१९८

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं निम्बदेवो द्विजोत्तमः ।
सौराष्ट्रे त्वभवद् भक्तः सदालयाख्यखर्वटे ॥१ ॥ नित्यं मां भजते भक्त्या धर्मज्ञानविरागवान् ।
परोपकारनिरतः सदा दानपरायणः ॥२ ॥ अहिंसां परमं धर्मं सतां सेवां ततः परम् ।
हरेः सेवां ततोऽत्यूर्ध्वां मनुते चात्मविद्धि सः ॥३ ॥ गवां सेवां च कुरुते विप्रसेवां यथोचिताम् ।
प्रजासेवामतिथीनां सेवां करोति चादरात् ॥४ ॥ सत्यः साध्व्यः साधवश्चाऽभ्यागता यात्रिणस्तथा ।
ये चाऽऽयान्ति निजद्वारे सेवते तान् सुभावनः ॥५ ॥ अन्नसत्रं कृतं तेन दीनाऽन्धकृपणार्थकम् ।
पशुसत्रं कृतं तेन पङ्गुवृद्धपशूपकृत् ॥६ ॥ एवंविधो निम्बदेवो भजते मामहर्निशम् ।
मन्दिरे मम गत्वैव ध्यायति पुरुषोत्तमम् ॥७ ॥ मार्जनं दीपदानं च धूपदानं सुमार्पणम् ।
जलार्पणं च नैवेद्यार्पणं करोति मे सदा ॥८ ॥ ‘हरे कृष्ण हरे कृष्ण कृष्णनारायण प्रभो ।
अनादिश्रीकृष्णनारायण विष्णो हरे विभो ॥९ ॥ एवं मां कीर्तयन् याति मन्दिरं प्रतियाति च ।
गृहं निजं श्रावयँश्च जनान् प्रपावयन् प्रजाः ॥3.198.१० ॥ अथ ग्रामेऽभवत्तत्र वृषभो ग्रामपालितः ।
महाकायोऽतिबलवान् पुष्टः श्वेतः पदाङ्कितः ॥१ १॥ महाककुघ्नी च महाशृङ्गी च सुरूपशोभितः ।
ग्रामोपशल्ये दिवसे पिप्पलीछायिते स्थले ॥१ २॥ निषीदति क्वचिद् ग्रामे राजपथेऽप्यटत्यपि ।
रात्रौ चरति क्षेत्रेषु सस्यानि वाटिकास्वपि ॥१ ३॥ पुनः प्रातः समागत्य तिष्ठति ग्रामभूमिषु ।
एतादृशोऽयं वृषभो यदा यदा प्रपश्यति ॥१४॥ निम्बदेवं ग्राममध्ये मार्गे क्षेत्रे च चत्वरे ।
उपशल्ये वाटिकायां यत्र क्वापि प्रपश्यति ॥१५॥ तावद्द्रुतं चतुष्पादैः रौद्ररूपोऽभिधावति ।
मारयितुं निम्बदेवं मर्दयितुं विनाशितुम् ॥१ ६॥ पूर्ववैरं स्मरन् यद्वन्मराक्रोधेन धावति ।
वैरनिर्यापनार्थं किं वाऽस्य पूर्वस्य जन्मनः ॥१७॥ एवं जाते बहुवारे निम्बदेवो निजं द्रुतम् ।
रक्षत्येव च कौशल्यादापणे वा गृहे विशन् ॥१८ ॥ वेद्यामारुह्य च वृक्षं समारुह्योच्चसंस्तरे ।
रक्षत्येव निजं नित्यं रथ्यायां याति भीतवत् ॥१ ९॥ यत्र तिष्ठति वृषभस्तां रथ्यां स विहाय वै ।
अन्यया रथ्यया याति कार्यार्थं तु बहिर्गृहात् ॥3.198.२० ॥ राजमार्गे चत्वरे वा क्षेत्रे वाट्यां च गोपुरे ।
उपशल्ये भूतलादौ तद्दृष्ट्यग्रे न याति वै ॥२१ ॥ एवं भीतमना नित्यं निम्बदेवः प्रवर्तते ।
वृषभोऽपि सदा निम्बदेवं सम्मार्गयत्यपि ॥२२॥ कदा मिलेन्मारयामि तथासन्नद्धवत्स्थितः ।
एवं काले बहुगते ह्येकदा देवमन्दिरम् ॥२३॥ दर्शनार्थं निम्बदेवः प्रयाति यष्टिवर्जितः ।
निशामुखेऽथ भाग्येन दैवयोगात्तु सन्निधौ ॥२४॥ रथ्यायां मिलितश्चाऽयं वृषभस्तं निरायुधम् ।
अतिवेगेन दुद्राव रुषा स वृषभो बली ॥२५॥ मारयितुं निम्बदेवं कुर्वन् गोगर्जनां तदा ।
पश्चात्तु शकटं चायात्येव पश्चाद् द्वितीयकम् ॥२६॥ मार्गे सङ्कुचिते पार्श्वयोश्चापि नावकाशकः ।
विद्यते धावितुं क्वापि वृषभोऽभिप्रधावति ॥२७॥ एव चोभयतःपाशे मार्गे मृत्युप्रदायके ।
द्रागेव निम्बदेवस्तु हरिं सस्मार मां तदा ॥२८॥ ददर्श पतितं तत्र ग्रावाणं सुदृढं तथा ।
करतोल्यं सत्वरं तं चोद्धृत्य वै करे बलात् ॥२९॥ सर्ववेगेन हस्तेन वृषभस्य तु मस्तके ।
ताडयामास सहसा घातयामास सर्वथा ॥3.198.३०॥ भेदयामास शिरसो ललाटं वृषभस्तदा ।
ताडनेन द्रुतं मूर्छामवाप्य भ्रमणद्वयम् ॥३१॥ निपपात क्षितौ तत्र ममार च क्षणादिति ।
आततायिवधे दोषो नास्ति चेदं तथाऽभवत् ॥३२॥ दंष्ट्रिणां शृङ्गिणां क्वापि विश्वासः शस्त्रिणां तथा ।
विचित्तानां न कर्तव्यश्चौराणां क्षुत्तृषार्थिनाम् ॥३३॥ राज्ञां चापि च वेश्यानां शत्रूणां करिणां तथा ।
नखिनां तामसानां च कार्यो विश्वास एव न ॥३४॥ अग्नीनां च जलानां च ग्रहाणां स्वार्थिनां तथा ॥ कुनारीणां कुसाधूनां कार्यो विश्वास एव न ।३५॥ जीर्णानां चापि यन्त्राणां वाहनानां विनोदिनाम् ।
हिंस्राणां हास्यकर्तॄणां कार्यो विश्वास एव न ॥३६॥ यूनां च रोगिणां क्रोधाविष्टानां त्यागिनामपि ।
भिक्षुकाणां च मूर्खाणां कार्यो विश्वास एव न ॥३७॥ अपक्वशेमुषीणां चाऽलसानां धर्मघातिनाम् ।
नास्तिकानां रतिस्थानां कार्यो विश्वास एव न ॥३८॥ अपरिचितवर्गाणां शठानां लोभिनां तथा ।
अस्त्रीकाणां कामिनां च कार्यो विश्वास एव न ॥३९॥ मेघानां चातपानां च रजसां मरुतां तथा ।
तमसां तामसानां च कार्यो विश्वास एव न ॥3.198.४०॥ मोहवतां मदवतां बहुनम्रस्वभाविनाम् ।
अन्तःप्रवेशं दधतां कार्यो विश्वास एव न ॥४१ ॥ यात्रिणां क्षणसार्थानां महीमानादिदेहिनाम् ।
स्वतन्त्रयोषितां चापि कार्यो विश्वास एव न ॥४२॥ सपत्नीनां च दुष्टानामनवधानशालिनाम् ।
अनाक्षावर्तमान।ना कार्यो विश्वास एव न ॥४२॥ श्रद्धाशून्यजनानां च नटनर्तकयोगिनाम् ।
द्यूतस्थानां रणस्थानां कार्यो विश्वास एव न ॥४४॥ स्नेहशून्यहृदयानां विजातीयोपकारिणाम् ।
नापितानां मद्यपानां कार्यो विश्वास एव न ॥४५॥ छिद्रवीक्षास्वभावानामिर्ष्युकाणां प्रमादिनाम् ।
अनभ्यस्तनवीनानां कार्यो विश्वास एव न ॥४६॥ बहुमिष्टवचसां च नीतिमार्गविरोधिनाम् ।
अशास्त्रगामिनां चापि कार्यो विश्वास एव न ॥४७॥ अमनस्काङ्गीकर्तॄणां यशःकीर्तिविनाशिनाम् ।
विवादशालीमनसां कार्यो विश्वास एव न ॥४८॥ लुञ्चावृत्तिप्रजीवानामनृताऽन्यायवर्तिनाम् ।
सत्यरोधवतां चापि कार्यो विश्वास एव न ॥४९॥ गह्वराणां वनानां चारण्यानां सरसां तथा ।
शान्तेन्द्रियादिवृत्तीनां कार्यो विश्वास एव न ॥3.198.५०॥ अस्थिराणां च दीर्घाणां वामनानां विलम्बिनाम् ।
काणानां चापि खञ्जानां कार्यो विश्वास एव न ॥५१ ॥ सङ्कुचितप्रणाडीनां त्यक्तकुटुम्बिनां तथा ।
त्यक्तदेशप्रजानां च कार्यो विश्वास एव न ॥५२॥ गणिकानां च भाण्डानां शरणागतयोषिताम् ।
राजसम्बन्धिनारीणां कार्यो विश्वास एव न ॥५३॥ अतिवृष्टिप्रदेशानां शाद्वलानां भुवां तथा ।
पर्वतानां कर्दमानां कार्यो विश्वास एव न ॥९४॥ अज्ञातवृत्तवैद्यानां श्मशानानां तरस्विनाम् ।
अज्ञातानामोषधीनां कार्यो विश्वास एव न ॥९५॥ शत्रुदापितभोज्यानां शत्रुदापितगन्धिनाम् ।
शत्रुप्रेषितलोकानां कार्यो विश्वास एव न ॥५६॥ शनुपोष्यशुकानां च शनुपालितपक्षिणाम् ।
शत्रुसम्बधिपत्राणां कार्यो विश्वास एव न ॥५७॥ अतिक्रोधितपत्नीनामतिक्रोधितस्वामिनाम् ।
अतिभुक्तजनानां च कार्यो विश्वास एव न ॥५६८॥ अतिजीर्णालयानां च तथाऽतिजीर्णदेहिनाम् ।
अतिजीर्णौषधानां च कार्यो विश्वास एव न ॥५ ९॥ मन्त्रतन्त्रप्रसक्तानां रसायनप्रवेदिनाम् ।
आसुराणां रक्षसां च कार्यो विश्वास एव न ॥3.198.६०॥ अत्र मानं तत्र मानं चेति मानाभिलाषिणाम् ।
द्विजिह्वानां चैकलानां कार्यो विश्वास एव न ॥६१ ॥ विधुराणां विधवानां कूटनीनां च योषिताम् ।
विरागिणीनां भूतीनां कार्यो विश्वास एव न ॥६२॥ दिग्भ्रमाणां प्रेतभूताविष्टानां वायुरोगिणाम् ।
परचक्रगतानां च कार्यो विश्वास एव न ॥६३॥ सरीसृपाणां जलिनां यादसां वक्रगामिनाम् ।
बुभुक्षितानां लोकानां कार्यो विश्वास एव न ॥६४॥ चाराणां वनवासानां परराष्ट्रप्रवेशिनाम् ।
अस्निग्धानां चाश्रितानां कार्यो विश्वास एव न ॥६५॥ प्रतिष्ठापितदेवानां तामसानां तु सर्वथा ।
अपराधात्मके कार्ये कार्यो विश्वास एव न ॥६६॥ आपत्कालाभिभूतानां बालिशानां वचस्सु च ।
स्वार्थसाधकलोकानां कार्यो विश्वास एव न ॥६७॥ अनेकगृहभृत्यानां नैकनृपैः सुयोगिनाम् ।
सीम्नि कृतालयानां च कार्यो विश्वास एव न ॥६८॥ रात्रिचराणां प्रसह्य हाटकाणां च दुःखिनाम् ।
अविज्ञातचरित्राणां कार्यो विश्वास एव न ॥६९॥ उद्वेगिनां विरागाणां व्रतिनां हठधर्मिणाम् ।
बाह्यवृत्तिपराणां च कार्यो विश्वास एव न ॥3.198.७०॥ शैवालितक्षितीनां च भग्ननावां मनस्विनाम् ।
क्षणे रुष्टप्रतुष्टानां कार्यो विश्वास एव न ॥७१ ॥ देहेन्द्रियादिसक्तानां दैत्यानां परयोषिताम् ।
समाजे बहुलोकानां कार्यो विश्वास एव न ॥७२॥ उत्सवे चेर्ष्युकाणां चोपपत्युश्चोपयोषिताम् ।
तथैव चोपपुत्राणां कार्यो विश्वास एव न ॥७३॥ उपमातॄणामन्धानां वणिजां च कुतर्किणाम् ।
मम भक्तिविहीनानां कार्यो विश्वास एव न ॥७४॥ रोगाणां च क्षतानां च फुल्लानां कम्पिनां तथा ।
बहुस्वप्नवतां चापि कार्यो विश्वास एव न ॥७५॥ अज्ञातानामश्रुतानामनभ्यस्तादिकर्मिणाम् ।
अनभ्यस्तपाचकानां कार्यो विश्वास एव न ॥७६॥ अर्धाभ्यासवतां निर्मूलानामपारवर्ष्मणाम् ।
आकाशालम्बनवतां कार्यो विश्वास एव न ॥७७॥ तत्र तत्र हि विश्वस्तो दुःखं क्षतिं तथाऽऽपदम् ।
मरणं वा प्रयात्येव लक्ष्मि नास्त्यत्र संशयः ॥७८॥ निम्बदेवस्तथा मत्वा जघान वृषभं तदा ।
गोहत्या साऽस्य संलग्ना निम्बदेवो विचित्तताम् ॥७९॥ उपागमद् द्रुतं चापि कृष्णतां कुष्ठरोगिताम् ।
यथाकथञ्चित् सहसा स्वालयं समुपाययौ ॥3.198.८ ०॥ विप्रानाहूय हत्यां तां न्यवेदयद्द्विजा अपि ।
ऊचुस्तं विष्णुयागार्थं प्रायश्चित्तं च वत्सरम् ॥८ १ ॥ एकभुक्तत्वमेवापि सहस्रगोप्रदानकम् ।
सोऽपि सर्वं प्रचक्रे च यज्ञान्ते दक्षिणां ददौ ॥८२॥ तथापि श्यामवर्णोऽस्य विचित्तता न निर्गता ।
अथ खेदं जगामापि प्रसस्मार च मां हरिम् ॥८३॥ भक्तं ज्ञात्वा परं नारायणश्चाऽहं पुरोऽभवम् ।
प्रत्यक्षो दिव्यरूपश्च पस्पर्श तं स्वबाहुना ॥८४॥ द्रागेव भक्तः श्वेतोऽभूत् सुचित्तः स्वस्थ एव च ।
तस्मै दत्तो मया मन्त्रस्तं जग्राहाऽतिभावतः ॥८५॥ ‘बालकृष्णो हरिः साक्षान्मोक्षदो भगवान् मम’ ।
सोऽपि मन्त्रमुवाचैवं सर्वदाऽथ ततः स तु ॥८६॥ प्राप्ते काले ययौ मुक्तिं भक्तो मे निम्बदेवकः ।
एवं हत्याघनाशो वै मयाऽध्वरेऽस्य वर्तितः ॥८७॥ नाऽशुभं मम भक्तानां तिष्ठत्येव हि मद्बलात् ।
शृणु लक्ष्मि निम्बदेवस्याऽऽसीद् भृत्यः स प्राग्भवे ॥८८॥ वेतनं परिपूर्णं च लब्ध्वाऽपि पूर्णकर्म सः ।
करोति नैवाऽलसः स प्रमादी क्रोधनोऽपि च ॥८९॥ ज्वरेण स मृतो भृत्यो बलीवर्दो बभूव ह ।
जातिस्मरोऽयं नित्यं वै यावत् पश्यति स्वामिनम् ॥3.198.९० ॥ नित्यं कार्ये योजकं स्वं चाधिक्षेपिणमित्यपि ।
दृष्ट्वा दृष्ट्वा वैरभावं प्रकाशयति तत्र च ॥९१ ॥ धावत्येव स्वामिनं स्वं मारयितुं क्रुधा रुषा ।
एवंविधो हि वृषभः स्वामिहस्तेन वै मृतिम् ॥९२॥ प्राप्य ऋणं प्रदातुं च पुनस्तस्य सुतोऽभवत् ।
शोभनो ज्ञानवाँश्चापि बहुकार्यकरोऽपि च ॥९३॥ निम्बदेवस्तु वार्धक्ये सर्वं दत्वा सुताय ह ।
भजते मां प्रभुं नित्यं कुटुम्बेन युतो रमे ॥९४॥ सुतोऽपि मां भजते च नाम्ना गोकुलवर्धनः ।
अन्ने मुक्तिं ह्यवापापि भक्त्या मे स सुतोऽपि वै ॥९५॥ एवं लक्ष्मि कृता दोषा नश्यन्त्येव प्रतापतः ।
मम भक्तेस्तथा ध्यानात् कीर्तनाच्छरणागमात् ॥९६ ॥ सतां सेवाप्रसङ्गाच्च नश्यन्त्यघानि सर्वशः ।
भक्तानां योषितां चापि साध्वीनां सेवनादपि ॥९७॥ आशीर्वादाद् विनश्यन्ति सर्वाण्यघानि सर्वशः ।
सर्वविघ्नानि नश्यन्ति सर्वापन्नाशनं तथा ॥९८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने निम्बदेवाख्यभक्तस्य गोहत्यापापं भगवता निवारितमित्यादिनिरूपणनामा अष्टनवत्यधिकशत-
तमोऽध्यायः ॥१९८ ॥