श्रीनारायणीश्रीरुवाच-
परमेश कृपासिन्धोऽवतारी त्वं स्वयं हरिः ।
जातोऽसि जगतामुद्धारार्थं जानामि सर्वथा ॥१ ॥
तव योगं न ये प्राप्तास्तादृशा भाग्यवर्जिताः ।
तेषां पञ्चमहापापपापिनामुद्धृतिः कथम् ॥२ ॥
ब्रह्महत्या सुरापानं स्वर्णस्तेयं सतीरतिः ।
तत्प्रसङ्गी कथं कृष्णोद्धरेयुस्ते वदाऽत्र मे ॥३ ॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि प्रवदामि तेषामुद्धारसाधनम् ।
कृपा मे पापिपापानां प्रज्वालिकेति निश्चितम् ॥४ ॥
मया वै कृपया लोके तीर्थानि सुकृतानि हि ।
सजीवानि तथा निर्जीवानि चमत्कराणि ह ॥५ ॥
यत्स्पर्शाद् दर्शनाच्चापि पापानि प्रज्वलन्ति वै ।
अश्वपट्टसरस्तीर्थं सर्वपापप्रणाशनम् ॥६ ॥
नार्मदं शुक्लतीर्थं वै भगुक्षेत्रं तथा परम् ।
ओङ्कारं च महत् तीर्थं सर्वपापप्रणाशनम् ॥७ ॥
सोमनाथं द्वारिका च गोमती स्वर्णलेखिका ।
नारायणह्रदस्तीर्थं सर्वपापप्रणाशकम् ॥८ ॥
भद्रावती साभ्रमती गोदावरी सरस्वती ।
कावेरी ताम्रपर्णी च गङ्गा च यमुना तथा ॥९ ॥
गोकर्णं माधुरं क्षेत्रं कपालमोचनं तथा ।
हरिद्वारं विशाला च कौरवं पुष्करं तथा ॥3.151.१० ॥
सम्भलं ब्रह्मपुत्रा च गण्डकी काञ्चनी सरित् ।
गागरा सिन्धुरेवापि तथा पम्पासरोवरम् ॥११ ॥
सेतुबन्धो जगन्नाथः कापिलं तीर्थमुत्तमम् ।
मानसाख्यसरश्चापि सर्वपापप्रणाशनम् ॥१२ ॥
केदारं च पतत्कायं चेरावती महानदी ।
मेनकाङ्गी च शिक्षाङ्गी बालकृष्णसरोवरम् ॥१३ ॥
कृष्णानदी च कौबेरं सरो मन्नामिकानदी ।
चाङ्गशिक्षाङ्गिका शालवीना त्र्यङ्गिसरोवरम् ॥१४ ॥
नारायणसरश्चापि श्रीस्तनाख्यसरोवरम् ।
द्विकलाख्यसरश्चापि लीना यानाक्षिणी नदी ॥१५ ॥
ओबी चोरलकाखातो यूरला नीपरा नदी ।
नारायणी महादीर्घा सर्वपातकनाशिनी ॥१६ ॥
वोल्गा शावनरी चापि अहमम्बरिका नदी ।
द्वीनदी रानना चापि प्रलयायसरोवरम् ॥१ ७॥
नायझरानदी श्रेष्ठा तथा चण्डसरोवरम् ।
कङ्गूनदी चामझाना परीमा च सरित्तथा ॥१ ८॥
सुपारवर्यकसरो मेकाञ्झी च महानदी ।
विनिपादसरश्चापि सुलवाख्यसरोवरम् ॥१९ ॥
एवमादीनि तीर्थानि मया कृतानि पद्मजे ।
महापापादिपापानां नाशनाय भुवस्तले ॥3.151.२० ॥
सर्वखण्डेषु देशेषु कृपयोद्धरणाय वै ।
तत्र स्नाता जना यान्ति शुद्धिं मुक्तिं परां मम ॥२१ ॥
यत्र यत्राऽवतारा मे यत्राऽवतारभूमयः ।
तत्र तीर्थकृतो लोका मुच्यन्ते सर्वपातकैः ॥२२॥
यत्र मूर्तेः प्रतिष्ठा मे यत्र यज्ञा भवन्ति च ।
स्नानं चाऽवभथं यत्र मुच्यन्ते तत्र पातकैः ॥२३ ॥
यत्र देवा विचरन्ति सन्तश्च पङ्क्तिपावनाः ।
सत्यो यत्र निवसन्ति मुच्यन्ते तत्र पातकैः ॥२४॥
ब्रह्मचारिजना यत्र यतयो यत्र सन्ति च ।
साधवो ब्रह्मशीलाश्च मुच्यन्ते तत्र पातकैः ॥२५॥
ब्रह्मप्रसादो यत्राऽऽस्ते यत्र वै ब्रह्मभोजनम् ।
वैश्वदेवा भुञ्जते च मुच्यन्ते तत्र पातकैः ॥२६॥
पितृतीर्थं परं तीर्थं मातृतीर्थं ततोऽधिकम् ।
गुरुतीर्थं ततः श्रेष्ठं मुच्यन्ते तत्र पातकैः ॥२७॥
पतिव्रता परं तीर्थं तीर्थं पत्नीव्रतः पतिः ।
गुरुसेवि शिष्यतीर्थं मुच्यन्ते तत्र पातकैः ॥२८ ॥
विदेहाः साधवो यत्र ब्रह्मनिष्ठाश्च देहिनः ।
कीर्तनं मन्दिरं यत्र मुच्यन्ते तत्र पातकैः ॥२९॥
तपो ध्यानं जपो होमः स्वाध्यायो यत्र सन्ति च ।
गावो यत्र प्रपूज्यन्ते मुच्यन्ते सर्वपातकैः ॥3.151.३० ॥
ब्राह्मणार्थे गवार्थे वा साध्वर्थेऽसून् परित्यजेत् ।
देवार्थे चापि पित्रर्थे मात्रर्थेऽसून् परित्यजेत् ॥३ १ ॥
स्वाम्यर्थे चापि पत्यर्थे सत्यर्थेऽसून् परित्यजेत् ।
धर्मार्थे चापि यज्ञार्थे मोक्षार्थेऽसून् परित्यजेत् ॥३२॥
तदा सर्वाणि पापानि नश्यन्त्येव न संशयः ।
कुर्यादनशनं वापि भृगोः पतनमित्यपि ॥३३॥
ज्वलन्तं वा विशेदग्निं जलं तीर्थे विशेच्च वा ।
तदा सर्वाणि पापानि विनश्यन्ति न संशयः ॥३४॥
दत्वा चाऽन्नं तु विदुषे यश्चाऽऽजीवनमेव ह ।
तस्य पापानि नश्यन्ति ब्रह्महत्या व्यपोहति ॥३५॥
यज्ञानामवभृथके स्नात्वा मुच्येत पातकैः ।
सर्वस्वं विदुषे दद्यात् साधवे हरिमूर्तये ॥३६॥
तस्य पापानि नश्यन्ति दानात् सतां प्रसेवनात् ।
त्रिवेण्यां स्नानमात्रेण नश्यन्त्यघानि सर्वशः ॥३७॥
सदा त्रिषवणः स्नाति नमति सर्वदेवताः ।
एकभुक्तो वर्ततेऽस्य नश्यन्त्यघानि सर्वशः ॥३८॥
हरेः पादोदके स्नात्वा मुच्यते ब्रह्महत्यया ।
पञ्चगव्यं वर्षमात्रं पीत्वा मुच्येत मद्यपः ॥३९॥
स्वर्णस्तेयी मुशलेन हतो नृपैः प्रमुच्यते ।
अगम्यागमनः कुर्याच्चान्द्रायणानि पञ्चषाः ॥3.151.४०॥
पतितेषु प्रसङ्गी च कुर्याद् व्रतानि तानि वै ।
तप्तकृच्छ्रं चरेद्वा तु संवत्सरमतन्द्रितः ॥४१ ॥
सर्वस्वदानं वा दद्यात् सर्वपापप्रशोधकम् ।
पुण्यक्षेत्रे गयादौ च गमनं पापनाशकम् ॥४२॥
अमावास्यातिथिं प्राप्य पूजयेद् यो हरिं तु माम् ।
साधून् विप्रान् भोजयित्वा मुच्यते सर्वपातकैः ॥४३॥
उपोषितश्चतुर्दश्यां कृष्णपक्षे तु शार्ङ्गिणे ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥४४॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
प्रत्येकं तिलसंयुक्तान् दद्यादष्ट जलाञ्जलीन् ॥४५॥
पूजयेद्धर्मदेवं च सर्वपापैः प्रमुच्यते ।
ब्रह्मचर्यमधःशय्यामुपवासं सतोऽर्चनम् ॥४६॥
प्रकुर्वीत स्मरेत् कृष्णं मुच्यते सर्वपातकैः ।
षष्ठ्यामुपोषितः शुक्ले सप्तम्यां सूर्यमर्चयेत् ॥४७॥
सतः सम्भोजयेच्चापि मुच्यते सर्वपातकैः ।
एकादश्यां निराहारः समभ्यर्च्य हरिं तु माम् ॥४८॥
द्वादश्यां भोजयेत् साधून्मुच्यते सर्वपातकैः ।
नित्यं जपेत्तीर्थसेवां देवसाधुप्रपूजनम् ॥४९॥
कुर्याद्वै श्रद्धया नित्यं मुच्यते सर्वपातकैः ।
ग्रहणादौ ग्रहणान्ते दद्याद् दानानि चापि यः ॥3.151.५ ०॥
हीरकरत्नधान्यानां द्रव्याणां च भुवामपि ।
गृहाणां भोजनानां च मुच्यते सर्वपातकैः ॥५१ ॥
यो महापापयुक्तोऽपि पुण्यतीर्थेषु भावितः ।
नियमेन त्यजेत् प्राणान्मुच्यते सर्वपातकैः ॥५२॥
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।
भर्तारं चोद्धरेन्नारी पतिव्रता सती शुभा ॥५३ ॥
पतिव्रता तु या नारी भर्तुः शुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च ॥५४॥
परब्रह्मपरः साधुः साध्वी लक्ष्मीपरायणा ।
शिष्यो गुरुब्रह्मसेवी मुच्यते सर्वपातकैः ॥५५॥
फल्गुतीर्थादिषु स्नातः सर्वपुण्यफलं लभेत् ।
ममाऽऽज्ञायां तु यः स्नातो महापापान् समुद्धरेत् ॥५६॥
सर्वस्वं साधवे दद्याद् दद्याच्छ्रीहरये तु मे ।
दद्याल्लक्ष्म्यै महालक्ष्म्यै मुच्यते सर्वपातकैः ॥५७॥
सम्पदो निधिरूपाश्च दद्याद् देवाय विष्णवे ।
यज्ञार्थं चापि दद्याच्च मुच्यते सर्वपातकैः ॥५८॥
ब्रह्मगृहाद् बहिर्नैव गन्तव्यं यस्य वै क्वचित् ।
यदृच्छालाभसन्तोषी स्पृश्यते नहि पातकैः ॥५९॥
स्वयं दुःखानि संवाह्य परान् सुखान् करोति यः ।
सर्वाशीर्वादपात्रं स स्पृश्यते पातकैर्न वै ॥3.151.६०॥
विघसाशी भवेद् यस्तु गुरुप्रसादभोजकः ।
भिक्षाभोजनसन्तुष्टः पातकं नाऽस्य विद्यते ॥६ १ ॥
साधुवृत्तिस्तथा चैवायाऽचितवृत्तिको भवेत् ।
यदृच्छालाभसन्तुष्टः स्पृश्यते नैव पातकैः ॥६२॥
सदा कृष्णकथामग्नो ब्रह्मज्ञानप्रदो जनः ।
सत्सङ्गबोधमिष्टान्नो मुच्यते सर्वपातकैः ॥६३॥
ब्रह्मात्मा ब्रह्मवित्सेवी ब्रह्मिष्ठसेवितस्तथा ।
आत्मविवेकवान् यः स स्पृश्यते नैव पातकैः ॥६४॥
यथाऽपेक्षाग्रहश्चापि यथात्यागविडम्बनः ।
यथाध्यानरतश्चापि स्पृश्यते नैव पातकैः ॥६५॥
इष्टानिष्टे तृषाशून्यो लाभालाभे क्षुधाक्षयः ।
ग्राह्याग्राह्ये क्रियाशून्यः स्पृश्यते नहि पातकैः ॥६६ ॥
दीनो वा निर्धनो वापि धनाढ्यो नृपतिश्च वा ।
यथाशक्ति प्रसेवेत सतः पापैः प्रमुच्यते ॥६७॥
नवनिधीन् प्रदद्याद्वै यज्ञे पापैः प्रमुच्यते ।
पद्मं चापि महापद्मं मकरं कच्छपं दिशेत् ॥६८॥
मुकुन्दं चापि नन्दं च नीलं शङ्खं तथाऽर्पयेत् ।
महाशङ्खं प्रदद्याच्च मुच्यते सर्वबन्धनात् ॥६९॥
न सङ्ख्यया निधिर्बोध्यः किन्तु दानेन कर्मणा ।
दीनोऽपि दत्वा देवाय पद्मानिधिपतिर्मन्तः ॥3.151.७० ॥
महाशङ्खधनी वाप्यदाता कदर्य उच्यते ।
शृणु लक्ष्मि कथयामि दातारं तु निधीश्वरम् ॥७१ ॥
स्वल्पवित्तोऽपि यो दद्यात् प्रयत्नेन निजं धनम् ।
देवार्थे च मखार्थे च सत्यर्थे यतये सते ॥७२॥
विष्णुभक्ताय पुण्यार्थे ब्रह्मनिष्ठाय साधवे ।
तद् द्रव्यं पद्मसञ्ज्ञं वै पद्मनिधिपतिर्हि सः ॥७३॥
स्वल्पं वा बहुलं द्रव्यं सर्वस्वं वै निजं धनम् ।
यात्रानिर्वाहमात्रं तु विहाय यः समर्पयेत्॥७४॥
देवादिभ्यो धनं तस्य महापद्मनिधिर्मतम् ।
सात्त्विकं तद्धनं प्रोक्तं दाताऽपि सात्त्विको हि सः ॥७५॥
असङ्ख्यं परलोकेऽस्य धनं लक्ष्मीः करोति वै ।
मद्भक्तार्थं प्रसन्नात्वं सर्वं तस्मै ददासि हि ॥७६॥
तस्माद् वै देवभक्तानां निर्लोभानाममू निधी ।
अक्षयौ दिव्यनामानौ पद्माकृपाप्रपूरितौ ॥७७॥
शृणु वै मकरं वच्मि द्रव्यं क्लेशैरुपार्जितम् ।
स्वयं स्वार्थपरो भुङ्क्ते दाने ददाति नैव हि ॥७८॥
दद्याद् विवृद्धये वर्षे कुसीदार्थं प्रलोभवान् ।
नवां नवां च मैत्रीं वै कृत्वा जीर्णां विहाय तु ॥७९॥
एवं द्रव्यस्य नाशो वै पूर्वपूर्वैः प्रजायते ।
खड्गबाणादिशस्त्राणां सङ्ग्रहेऽपि विनश्यति ॥3.151.८० ॥
अदानकं स्वार्थमात्रं द्रव्यं तन्माकरो निधिः ।
मरणे सति सर्वस्वं विनष्टं तत्परैर्भवेत् ॥८१ ॥
शृणु वै कच्छपं लक्ष्मि बहुयत्नैः समर्जितम् ।
न भुङ्क्ते न ददात्येव लोभेन विश्वसेन्न च ॥८२॥
क्षिपत्येव हि भूगर्ते कोषे निरुपयोगि तत् ।
सञ्चिते त्वेकपुरुषं मरणान्ते परैरपि ॥८३॥
राजभिश्चौरलोकैर्वा ह्रियते कच्छपं हि तत् ।
माकरं राजसं प्रोक्तं काच्छपं तामसं सदा ॥८४॥
माकरं त्वर्धपापं च काच्छपं पूर्णपापकम् ।
शृणु लक्ष्मि मुकुन्दं च निधिं यत्नैः समर्जयेत् ॥८५॥
किन्तु कोशे पृथिव्यां वा निक्षिप्याऽपि पुनः पुनः ।
उद्धृत्योद्धृत्य वेश्यासु नर्तकीगायिकासु च ॥८६॥
भाण्डेषु व्यसने क्लेशे व्ययं करोति नित्यदा ।
एवं पापपरा सम्पद् द्रव्यं मुकुन्दनामकम् ॥८७॥
पापकृञ्चापि वै बोध्यो मुकुन्दकोशभृन्निधिः ।
शृणु नन्दं निधिं चापि वक्ष्यामि पद्मजे हि ते ॥८८॥
रजस्तमोमहानन्दी ह्याधारः स्यात् कुलस्य वै ।
सर्वे कुटुम्बिनो द्रव्यं भुञ्जते प्रेमभावतः ॥८९॥
स्तुतयश्चापि जायन्ते बहुभार्या भवन्ति च ।
स्वार्थार्थं द्रव्यभोगश्च परोपकृतयेऽपि च ॥3.151.९०॥
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ।
एवंविधं निजं द्रव्यं नन्दनिध्यात्मकं हि तत् ॥९१ ॥
शृणु लक्ष्मि कथयामि नीलं निधिं तथोत्तरम् ।
नीलेन स्वधनेनापि सात्त्विको वै भवेत् सदा ॥९२॥
वस्त्रधान्यादिसङ्ग्राही तडागादि करोति च ।
त्रिपौरुषो निधिश्चायं त्वाम्रारामादि कारयेत् ॥९३॥
धर्मकार्यं करोत्येवोद्यानं ददाति विष्णवे ।
शङ्खं निधिं कथयामि शृणु लक्ष्मि विपत्प्रदम् ॥९४॥
एकस्यैव धनं शङ्खः स्वयं भुङ्क्ते धनान्तकम् ।
न कुलं न च वंशोऽपि भुङ्क्ते यस्य धनं रमे! ॥९५॥
कदन्नभुक् परिजनो न च शोभनवस्त्रधृक् ।
स्वार्थपोषणमात्रेच्छुर्दद्यात्परनरे वृथा ॥९६॥
शृणु लक्ष्मि महाशङ्खं निधिं भोगार्थमेव न ।
परेष्वेव हि वर्तन्ते धनानि न गृहे मनाक् ॥९७॥
एवं बोध्या हि निधयो ज्ञात्वा तान् व्ययमाचरेत् ।
तीर्थदेवसतां कार्ये सर्वपापैः प्रमुच्यते ॥९८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वमहापापादिनाशोपायानां निरूपणं, नवनिधीनां धनविनियोगादिप्रयोज्यनामकत्वं चेति कथननामा एकपञ्चाशदधिकशततमोऽध्यायः ॥१५१ ॥