१६३

श्रीपुरुषोत्तम उवाच-
सूर्यदेवो बलस्याऽसृक्समिधं प्राप्य बीजकम् ।
ययावाकाशमार्गेण लङ्काधिपो रुरोध तम् ॥१ ॥ समुद्रे चापि रावणगङ्गायां बीजकानि वै ।
निपेतुस्तज्जरत्नानि जातानि दीप्तिमन्ति ह ॥२ ॥ उज्ज्वलाश्चारुरागास्ते पद्यरागा हि तोयजाः ।
सौगन्धिकोत्था गुणिनः कुरुविन्दोद्भवास्तथा ॥३ ॥ स्फाटिकजाः प्रभावन्तो बहुवर्णास्तथाऽपरे ।
जाता बन्धूकगुञ्जेन्द्रगोपजपाऽसृक्सन्निभाः ॥४ ॥ दाडिमकिंशुकपुष्पसिन्दूरोत्पलसन्निभाः ।
पद्मकुङ्कुमलाक्षाजरसवर्णाः प्रभायुताः ॥५ ॥ रागे सान्द्राः स्वप्रभया भान्ति ये स्फुटमध्यिनः ।
स्फाटिकजाः सूर्यभाभिः पार्श्वानि रञ्जयन्ति ते ॥६ ॥ कुसुम्भनीलमिश्राभा उग्ररक्ताम्बुजप्रभाः ।
अन्ये पुष्करपुष्पाभा हिङ्गुलवत्त्विषोऽपरे ॥७ ॥ चकोरपीकसारसनेत्रभाश्चापरेऽपि च ।
कोकनदोत्तमपुष्पत्विषश्चान्ये भवन्त्यपि ॥८ ॥ प्रभावकाठिन्यगुरुत्वकैः प्रायः समा इमे ।
स्फाटिकजाः पद्मरागाः नीलरक्तप्रभायुताः ॥९ ॥ एते सौगन्धिकोत्थास्तु मणयः प्रायशः समाः ।
एतेभ्यो रङ्गतो न्यूना मणयः कुरुविन्दजाः ॥3.163.१ ०॥ निरर्चिषोऽन्तर्बहुला नाऽतिप्रभावशालिनः ।
तत्सदृशा आन्ध्रदेशे तुम्बुरुदेशके तथा ॥११ ॥ सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते मताः ।
रङ्गाधिक्यं गुरुरेवं च स्निग्धता समताच्छता ॥१२ ॥ अर्चिष्मत्ता महत्ता च मणीनां श्रैष्ठ्यबोधकाः ।
ये तु कर्करसदृशाश्छिद्रमलादियोगिनः ॥१३ ॥ प्रभाहीनाः सपरुषा विवर्णास्ते न चोत्तमाः ।
सदोषं मणिमाबद्ध्य शोकचिन्ताऽऽमयाँस्तथा ॥१४॥ मृत्युं दुःखं वित्तनाशं लभते नात्र संशयः।
पद्मरागसमा विजातीया भवन्ति पञ्च च ॥१५॥ कलसपुरजाश्चापि तुम्बुरुदेशजास्तथा ।
मुक्तपाणीयजाताश्च सिंहलोत्थाः श्रीपूर्णका ॥१६॥ कलसोत्थास्तुषयोगा भवन्ति मणयो हि ते ।
ताम्रवर्णास्तुम्बुरुत्था कृष्णाः सिंहलदेशजाः ॥१७॥ मुक्ता नमःस्वभावाश्च श्रीपूर्णा दीप्तिवर्जिताः ।
तुषयोगे ताम्रवर्णा भवन्ति स्नेहिनोऽपि च ॥१८ ॥ ये प्रघृष्टा वर्जयन्ति दीप्तिं ते निम्नजातिकाः ।
अङ्गुल्याक्रान्तमूर्धा यो बिभर्ति पार्श्वकृष्णताम् ॥१ ९॥ अन्यस्य सन्निधिस्थस्य गुणान् यश्च बिभर्त्यपि ।
निकृष्टमूल्यवान् स स्यान्मुक्तामणिः समोऽपि वै ॥3.163.२० ॥ जाते कृत्रिमसन्देहे शाणे तं परिलेखयेत् ।
स्वजातकसमुत्थेन विलिखेच्च परस्परम् ॥२१ ॥ वज्रं वा कुरुविन्दं वा विमुच्याऽन्येन केनचित् ।
न शक्यं लेखनं कर्तुं पद्मरागेन्द्रनीलयोः ॥२॥ यत्र लेखः स निम्नो वै मणिर्नोत्तम उच्यते ।
यद्वा कृत्रिम एवापि रेखायुक्तो भवेद् यदि ॥२३ ॥ कृत्रिमो दोषवाँश्चापि धार्यो नैव मणिः क्वचित् ।
सत्येन मणिना साकं कौस्तुभेन समं च वा ॥२४॥ चण्डालस्त्वेक एवापि द्विजातीँस्तु बहूनपि ।
दूषयत्येव तद्वच्च दुष्टो हन्ति गुणानपि ॥२५॥ सत्यपद्मरागधर्ता सपत्नेषु वसन्नपि ।
नाऽऽपद्भिरभिभूयेत न विघ्नैरभिभूयते ॥२६॥ नोपद्रवैर्नोपसर्गैर्न दोषैरभिभूयते ।
वर्णदीप्तियुतं श्रेष्ठं तद्धीनं हीनमेव तत् ॥२७॥ श्रेष्ठं रत्नं सदा धार्यं न कनिष्ठं कदाचन ।
मूल्यहीनस्य धर्तारं मूल्यहीनं करोति तत् ॥२८ ॥ अथ ब्रह्मप्रिया! वोऽत्र मरकतान् वदामि तु ।
बलपित्तसमिद्बीजं गृह्णन् वासुकिरम्बरे ॥२९॥ प्रदुद्राव यदा तत्र गरुडस्तमरोधयत् ।
बीजानि न्यपतँश्चापि माणिक्यपर्वतस्थले ॥3.163.३ ० ॥ तुरुष्कपादपेष्वेवं नलिकावनवल्लिषु ।
श्वेतसागरतीरे च मरकतास्ततोऽभवन् ॥३ ४१ ॥ गरुडस्य चञ्चुरन्ध्राद् बीजानि पतितान्यपि ।
तेभ्यो जाताः शुककण्ठशिरीषपुष्परङ्गिणः ॥३२॥ खद्योतपृष्ठसदृशाः शैवलशाद्बलप्रभाः ।
कल्हारशष्पतुल्याश्च भुजङ्गभुजसतप्रभाः ॥३ ३॥ पत्ररङ्गास्तथा पित्तजातास्ते मणयो मताः ।
भुजङ्गभोगबीजोत्थैर्विषं सर्व प्रशाम्यति ॥३४॥ सर्वौषधिमन्त्रगणैर्यन्न शक्यं चिकित्सितुम् ।
महाऽहिदंष्ट्राप्रभवं विषं त्वेतैः प्रशाम्यति ॥३५ ॥ अत्यन्तं तु हरिद्वर्णं कोमलं सप्रभं तथा ।
काञ्चनचूर्णमध्याभं रत्नं तदुत्तमं मतम् ॥३६॥ सर्वसंस्थानगुणवत् समानरूपवत्तथा ।
गुरु सूर्यकरस्पर्शात् प्रदीपयति चाश्रमम् ॥३७॥ विदुत्प्रभाया योगाद् यच्चान्तर्दीप्तियुतं भवेत् ।
भवेच्च शाद्वलनिभं हरितं श्रेष्ठमेव तत् ॥३८॥ वर्णा यत्र तु बहुला मध्ये स्वच्छकराश्रयम् ।
साभ्रं स्निग्धं विशुद्धं च बर्हिप्रभं समन्ततः ॥३ ९॥ तन्न्यूनं पूर्वतो बोध्यं किञ्चिच्छ्रेष्ठं हिं गण्यते ।
शबलं रूक्षं मलिनं कठोरं कर्करं यथा ॥3.163.४० ॥ मिश्रं शिलोत्थजतुना मरकतं न तूत्तमम् ।
मारकतैः कणैः क्लृप्तं सन्धितं वा तथाविधम् ॥४१ ॥ श्रेयस्कामैर्न तद्धार्यं जेतव्यं तन्न वै क्वचित् ।
भल्लातकस्य पवनैर्वैषम्यं यान्ति यत्प्रभाः ॥४२॥ कृत्रिमास्ते मरकता नैव धार्याः कदाचन ।
वज्रतुल्यास्तथा मुक्तास्तुल्या मरकता अपि ॥४३ ॥ येषां प्रभा चोर्ध्वगा वै ऋज्वी वा वक्रगामिनी ।
तिर्यगालोच्यमानानां सद्यो वा सा प्रणश्यति ॥४४॥ एते विजातयो बोध्या मरकताः शुभावहाः ।
स्नानाऽऽचमनजप्येषु रक्षामन्त्रक्रियाविधौ ॥४५॥ गोहिरण्यादिदानेषु साधनेऽनुष्ठितेऽपि च ।
दैवपैत्र्यातिथेयेषु गुरुसम्पूजनेषु च ॥४६॥ बाध्यमानेषु विविधैर्दोषजातैर्विषोद्भवैः ।
दोषहीनं गुणवच्च काञ्चनप्रतियोजितम् ॥४७॥ सङ्ग्रामे जयकार्ये च धार्यं मरकतं सदा ।
पद्मरागाधिकं मूल्यं मारकतं प्रकीर्तितम् ॥४८॥ दोषाधिक्ये मूल्यहानिर्मारकतेऽपि जायते ।
एवं मारकताः प्रोक्ता नीलमणीन् वदामि वः ॥४९॥ नेत्रयुग्मसमिद्बीजं बलस्य यत्पपात ह ।
सिंहले कच्छदेशे च सा भूमिर्बहुषाऽभितः ॥3.163.५० ॥ इन्द्रनीलवती जाता नीलास्ते नैकजातयः ।
नीलाब्जभृङ्गशार्ङ्गाभा हरकण्ठसमा अपि ॥५ १ ॥ गिरिशृङ्गनिभा वार्धिजलाभाः शिखिरङ्गिणः ।
नीलीरङ्गा पीककण्ठसमाभास्ते महागुणाः ॥५२॥ मृत्पाषाणशिलारन्ध्राः कर्करास्त्रुटिसंयुताः ।
अभ्रिकापटलच्छाया वर्णदुष्टा भवन्त्यपि ॥५३॥ पद्मरागगुणान् सर्वानाप्नोति चेन्द्रनीलधृक् ।
पद्मरागे परीक्षा या सैवेन्द्रनीलवेऽपि च ॥५४॥ वह्नौ क्षिप्तः पद्मरागो वह्निं क्रमेत यावता ।
ततोऽधिकश्चेन्द्रनीलः क्षिप्तः क्रमेत चानले ॥५९॥ परीक्षा सैव बोद्धव्या यथार्थस्य मणेः शुभा ।
तथापि न परीक्षार्थं गुणानां नाशकारके ॥५६ ॥ वह्नौ मणिर्निधातव्यो यतो दुष्टो भवेद्धि सः ।
सोऽनर्थाय भवेद् भर्तुः कर्तुः कारयितुस्तथा ॥५७॥ काचोत्पलकरवीरवैदूर्यस्फटिकादयः ।
इन्द्रनीलसमास्त्वेते मणयोऽपि भवन्ति हि ॥५८॥ काठिन्यगुरुताऽऽधिक्ये श्रैष्ठ्यमेषां प्रजायते ।
इन्द्रनीलस्ताम्रवर्णः करवीरोत्पलप्रभः ॥५५॥ यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा ।
तमिन्द्रनीलमित्याहुर्महार्हं बहुदुर्लभम् ॥3.163.६०॥ यस्य वर्णस्य भूयस्त्वात् श्रीरे शतगुणे स्थितः ।
नीलतां तन्नयेत् सर्वं महानीलः स उच्यते ॥६१ ॥ पद्मरागस्य यन्मूल्यं माषमात्रस्य धार्यते ।
तन्मूल्यं चेन्द्रनीलस्य धार्यते गुणभामतः ॥६२॥ अथ लक्ष्म्यः! प्रवक्ष्यामि वैदूर्यस्योद्भवादिकम् ।
बलासुरस्य नादात्मसमिद्बीजोद्भवा हि ते ॥६३॥ अनेकवर्णा शोभाभिरामकान्तियुताः खलु ।
विदूरे पर्वते कामरूपकामाक्षिकीक्षितौ ॥६४॥ वैदूर्यास्ते मणयश्च प्रावृड्घनावभासिनः ।
विस्फुल्लिङ्गसमा जातास्तेजस्विनोऽपि वै शुभाः ॥६९॥ श्रेष्ठा मयूरकण्ठाभा वेणुदलनिभास्तथा ।
चापपक्षनिभास्तेऽपि प्रशस्ता वरभाग्यदाः ॥६६॥ गिरिकाचाः शिशुपालाः काचाश्च स्फटिकास्तथा ।
धूम्राश्चेति च वैदूर्यजातयोऽपि समा यथा ॥६७॥ लिख्याभावात् काचसञ्ज्ञः शिशुपालो लघुत्वतः ।
गिरिकाचस्त्वदीप्तित्वात् स्फटिकश्चोज्ज्वलत्वतः ॥६८॥ पलद्वयगुरोर्मूल्यमिन्द्रनीलसमं मतम् ।
नामाभागुणभेदैर्हि भेदो मूल्ये प्रजायते ॥६९॥ स्नेहलघुतामृदुता भेदे लिङ्गानि सर्वदा ।
मणिबन्धे धृता लाभप्रदाश्चेन्मूल्यषड्गुणाः ॥3.163.७०॥ एतन्मूल्यं त्वाकरेषु भूदेशे बहुलं भवेत् ।
सुवर्णः षोडशमाषस्तत्सप्तांशस्तु सञ्ज्ञकः ॥७१ ॥ शाणश्चतुर्माषमाणो माषकः पञ्चकृष्णलः ।
पलस्य दशमो भागो धरणः परिकीर्तितः ॥७२॥ धरणेऽधिकतां प्राप्ते मूल्यमधिकं गौरवात् ।
अथ लक्ष्म्यः पुष्परागान्मणीन् वदामि बोधतः ॥७३॥ बलासुरस्य त्वक्समिद्बीजानि हिमपर्वते ।
पतितानि ततो जाताः पुष्परागा महागुणाः ॥७४॥ आपीतपाण्डराः पद्मरागाः पाषाणजातयः ।
आपीतलोहितास्ते तु कौरुण्डकाभिधानकाः ॥७९॥ स्वच्छलोहितपीतास्तु काषायकाभिधानकाः ।
आनीलशुक्लस्निग्धास्ते सोमानकाभिधानकाः ॥७६॥ अत्यन्तलोहितास्ते ये पद्मरागा हि ते मताः ।
सुनीलास्ते पुष्परागा इन्द्रनीलाभिधानकाः ॥७७॥ मूल्य वैदूर्यसदृशं धारणाद् योषितां सदा ।
पुत्ररूपं फलं शुद्धः प्रयच्छति न संशयः ॥७८॥ अथ लक्ष्म्यः प्रवक्ष्यामि कर्केतनान् मणीनिह ।
वायुर्बलस्य तु नखसमिद्बीजमुपागमत् ॥७९॥ पद्मवनेषु चिक्षेप कर्केतनास्ततोऽभवन् ।
मधुसोमरुधिराभास्ताम्रपीतानलोपमाः ॥3.163.८० ॥ नीलश्वेतपरुषाश्च व्याध्यादिदोषहारकाः ।
स्निग्धाः शुद्धाः समवर्णाः पीताश्चित्रा गुरुत्विनः ॥८ १॥ रेखाव्रणदोषहीनाः कर्केतनास्ते पावनाः ।
स्वर्णपत्रेण वेष्टयित्वा तापयेदनलेन च ॥८२॥ प्रकाशमेति चेत् कर्केतनः स रोगनाशकृत् ।
क्लेशनाशकश्चाप्यायुष्प्रदश्च सुखवंशदः ॥८३॥ अलङ्कृतौ धृतश्चाऽयं धन धान्यं ददाति च ।
पूजां च बान्धवाँश्चापि ददात्युज्ज्वलतामपि ॥८४॥ एके नीलाश्च विकृता म्लानाः कलुषिणस्तथा ।
तेजोदीप्तिहीनवर्णा भवन्ति कर्कसदृशाः ॥८५॥ अगुणास्ते दुःखदा वै न धार्या हि कदाचन ।
सूर्यकिरणमासाद्य तेजः परिधियोगिनः ॥८६॥ जायन्ते ये तेऽग्रमूल्याः कर्केतना भवन्ति वै ।
अथ ब्रह्मप्रिया! वोऽत्र भीष्मरत्नानि वच्म्यहम् ॥८७॥ बलासुरस्य वै वीर्यसमिद्बीजं हिमालये ।
तदुत्तरे प्रदेशे चाऽपतद् भीष्माणि वै ततः ॥८८।
शङ्खाऽब्जाभानि भावन्ति स्योनाकसन्निभानि च ।
जातानि कण्ठधृत्या तु सम्पत्प्रदानि तानि वै ॥८९।
भीष्ममणिधरं दृष्ट्वा पलायन्ते तु दूरतः ।
वृका द्वीपिनः शरभा व्याघ्रशार्दूलकुञ्जराः ॥3.163.९०।
भीष्ममणिश्चाऽङ्गुलीयो गुणयुक्तो धृतो यदि ।
पितृतर्पणकार्ये च बहुतृप्तिप्रदो हि सः ॥९१ ॥ सर्पाऽण्डजाऽऽखुवृश्चिकविषाणि यान्ति शं तथा ।
जलाग्निचौरवैरिभीर्नश्यत्येवाऽस्य धारणात्॥९२॥ मेघशैवलरङ्गं च परुषं पीतमप्रभम् ।
विवर्णं मलिनं दूराद् वर्जयेद्धानिदो यतः ॥९३ ॥ मूल्यं यथागुणं कल्प्यं देशकालादिशोभनम् ।
अथ वै पुलकान् वच्मि मणीन् ब्रह्मप्रिया! हि वः ॥९४॥ बलासुरस्य नखरसमिद्बीजं भुजङ्गमाः ।
चिक्षिपुः पर्वतेषूर्ध्वं निम्नगात्वपि चोत्तरे ॥९५६॥ देशे ततो हि मणयः पुलकास्तु विजज्ञिरे ।
दाशार्णे वागदे मेलकके कालगकेऽपि च ॥९६ ॥ गुञ्जाऽञ्जनक्षौद्रवर्णा मृणालाभास्तथाऽभवन् ।
गन्धर्पवह्निकदलीभासाः श्रेष्ठास्तथाऽभवन् ॥१७॥ शङ्खाऽब्जभृङ्गार्कतुल्यचित्रभङ्गा अरेखकाः ।
मङ्गलास्ते वृद्धिदा वै पुलकाः परिकीर्तिताः ॥१८ ॥ काकश्वरासभजम्बूकवृकोग्रस्वरूपिणः ।
समांसगृध्रमुखभा मृत्युदास्ते धृता यदि ॥१९॥ मूल्यमेषां पलभारे शतानि पञ्च मुद्रिकाः ।
अथ लक्ष्म्यो! रुधिराख्यं रत्नं वः कथयाम्यहम् ॥3.163.१०० ॥ बलासुरस्य रूपाख्यसमिद्बीजं हुताशनः ।
निन्ये चिक्षेप रेवायां निम्नक्षितावपि ध्रुवम् ॥१०१ ॥ इन्द्रगोपनिभाश्चापि शुकचञ्चुनिभास्तथा ।
पुष्टा रुधिरवर्णास्ते रुधिराश्चाऽभवन् हि ते ॥१०२ ॥ मध्ये चन्द्रपाण्डुरास्ते शुद्धवर्णास्तुलाभिनः ।
इन्द्रनीलसमाश्चापि भृत्यैश्वर्यप्रदा हि ते ॥१०३ ॥ पक्वास्ते सुरवज्राख्या लाभदा सम्पदां प्रदाः ।
अथ लक्ष्म्यः स्फटिकाख्यान मणीन् वच्मि शुभावहान् ॥१ ०४॥ कावेरीविन्ध्ययवनचीननेपालभूमिषु ।
बलासुरस्य मेदाख्यसमिद्बीजं तु लाङ्गली ॥१ ०५॥ चिक्षेपाऽऽकाशमार्गेऽपि तैलं तत् स्फटिकं ह्यभूत् ।
मृणालशङ्खधवलाः किञ्चिद्वर्णान्तरान्विताः ॥१० ६॥ पापनाशकरा योग्यगुणमूल्या हि तेऽभवन् ।
अथ शेषो बलाऽऽन्त्रान् वै समिद्बीजस्वरूपिणः ॥१ ०७॥ केरलादौ प्रचिक्षेप विद्रुमास्ते ततोऽभवन् ।
शशलोहितवर्णाश्च गुञ्जाजपानिभा अपि ॥१०८ ॥ सुनीला देवकरोमा जाता भिन्ना हि ते तथा ।
प्रसन्नं कोमलं स्निग्धं सुराङ्गं विद्रुमं हितम् ॥१ ०९॥ धनधान्यङ्करं लोके विषार्तिभयनाशनम् ।
एवं जातानि रत्नानि जायन्ते बीजवंशतः ॥3.163.११० ॥ खनिजाश्च प्रजायन्ते वाह्नेया मणयोऽपि च ।
ब्रह्मप्रियाः समस्ता वो मणयः कथिता मया ॥१११ ॥ बलस्य मम भक्तस्य निर्मित्तेन समुद्भवाः ।
धारणाद्वाचनाच्चापि मम स्मरणकारकाः ॥११ २॥ बलस्ततो विमानेन ययौ धाम ममैव सः ।
जयाद्याश्च भवत्योऽत्र वर्तन्ते योषितो मम ॥११ ३ ॥