१६७

श्रीनारायणीश्रीरुवाच-
आपद्गतस्य भक्तस्य भक्तायास्तव केशव ।
आपन्नाशः कथं स्याच्च पापनाशः कथं भवेत् ॥१ ॥ श्रीपुरुषोत्तम उवाच-
अव्रतस्याऽप्यशक्तस्य ज्ञानहीनस्य देहिनः ।
आपत्पापादिनाशार्थं स्तोत्रं व्यापहनं मतम् ॥२ ॥ एकाग्रमानसो भूत्वा स्तुवीत परमेश्वरम् ।
अवताराँस्तथा मुक्तानीश्वरान् पितृदेवताः ॥३ ॥ ऋषीन् गुरून् भागवतान् साधून् भक्तान् स्तुवीत च ।
अनन्यशरणो भूत्वा प्रार्थयेत् सुखवान् भवेत् ॥४ ॥ सर्वसिद्धिप्रदं स्तोत्रं दिव्यं वदामि ते रमे ।
श्रोतुर्वक्तुर्वाचयितुः सर्वेष्टानां द्रुतं प्रदम् ॥५ ॥ ‘नमोऽनादिकृष्णनारायणाय परमात्मने ।
महाभगवते मुक्ताऽक्षरेशाय परात्मने ॥६ ॥ सृष्टित्रयाधिनाथाय सर्वान्तर्यामिणे नमः ।
परब्रह्मणे पुरुषोत्तमाय चावतारिणे ॥७ ॥ सर्ववित् सर्ववासः श्रीनिवासः सर्वसंस्थितः ।
पराऽक्षरस्थो मुक्तेशश्चापत्पापं व्यपोहतु ॥८ ॥ अवतारी परब्रह्म दिव्यात्मा श्रीनरायणः ।
परमेशो हि भगवानापत्पापं व्यपोहतु ॥९ ॥ अनाद्यनन्तः सर्वेशः सर्वविद्याधरो हरिः ।
सर्वप्रदः सुखदश्च पापाऽऽपदो व्यपोहतु ॥3.167.१ ०॥ अणोरणीयान्महतो महीयान् विश्वपूजितः ।
अनादिश्रीकृष्णनारायणः पापं व्यपोहतु ॥१ १॥ ब्रह्मप्रियाप्रियः कान्तः शान्तः स्नेहभरः प्रभुः ।
हरिप्रियामनोहारी पायाऽऽपदो व्यपोहतु ॥१२॥ मुक्तमण्डलसंसेव्यो मुक्तानिकाप्रसेवितः ।
कमनीयः परः कान्तः पापाऽऽपदो व्यपोहतु ॥१३॥ अवतारी परिपूर्णः परब्रह्म परात्परः ।
परावरेशः परमः पापाऽऽपदो व्यपोहतु ॥१४॥ श्रीपतिः श्रीधरः श्रीहृत् श्रीमान् श्रीदः श्रियाऽन्वितः ।
श्रीपादः श्रीहरिः कृष्णः पापाऽऽपदो व्यपोहतु ॥१५॥ लक्ष्मीपतिर्लक्ष्मीधरो लक्ष्मीहृत् लक्ष्मदाऽन्वितः ।
लक्ष्मीसेवाऽतिसन्तुष्टः पापाऽऽपदो व्यपोहतु ॥१६॥ राधापतिश्च राधाधृग् राधाहृद्राधिकाऽन्वितः ।
राधात्मा राधिकाकृष्णः पापाऽऽपदो व्यपोहतु ॥१७॥ माणिकीवाहनो माणिकीश्वरो माणिकीप्रभुः ।
माणिक्याऽभिनवहारः पापाऽऽपदो व्यपोहतु ॥१८॥ गोलोकेशो गोपिकेशो गोपीगोपप्रपूजितः ।
गोपालकृष्णो गोधृङ् मे पापाऽऽपदो व्यपोहतु ॥१ ९॥ नृवरो नृपतिर्नाथो नारायणो नरोत्तमः ।
वैकुण्ठवासी भगवान् पापाऽऽपदो व्यपोहतु ॥3.167.२०॥ वसुदो वासुदेवश्च धर्मार्थकाममोक्षदः ।
अमृतादोऽमृतदो ये पापाऽऽपदो व्यपोहतु ॥२१ ॥ भूमिदो भूस्थितो भूमा भूमतां भाग्यवर्धनः ।
भूसत्ताऽव्याकृतस्वामी पापाऽऽपदो व्यपोहतु ॥२२।
वेदाऽवनो धराधृक्च मन्द्रधृग् ज्ञानधृग् हरिः ।
गोधृग् गोदोहनो हंसः पापाऽऽपदो व्यपोहतु ॥२३॥ तापसो वत्सलः साधुर्भिक्षुः क्रूरोऽध्वरो वनी ।
बालो भिषग्वरः क्लेशी पापाऽऽपदो व्यपोहतु ॥२४॥ सम्राट् शास्त्री कृष्णकान्तः प्राज्ञोऽवतारकारणम् ।
आवेशोंऽशः कला भूतिः पापाऽऽपदो व्यपोहतु ॥२५॥ पूर्णः परो व्यूह ऐशोऽन्तर्याम्यर्चा स्वरूपकृत् ।
विभवश्चैत्यः सुन्यासी पापाऽऽपदो व्यपोहतु ॥२६॥ सर्वधामनिवासो योऽनेकरूपः परेश्वरः ।
जडचेतनशास्ता मे पापाऽऽपदो व्यपोहतु ॥२७॥ नारायणी श्रीपुरेशी माधवी पुरुषोत्तमी ।
कार्णीं श्रीललितालक्ष्मीः पापाऽऽपदो व्यपोहतु ॥२८॥ भार्गवी दुःखहालक्ष्मीः शिवराज्ञी च वैष्णवी ।
पद्मिनिका पद्मजा मे पापाऽऽपदो व्यपोहतु ॥२९॥ कम्भराश्रीर्महालक्ष्मीर्वासुदेवी परेश्वरी ।
आक्षरी श्रीर्भगवती पापाऽऽपदो व्यपोहतु ॥3.167.३०॥ पौरुषी प्राकृती देवी मायेशी पार्वती प्रभा ।
पारब्राह्मी रमा माता पापाऽऽपदो व्यपोहतु ॥३ १ ॥ भूम्नी पद्मा च वैराजी गङ्गा रेवा सरस्वती ।
गायत्री गोमती गोपी पापाऽऽपदो व्यपोहतु ॥३५॥ सादाशैवी च माहेशी ब्राह्मी ब्रह्मप्रिया सती ।
साध्वी च स्वामिनी चान्द्री पापाऽऽपदो व्यपोहतु ॥३३॥ हिरण्मयी कानकी च हरिणी स्वर्णरूपिणी ।
वैकुण्ठा तूलसी वृन्दा पापाऽऽपदो व्यपोहतु ॥३४॥ सिद्धा पैत्री सिद्धिरूपा चमत्कृतिः सुधैनवी ।
सुधाऽमृता पाशवती पापाऽऽपदो व्यपोहतु ॥३५॥ प्रभा सौरी पार्षदानी चैश्वरी देवता रतिः ।
प्रीतिर्भक्तिर्व्रतरूपा पापाऽऽपदो व्यपोहतु ॥३६॥ सौम्या पुरातनी दिव्या सन्तुष्टा तृप्तिरब्जिका ।
कमलाऽम्बा शारदा मे पापाऽऽपदो व्यपोहतु ॥३७॥ ऐन्द्री चानन्दमात्रा च चिच्छक्तिर्ज्ञानरूपिणी ।
योगिनी नैष्ठिकी हृत्स्था पापाऽऽपदो व्यपोहतु ॥३८॥ मोहिनी नन्दिनी पद्मेक्षणोर्वशी पतिव्रता ।
जननी स्वर्णवर्णा मे पापाऽऽपदो व्यपोहतु ॥३९॥ पुण्या च पावनी विद्या धनदा वित्तधारिणी ।
आर्त्तिहाऽब्धिसुता शान्ता पापाऽऽपदो व्यपोहतु ॥3.167.४० ॥ भावज्ञा भुक्तिमुक्त्यादिप्रदा भक्ताऽभयङ्करी ।
सर्वार्धाङ्गा जीवनी श्रीः पापाऽऽपदो व्यपोहतु ॥४१ ॥ सौभाग्ययुक्ता शोभाढ्या सर्वाभरणभूषिता ।
सर्वशृङ्गारदीप्ताङ्गा पापाऽऽपदो व्यपोहतु ॥४२॥ सस्यलक्ष्मीः रत्नलक्ष्मीः सम्पल्लक्ष्मीः कुटुम्बिनी ।
धान्याऽन्नधारिणी गौरी पापाऽऽपदो व्यपोहतु ॥४३॥ रोहिणी पोषणकर्त्री कन्यका नवयौवना ।
रामयित्री सुरामा मे पापाऽऽपदो व्यपोहतु ॥४४॥ सत्त्वमयी सत्त्वदात्री सत्त्वध्रा सत्त्वयोगिनी ।
सात्त्विकी सच्चिदानन्दा पापाऽऽपदो व्यपोहतु ॥४५॥ मुक्ताश्च पार्षदा भक्ता भक्तान्यः साध्य ईश्वराः ।
ईश्वराण्यो महामुक्ता व्यपोहन्त्वघमापदः ॥४६॥ शङ्खश्चक्रं गदा पद्मं कौस्तुभो मुकुटो हरेः ।
वनमाला पुष्पमाला व्यपोहन्त्वघमापदः ॥४७॥ यष्टिश्छत्रं चामरं चाङ्गदश्च कटकस्तथा ।
शृङ्खला रशना कार्ष्णी व्यपोहन्त्वघमापदः ॥४८॥ गुणैश्वर्याणि सर्वाणि चमत्काराश्च सिद्धयः ।
शक्तयः श्रीहरेः सर्वा व्यपोहन्त्वघमापदः ॥४९॥ शालग्रामस्तथा शालङ्कायनर्षिश्च गण्डकी ।
त्रिवेणी शालवृक्षश्च व्यपोहन्त्वघमापदः ॥3.167.५०॥ बदरी बदरीवासाः ऋषयश्च नरो हरिः ।
गङ्गा हिमाश्रयो हैमा व्यपोहन्त्वघमापदः ॥५१ ॥ शेषशायी क्षीरनिधिः क्षीरजा श्वेतभोगिराट् ।
निरन्नमुक्तभक्ताश्च व्यपोहन्त्वघमापदः ॥५२॥ ब्रह्मा विष्णुः शङ्करश्च गणेशश्च प्रभाकरः ।
गणा रुद्राश्च रुद्राण्यो व्यपोहन्त्वघमापदः ॥५३ ॥ सिद्धा यक्षाश्च गन्धर्वाश्चन्द्रस्ताराश्च तैजसाः ।
ग्रहाश्च केतवश्चापि व्यपोहन्त्वघमापदः ॥५४॥ हंसो गरुडो वृषभः सिंहश्च हरिणो गजः ।
शेषः शिखी टिव्यवाहा व्यपोहन्त्वघमापदः ॥५५॥ कार्तिकेयो महाकालो महावज्रं त्रिशूलकम् ।
कालदण्डो हेतयस्ते व्यपोहन्त्वघमापदः ॥५६॥ आदित्या वसवो रुद्रा अश्विनावीश्वरेश्वराः ।
दिक्पाला लोकपालाश्च व्यपोहन्त्वघमापदः ॥५७॥ गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा ।
तन्मात्राणि तथा प्राणा व्यपोहन्त्वघमापदः ॥५८॥ साध्या विश्वे मरुतश्च किन्नरा गुह्यकास्तथा ।
गन्धर्वा किम्पुरुषका व्यपोहन्त्वघमापदः ॥५९॥ देवानां मातरश्चापि गणानां मातरस्तथा ।
भूतानां मातरः सर्वा व्यपोहन्त्वघमापदः ॥3.167.६० ॥ अप्सरसस्तथा देव्यो राशयस्तिथयस्तथा ।
पक्षा मासा वत्सराश्च व्यपोहन्त्वघमापदः ॥६१ ॥ ज्वरा रोगाश्च ऋतवः ऋणानि राक्षसास्तथा ।
दैत्याश्च दानवा दुष्टा व्यपोहन्त्वघमापदः ॥६२॥ सागराः सरितः कूपास्तडागानि च दीर्घिकाः ।
वाप्यः सरांसि वरुणो व्यपोहन्त्वघमापदः ॥६३॥ गावो याः कामवर्षिण्यः कल्पपूराश्च वल्लिकाः ।
तथा च कल्पतरवो व्यपोहन्त्वघमापदः ॥६४॥ यज्ञा यज्ञक्रियाश्चापि विधयः श्रतयोऽपि च ।
ऋचः सामानि छन्दांसि व्यपोहन्त्वघमापदः ॥६५९॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञो व्यपोहन्त्वघमापदः ॥६६॥ पावकः पावनो वह्निः सप्तार्चिः सप्तजिह्विकः ।
स्वर्णपिता ब्रह्ममुखं पापाऽऽपदो व्यपोहतु ॥६७॥ दानं दमो दया दैवं देवा देव्यश्च साधवः ।
सन्तः सत्पुरुषाः पुण्या व्यपोहन्त्वघमापदः ॥६८॥ वृद्धा वन्द्या भागवता भक्ताश्चैकान्तिनो हरेः ।
दैवज्ञा देवपुरुषा व्यपोहन्त्वघमापदः ॥६९॥ व्रतानि पुण्यकर्माणि सुकृतानि प्रसेवनम् ।
सेवा श्रद्धा भावना च व्यपोहन्त्वघमापदः ॥3.167.७० ॥ योगा ज्ञानानि सर्वाणि सत्यं वैराग्यमीशिता ।
उपासना हरेराज्ञा व्यपोहन्त्वघमापदः ॥७१ ॥ गृहदेवा ग्रामदेवाः क्षेत्रदेवाश्च सीमगाः ।
द्वारदेवा बहिर्देवा व्यपोहन्त्वघमापदः ॥७२॥ वास्तुदेवाः श्राद्धदेवा मखदेवा महोत्सवाः ।
तीर्थानि देववासाश्च व्यपोहन्त्वघमापदः ॥७३ ॥ देवालया मन्दिराणि मठाः कथास्थलानि च ।
मुक्तिक्षेत्राणि सर्वाणि व्यपोहन्त्वघमापदः ॥७४॥ मातरः पितरः श्रेष्ठा बान्धवाश्च सतीश्रियः ।
भक्ता बाला बालिकाश्च व्यपोहन्त्वघमापदः ॥७५॥ प्रायश्चित्तानि सर्वाणि दर्भाश्च देवहेतयः ।
हव्यकव्यानि दैवानि व्यपोहन्त्वघमापदः ॥७६॥ देवरथा देवयाना देवमार्गाश्च देवताः ।
आतिवाहिकदेवाश्च व्यपोहन्त्वघमापदः ॥७७॥ विद्युतश्च घना मेघा भूकम्पा ईतयस्तथा ।
बलिहाराश्च ये देवा व्यपोहन्त्वघमापदः ॥७८॥ निधयश्च दिशाश्चापि मनवश्च कलास्तथा ।
चतुर्दशभवनानि व्यपोहन्त्वघमापदः ॥७९॥ व्याहृतयः प्राणयमा याम्याश्च धर्मवंशजाः ।
धर्मदेवश्च तत्पत्न्यो व्यपोहन्त्वघमापदः ॥3.167.८०॥ कुण्डमण्डपदेवाश्च ध्वजशाखानिवासिनः ।
समित्पात्रादिदेवाश्च व्यपोहन्त्वघमापदः ॥८ १॥ सद्गुरोश्चरणौ लक्ष्मि चरणामृतवारि च ।
गुरुभुक्तप्रसादश्च व्यपोहन्त्वघमापदः ॥८२॥ सतीपतिपादवारि साधुचरणवारि च ।
विष्णुपादोदकं पुण्यं व्यपोहन्त्वघमापदः ॥८३॥ सतां समागमः सेवाऽऽश्रयश्चाऽऽज्ञावचांसि च ।
प्रसन्नताऽऽशीर्वादाश्च व्यपोहन्त्वघमापदः ॥८४॥ मातृतीर्थं पितृतीर्थं गुरुतीर्थं तथोत्तमम् ।
पतितीर्थं सतीतीर्थं व्यपोहन्त्वघमापदः ॥८५॥ गोतीर्थं चाऽवभृथतीर्थं पङ्क्तितीर्थं च दक्षिणम् ।
सन्यासतीर्थं मन्त्रश्च व्यपोहन्त्वघमापदः ॥८६॥ यज्ञोपवीतकं कण्ठी तौलसेयी समर्पणम् ।
आत्मनिवेदिताख्यं च व्यपोहन्त्वघमापदः ॥८७॥ योगित्वं साधुता नैष्ठिकता श्रोत्रियता तथा ।
ब्रह्मसत्ता भक्तता च पावयन्तु हि मां सदा ॥८८ ॥ पावनी कुङ्कुमवापी पावनः श्रीनरायणः ।
पावनीश्रीः पावयन्तु मां सदा शरणागतम् ॥८९॥ धर्मो विष्णुः श्रीश्च भक्तिः सेवा मां पावयन्त्विह ।
एषः समर्पितश्चाऽस्मि तं मां भक्तं पुनन्त्विह ॥3.167.९० ॥ एवं स्तुवन् नमेद् भूमौ लक्ष्मि पावनवृत्तिमान् ।
आपदस्तस्य नश्यन्ति निवर्तन्ते ह्यघानि च ॥९१॥ व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि ।
पत्रं पुष्पाद्यर्पयेश्च शुद्धो भवति तत्क्षणात् ॥९२॥ कन्यार्थी लभते कन्यां जयकामो जयं लभेत् ।
अर्थकामो लभेदर्थं पुत्रकामः सुतान् लभेत् ॥९३॥ विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् ।
सम्पदर्थी सम्पदश्च राज्यार्थी राज्यमाप्नुयात् ॥९४॥ स्वर्गार्थी स्वर्गमादद्यान्मोक्षार्थी मोक्षमाप्नुयात् ।
दुःखनाशाभिलाषी च दुःखनाशमवाप्नुयात् ॥९५॥ पत्यर्थिनी पतिं रम्यं धनार्थिनी धनं लभेत् ।
सुखार्थिनी सुखं चापि सौभाग्यं लभते तथा ॥९६॥ यशोऽर्थिनी यशश्चापि प्राधान्यं लभते तथा ।
यान् यानर्थयते कामान् सर्वानवाप्नुयात् स्तवी ॥९७॥ पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते ।
तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः ॥९८॥ नाऽमृत्युर्भवेत्तस्य न दंष्ट्राविषसङ्गमः ।
नाऽकालदुःखवाँश्चापि भवेद् व्यपोहनस्तवी ॥९९॥ सर्वतीर्थप्रपुण्यानि यज्ञपुण्यानि यानि च ।
दानव्रतानां पुण्यानि लभेद् व्यपोहनस्तवी ॥3.167.१० ०॥ गोघ्नः कृतघ्नो वीरहा ब्रह्महा बालहा तथा ।
शरणागतहा मित्रविश्वासघातकोऽपि च ॥१०१ ॥ मातृहा पितृहा नारीहा तथा पशुघातकः ।
व्यपोह्य सर्वपापानि शुद्धो भवति संस्तवी ॥१ ०२॥ भक्तिं कृत्वा सर्वपुण्यो याति मोक्षप्रदं ततः ।
अगतिकस्य गतिदं स्तोत्रं व्यपोहनं त्विदम् ॥१ ०३॥ लक्ष्मि स्तुत्वाऽनेन मां तु नमेत् प्रप्रार्थयेत्ततः ।
ध्यात्वा ब्रह्ममयो भूत्वा मुच्यते बन्धनादितः ॥१ ०४॥ एतदुच्चार्य भावेन स्तोतव्यं नावशिष्यते ।
तस्मादापत्प्रदे काले व्यपोहनं समुच्चरेत् ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वाऽऽपत्पापबन्धनादिनाशार्थकं व्यपोहनस्तवनमुक्तमिति सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७ ॥