१८७

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं तथा चान्यकथां शुभाम् ।
धवलाख्ये पुरे त्वासीच्चर्मकारो मृतादनः ॥१ ॥ ग्रामोपशल्यवासश्च मृतानां खुरिणां सदा ।
पशूनां ग्राममध्यात् स शवानामपहारकः ॥२ ॥ चर्मशुद्धिकरश्चाप्यस्पृश्यो दूरे प्रतिष्ठति ।
मृतमांसादनश्चासीत् सकुटुम्बः सदा ह्यघी ॥३ ॥ क्वचिद् वसतिमासाद्य कृत्वा तु चर्मविक्रयम् ।
प्राप्तधनेन गोधूमाद्यन्नं शाकफलादिकम् ॥४ ॥ क्रीतं स्वगृहमानाय्य पाचयित्वा भुनक्त्यपि ।
क्वचिच्चारण्यमार्जारैः शृगालैः शशकैस्तथा ॥५ ॥ वाराहैश्च तरक्ष्वाद्यैः क्वचित् कच्छपमत्स्यकैः ।
विदधाति कुटुम्बस्य भोजनं पिशिताशनः ॥६ ॥ एवं जात्या कर्मणा च भोजनेनाऽतिकिल्बिषी ।
मृतादनाख्यश्चर्मकृद् दूरे त्याज्योऽवसत् सदा ॥७ ॥ अथैकदा तु वर्षायां पतितायामहर्निशम् ।
जलपूरं समायातं बहुवेगं समन्ततः ॥८ ॥ तत्रैके प्राणिनो जीवा उह्यन्ते वनिनस्तदा ।
मृताश्च जीविनश्चापि ग्राम्याश्च पशवोऽपि च ॥९ ॥ ये चरन्ति तृणक्षेत्रे गोचरे तेऽपि केचन ।
पूरवेगेन वर्षायां गृहं मन्तुं न शेकिरे ॥3.187.१ ०॥ एका गौः पूरवेगेन चोह्यमाना तु जीविता ।
चर्मकारस्य वासस्योच्छ्रायस्यैव समीपतः ॥११ ॥ जलैश्चाकृष्यमाणा सा निर्गता वीक्षिता तदा ।
चर्मकारेण दययोद्धर्तुं गां वै समीहितम् ॥१२॥ मृतादनः स्वयं पुष्टस्तर्तुं शक्तो बली दृढः ।
शतहस्तमितां रज्जुं कट्यां बध्वा जलेऽपतत् ॥१ ३॥ रज्जुप्रान्तं द्वितोयं तु दत्वा दोष्षु कुटुम्बिनाम् ।
अपरां च दृढां रज्जुं मुकुलितां गलेऽक्षिपत् ॥१४॥ पतित्वा सहसा वारिवेगे वहति यत्र गौः ।
तीर्त्वा वेगेन तस्यास्तु निम्नभागे पुरोऽभवत् ॥१५॥ पूरेण चोह्यते धेनुश्चर्मकारोऽपि चोह्यते ।
तीरस्था रजुकाध्रा ये तेऽनुधावन्ति तं तटम् ॥१ ६॥ तरता चर्मकारेण हस्तस्य लाघवेन वै ।
मुकुलिताया रज्ज्वास्तु प्रान्तो धेनुगले कृतः ॥१७॥ ग्रन्थिः कृता च सहसा शृङ्गयोर्निहिता तु सा ।
रज्जुं कृत्वा लम्बमानां प्रान्तं कट्यां बबन्ध सः ॥१८॥ अथ कुटुम्बिनः प्राहाऽऽकर्षयन्तु बलादिति ।
कुटुम्बिभिश्च सा रज्जुराकृष्टा स्वकरधृता ॥१ ९॥ चर्मकारः पूरवेगात् तटमाकर्षितोऽभवत् ।
धेनुश्चापि कटिरज्जुवद्धा चाऽऽकर्षिताऽभवत् ॥3.187.२०॥ तीरं प्रति समाकृष्टा मिलित्वा तु कुटुम्बिभिः ।
चर्मकारेण सहिता सजीवा तीरमागमत् ॥२१॥ तदा गौः प्राणसंरक्षातुष्टाऽऽशीर्वादमाह तान् ।
भवतां सर्वपापानि नष्टानि मम रक्षणात् ॥२२॥ गोदाने यत्फलं गोजीवने यच्च फलं महत् ।
गोसेवायां फलं यच्च तत्सर्वं भवतां भवेत् ॥२३॥ प्रसूयमानाधेन्वाश्च दाने यत् फलमुच्यते ।
तत्फलं भवतामस्तु मम प्राणप्ररक्षणात् ॥२४॥ स्वर्णधेनुफलं यच्च कपिलाधेनुजं फलम् ।
गोमेधे च फलं यत् तदस्तु वो मम रक्षणात् ॥२५॥ पृथ्वीरक्षाफलं यच्च प्रजारक्षाफलं तु यत् ।
कन्यारक्षाफलं यत्तदस्तु वो मम रक्षणात् ॥२६॥ सतीरक्षाफलं यच्च बालरक्षाफलं च यत् ।
विप्ररक्षाफलं यत्तदस्तु वो मम रक्षणात् ॥२७॥ साधुरक्षाफलं यच्च देवरक्षाफलं च यत् ।
शरणागतरक्षोत्थं वस्तदस्तु ममाऽवनात् ॥२८॥ भीतरक्षाफलं यच्च प्राणरक्षाफलं च यत् ।
मोक्षदानफलं यत्तदस्तु वो मम रक्षणात् ॥२९॥ धर्मरक्षाफलं यच्च गर्भरक्षाफलं च यत् ।
मातृसेवाफलं यच्च वोऽस्तु तन्मम रक्षणात् ॥3.187.३०॥ देवपूजाफलं यच्च मृत्युत्राणफलं च यत् ।
गङ्गातीर्थफलं यत्तद् वोऽस्तु मम प्ररक्षणात् ॥३ १ ॥ ब्रह्महत्यादिपापानि पशुहिंसोद्भवानि च ।
मांसभक्षणपापानि लीयन्तां मम रक्षणात् ॥३२॥ गवार्थे ब्राह्मणार्थे वा साध्वर्थे च सतीकृते ।
देवार्थे प्राणदातुस्तु सर्वपापविनाशनम् ॥३३॥ मदर्थे प्राणदा यूयं मदर्थे कृतजीवनाः ।
मम रक्षाकरा यूयं जीवन्तु ऋद्धिसेविताः ॥३४॥ भुक्तिं मुक्तिं महास्मृद्धिं भुञ्जन्तु स्वर्गसदृशीम् ।
वंशो वोऽस्तु सदा भक्तो भक्तिमान् गवि गोपातौ ॥३५॥ गोपाले गोपिकाकान्ते गोविन्दे गोपबालके ।
गोपालबालके स्नेहो गोलोके वसतिश्च वः ॥३६॥ इत्येवं गौर्ददौ तेभ्यश्चाशीर्वादाँस्तदा शुभान् ।
कम्पमाना भयोद्विग्ना शीतार्त्ता क्षुधिता तथा ॥३७॥ अथ शनैश्च तां धेनुं सगर्भां चाश्रयेच्छुकीम् ।
निनाय चर्मकारः स स्वालये तां ररक्ष ह ॥३८॥ ददौ घासोत्तमग्रासान् सिषेवे तृणवारिभिः ।
नास्याः कश्चित् समायाति स्वामी नेतुं न विद्यते ॥३९॥ ततः सा चर्मकारस्य गृहे वासं व्यधाच्च गौः ।
तृणान्यत्त्वा पार्श्वभूमौ सायमागत्य तिष्ठति ॥3.187.४०॥ चर्मकारो निजां मत्वा सेवते तु यथाबलम् ।
दरिद्रोऽपि यतित्वाऽपि गोऽर्थं तृणं जलं मुहुः ॥४१ ॥ आनयत्येव क्षेत्राद्वा वनाद्वा दूरभूमितः ।
एवं प्रसेवमानस्य मृतादनस्य तस्य हि ॥४२॥ गोसेवायाः फलं धेनोराशीर्वादफलं तथा ।
प्राप्तं तेनैकदा प्रातः प्रेरितस्तु मृतादनः ॥४३॥ अद्य गृहं विलिम्पामि गौरमृदा च शकृता ।
विचार्येत्थं स्त्रिया साकं नीत्वा सीतां खनित्रिकाम् ॥४४॥ वंशपात्रद्वयं चापि मृदमाहर्तुमेव ह ।
नदीतीरं ययौ यत्र गौरमृद् लभ्यते शुभा ॥४५॥ सीतया च खनित्रेण गर्ते खनति मृत्तिकाम् ।
वितस्तिमात्रं खनितं तीरे पार्श्वगभूस्तरम् ॥४६॥ तावच्चरुस्ताम्रधातोः स्वर्णरूप्यकसम्भृतः ।
निर्गतो भूतलमध्याच्छोभनो दैववाञ्च्छया ॥४७॥ मृतादनेन शीघ्रं वै तस्मात् स्वर्णस्य मुद्रिकाः ।
निष्कास्य वंशपात्रे मृत्तिकागुप्ताश्च वै गृहम् ॥४८॥ आनीता पञ्चपात्राणि न तु जानाति कश्चन ।
गृहान्तरे तु विवरे सर्वाः क्षिप्ताः सुगोपिताः ॥४९॥ गोसेवायाः फलं मत्वा सेवते गां सभार्यकः ।
ताम्रपात्रं तु गर्ते वै यथाऽऽसीत् तत्तथा पुनः ॥3.187.५०॥ रिक्तं निधाय सङ्गोप्य मृद्भिर्गृहं गतो हि सः ।
यथापेक्षं नाणकेन भुङ्क्ते सुखानि सर्वथा ॥५ १ ॥ भुङ्क्ते भोजनपानानि वस्त्राणि मोदकानि च ।
यथाऽन्ये नैव जानीयुस्तथा भुङ्क्तेऽर्जितं धनम् ॥५२॥ तेन पथा समायातानतिथीन् सेवतेऽपि च ।
गोष्ठे स्थितान् द्रुमच्छायाप्रदेशे सेवतेऽतिथीन् ॥५३॥ फलानि शर्कराश्चापि मधुपर्कं ददात्यपि ।
वस्त्रं जलं यथापेक्षं ददाति चणकादिकम् ॥५४॥ घृतपक्वं तैलपक्वं पक्वं च वह्निनाऽपि यत् ।
सूर्यपक्वमृतुपक्वमन्नं ददाति साधवे ॥५५॥ योग्यं ददाति नाऽयोग्यं सेवते साधुयोगिनः ।
कुटुम्बं सेवते साधून् शृणोति भजनानि च ॥५६॥ कथां शृणोति मे रम्यां साधूक्तां पावनीं पराम् ।
अहिंसा परमो धर्मो विघसाशी प्रमुच्यते ॥५७॥ मांसादनं महत्पापं याम्यपुरीप्रयोजकम् ।
मत्स्यादः सर्वमांसाशी कदापि नैव मुच्यते ॥५८॥ अभक्ष्यभक्षणाद् भ्रष्टो न याति मोक्षणं क्वचित् ।
याम्यदूताः पीडयन्ति रन्धयन्ति यमालये ॥५९॥ तं तु मांसादनं नित्यं पाचयन्ति महानले ।
निकृन्तन्ति मारयन्ति नरके पातयन्ति च ॥3.187.६०॥ मद्यं मांसं तथा चौर्यं व्यवायश्चेति कल्मषम् ।
भयङ्करं महाघोरं कर्तव्यं नैव मानवैः ॥६१ ॥ जन्म चेदं मानवं वै मोक्षाय लभ्यते भुवि ।
मोक्षः साध्यो मानवैर्वै त्याज्या दोषा अघानि च ॥६२॥ बहुष्वपि तु देहेषु पक्षिषु च पशुष्वपि ।
मद्यमांसादयो भुक्तास्तत्पापान्तो न विद्यते ॥६३॥ अस्मिन् वै मानवे भावे पुण्यं कार्यं दिवम्प्रदम् ।
भक्तिः कार्या हरेश्चापि मोक्षो गम्यः परेऽक्षरे ॥६४॥ एवं कथां पावनीं च चर्मकारः शृणोति वै ।
ततोऽस्य जाता सहसा मुमुक्षा साधुसङ्गतः ॥६५॥ नियमान् जगृहे चाऽहिंसां च मांसादिवर्जनम् ।
अन्नभोजित्वमेवापि नित्यं श्रीहरिसेवनम् ॥६६॥ साधूनां सेवनं गवां सेवनं पापवर्जनम् ।
दानं यथार्हं पात्राय भगवत्कीर्त्तनं तथा ॥६७॥ व्रतोत्सवाँश्च देवानां चातुर्मास्यव्रतानि च ।
एवंविधान् स नियमान् जग्राह मोक्षदान् सदा ॥६८॥-
अथ साधुर्धर्मशालायनो नाम्नाऽटवीं भ्रमन् ।
निरम्बरः समायातश्चर्मकारगृहान्तिकम् ॥६९॥ ददर्शैनं चर्मकारो योगिनं योगमानसम् ।
स्मरन्तं परमात्मानं जपमालान्वितं शुभम् ॥3.187.७० ॥ दिगम्बरं प्रशान्तं च निर्विकारं स्थिराशयम् ।
शीलव्रतं रागशून्यं सुरूपं जटिलं मुनिम् ॥७१ ॥ चर्मकारस्तु तं गत्वा प्रणाममकरोन्मुदा ।
स्वागतं ते महाभाग साधो जयोऽस्तु ते सदा ॥७२॥ आयाहि मम वासेऽत्र चर्मकारोऽस्मि जातितः ।
यदि त्वं मन्यसे साधो गृहं पावय मेऽनघ ॥७३॥ श्रुत्वा शालायनः प्राह कल्याणं सत्यवादिनः ।
तवाऽस्तु साधुभक्तस्य भक्तस्य भगवानपि ॥७४॥ वशीभवति दिव्यात्मा तत्र साधोस्तु का कथा ।
पावना भगवद्भक्ता अपि चाण्डालयोनयः ॥७५॥ चर्मकाराः प्रजाः सर्वाश्चर्मनद्धा भवन्ति हि ।
चर्मगर्भे चर्मयोनौ प्रजायन्ते हि चर्मतः ॥७६॥ चर्मस्नानं कारयन्ति चर्म शृङ्गारयन्ति च ।
चर्मण्येव च तैलाद्यैः कुर्वन्ति मर्दनादिकम् ॥७७॥ भूषाम्बराणि देहाय चर्मिणे चार्पयन्त्यपि ।
चर्ममयं जगत् सर्व को नास्ति चर्मकारकः ॥७८॥ ब्रह्मा चर्मकारश्चास्ते तत्पुत्राश्चर्मकारकाः ।
भक्त त्वं चर्मकारोऽसि चर्मकारस्य वंशजः ॥७९॥ प्रजानां चर्मकारत्वे विशेषो नास्ति कश्चन ।
मुग्धा ये चर्मविषये चर्मकारा हि ते मताः ॥3.187.८०॥ अमुग्धाश्चर्मविषये ब्रह्माकारा हि ते मताः ।
साधवो ब्रह्मसदना ब्रह्माकारा बृहत्प्रियाः ॥८१ ॥ आत्माऽयं विद्यते यावद् देहे स चर्मकारकः ।
अदेहो जायते भक्त्या मोक्षो स ब्रह्मकारकः ॥८२॥ अहमात्मा साधुरूपो ब्रह्मरूपो भवामि ह ।
हरेर्भक्त्या स्नेहमय्या ब्रह्माकारो भवाम्यहम् ॥८३॥ भक्त त्वं साधुयोगेन ब्रह्माकारो भवस्यपि ।
साधुभक्ताः साधुरूपाः साधुकारिण एव ते ॥८४॥ साध्वर्थं यस्य सर्वस्वं ब्रह्मात्मा चोच्यते हि सः ।
स एव पापरहितः पुण्यात्मा पङ्क्तिपावनः ॥८५॥ इत्येवमुक्त्वा साधुः स ययौ तस्यालयं तदा ।
चर्मकारो भक्तराजश्चक्रेऽस्य स्वागतं शुभम् ॥८६॥ आसनं प्रददौ रम्यं पादप्रक्षालनं व्यधात् ।
पपौ पादामृतं सर्वं कुटुम्बसहितो हि सः ॥८७॥ पादसंवाहनं चक्रे देहसम्मर्दनं तथा ।
मधुपर्कं ददौ मिष्टं शर्करां सक्तुमित्यपि ॥८८॥ ददौ फलानि श्रेष्ठानि पक्वानि विविधानि च ।
जलं च शयनं चापि ददौ विश्रान्तिहेतवे ॥८९॥ पुत्राः पुत्र्यो दम्पती च सर्वं देहस्य मर्दनम् ।
भोजयित्वा प्रचक्रुर्वै मार्गश्रमनिवृत्तये ॥3.187.९०॥ साधुर्निद्रां परां लेभे सर्वे चक्रुश्च मर्दनम् ।
देहसंवाहनं चापि व्यजनेनाऽनिलाऽर्पणम् ॥९ १ ॥ एवं सेवां प्रचक्रुस्ते धर्मशालायनस्य वै ।
धर्मशालायनो निद्रां कृत्वा च बुबुधे तदा ॥९२॥ जलं पीत्वा निषसादासने मालाजपान्वितः ।
मृतादनाद्याश्चाग्रेऽस्य निषेदुर्भक्तिभावतः ॥९३॥ साधुः प्राह सदा भक्तिः कर्तव्या परमात्मनः ।
गोसेवा साधुसेवा च कर्तव्या मुक्तये त्विह ॥९४॥ गृहाण मन्त्रं दिव्यं त्वं कुटुम्बेन युतो हि मत् ।
स्वर्गं दिव्यं ततो मोक्षं लप्स्यसे नाऽत्र संशयः ॥९५॥ इत्युक्तश्चर्मकारः स कुटुम्बसहितस्तदा ।
मन्त्रं जग्राह साधोश्च ‘हरेकृष्णनरायण’ ॥९६॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
बालकृष्णं ततो भेजे साधूक्तपद्धतिं व्रजन् ॥९७॥ ततः स तीर्थयात्रायां साधुना सह वै ययौ ।
कुङ्कुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ॥९८॥ सुवर्णं बहुधा तत्र दाने यज्ञे समार्पयत् ।
मन्दिरं कारयामास सरस्तटे तथा च सः ॥९०१॥ आश्रमं रचयामास भजनार्थं निजं शुभम् ।
वंशेन सहितस्तत्र साधुना सह चाऽवसत् ॥3.187.१० ०॥ अथैकदाऽहं कमले प्रसन्नस्तत्र चाययौ ।
दर्शनं स्वं ददौ तस्मै चतुर्भुजं सुतैजसम् ॥१०१ ॥ कुटुम्बं पूजयामास श्रीकृष्णं मां सनातनम् ।
मृतादनो मम पादवारि प्रक्षाल्य सम्पपौ ॥१ ०२॥ विमानं तूर्णमायातं ब्रह्मधाम्नोऽतिभासुरम् ।
तत्र मृतादनश्चाध्यरोहन् मम निदेशतः ॥१ ०३॥ गवा साकं तया तत्राऽनयं तं मम धाम वै ।
अन्यत् सर्वं कुटुम्बं च स्वर्गे देवास्ततोऽभवन् ॥१ ०४॥ पुण्यं भुक्त्वा धेनुवृत्तं यास्यन्ति धाम मे परम् ।
साधुसेवाप्रपुण्यं च मम भक्तेः फलं तथा ॥१ ०५॥ भोक्ष्यन्ते रुचिरं लक्ष्मि शाश्वतानन्दपूरितम् ।
एवं गोसेवया मांसादनपापं विनाशितम् ॥१ ०६॥ पुण्योद्भवेन च साधुसमागमो धनागमः ।
तीर्थवासः परामुक्तिः सर्वं तस्य व्यवर्तत ॥१ ०७॥ पठनाच्छ्रवणादस्य स्मरणान्मननादपि ।
भुक्तिर्मुक्तिर्भवेच्चापि शाश्वतं पदमर्ज्यते ॥१ ०८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मृतादननामकचर्मकारस्य धेनोः प्राणरक्षणेन मांसादनादिपापनाशः पुण्यप्राप्तिः साधोः समागमः स्वर्गं मोक्षश्चेत्यादिनिरूपणनामा सप्ताशीत्यधिक-
शततमोऽध्यायः ॥१८७ ॥