ।
कालीन्दरोऽतिकुशलश्चाबाल्याद वाद्यरागवान् ॥२ ॥ वाद्यकलां विजानाति गीतिगानानुसारिणीम् ।
भाण्डाश्च बहवस्तस्य शालामागत्य दूरतः ॥३ ॥ अभ्यासं विदधत्येव वाद्यानां तत्र वासिनः ।
नृत्यानां गालतालानां गलतालात्मकात्मनाम् ॥४ ॥ कण्ठतालीतालसक्थिकरतालात्मकात्मनाम् ।
नर्तक्यश्चापि बह्व्यश्चागत्याऽभ्यासं तथाविधम् ॥५ ॥ कुर्वन्ति तस्य शालायां वाराङ्गनाश्च कन्यकाः ।
वर्षे वर्षे प्रकुर्वन्ति महोत्सवं च ते ततः ॥६ ॥ समाजे तत्र कुर्वन्ति शिक्षणस्य प्रदर्शनम् ।
एवं तत्रातिकुशला गायका नर्तकास्तथा ॥७ ॥ वादका हासकाश्चापि बहुरूपा नराः स्त्रियः ।
प्राप्नुवन्ति यथाविद्यं पारितोषिकमुत्तमम् ॥८ ॥ स्वर्णरूप्यमयं रत्नमयं भूषामयं च वा ।
वेषमयं वाद्यरूपं समाजेन समर्पितम् ॥९ ॥ एवं सम्वत्सरे लक्ष्मि जायते सुमहोत्सवः ।
प्रसिद्धस्तेन भाण्डः सः कालीन्दरो व्यजायत ॥3.200.१ ०॥ राजानः साधवः सत्यः श्रेष्ठिनश्चाधिकारिणः ।
समुत्सवे समायान्ति पारितोषिकसम्प्रदाः ॥११ ॥ तेषां करोति सत्कारं यथायोग्यं यथाधनम् ।
भाण्डीरनृपतिश्चापि नृपादीनां समर्हणम् ॥१२॥ स्वागतं चापि योग्यः सन् करोति च यथोचितम् ।
एवंविधे समाजेऽयं कालीन्दरोऽतिभक्तराट् ॥१ ३॥ मम मूर्तिं तु सौवर्णी सिंहासने सभागते ।
सर्वशृङ्गारशोभाढ्येऽवस्थापयति शोभनाम् ॥१४॥ लक्ष्मीराधायुतां रम्यां कृष्णनारायणाभिधाम् ।
मण्डपे तैजसे शोभायुक्ते स्वर्गसभासमे ॥१५॥ गायनादेः समारम्भात् पूर्वं प्रपूज्य मां ततः ।
नृपान् प्रपूज्य साधूँश्च सतीः प्रपूज्य चाग्रगान् ॥१ ६॥ वृद्धान् विप्रान् श्रेष्ठिवर्यान्नत्वा समाजमादरात् ।
गीतिं रम्यां प्रार्थनाढ्यां करोति प्राक् तदा मम ॥१७॥ जयति नारायणः सर्वकारणहरिः
श्रीपतिः सर्वलक्ष्मीश्वरोऽयम् ।
जयति नारायणो ब्रह्मपारायणो
राधिकाकान्त ईशेश्वरोऽयम् ॥१८॥ जयति कमलापतिर्ब्रह्मललनापति-
र्मुक्तमुक्तानिकाकान्त ईशः ।
जयति धामेश्वरश्चावतारेश्वरः
कम्भराबालको बालकृष्णः ॥१ ९॥ जयति गोपालजो माणिकीनायक-
श्चाऽक्षराधीश्वरश्च प्रमेशः ।
सर्वलोकान्तरश्चान्तरात्मा प्रभु-
र्जयति कृष्णो हरिः पार्वतीशः ॥3.200.२०॥ जयति गोपीपतिर्जयति नैष्ठिक-
पतिर्जयति सर्वेशराजाधिराजः ।
जयति वै कृष्णनारायणो माधवः
स्वामिनां स्वामिनाथो विजयतु ॥२१ ॥ भक्तरक्षाकरो निजजनेष्टदायकः
श्रीहरिर्मां समुद्धरतु कृष्णः ।
भाण्डजातिं तथा नर्तकीयोषितो
गायिका उद्धरत्वीश्वरेशः ॥२२॥ भक्तजनभावनां पूरयत्वच्युतो यः
प्रभुर्दीनमित्रं विशेषात् ।
स्तौति कालीन्दरः कालमायापरं
भुक्तये मुक्तये शान्तये तम् ॥२३॥ एवं गीतिं नर्तकीभिः सहितस्य जनस्य मे ।
कालीन्दरस्य श्रुत्वाऽहं प्रसन्नश्चाऽभवं मुहुः ॥२४॥ लक्ष्मीराधादिसहितस्तेभ्यो दातुं स्वदर्शनम् ।
कृपामकरवं लक्ष्मि भक्ताधीनो नरायणः ॥२५॥ तेजःपुञ्जो मया तत्र प्रदर्शितोऽतिभासुरः ।
सभायां तु समाजे वै मण्डपे मम मूर्तिजः ॥२६॥ तत्र शनैर्मम रूपं शङ्खचक्रगदाब्जवत् ।
हारकेयूरमुकुटकटककौस्तुभादियुक् ॥२७॥ दिव्यशृङ्गारवेषाढ्यं प्रसन्नवदनं शुभम् ।
राधालक्ष्मीयुतं दिव्यैः पार्षदैश्च समन्वितम् ॥२८॥ अदर्शयं क्षणं तत्र मुग्धाः सर्वाः स्त्रियो नराः ।
अभवँस्तेजसा पुञ्जैः स्तम्भनेत्राश्च वै क्षणम् ॥२९॥ तेजो विलीय सहसा नरनाट्यधरोऽभवम् ।
तैर्दृष्टो रूपवानस्मि तावत्तिरोऽभवं क्षणात् ॥3.200.३० ॥ भक्तभक्त्या मनागेवं मया रूपं प्रदर्शितम् ।
सर्वः समाजो रूपं तद् द्रष्टुमियेष वै मुहुः ॥३ १॥ कालीन्दरं महाभक्तं शिश्रियुस्ते ततः सदा ।
वैष्णवाः सर्व एवैते बभूबुर्मयि श्रद्धया ॥३२॥ सर्वे नित्यं भजन्ते मां प्रातः कुर्वन्ति कीर्तनम् ।
कथां मदीयां कुर्वन्ति पूजनं मम वस्तुभिः ॥३३॥ नैवेद्यं भुञ्जते सर्वे मम प्रसादरूपि तत् ।
सायं सङ्कीर्तनं सर्वे कुर्वन्ति मिलितास्तथा ॥३४॥ भाण्डशालाऽभवल्लक्ष्मि भक्तशाला हि सा सदा ।
एकभक्तस्य योगेन कृपया मम दिव्यया ॥३५॥ नित्यं सुकीर्तनं तत्र जायते मम हर्षकृत् ।
साधवः साध्विकास्तत्र नित्यमायान्ति यान्ति च ॥३६॥ कालीन्दरतथा चान्ये भक्ता मम प्रपूजनम् ।
नित्यं कुर्वन्ति प्रातश्च मध्ये सायं सुशोभनम् ॥३७॥ नित्यभक्त्या पावनास्ते ह्यभवन् पङ्क्तिपावनाः ।
ह्येकदा भाण्डीरपुरं साधुस्तु कमलायनः ॥३८॥ मम भक्तो ययौ तीर्थयात्रां कुर्वन् निशामुखे ।
कालीन्दरो महान् भक्तः साधूनां सेवको द्रुतम् ॥३९॥ साधवे प्रददौ लक्ष्मि जलान्नं स्वागतं व्यधात् ।
मधुपर्कं ददौ वासं सेवां चकार भावतः ॥3.200.४०॥ सायङ्कालोत्तरं तत्र समाजो दर्शकोऽभवत् ।
तत्र कालीन्दरोऽपृच्छत् सते निःश्रेयसं निजम् ॥४१ ॥ आत्यन्तिकं सुकल्याणं वद साधो कथं भवेत् ।
कमलायनसाधुस्तं सभायां वक्तुमारभत् ॥४२॥ अनादिश्रीकृष्णनारायणः सर्वातिवल्लभः ।
हिताय देहिनां चात्र कृपया मानवे कुले ॥४३॥ नराकारः स्वयं भूत्वा विहरत्येव भूतले ।
तदाश्रिताः साधवश्च दयालवश्चरन्त्यपि ॥४४॥ लोकानां हितकर्तारश्चोपदिशन्ति तद्गुणान् ।
तद्गुणान् प्रसमाकर्ण्य भक्तिं कुर्वन्ति मानवाः ॥४५॥ भक्त्या श्रेयो भवत्येव जायते चाक्षरे गतिः ।
ये जनाः समगृह्णन्ति गुणान् साधोः परात्मनः ॥४६॥ सेवां कुर्वन्ति साधूनां तथा श्रीपरमात्मनः ।
भजन्ते तं प्रभुं साधून् ते तरन्ति भवार्णवम् ॥४७॥ ये तु दोषान् प्रगृह्णन्ति ते पतन्ति भवाम्बुधौ ।
वर्धन्ते वासनास्तस्य दोषग्रहणपापतः ॥४८॥ ये तु दिव्यदृशा साधोर्हरेर्गुणान् गतिप्रदान् ।
प्रशंसन्ति च गृह्णन्ति ते यान्ति परमां गतिम् ॥४९॥ तेषां हृदये नैर्मल्यं जायते साधुसेविनाम् ।
शतविप्रसमः साधुः शतसाधुसमो हरिः ॥3.200.५०॥ यथा यथा दिवारात्रौ साधुसङ्गं करोत्ययम् ।
तथा तथा दिव्यभावो हरौ साधौ च वर्धते ॥५१॥ तथा तथा च नैर्मल्यं सत्सङ्गश्च प्रवर्धते ।
प्रवर्धते महापुण्यं परनिःश्रेयसाम्प्रदम् ॥५२॥ इन्द्रियाणां तु पापानि नश्यन्ति साधुसङ्गतः ।
अतः सर्वार्पणैः सेव्याः साधवः साधुभूषणाः ॥५३॥ साधोः सेवा हरेः सेवा तया याति परं पदम् ।
यत्र साधोर्निवासोऽस्ति तद्गृहं मोक्षदं सदा ॥५४॥ यत्र कृष्णनिवासोऽस्ति मन्दिरं तत् प्रमोक्षदम् ।
स देशो मोक्षदो यत्र साधुर्हरिर्विराजते ॥५९॥ सा खट्वा पावनी यत्र साधुः स्वपिति शान्तिमान् ।
यस्मिन् दिने हरेः साधोर्दर्शनं सेवनं भवेत् ॥५६॥ दिवसः स शुभः प्रोक्तो मोक्षोऽघविनाशकः ।
सभा समाजः शुभकृद् यत्र साधोः समागमः ॥५७॥ भक्तानां सङ्गमश्चापि पापहो मोक्षदस्तथा ।
वैष्णवानां सतां सङ्गः सतीनां सेवनं तथा ॥५८॥ मोक्षदं सम्भवत्येव सत्सङ्गः शेवधिर्नॄणाम् ।
दानं पुण्यं भोजनादि दातव्यं साधवे सदा ॥५९॥ श्रीकृष्णाय प्रदातव्यं सर्वस्वं मोक्षकृद्धि तत् ।
एवंविधाभिः सेवाभिर्मोक्षं सम्पादयेत् सुधीः ॥3.200.६०॥ असद्देशमसत्कालमसत्सङ्गं विवर्जयेत् ।
सत्सङ्गं सत्क्रियां कुर्यात्तेन मोक्षो भवेदिह ॥६१ ॥ असत्सङ्गो भवेद्भक्तेर्नाशकस्तं परित्यजेत् ।
मोक्षस्य रोधकं चापि दुष्टसङ्गं विवर्जियेत् ॥६२॥ पूर्वसंस्कारयोगेन नैर्मल्यं हृदि जायते ।
पूर्वपुण्योदयेनापि नैर्मल्यं जायते हृदि ॥६३॥ कृपया श्रीहरेश्चापि नैर्मल्यं जायते हृदि ।
साधूनां कृपया चापि नैर्मल्यं जायते हृदि ॥६४॥ सेवाख्येन पौरुषेण साधूनां श्रीहरेस्तथा ।
नैर्मल्यं जायते श्रेष्ठं सर्वस्वार्पणकर्मणा ॥६५॥ निर्मलान्तःकरणो यः सज्जते सत्समागमे ।
साधुसेवां हरेः सेवां कृत्वा कृपां प्रसादनम् ॥६६॥ प्रसन्नतां हरेर्लब्ध्वा लब्ध्वा साधोः प्रसन्नताम् ।
वरदानं ततो लब्ध्वा हरेः सतां महात्मनाम् ॥६७॥ सद्बुद्ध्या श्रीहरिं प्राप्य नरनाट्यधरं प्रभुम् ।
साधून्मोक्षप्रदान् प्राप्य कृत्वा सङ्गं हरेः सताम् ॥६८॥ तेभ्यः प्राप्य परं ज्ञानं तद्भक्त्याऽऽप्नोति दिव्यताम् ।
कृपया दिव्ययानेन भक्तो याति परं पदम् ॥६९॥ सकल्पानां वासनानां मायानां च निवर्तनम् ।
मोक्षाभिगमनं चेति हरेः सतां प्रसङ्गतः ॥3.200.७०॥ मनो लीनं हरौ कृष्णे जायते स्नेहयोगिनाम् ।
तथैकान्तिकभक्तानां स्यान्निष्कैतवसेवया ॥७१ ॥ सेवाभक्तिपरः श्रेष्ठो न निवृत्तिपरायणः ।
सेवकोऽसङ्ख्यमोक्षार्थी निवृत्तस्त्वात्ममोक्षकृत् ॥७२॥ दास्येन भजमानस्य भक्तिः कृष्णेऽधिका यतः ।
भक्त्याधिक्यबलः श्रेष्ठः समर्थोऽसङ्ख्यमोक्षणे ॥७३॥ निवृत्तो दुर्बलो हीनः कृष्णस्तद्भक्तसेवया ।
सेवकः सबलः कृष्णाज्ञायां दृढस्थितिर्मतः ॥७४॥ तत्र कश्चिद् भवेद् दोषो वाक्पारुष्यादिकोऽपि च ।
न ग्राह्यो दिव्य एवाऽसौ तद्दोषो गुण एव सः ॥७५॥ दोषदृष्टिस्तु पुरुषो दानवो वाऽसुरो हि सः ।
कृष्णे दोषग्राहकः स नृनाट्यमनुकुर्वति ॥७६॥ कल्याणदो हरिश्चात्र करोति भक्तवाञ्च्छितम् ।
नारीणां कामनापूरो नराणामिष्टदोऽपि च ॥७७॥ तत दैत्याः कल्पयन्ति स्वदृष्टान्तेन कर्मजान् ।
तच्चरित्रेषु दिव्येषु श्रुतिमात्राऽघहारिषु ॥७८॥ दोषान् कामक्रोधलोभान् तेन ते यान्त्यधोगतिम् ।
नैतावता हरेः साधोर्जगत्कल्याणकारिणः ॥७९॥ दोषगन्धोऽपि भवति दिव्यस्य परमात्मनः ।
दोषदर्शी त्वासुरः स्यात्तस्माद्दोषं न कल्पयेत् ॥3.200.८० ॥ महत्स्वपि तु भक्तेषु स्वल्पेष्वपि च सर्वथा ।
हरौ यथा तथा दोषं स्वल्पं चापि न कल्पयेत् ॥८ १ ॥ कृष्णो दिव्यः कृष्णलीला दिव्याः कल्याणदास्तु ताः ।
सन्तो दिव्या सतां लीला दिव्यास्तद्वद्धि मोक्षदाः ॥८२॥ दिव्या श्रीबालकृष्णस्य चाज्ञा तत्र च वर्तते ।
यः स दिव्यो भवेदत्र महानेव मतो हि सः ॥८३॥ कृष्णनारायणश्चाऽक्षरेशः श्रीपुरुषोत्तमः ।
साक्षात्प्राप्तो नरनाट्यधरोऽत्राऽऽज्ञाप्रवर्तकः ॥८४॥ इतिनिश्चित्य भक्तास्तु वर्तन्ते तद्वचोऽन्विताः ।
तेषां प्रसेवया मुक्तिर्भवत्येवाऽऽज्ञया यथा ॥८५॥ भक्ता आज्ञाङ्किताः सन्ति मोक्षार्था मोक्षगामिनः ।
संसारिणस्त्वभक्तास्ते भवन्ति विषयैषिणः ॥८६॥ भक्तानां विषयाः सन्ति नारायणपरायणाः ।
अभक्तानां तु विषयाः कामास्वादनतत्पराः ॥८७॥ ग्राम्यं गीतं रूपमिष्टं स्पर्शो गन्धश्च देहजः ।
अभक्ष्यभक्षणं चेति विषया विषयैषिणाम् ॥८८॥ कृष्णगतिं कृष्णरूपं कृष्णस्पर्शोऽतिसौरभः ।
कृष्णस्य गन्ध एवापि जलान्नफलभूषणम् ॥८९॥ कृष्णप्रसादि तुलसीदलं चाम्बरमित्यपि ।
वाद्यगायनशोभादि शृङ्गारहास्यगीतिकाः ॥3.200.९०॥ रमणं लासनं भावा भक्तानां भगवत्कृताः ।
ग्राम्यास्तिष्ठन्ति बाह्येषु भक्तास्तिष्ठन्ति केशवे ॥९१ ॥ ग्राम्या हातुं न वै शक्ता यथा ग्राम्यान् प्रभोगकान् ।
भक्ता हातुं न वै शक्तास्तथा कृष्णप्रभोगकान् ॥९२॥ समाधिस्था अपि भक्ताः कुर्वन्ति श्रीहरेः कथाम् ।
आकृष्यन्ते गुणे गाने कृष्णस्यैव न चेतरे ॥९३॥ सत्वस्थितौ हरेर्ध्यानं जायते शान्तिकृत् सुखम् ।
राजसे तामसे भावे कृष्णध्यानं तु दुर्वहम् ॥९४॥ ध्येयस्फुर्तिर्भवेन्नैव राजसे तामसे हृदि ।
बहिः कृष्णस्तदा दृश्यो दर्शनीयो नृनाट्यधृक् ॥९५॥ साधवो दर्शनीयाश्च तदानीं बहिरेव ह ।
सेवनीया बहिर्भावै राजसैः सुखसम्पदा ॥९६॥ यद्वा चात्मस्वरूपस्य कार्यं सुचिन्तनं तदा ।
ज्ञानेन लीयते भावस्तामसो राजसोऽपि च ॥९७॥ मनोऽपि कीशवन्नैसर्गिकं चलं निरुद्ध्यते ।
अनिरोधे तु सततं कीर्तनीयो हरिर्बहिः ॥९८॥ सतालीवादनं कुर्यात् कृष्णकीर्तनमुत्तमम् ।
सङ्कल्पास्तेन नश्यन्ति राजसास्तामसास्तथा ॥९९॥ सतां सेवा प्रकर्तव्या ग्राह्या वार्ता सतां मुखात् ।
साधयेच्छान्तिममृतप्रदां सङ्कीर्तनेन वै ॥3.200.१० ०॥ आश्रयोऽतिदृढः कृष्णे प्रसादस्य प्रवर्तकः ।
आश्रयेण गुणवेगाः शाम्यन्ति भक्तयोगिनः ॥१०१ ॥ विश्वासेन प्रकर्तव्यश्चाश्रयः परमात्मनः ।
स्वार्थेन वा प्रकर्तव्यः स्नेहेन वा परात्मनः ॥१ ०२॥ ज्ञानेन वा प्रकर्तव्यश्चाश्रयः परमात्मनः ।
त्रयः पूर्वा निर्बला वै सबलो ज्ञानजाऽऽश्रयः ॥१०३ ॥ सतां वाक्येषु विश्वस्ता आश्रयन्ति हरिं जनाः ।
राज्यैश्वर्याऽऽरोग्यधनाद्याप्त्यै तु स्वार्थिका जनाः ॥१ ०४॥ रूपसौहार्दसम्बन्धस्नेहेन स्नेहिनो जनाः ।
स्निग्धा भूत्वाऽऽश्रयन्त्येव सहन्ते विरहं न ते ॥१ ०५॥ सत्सङ्गबलतो ज्ञात्वा माहात्म्यं परमात्मनः ।
आश्रयन्ति हरिं ज्ञानिवर्यास्ते शाश्वताश्रयाः ॥१ ०६॥ ज्ञानिनस्तु प्रजानन्ति हरिं सर्वेश्वरेश्वरम् ।
सर्वगुणाऽगुणाधारं दिव्यमायाधिपं तथा ॥१ ०७॥ दोषाऽदोषाश्रयं न्यायाऽन्यायाश्रयं प्रभुं विभुम् ।
अणुं महान्तं दीर्घं च कामाऽकामाश्रयं तथा ॥१ ०८॥ ऐश्वर्याऽनैश्वर्ययुक्तं भयाऽभयसमन्वितम् ।
सदसत्सर्वकोशं च यावदाश्चर्यसम्भृतम् ॥१ ०९॥ कर्माऽकर्माश्रयं चापि सर्वाश्रयं यथायथम् ।
असम्भवो हरौ नास्ति यस्य कस्यापि सर्वथा ॥3.200.११ ०॥ असुष्ठोश्चापि सुष्ठोश्च महाश्रयो हरिर्हि सः ।
सर्वं घटते कृष्णे वै सर्वशरीरशायिनि ॥१११ ॥ अन्विते तत्र सर्वत्र घटते देहवत् क्रिया ।
व्यतिरेकेऽपि सर्वं वै घटते माययोज्झितम् ॥११२॥ समाये मायया तुल्यममाये निजतुल्यकम् ।
घटते च ततो नास्याश्रये विघ्नं प्रजायते ॥११ ३॥ एवं समाश्रितः कृष्णो ज्ञानेन चेत् परेश्वरः ।
सर्वकलानिधिः स्यात् स सर्वाधिश्रेयसां प्रदः ॥११ ४॥ आश्रयेण समस्तानि कृतानि साधनानि वै ।
भवन्त्येव न सन्देहस्तं प्रसाध्य प्रमोक्षयेत् ॥१ १५॥ कालीन्दर! सदा ज्ञात्वा कुर्वाश्रयं मुहुर्मुहुः ।
शस्यस्येव परन्धाम भज नारायणं हरिम् ॥११ ६॥ इत्युक्त्वा प्रययौ साधुरन्यां दिशं यथोचिताम् ।
कालीन्दराद्या भेजुश्च लक्ष्मि! मां तद्वचःस्थिताः ॥१ १७॥ अथाऽहं नीतवाँस्ताँश्चाऽक्षरं मे परमं पदम् ।
देहान्ते मे दृढमाश्रयं गतान् भक्तिभागिनः ॥१ १८॥ पठनाच्छ्रवणादस्य स्मरणाद् वर्तनात्तथा ।
भुक्तिर्मुक्तिर्भवत्येव कृपया मे रमे सदा ॥११ ९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भाण्डीरग्रामस्थस्य कालीन्दरभाण्डस्य नर्तक्यादिसहितस्य परमभक्त्या मोक्षणं कमलायनमहर्षेरुपदेशश्चेत्यादिनिरूपणनामा द्विशततमोऽध्यायः ॥२०० ॥