१८३

पुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शत्रूञ्जयानदीतटे ।
आसीद् भक्तः सागराख्यः शूद्रोऽरण्यप्रपालकः ॥१ ॥ सपुत्रपरिवारोऽयं सशस्त्रोऽरण्यरक्षणम् ।
करोति पालिकाताने पालिकाराज्ययोजितः ॥२ ॥ एकदाऽरण्यभागेषु पालिकातानजो नृपः ।
ययौ वै मृगयार्थं सः परिमेयसुभृत्ययुक् ॥३ ॥ अरण्यं तत्प्रविष्टोऽयं राजा च सागरं तु तम् ।
भृत्यं निन्ये सह तत्र मृगादिमार्गदर्शकम् ॥४ ॥ शूद्रोऽप्ययं हरेर्भक्तो हिंसां नैव करोति सः ।
अहिंसको हि राजानं हिंसापापभयात् खलु ॥५ ॥ उद्वाटं मृगशून्यं वै प्रदेशं प्रति नीतवान् ।
अत्र मृगाः समायान्ति प्रयान्ति च वसन्त्यपि ॥६ ॥ इत्युक्त्वा नीतवान् क्ष्मेशं वनपालाभिधं नृपम् ।
यत्र जलं वनं रम्यं प्रदेशाश्चापि सुन्दराः ॥७ ॥ क्वचित् क्वचिज्जनवासास्तं प्रदेशं तु नीतवान् ।
आसायं तु समारण्येऽटवीतोऽप्यटवीं भ्रमन् ॥८ ॥ अत्र मृगस्तत्र मृगश्चेत्येवं सम्प्रदर्शयन् ।
राजानं भ्रामयामास जपन् श्रीपुरुषोत्तमम् ॥९ ॥ आन्तरे प्रार्थयन् मां वै क्षमस्व भगवन्मम ।
अपराधं नृपेणात्र सार्धं वै मृगयोद्भवम् ॥3.183.१ ०॥ नाऽहमिच्छामि वनजान् मृगान् हन्तुं स्वयं क्वचित् ।
अन्यद्वारा तथा हिंसा कारयितुं क्वचित् प्रभो ॥११ ॥ अतो मया नृपश्चाऽयमुद्वाटेन प्रणीयते ।
यत्र मृगा न प्राप्यन्ते हिंसा मे न यथा भवेत् ॥१२॥ हिंसापापं नैव स्यात्तत्तथा रक्ष हि माधव ।
कश्चिद्वन्यः पशुस्त्वत्र मार्गे नैव मिलेन्नृपम् ॥१३ ॥ अन्तर्यामिंस्तथा सर्वं विधेहि क्लृप्तनं प्रभो ।
एवं मां प्रार्थयन् भक्तः शूद्रोऽपि धर्मवान् शुचिः ॥१४॥ यात्यग्रे तं नृपं कर्षन् मृगवासोऽत्र तत्र च ।
वर्णनं बहुधा कुर्वन् राजन् खड्गोऽत्र वै भवेत् ॥१५॥ अत्र चित्रमृगः स्याच्च शृङ्गी सृमरश्चात्र तु ।
गवयश्चात्र शशको गेण्डुको वा भवेदिह ॥१६॥ तरक्षुर्वा कृष्णमृगो वराहो वा भवेदिह ।
एवमाशां बन्धयँश्च यात्यग्रेऽग्रे समुत्सुकः ॥१७॥ जलं फलानि राज्ञेश्चार्पयत्यपि प्रसेवते ।
तथापि स तु राजा न तुष्टिमेति मृगान् विना ॥१८॥ एवं सायं समयो वै वनान्तरे व्यजायत ।
मृगाऽलब्धौ नृपश्चापि निराशोऽप्यभवत्तदा ॥१ ९ ॥ सर्वे तेऽस्तङ्गते चार्के विशश्रमुर्वनान्तरे ।
सरस्तटे वटाधो वै बुभुक्षिता निराशयाः ॥3.183.२०॥ अथात्र भाग्ययोगेन वनेचरस्तदा परः ।
अरण्यं स्वं भ्रमित्वैव स्वगृहं प्रतियाति यः ॥२१ ॥ स तत्र वटवृक्षाऽधः श्रुत्वा शब्दाँस्तु मानवान् ।
पार्श्वसृत्या निर्गतोऽपि वटाश्रयं समाययौ ॥२२॥ अपश्यत्तत्र राजानं परिमेयजनान्वितम् ।
ननाम भावतश्चैतान् तस्थौ पप्रच्छ तं नृपम् ॥२३ ॥ कथं राजन्नत्र रात्रौ विश्रामश्चाद्य विद्यते ।
दासवर्गस्य कार्यं चेत्तिष्ठामि सेवनाऽऽज्ञया ॥२४॥ दासोऽहं वनमार्गज्ञो वन्यज्ञो वनवासकृत् ।
वने सर्वं विजानामि नृपाज्ञां वितरामि च ॥२५॥ श्रुत्वा राजा तु वृत्तान्तं दिनचर्यां च निष्फलाम् ।
मृषामृगयाभ्रमणं सर्वं जगाद वै तदा ॥२६॥ अथ श्रुत्वा दक्षगर्वोऽपरो वनेचरो नृपम् ।
राजन्नैतद्वनं तादृङ् मृगाधिवासितं क्वचित् ॥२७॥ केनाऽयं दर्शितः पन्थाः केवलक्लेशदायकः ।
वनेऽत्र न मृगाः सन्ति काष्ठहारा भ्रमन्ति यत् ॥२८॥ मृगाणां तु वनं चान्यद् दक्षिणे सरितस्तटे ।
वर्तते तत्र मृगयासाफल्यं जायते सदा ॥२९॥ केनचिद् भ्रामितस्त्वं वै राजन्नत्र प्रवर्तसे ।
वृथाप्रयासो भवतो वनेऽत्र कष्टमेव ह ॥3.183.३ ०॥ एवमुक्तस्तदा राजा ज्ञातवान् स्वप्रतारणम् ।
सागरेण हि शूद्रेण कृतं वृथाऽटनं प्रति ॥३ १ ॥ अहो विश्वासघाता वै मानवा नृपतिं क्वचित् ।
विमार्गे सम्प्रकृष्यैव नयन्ति मरणं प्रति ॥३२॥ विश्वासो नैव कर्तव्यो वने गृहे रणे तथा ।
अज्ञातानां क्वचिद् भूपैर्विश्वासे कष्टमाप्नुयात् ॥३३॥ सागरेण वयं चात्र प्रतारिता मृगार्थिनः ।
अमृगाढ्ये वने दूरं भ्रामिता निष्फलीकृताः ॥३४॥ सोऽयं दण्डस्य पात्रं वै विद्यते छद्मवृत्तवान् ।
त्यक्तव्यो दण्डदानेन शिक्षा देया मयाऽत्र ह ॥३५॥ एवं विचार्य नृपतिर्दक्षगर्वाभिधं परम् ।
वनेचरं तदा प्राह तिष्ठ वा याहि ते गृहम् ॥३६॥ प्रातश्चात्र समायाहि मृगयार्थं वने सह ।
दास्येऽहं चेप्सितं ते वै पारितोषिकमुत्तमम् ॥३७॥ मृगयाणां सुलाभे वै नान्यथा याहि तिष्ठ वा ।
दक्षगर्वो नमस्कृत्याऽऽवश्यकतां प्रदर्श्य च ॥३८॥ ययौ नैजं गृहं रात्रौ नाऽऽयात् प्रातश्च तत्स्थलम् ।
राजाऽपि क्रोधमापन्नः प्रातरेव तु सागरम् ॥३९॥ पप्रच्छ त्वं कथं त्वत्र वने मां नीतवान् वद ।
मृगया यत्र नैवास्ति वृथाऽरण्ये भ्रमोऽभवत् ॥3.183.४० ॥ दुःखं त्वया कृतं त्वेतत्तस्माद्दण्ड्योऽसि सर्वथा ।
मासिकं वेतनं त्वं वै प्राप्नोसि मम कोशतः ॥४१ ॥ अहं प्रतारितश्चात्र त्वया भृत्येन वै यतः ।
ततोऽहं प्रकरोम्यत्र दण्डं ते कपटार्थिनम् ॥४२॥ इत्युक्त्वा भूपतिश्चान्यान् भृत्यानाह द्रुतं वचः ।
पाषाणैरस्य दुष्टस्य प्रकोष्ठौ पादयोरिह ॥४३॥ चूर्णयन्तु निक्षिपन्तु वटोऽधो दुष्टमानवम् ।
इत्युक्तास्ते परे भृत्या भटा आसन् प्ररोषिणः ॥४४॥ ते धृत्वा प्रस्तरान् कष्टाँश्चूर्णयामासुरुल्बणाः ।
पादयोर्घूटिके चोभे भङ्क्त्वा तं वटमूलके ॥४५॥ प्रक्षिप्य प्रययुः सर्वे सनृपास्ते ततः स्थलात् ।
मृगयार्थं चापरं वै वनं गर्वान्विताः खलाः ॥४६॥ अथाऽयं सागरस्तत्र मत्वा दैवात् समागतम् ।
कष्टं रुरोद बहुधा स्मृत्वा मां पुरुषोत्तमम् ॥४७॥ कथं हे भगवन्नत्र भक्तरक्षां करोषि न ।
पापिनां तु तथा नाशं कृष्ण कथं करोषि न ॥४८॥ हिंसायां तु महत्पापं विदित्वा मृगरक्षया ।
मया राजा तूद्वारं वै प्रवर्तितो दयालुना ॥४९॥ त्वद्भक्तोऽहं दयासिन्धो दयावान् मृगबालकान् ।
मृगान् हन्तुं कथङ्कारं नयामि हिंसकं नृपम् ॥3.183.५० ॥ अहिंसायाः फलं हिंसात्मकं प्राप्तं मयाऽद्य तत् ।
कष्टं कृष्ण त्वया चापि सह्यते स्वाश्रितस्य यत् ॥५१ ॥ आश्चर्यं परमं त्वेतद् भक्तरक्षां करोषि न ।
हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ॥५२॥ अनादिश्रीकृष्णनारायण जिष्णोऽवनं कुरु ।
वने वटेऽत्र गहने यदि नायास्यसि द्रुतम् ॥५३ ॥ कश्चिज्जनोऽपि दिवसे तदा मे मृत्युरत्र वै ।
भवेच्चरणकष्टेन जलं कश्चिन्न दास्यति ॥५४॥ प्राणावने प्रयास्यन्ति गतिर्दुष्टा भविष्यति ।
कुटुम्बिनो मे नैवापि वेत्स्यन्ति मृत्युमत्र मे ॥५५॥ हरेनाथ हरेकृष्ण बालकृष्ण प्रभो हरे ।
हरे श्रीकम्भरापुत्र राधापते रमापते ॥५६॥ शीघ्रमायाहि कमलापते लक्ष्मीपते प्रभो ।
पद्मावतीपते प्रज्ञापते श्रीमाणिकीपते ॥५७॥ मुक्तपते ब्रह्मपते सृष्टिपते जगत्पते ।
भक्तपते दीनपते ब्रह्मप्रियापते हरे ॥५८॥ शीघ्रमायाहि भगवन् भक्तरक्षार्थदेहवान् ।
सौराष्ट्राधिपते श्रीमद्गोपालबालकप्रभो ॥५९॥ कथङ्कारमिदं कष्टं पादसन्धिप्रचूर्णजम् ।
सहे वै भगवन्नत्र प्राणा मूर्छा प्रयान्ति वै ॥3.183.६०॥ इत्युक्ता मां प्रणम्यैव मूर्छाभावमुपागतः ।
लक्ष्मि यावत् सागरो मे भक्तस्तावदहं द्रुतम् ॥६१ ॥ तत्पार्श्वे प्रययौ शीघ्रं वनेचरस्वरूपवान् ।
पत्राणि सन्धिनीवल्ल्या नीत्वा तद्रसमुत्तमम् ॥६२॥ निष्कास्याऽङ्गुलिभिस्तत्र ददौ भग्नप्रदेशयोः ।
तावत् प्रघूटिके चापि प्रकोष्ठौ सन्धितौ द्रुतम् ॥६३॥ अस्थिनी च यथापूर्वं जातौ स्वस्थौ नीरुग्णकौ ।
सशक्तौ चापि रक्ताढ्यौ मया स्पृष्टौ पुनः पुनः ॥६४॥ मूर्छाया वारणं चापि कृतं भक्तस्य वै मया ।
उत्थापितश्च कष्टं तद् दूरीकृतं समस्ततः ॥६५॥ भोजितः सुप्रसादं च जलं तदा प्रपायितः ।
स्नेहितः प्रेमदृष्ट्या च प्रापितश्च गृहं निजम् ॥६६ ॥ वनेचरस्वरूपं मां पुपूज बहुभावतः ।
गृहे रम्यासनं दत्वा परिचर्यां चकार मे ॥६७॥ तस्य पत्नी हीरुकाऽपि पुत्राः पुत्र्यश्च सेवनम् ।
चक्रुर्मे बहुधा लक्ष्मि मध्याह्ने भोजनादिभिः ॥६८॥ मया भुक्तं जलं पीतं सेवा चाङ्गीकृता तथा ।
पादसम्मर्दनगात्रमर्दनादिस्वरूपिणी ॥६९॥ अथाऽयं सागरो भक्तः पप्रच्छ मां निजं प्रति ।
हरे नाथ कृपासिन्धो कष्टमेतत् कथं मम ॥3.183.७० ॥ पादभञ्जनरूपं वै केन पापेन चागतम् ।
न हिंसिता मया जीवा न मांसमदिरादिकम् ॥७१ ॥ स्पृश्यतेऽपि हरेकृष्ण नाऽसत्यं क्रियते क्वचित्॥ न चौर्यं पारदार्यं वा क्रियते वै कदाचन ॥७२॥ प्राणिरक्षाकृते त्वेतत् प्रतारणं नृपस्य तु ।
कृतं मया प्रभो नाऽत्र पापं मया कृतं भवेत् ॥७३ ॥ कथं मे पादहननं कथं कष्टं जनस्य ते ।
वद नाथ यथार्थं मे कर्म वा तादृशं भवेत् ॥७४॥ अत्र जन्मनि नैवाऽहं कृतवान्न स्मराम्यपि ।
अज्ञातेन कृतं चेत् स्याद् वद मे संशयापहम् ॥७५॥ तदाऽहं कमले तस्मै न्यवेदयं पुराकृतम् ।
नाऽत्र जन्मनि तस्याऽभूत् कर्म क्रूरं हि तादृशम् ॥७६॥ ततोऽहं कथयामास शृणु सागर प्राक्कृतम् ।
त्वमासीर्वै हस्तिपको राज्ञो गजस्य रक्षकः ॥७७॥ अस्य राज्ञः पितुर्धर्मपालस्य गजरक्षकः ।
नाम्ना धरोदरस्त्वं वै शूद्रः कुटुम्बवानिह ॥७८ ॥ भृत्यतां विदधन् हस्तिपालने त्वेकदा भवान् ।
गजस्य तु मदप्राकट्ये युवानं गजं तदा ॥७९॥ उन्मादिनं वशं कर्तुं प्रयत्नं बहुधा व्यधात् ।
गोक्षुराद्यैर्लोहजैश्च न्यस्तैः पादतलेषु वै ॥3.183.८०॥ तथा लोहार्गलैश्चापि लोहशृङ्खलिकादिभिः ।
भल्लैश्चोग्रैश्च वंशैश्च दीर्घैश्च लोहजैः फलैः ॥८ १ ॥ पादौ विभिद्य करिणः कृत्वा शक्तिविहीनकम् ।
गतिशून्यं गतं तत्र भवान् रुरोध सर्वथा ॥८२ ॥ अधिकं पादयोस्तस्य मूढमारममारयत् ।
भग्नमस्थि गजस्यापि पादस्यैकस्य वै तदा ॥८३ ॥ अथाप्युत्थातुकामं तं हस्तिनं तु भवान् पुनः ।
लोहदण्डैश्चाग्रपदे मारयामास निर्दयः ॥८४॥ अस्थि द्वितीयपादस्य चूर्णतां पार्श्वतोऽगमत् ।
एवं पादद्वयास्थिनी भग्ने ते क्रूरतावशात् ॥८५ ॥ हस्तिना त्वं तदा शप्तो रक्षको मारको भवान् ।
ममैव तु करेणैव भग्नपादो भविष्यसि ॥८६ ॥ स त्वं कालेन निधनं गतोऽसि सागरोऽद्य वै ।
हस्ती च निधनं प्राप्रो राजपुत्रोऽयमस्ति सः ॥८७॥ वनपालाभिधः सोऽयं भग्नपादः पुरा गजः ।
राजाऽद्य वर्तते त्वं चारण्यपालोऽद्य वर्तसे ॥८८ ॥ तव पादौ तेन भग्नौ पुराभग्नस्य तत्फलम् ।
मा शोकं कुरु भक्तोऽसि रक्षितोऽसि मयाऽद्य वै ॥८९॥ न कृतं तु पुरा कर्म कञ्चित् त्यजति देहिनम् ।
त्वया प्राप्तं कृतं कर्म फलरूपेण भक्तक ॥3.183.९०॥ किन्तु भक्त्या मया रक्षा कृता चाहिंसया तव ।
राज्ञोऽपराधः स्वल्पोऽपि निमित्तोऽत्र व्यजायत ॥९१ ॥ अरण्ये पादभङ्गे ते मा शोकं कर्तुमर्हसि ।
भज मां परमात्मानं पश्य मे रूपमैश्वरम् ॥९२॥ अहं नारायणः साक्षाच्चतुर्भुजोऽस्मि चागतः ।
याहि त्वद्यैव राजानं सायं गृहं समागतम् ॥९३॥ वद मे सर्ववृत्तान्तं रक्षाकरं सुखप्रदम् ।
सोऽपि श्रुत्वा नृपो मे सम्भजनं वै करिष्यति ॥९४॥ तव योगेन मुक्तिं वै करिष्यामि नृपस्य ह ।
मा भयं कुरु भक्तेन्द्र त्वया साकं भवाम्यहम् ॥९५॥ इत्युक्त्वा भगवाँस्तत्र तिरोदधे तु पद्मजे ।
भक्तो ययौ निशायां तु नृपगृहं स्मरन् हरिम् ॥९६॥ राज्ञे सर्वं तु वृत्तान्तं कथयामास शोभनम् ।
श्रुत्वा राजा विस्मितोऽभूद् ययाचे च क्षमां मुहुः ॥९७॥ भक्तरक्षाकरं मां च तुष्टाव शरणं गतः ।
विदित्वा प्राग्जन्म नैजं गजात्मकं मुहुर्मुहुः ॥९८॥ आश्चर्यं परमं प्राप्य मत्वा देहं तु गत्वरम् ।
भक्तो भूत्वा प्रभेजे मां कुटुम्बसहितो नृपः ॥९९॥ पिता च बान्धवाश्चापि भेजिरे मां ततः सदा ।
कृत्वा राज्यं सतां सेवां भक्तिं कृत्वा यथाक्षणम् ॥3.183.१०० ॥ प्रापुस्ते मां परमेशं श्रीधामाऽक्षरसत्पदम् ।
पठनाच्छ्रवणाच्चास्य लक्ष्मि भुक्तिश्च मोक्षणम् ॥१०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सागराख्यशूद्रस्य भग्नपादस्य भगवत्कृतनीरुजपादत्वं तत्पूर्वभववृत्तान्तं चेत्यादिनिरूपणनामा त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३ ॥