१८२

श्रीपुरुषोत्तम उवाच-
आकर्णय कथां नारायणीश्रि त्वं तथाऽपराम् ।
आसीत् कर्णपुरे राजा पृथ्वीधराभिधः पुरा ॥१ ॥ खण्डराज्यं पालयन् स प्रजां ररक्ष धर्मतः ।
प्रातर्यस्यांऽगणे नित्यं भिक्षुकास्तु शताधिकाः ॥२ ॥ तृप्यन्ति त्वन्नलाभेन ह्यनाथा बालबालिकाः ।
ह्यनाथा विधवाश्चापि भुञ्जतेऽस्याऽन्नसत्रके ॥३ ॥ विष्णोस्तु मन्दिरे गत्वा राजा पृथ्वीधरः स्वयम् ।
नारायणस्य मूर्तेर्वै पूजनं तुलसीदलैः ॥४ ॥ सहस्रैकमितैर्नित्यं करोति विष्णवे नमः ।
वदन् ध्यायन् स्मरन् मां वै श्रीपतिं पुरुषोत्तमम् ॥५ ॥ धूपं दीपं च नैवेद्यं जलं ताम्बूलकं तथा ।
नीराजनं स्तुतिं प्रदक्षिणां कृत्वा च दण्डवत्॥६ ॥ शतरूप्यकदानं चाम्बराणां शतकं तथा ।
एकां गां च ददात्येव दाने नित्यं ततः परम् ॥७ ॥ पुष्पाञ्जलिं श्रीहरये दत्वा याति निजालयम् ।
एवं मां भजते नित्यं मन्निवेदितभोजनः ॥८ ॥ वर्तते स्म सदा भक्तो हिंसाव्यवायवर्जितः ।
यस्य पुण्यं पुराजन्मकृतं तस्य तु भक्तता ॥९ ॥ धर्मे मतिश्च भवति सत्यपि राज्यवैभवे ।
एवं लक्ष्मि सदा पृथ्वीधरः कृत्वा शुभाह्निकम् ॥3.182.१ ०॥ याति न्यायालयं तत्र ददात्येव च निर्णयम् ।
अथ सायं नित्यमेव कथां शृणोति मामकीम् ॥११ ॥ लक्ष्मीनारायणसंहितायाः सतां सभागतः ।
सन्तोऽस्य साधवो धीराः छिन्दन्ति संशयान् बहून् ॥१२॥ सतां पादजलानां च पानं गृह्णाति भूपतिः ।
कथान्ते कीर्तनं वाद्यसहितं प्रकरोति सः ॥१३॥ सहस्रशो जना नार्यो नराः कुर्वन्ति कीर्तनम् ।
‘हरे कृष्ण हरे कृष्ण बालकृष्ण हरे हरे ॥१४॥ हरे विष्णो हरे जिष्णोऽनादिकृष्ण हरे हरे’ ।
एवंविधं भजनं ते सतालाद्यं प्रचक्रिरे ॥१५॥ अथ सन्तः प्रयान्त्येव मठेषु च नृपस्ततः ।
सायं देवार्चनं कृत्वा लब्ध्वा सद्भोजनं ततः ॥१६॥ ध्यानमग्नो भवत्येव मालामावर्तयन्मम ।
अनादिश्रीकृष्णनारायणेत्येवं जपन्मुहुः ॥१७॥ स्वपित्येवेति राजाऽपि साधुचर्यां प्रसेवते ।
अस्य राज्ञी मधुविन्दानाम्नी भक्ता तु वैष्णवी ॥१८॥ पातिव्रत्यान्विता यद्वत् साध्वी विप्रा सती यथा ।
भजते मां परात्मानं मत्वा संसारमुल्बणम् ॥१ ९॥ बन्धनं दुःखदोषाढ्यं वासनावासितं क्षयम् ।
नित्यं तु परमात्मानं मुक्तिं चात्मानमेव सा ॥3.182.२०॥ मनुते मोक्षदातॄँश्च सतो जनान् प्रसेवते ।
शान्तशीला नृपवत्सा भजते मां जनार्दनम् ॥२१ ॥ यथा राजा तथा लक्ष्मि प्रजा गुणवती भवेत् ।
अस्य पुत्रादयश्चापि भेजिरे मां श्रियः पतिम् ॥२२॥ प्रजाः सर्वाः सर्ववर्णा भजन्ते स्म च मां तथा ।
दानं कुर्वन्ति च जपं कुर्वन्ति स्म प्रसेवनम् ॥२३॥ सतां च साधुवासादौ मार्जनादि दधत्यपि ।
एवं वै वर्तमानानां वैष्णवानां निरन्तरम् ॥२४॥ प्रसन्नो भगवान्नास्ते पर्जन्यश्चापि वर्षति ।
सम्पदः सम्प्रमोदन्ते यथा लक्ष्म्यः सचेतनाः ॥२५॥ धेनवः कामवर्षिण्यो वृक्षाश्च फलदायिनः ।
सस्यानि कणदान्येव रसदा च रसाऽभवत् ॥२६।५
मम भक्तस्य तस्य श्रि रिपवो नाऽभवँस्तथा ।
ईतयो नाऽभवँश्चापि सुखाढ्यः सोऽभवन्नृपः ॥२७॥ तस्य पुत्रोऽभवत् काले जन्मान्धः प्रथमः सुतः ।
जन्मोत्सवाः कृतास्तेन यथाकालं सुतः स तु ॥२८॥ नेत्रे नोद्धाटयत्येव जन्मान्धो विदितोऽभवत् ।
राज्ञा विष्णोरनुष्ठानं कृतं वै वैष्णवे मखे ॥२९॥ चक्षुषोरुद्धाटनार्थं सूर्यचन्द्रप्रपूजनम् ।
घृतस्य दीपदानं चाऽखण्डितं देवमन्दिरे ॥3.182.३०॥ कृतं च वत्सरं तस्य गतं चान्ध्ये ततो नृपः ।
आशां विहाय सहसा तपस्येव मनोऽकरोत् ॥३ १ ॥ राजसौधं विहायैवोद्याने वृक्षघटान्तरे ।
छायायां चासनं कृत्वा निषसाद तपस्ययम् ॥३ २॥ मालामावर्तयत्येषो रटन् कृष्णनरायाणम् ।
फलाहारोऽभवद् राजा त्वेकभुक्तो हि निर्जने ॥३३॥ शालग्रामं पुरो धृत्वा भजते मां स्मरत्यपि ।
वल्कलाम्बर एवापि मृगचर्मासनस्तथा ॥३४॥ सर्वभोगविहीनश्च पुत्रनेत्रसमीहनः ।
दिवारात्रौ भजते मां तत्राश्रमे द्रुमालये ॥३५॥ वर्षा शैत्यमातपं च सहते भजते च माम् ।
पूजां करोति भावेन शालग्रामस्य मे नृपः ॥३६ ॥ करोति त्रिषवणं च सूर्यं नमस्करोति च ।
पञ्चकेशी पितृपूजी सम्वत्सरं व्यवर्तत ॥३७॥ एवं वर्षोत्तरे राजा रात्रौ ध्यात्वा तु मां मुहुः ।
अस्तौत् कृष्ण तव नाम हरिः दुःखहरं हि तत् ॥३८॥ कथं भक्तस्य मे दुःखं नैव हरसि माधव ।
कर्तुमकर्तुमन्यथाकर्तुं शक्तोऽसि सर्वथा ॥३९॥ पुण्यं यत्तत्तव कृष्ण प्रसन्नता ह्यनुग्रहः ।
पापं यत्तत्तव कृष्ण प्रातिकूल्यं ह्युदासिता ॥3.182.४०॥ यदि भक्तं प्रति चैवमौदासीन्यं प्रदर्श्यसे ।
का गतिस्तर्हि भक्तस्य त्यक्तस्य रक्षकेन वै ॥४१॥ रक्षां कुरु सुतस्यापि चक्षुर्दानेन माधव ।
पापं विधूय तस्यैव सदृष्टिं तं विधापय ॥४२॥ इत्युक्त्वा दण्डवच्चक्रे श्रुत्वाहं प्रार्थनां द्रुतम् ।
तपो विलोक्य पुत्रस्य नेत्रार्थं त्वागतोऽभवम् ॥४३॥ जटिलो दण्डवान् साधुर्भस्माक्तो मृगचर्मवान् ।
कमण्डलुं करे धृत्वाऽदृश्ये वै वृक्षमण्डले ॥४४॥ हरे नारायण विष्णो वदन् सत्सन्निधौ ययौ ।
जयोऽस्तु योगिनः क्षितिपतेस्तापसवेषिणः ॥४५॥ इत्यहं शब्दमुच्चार्य कमण्डलुजलं शुभम् ।
ददौ तस्मै स राजाऽपि विस्मयं परमं गतः ॥४६॥ आकस्मिकः साधुवेषश्चातिथिः कुत आगतः ।
भवेद्वा मे मनःपूर्तिकरो दिव्योऽयमच्युतः ॥४७॥ अतिथिः पूजनीयो वै साधुस्तत्र विशेषतः।
विचार्येत्थं समुत्थाय राजा पपात पादयोः ॥४८॥ आसनं प्रददौ चार्घ्यं मधुपर्कं ददौ तथा ।
पूजनं प्रचकारापि पुष्पगन्धफलादिभिः ॥४९॥ नमस्कारं विधायाऽथ पप्रच्छागमनं प्रति ।
धन्योऽहं कृतकृत्योऽहं साधुजनस्य दर्शनात् ॥3.182.५०॥ तीर्थरूपं परं वारि प्राप्तं यस्य कमण्डलोः ।
दर्शनं पावनं लब्धं सर्वेन्द्रियपवित्रकृत् ॥५१॥ स्पर्शनं पापहारं च लब्धं साधुपदस्य ह ।
सेवनं च प्रसादं च लप्स्येऽद्य भाग्यवैभवात् ॥५२॥ कृपया चापि च दिव्यानुग्रहात् पुण्यसञ्चयात्॥ इत्युक्त्वा मौनमास्थाय तस्थावग्रे कृताञ्जलिः ॥५३॥ अहं साधुस्वरूपश्चाऽवदं श्रेयोयुतो भव ।
कुशलं ते भूप किंवा ब्रूहि तपसि कारणम् ॥५४॥ राजोवाच हि साधूनां कृपया कुशलं मम ।
पुत्रवान् धनवानस्मि भक्तिमानस्मि साधुषु ॥५५॥ तथाप्यकुशलं चास्ते पुत्रः पश्यति नैव मे ।
जन्मान्धो विद्यते साधो वद् किं कारणं भवेत् ॥५६॥ तस्य वै दृष्टिमत्वार्थं तपः करोमि माधवे ।
आराधनात्मकं नान्यकाङ्क्षा मे वर्तते प्रभो ॥५७॥ पुत्रोऽचक्षुर्भवेद् यस्य राज्यमन्धं तु तस्य वै ।
अनन्धस्य गृहे चाऽऽन्ध्यं वंशे चान्ध्यं हि दुःखदम् ॥५८॥ आन्ध्यमेतत् कथं दूरं यायाज्जानासि दर्शय ।
कृतकृत्यो भवाम्येवं साधोस्तेऽत्र समागमात् ॥५९॥ साधूनां वचनं दिव्यं सत्यार्थं सिद्धिदं सदा ।
साधूनां हृदयं सौम्यं सर्वदुःखहरं खलु ॥3.182.६०॥ साधूनां दर्शनं पुण्यं सेवनं मोक्षदं तथा ।
सर्वाशापूरकः साधोरनुग्राहः समर्जितः ॥६१ ॥ इत्युक्त्वा विररामाऽसौ लक्ष्मि चाऽहं तदाऽवदम् ।
शृणु राजँस्तव पुत्रः पूर्वजन्मनि तापसः ॥६२॥ यथाऽहं तापसवेषस्तथा स तापसोऽभवत् ।
नाम्ना दुर्वोढको विप्रो दरिद्रो राज्यवा़ञ्छया ॥६३॥ अकरोत् स तपो रेवातटे तीर्थे तु शुक्लके ।
बहवो यत्र चायान्ति यान्ति तीर्थार्थिमानवाः ॥६४॥ नरा नार्यस्तत्र तीर्थे स्नान्ति प्रयान्ति पार्श्वतः ।
दुर्वोढकः प्रपश्यन् वै तपःस्थले प्रतिष्ठति ॥६५॥ बलवच्चेन्द्रियं लक्ष्मि मानसं बलवत्तथा ।
विषये पुरतो याते चागते चञ्चलं भवेत् ॥६६॥ तन्निरोधस्तापसेन कर्तव्यः सर्वदा रमे ।
इन्द्रियाणां मनसश्चाऽनिरोघे निष्फलं तपः ॥६७॥ प्रमाथि मानसं कस्मिन् क्षणे नेष्यति दुष्पथम् ।
निश्चयश्चापि विश्वासो नास्ति तन्मनसः सदा ॥६८॥ एकदा त्वं स्वयं राजा तीर्थार्थं सकुटुम्बकः ।
यथापेक्षितवस्त्वाढ्यः परिमेयपुरःसरः ॥६९॥ गतो रेवां प्रति शुक्लतीर्थं स्नातुं तु पर्वणि ।
यत्राऽयं तापसः साधुर्विप्रस्तपति तत्स्थले ॥3.182.७०॥ मनाग् दूरे चाम्रवणे त्वं निवासं तदाऽकरोः ।
ज्ञात्वा तपस्विनं साधुं जटिलं त्वं च तत्पुरः ॥७१ ॥ सपत्नीको नमस्कारमकरोः पूजनं तथा ।
फलादिकं चाऽऽर्पयश्च राज्ञी च भावपूरिता ॥७२॥ साधोश्चरणौ प्रक्षाल्य जलं पपौ तव प्रिया ।
रूपयौवनसौन्दर्यपुष्टिशृङ्गारशालिनीम् ॥७३ ॥ वीक्ष्य तां मोह उत्पन्नो विप्रस्याऽस्य तपस्विनः ।
सकामं चापि प्रच्छन्नं चक्षुर्द्वयं प्रयोजितम् ॥७४॥ तेन विप्रेण शिष्यायां राज्ञ्यां तदा तु तीर्थके ।
पुण्यायां सेविकायां च तथैव राजमातरि ॥७५॥ सकामस्तपसि दृब्धो राज्यार्थं लालसान्वितः ।
अजितेन्द्रियचित्तश्च दृष्टिपापं तदा व्यधात् ॥७६॥ भवन्ति खलु जात्यन्धा जन्मान्धा रागिणस्तु ते ।
परस्त्रियां तु ये मुग्धा दुष्टचक्षुः प्रयुञ्जते ॥७७॥ एवमेतस्य विप्रस्य तापसस्य तदा खलु ।
रूपसौन्दर्यमुग्धस्य मोहपापं तदा ह्यभूत् ॥७८॥ तस्मान्मोहाऽनुद्भवार्थं रूपवत्यः स्त्रियः सदा ।
धर्मरक्षार्थमेवापि दर्शयन्ति मुखं नहि ॥७९॥ लज्जावस्त्रं प्रावरणं मुखोपरि प्रकाशने ।
सदा रक्षन्ति सन्नार्यः पातिव्रत्यादिगुप्तये ॥3.182.८०॥ दर्शनं मोहकृत्तस्माद्दर्शनं न ददत्यपि ।
असूर्यम्पश्यास्तिष्ठन्ति प्रावरणेन चावृताः ॥८ १ ॥ अथ राजन् तापसः स कालेन निधनं गतः ।
तव पुत्रो ह्ययं जातो यस्यां मुग्धस्तद्गर्भजः ॥८२॥ तपःफलं राज्यमेतल्लब्धं तेन महात्मना ।
दुष्टचक्षुर्दृष्टिफलं जन्माख्यं लब्धमेव च ॥८३॥ तपसा ते प्रभक्तस्य पूजादिभिः प्रतोषितः ।
समायातोऽस्मि भगवान् शालग्रामे तु यः स्थितः ॥८४॥ सोऽहं नारायणकृष्णो भवामि ते ह्यभीष्टदः ।
ब्रूहि राजन् ददाम्यत्र यत्ते मनसि रोचते ॥८५॥ भक्तार्थं त्वागतोऽस्म्यत्र यदिच्छसि ददामि ते ।
इत्युक्तः स तु राजर्षिः पृथ्वीधराभिधस्तदा ॥८६॥ ययाचे सुतदृष्टिं च भक्तिं मे पादयोस्तथा ।
अन्ते धामाऽक्षरं चापि वंशं च भक्तमेव ह ॥८७॥ श्रुत्वाऽहं प्रददौ तस्मै तथाऽस्त्वेवं भविष्यति ।
जलं कमण्डलोर्दत्वा तिरोभावं ततः स्थलात् ॥८८॥ राजा प्रसन्नचित्तस्तु तपः पूर्णं विधाय च ।
ययौ सवल्कलो नैजं ग्रामस्थं भवनं प्रति ॥८९॥ प्रजाभिः पूजितश्चापि लक्षितो वरपात्रकः ।
प्राप्तमनोरथश्चापि जयशब्दैः प्रवर्धितः ॥3.182.९० ॥ ययौ स्वभवनं तावद् वाद्यानि चोत्तमानि वै ।
अवाद्यन्त समन्तात्तु राज्ञी प्रसन्नतां ह्यगात् ॥९ १ ॥ राजा सुतं प्रति गत्वा मया दत्तं जलं द्रुतम् ।
पुत्रनेत्रे ददौ नेत्रं जलस्पर्शात् सदृष्टिकम् ॥९२॥ दक्षं ह्यभूत् ततो वामं जलस्पर्शात् सदृष्टिकम् ।
जातं महोत्सवश्चासीत्तपःफलं समर्जितम् ॥९३॥ अथ पुत्रो युवा जातो जातिस्मरो हि सर्वदा ।
दुष्टचक्षुःफलं नैजं स्मरत्येव सदा ततः ॥९४॥ महाभागवतः सोऽपि जातो धर्मसमन्वितः ।
नाम्ना चित्रध्वजो राजा साधुभक्तः प्रतापवान् ॥९५ ॥ भजते मां सदा लक्ष्मि राज्यं पित्रा समर्पितम् ।
सञ्चालयति नीत्या वै प्रजास्तोषयत्येव सः ॥९ ६ ॥ पिताऽस्य निधनं यातो विमानेन तदाऽप्यहम् ।
स्वधामाऽक्षरमेवैनं प्रापयामास वैष्णवम् ॥९७॥ एवं मया स्वभक्तस्य तपसा ह्येधितस्य च ।
इच्छापूर्तिः कृता पुत्रचक्षुर्दानेन विष्णुना ॥९८॥ भक्तानां सर्वथा लक्ष्मि चान्ध्यं बाह्यं च वाऽऽन्तरम् ।
नाशयामि प्रसन्नोऽहं भक्तिवश्यो भवन् भुवि ॥९९॥ आत्मप्रकाशं दिव्यं च ददामि ज्ञानशेवधिम् ।
येन मायातमस्तीर्त्वा प्रयान्ति परमं पदम् ॥3.182.१० ०॥ पठनाच्छ्रवणाच्चास्य स्मरणाद् भजनान्मम ।
भुक्तिमुक्तिर्भवेच्चापि सम्पत् सौख्यं प्रमोक्षणम् ॥१०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पृथ्वीधराभिधनृपतेर्जन्मान्धपुत्रस्य प्राग्जन्मवृत्तान्तं भगवता कृतसदृष्टिकत्वं चेत्यादिनिरूपणनामा द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२ ॥