१६४

श्रीनारायणीश्रीरुवाच-
कान्त! भगवता प्रोक्ता मनवो ये चतुर्दश ।
तेषु तवाऽवतारा ये तान् सकार्यान् वदस्व मे ॥१ ॥ श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि! तत्र दैत्यविनाशकान् ।
अवतारान् कथयामि सहेतून् धर्मरक्षकान् ॥२ ॥ स्वायम्भुवो मनुश्चाद्य इन्द्रश्च विश्वभुक् तदा ।
तथा दैत्यो बाष्कलिश्च तपस्तेपे स दारुणम् ॥३ ॥ अग्निध्रादीन्मनोः पुत्रान् दैत्यो वशे चकार ह ।
स मरीच्यत्र्यङ्गिरसपुलस्त्यपुलहक्रतून् ॥४ ॥ वसिष्ठं चेति सप्तर्षीनपि स्ववशगान् व्यधात् ।
जयानमितान् शुक्राँश्च यामान् देवान् वशे व्यधात् ॥५ ॥ अपि विष्णुर्नारदेन बोधितो दैत्यछित्तये ।
सुदर्शनं महाचक्रं प्रेरयद् रणमूर्धनि ॥६ ॥ चिच्छेद् मस्तकं दैत्यस्याऽथ देवानमोचयत् ।
अय विष्णुस्वरूपो मेऽवतारः प्रथमो रमे ॥७ ॥ अथ स्वारोचिषे मन्वन्तरे द्वितीयके पुनः ।
पुरुकृसरो दैत्यो वै त्विन्द्रं विपश्चितं सुरान् ॥८ ॥ अपीडयत्तथा चोर्जं स्तम्बं प्राणं च निश्चलम् ।
ऋषभं चार्ववीरं च दम्भोलिमप्यपीडयत् ॥९ ॥ सप्तर्षीन् तुषितान् पारावतान् देवानपीडयत् ।
मनुपुत्रान् चैकलं च विनतं विद्युतं रविम् ॥3.164.१० ॥ बृहद्गुणं च कर्णान्तं नभसे तानपीडयत् ।
जलमध्ये वसन्तं च मेघरूपेण वा क्वचित् ॥११ ॥ वर्तमानं विहन्तुं वै महेन्द्रप्रार्थ्धितोऽप्यहम् ।
श्वेतहस्तिस्वरूपं वै सपक्षं पर्वतप्रभम् ॥१२ ॥ चतुर्दन्तं द्विशुण्ढं च दधार सहसा वने ।
युद्ध्यमानं सशस्त्रं च दैत्यं रणे प्रसह्य च ॥१३ ॥ अहममारयं दन्तैः शुण्ढाभ्यां पादमर्दनैः ।
गजनारायणः सोऽहं भविताऽस्मि तदा क्षितौ ॥१४॥ प्रसिद्धः पूजितो लोकैर्मोक्षदो भुक्तिदोऽपि च ।
द्वितीयश्चाऽवतारो मे गजाख्यः कथितो रमे ॥१५ ॥ औत्तमे च मनौ तृतीयके प्रलम्बदानवः ।
महाबलो महेन्द्रं च स्वशान्तिनामकं तथा ॥१६ ॥ रथौजसं चोर्ध्वबाहुं शरणं त्वनघं मणिम् ।
शङ्कुं सुतपसं सप्तर्षींश्च दुःखाकरिष्यति ॥१७॥ वशवृत्तान् स्वधाम्नश्च शिवान् सत्यान् प्रतर्दनान् ।
देवांस्तान् योधयित्वा स स्ववशान् प्रणयिष्यति ॥१८ ॥ मनोः पुत्रान् परशुं च विनीतमाजमित्यपि ।
शुचिं सुकेतुं सुवलं देवावृधं सुमित्रकम् ॥१९ ॥ महोत्साहार्जितं ताँश्च युधे सर्वान् विजेष्यति ।
महाजलान्तरे गत्वा दानवो वासमेष्यति ॥3.164.२० ॥ तदाऽर्थितोऽहं मनुना भविष्यामि जलान्तरे ।
मत्स्यरूपो हि भगवान् मारयिष्यामि लम्बकम् ॥२ १ ॥ तृतीयश्चाऽवतारोऽयं मम मत्स्यस्वरूपधृक् ।
चतुर्थस्य मनोस्तामसाख्यस्य समये भुवि ॥२२॥ भीमरथोऽसुरो भैमरथासुरैः समेधितः ।
विजितये शिबिनामानमिन्द्रं तथा मनोः सुतान् ॥२३॥ जानुजङ्घं निर्भयं च नवख्यातिं नयं तथा ।
विविक्षिपं प्रियभृत्यं हविष्कन्धिं कृतं तथा ॥२४॥ कृतबन्घुं प्रस्तलाक्षं दश वशे चकार सः ।
ऋषीन् ज्योतिर्धामकं च धृष्टं काव्यं च हेमकम् ॥२५ ॥ अग्निं चेतं चैत्रकं च वशे चकार वै तदा ।
देवान् सुरागान् स्वधींश्च हरीन् हरितकान् वशे ॥२६ ॥ चकाराथ सुरैः सम्प्राथिन्तश्चाऽहं तदा रमे ।
भीमरथं समुद्रस्य तलस्थं तं महासुरम् ॥२७॥ हनिष्ये कूर्मरूपेण जलमध्ये महावपुः ।
चतुर्थश्चाऽवतारोऽयं मम कूर्मस्वरूपधृक् ॥२८ ॥ पञ्चमस्य रैवतस्य मनोस्तु समये क्षितौ ।
इन्द्रे तु विभुनामानं बबन्ध शान्तशत्रुकः ॥२९॥ दैत्यौ दैत्यगणैर्युक्तस्तथा मनोः सुतानपि ।
महाप्राणं साधकं च प्रत्यङ्गं नरमित्रकम् ॥3.164.३ ० ॥ शुचिं परघ्नं च वनबन्धुं दृढव्रतं तथा ।
केतुशृङ्गं विजिग्येऽसौ सप्तर्षींश्चाऽप्यपीडयत् ॥३१ ॥ देवश्रियं वेदबाहुमूर्ध्वबाहुं स्वधामकम् ।
हिरण्यरोमकं पर्जन्यकं च सत्यनामकम् ॥३२॥ एवं देवानभूतरजसोऽश्वमेधकाँस्तथा ।
वैकुण्ठानमृताँश्चाऽप्यपीडयद् बहुधाऽभितः ॥३३ ॥ ऋषिभिश्चाऽर्थितश्चाऽहं तदाऽरण्यनिवासवान् ।
हंसरूपधरो भूत्वा जघान शान्तशत्रुकम ॥३४॥ पञ्चमश्चाऽवतारोऽयं मम हंसस्वरूपधृक् ।
चाक्षुषस्य तु षष्ठस्य मनोस्तु समये ततः ॥३५॥ महाकालो महादैत्यो देवदुःखप्रदोऽभवत् ।
इन्द्रं मनोजवाख्यं स जित्वा मनोः सुतानपि ॥३६ ॥ उरुं पुरुं शतद्युम्नं तापसं सत्यबाहुकम् ।
कृतिमग्निष्णुमतिरात्रं च सुद्युम्नकं नरम् ॥३७ ॥ एतान् जित्वा तथा देवानार्यान् भाव्यान् प्रलेखकान् ।
पृथुकान् प्रसुताँश्चापि तथा जित्वा ऋषीनपि ॥३८ ॥ हविष्मन्तं च सुतनुं स्वधामानं च वैराजम् ।
अभिमानं सहिष्णुं च मधुश्रियं हि सप्त तान् ॥३९ ॥ जित्वा त्रैलोक्यराज्यं वै महाकालः करिष्यति ।
तदा लोकैः प्रार्थितोऽहं हयग्रीवस्वरूपधृक् ॥3.164.४० ॥ भूत्वा दैत्यं महाकालं नाशयिष्यामि पद्मजे ।
षष्ठोऽयमवतारो मे हयग्रीवस्वरूपवान् ॥४१ ॥ सप्तमे च मनौ वैवस्वते लक्ष्मि! महान् खलः ।
हिरण्याक्षो महादैत्यो जिगाय सर्वदेवताः ॥४२ ॥ मरुद्देवाँस्तथाऽऽदित्यान् वसून् साध्यान् गणाँस्तथा ।
विश्वेदेवानश्विनौ च रुद्रानाङ्गिरसान् सुरान् ॥४३ ॥ तथा तेजस्विनामानं चेन्द्रं जिगाय दैत्यराट् ।
ऋषींश्च पीडयामास भरद्वाजं च गौतमम् ॥४४॥ विश्वामित्रं कश्यपं च जमदग्निं वशिष्ठकम् ।
अत्रिं चेति तथा मनोः पुत्रान् वशे चकार ह ॥४५॥ इक्ष्वाकुं च लविष्यन्तं नेदिष्टं नामकं नभम् ।
पांशुं विष्टिं च सर्जातिं करूषकं पृषध्रकम् ॥४६ ॥ सुद्युम्नं चेति सर्वान् वैष्णवाँश्चक्रे निजानुगान ।
तदा तु भक्तया पृथ्व्या प्रार्थितोऽहं हरिः स्वयम् ॥४७ ॥ वाराहरूपवान् हिंसिष्यामि हिरण्यनेत्रकम् ।
सप्तमोऽयं चावतारो वाराहो भ्वादिरक्षकः ॥४८॥ अष्टमे च मनौ सावर्ण्याख्ये चेन्द्रो बलिर्नृपः ।
विरोचनसुतो दैत्यो महाभक्तो बभूव ह ॥४९॥ तद्वशे च तदा देवा अमृताभाः सुतापसाः ।
मुख्याश्चेति गणाः सर्वे वर्तन्ते स्म बलादिव ॥3.164.५०॥ अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानपि ।
ऋष्यशृङ्गः पर्शुरामः ऋषयस्तेऽपि तद्वशे ॥५१ ॥ सावर्णेस्तु सुता अर्ववीरो विजयः सत्यवाक् ।
कृतिर्निर्देहः सगतिर्वरिष्ठश्च गरिष्ठकः ॥५२॥ वाचश्चेति बलेः सर्वे वश्याश्च दुःखिनो यदा ।
तदाऽहं देवऋषिभिश्चाऽर्थितो वामनाकृतिः ॥५३॥ भूत्वा च याचको विप्रो ग्रहीष्ये शक्रधिष्ण्यकम् ।
बलिं मोक्षं प्रेषयिष्ये दिवं दास्यामि जिष्णवे ॥५४॥ अष्टमोऽयं मेऽवतारस्त्रिविक्रमो हि पद्मजे! ।
नवमे दक्षसावर्णौ मनौ तु कालकाक्षकः ॥५५ ॥ देवशत्रुर्वशे निन्ये चेन्द्रमद्भुतनामकम् ।
कार्तिकेयांऽशमिन्द्रं तं तथा मनोः सुतानिमान् ॥५६॥ धृष्टकेतुं दीप्तिकेतुं पद्महस्तं निराकृतिम् ।
पृथुश्रवसमृचिकं बृहद्द्युम्नं बृहद्गुणम् ॥५७॥ तथा निन्ये वशे सप्तर्षींश्च मेधातिथिं वसुम् ।
ज्योतिष्मन्तं सबलं च द्युतिं कव्यं च हव्यकम् ॥५८॥ तथा पारान् सुधर्माख्यान् मरीचिगर्भकान् सुरान् ।
तदाऽहमर्थितो देवैः पद्मनाभो भवामि च ॥५९॥ कालकाक्षं हनिष्यामि करिष्यामि सुखान् सुरान् ।
नवमोऽयं पद्मनाभोऽवतारो मे हि पद्मजे ॥3.164.६० ॥ दशमे ब्रह्मसावर्णौ बलिशत्रुर्महासुरः ।
शान्तिनामकमिन्द्रं च सप्तर्षीन् वशमानयत् ॥६ १ ॥ आपोमूर्तिं हविष्मन्तं सत्यं सुकृतिनं तथा ।
नाभागं चाऽप्रतिमं च वसिष्ठं चेति तानृषीन् ॥६२॥ मनोः पुत्रान् सुक्षेत्रं च भूमिसेनं जयद्रथम् ।
अनमित्रं वृषभं च शतानीकं सुपर्वकम् ॥६३ ॥ सुवीर्यमौत्तमौजस्कं वशे निन्ये महासुरः ।
सुखासीनान्निरुद्धाँश्च प्राणान् देवान् वशे व्यधात् ॥६४॥ देवैस्तदाऽर्थितश्चाऽहं हरिरूपधरः स्वयम् ।
गदया बलिशत्रुं तं घातयिष्यामि वै रमे ॥६५ ॥ दशमोऽयं हरिरूपोऽवतारो मम पद्मजे ।
एकादशे धर्मसावणौ मनो वृषमिन्द्रकम् ॥६६ ॥ दशग्रीवो महादैत्यो वशं चकार देवताः ।
विहङ्गमान् कामगमान्निर्माणरुचिकाँस्तथा ॥६७॥ एकैकरुचिकाँश्चापि देवानथ मनोः सुतान् ।
सर्वत्रगं सुशर्माणं देवानीकं पुरुं गुरुम् ॥६८॥ क्षेत्रवर्णं दृढेषुं चाऽऽर्द्रकं च पुत्रकं तथा ।
सप्तर्षींश्च वशे चक्रेऽग्नितेजसं हविष्यकम् ॥६९॥ विश्वं विष्णुं विस्तरं च हविष्मन्तं च वारुणम् ।
ऋषिभिः प्रार्थितश्चाऽहं श्रीरूपो मोहकारकः ॥3.164.७० ॥ भूत्वा मुग्धं हरन्तं मां हनिष्यामि महासुरम् ।
एकादशोऽवतारो मे श्रीनारीरूपवान् रमे ॥७१ ॥ द्वादशे रुद्रसावणौ ऋतधामानमिन्द्रकम् ।
तारकाख्योऽसुरश्रेष्ठो वशे चकार वै स्वयम् ॥७२॥ मनोः पुत्रान् देववन्तमुपदेवं विदूरथम् ।
देवश्रेष्ठं मित्रवन्तं मित्रदेवं सवीर्यकम् ॥७३ ॥ मित्रबिन्दुं मित्रवाहं प्रवाहं चेति वै तथा ।
देवान् स्वधर्मणश्चापि रोहितकान् हरितकान् ॥७४॥ सुरारीन् सुतपसश्च सप्तर्षीनित्यपीति च ।
तपस्विनं सुतपसं तपोमूर्तिं तपोरतिम् ॥७५ ॥ तपोधृतिं द्युतिं विद्युतिं चेति वै ततः सुराः ।
चक्रिरे प्रार्थनां मे च तारकस्य समाप्तये ॥७६॥ तारकोऽपि शङ्करस्य वरदानान्महाबलः ।
नरो वै चेतनं तत्त्वं नारी माया जडं तु तत् ॥७७॥ ताभ्यां मृत्युर्न मे स्याद्वै वरं लब्ध्वा निरामयः ।
जिगाय सर्वभूतानि राज्यं चक्रे त्रिलोकजम् ॥७८॥ ततोऽहं तस्य नाशाय नपुंसकत्वमाप्तवान् ।
तेन रूपेण कमले! नाशयिष्ये हि तारकम् ॥७९॥ नपुंसकहरिश्चायमवतारो नवीनकः ।
नपुंसकात्मिकी सृष्टिस्ततोऽभवन्मदुत्तरा ॥3.164.८ ० ॥ द्वादशश्चाऽवतारोऽयं मम लक्ष्मि! प्रकीर्तितः ।
नपुंसकहरिं ध्यात्वा भजित्वा मानवास्तदा ॥८ १ ॥ यास्यन्ति परमां मुक्तिं स्त्रीपुंलिङ्गविवर्जिताम् ।
त्रयोदशे देवसावर्णौ रौच्ये तु दिवस्पतिम् ॥८२॥ इन्द्रं वशे चकाराऽपि दैत्यष्टिट्टिभसञ्ज्ञकः ।
मनोः पुत्रान् चित्रसेनं तपोधर्मरतं धृतिम् ॥८३॥ विचित्रं घर्मपं क्षेत्रवृत्तिं दृढं सुनेत्रकम् ।
वशे चक्रे तथर्षींश्च सुनयं तत्त्वदर्शिनम् ॥८४॥ धृतिमन्तमव्ययं च निशारूपं निरुत्सुकम् ।
निर्माणं चेत्यथ देवान् स्वरोमकान् स्वधर्मकान् ॥८५॥ स्वकर्मकानमराँश्च वशे चक्रे तु टिट्टिभः ।
मेरुवासं टिट्टिभं तं नाशयितुं सुरादयः ॥८६ ॥ प्रार्थयन् मां मया दीर्घं रूपं मायूरकं धृतम् ।
मायूरकेण रूपेण घातयिष्यामि टिट्टिभम् ॥८७॥ त्रयोदशोऽवतारोऽयं मम लक्ष्मि प्रकीर्तितः ।
मायूरोऽहं महाराजः पूजां प्राप्स्ये तदा युगे ॥८८ ॥ चतुर्दशेन्द्रसावर्णौ भौत्ये शुचिर्महासुरः ।
इन्द्रो भूत्वा सार्वराज्यं प्रचकार त्रिलोकजम् ॥८९॥ मनोः पुत्रान् गभीरं च धृष्टमूरुं तरस्विनम् ।
अभिमानं गभीरं च ग्राहं जिष्णुं प्रवीरकम् ॥3.164.९० ॥ दुर्लभं सङ्क्रन्दनं च वशे तान् स चकार ह ।
सप्तर्षीनग्निबाहुं चाऽग्निध्रं शुचिं च मागधम् ॥९१ ॥ शुक्रमजितं मुक्तं च वशे चकारे स स्वयम् ।
चाक्षुषान् कर्मठाँश्चापि पवित्रान् भ्राजिनः सुरान् ॥९२॥ वाचावृथान् देवगणान् वशे चक्रे तथा स्वयम् ।
सायङ्काले हरिश्चाऽहं प्रार्थितो ब्रह्मणा यदा ॥९३ ॥ प्रलयाय विनाशायाऽसुरस्येन्द्रस्य वै तथा ।
सुदर्शनेन चक्रेण घातयिष्यामि शक्रकम् ॥९४॥ सुदर्शनहरिश्चायमवतारो ममाऽन्तिमः ।
कल्पान्ते कथितो लक्ष्मि मध्येऽन्ये बहवोऽपि च ॥९५॥ कार्यवशाद् भवन्त्येव मेऽवतारा असङ्ख्यकाः ।
यस्य हस्तेऽथवा पादतले मत्स्यो धनुर्ध्वजः ॥९६॥ शरः शूलं स्वस्तिको वा चक्रं पद्मं घटोऽपि वा ।
सोऽहं नारायणः साक्षादस्मि प्रच्छन्नरूपवान् ॥९७॥ वर्तामि साधुधर्माऽहं साधुकर्मा समस्तविद् ।
सैश्वर्यश्चाप्यनैश्वर्यो दिव्योऽप्यदिव्यवर्तनः ॥९८ ॥ सङ्गात् समागमाद् योगाद् दर्शनात् स्पर्शनादपि ।
सहवासात् स्मरणाद्वा सेवनान्मुक्तिदो ध्रुवम् ॥९९॥ भाग्यवन्तो देहिनो मां ज्ञात्वा प्रसाद्य सेवया ।
मोक्षमार्गे चार्जयन्ति ममाऽऽनन्दमलौकिकम् ॥3.164.१० ०॥ अभाम्यास्तु मनुष्यं मां मत्वा यान्ति विदूरतः ।
आसुरास्ते पापवन्तो महेर्ष्यवोऽपराधिनः ॥१० १॥ मुक्तिमार्गस्थिताश्चापि यास्यन्ति निरयान् बहून् ।
चिह्नैश्चापि च सार्वज्ञ्यैस्तथा दिव्यगुणादिभिः ॥१० २॥ मां विदित्वाऽऽश्रयिष्यन्ति ये ते यास्यन्ति मेऽक्षरम् ।
नरा नार्यश्च पशवः पक्षिणः शूद्रयोनयः ॥१० ३॥ अप्यधर्मपराश्चापि मद्योगात् पावना हि ते ।
कामः क्रोधस्तथा लोभो मानं मदश्च मत्सरः ॥१ ०४॥ दुर्गुणाः पुण्यपापे च निर्गुणा मम योगतः ।
येन केनापि भावेन युज्यन्ते ये मया सह ॥१ ०५॥ नित्ययुक्ता हि ते जाता वियुज्यन्ते न कर्हिचित् ।
मम योगो मोक्षदो वै सुरमानवरक्षसाम् ॥१०६॥ शूद्रपक्षिपशूनां च दैत्यदानवयोषिताम् ।
मया सङ्कल्पमात्रेण तार्यन्ते त्वण्डराशयः ॥१०७॥ मम मनाक् सुयोगेन पूयन्ते पापकर्मिणः ।
या क्रिया पापनाम्नो सा कृता मयि तु पावनी ॥१०८॥ स्वतन्त्रोऽहं ममाऽऽम्नाया उपदिशन्ति वै वृषान् ।
अयं वृषो भवत्वेवं धारयामि वृषो हि सः ॥१० ९॥ अवृषोऽपि वृषः स्यान्मे सङ्कल्पाद्वा वृषोऽवृषः ।
विचार्येत्थं प्रसेवन्ते मां मूर्तं परमेश्वरम् ॥3.164.११० ॥ तेषां मुक्तिः करे त्वास्तेऽमुत्राऽत्र सर्वकर्मसु ।
पठनाच्छ्रवणादस्याऽध्यायस्य मोक्षणं भवेत् ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चतुर्दश- मन्वन्तरेषु हरेश्चतुर्दशाऽवतारप्रयोजनादिनिरूपणनामा चतुःषष्टयधिक शततमोऽध्यायः ॥१६४ ॥