१४८

श्रीपुरुषोत्तम उवाच-
शृणु नारायाणीश्रि त्वं हृदुत्थवैकृतानि तु ।
शरीरोत्थानि चान्यानि शकुनस्फुरणानि च ॥१ ॥ शरीरे स्फुरिते मूर्घ्नि पृथ्वीलाभो भवेदपि ।
ललाटे स्थानवृद्धिः स्यान्भ्रूनसोः प्रियसङ्गमः ॥२ ॥ नेत्रस्फुर्तौ भृत्यलाभो दृगुपान्ते धनागमः ।
ऊर्ध्वे मध्ये चापगमो द्रव्यस्यैव प्रजायते ॥३ ॥ दृङ्मूले स्फुरिते लक्ष्मि जयः शीघ्रं भवेदिति ।
अधःस्फुर्तौ स्त्रिया भोगः श्रवणान्ते प्रिया श्रुतिः ॥४ ॥ नासिकायां प्रीतिसौख्यं प्रजाप्तिरधरोष्ठजे ।
कण्ठस्फुर्तौ भोगलब्धिर्भोगवृद्धिस्तथांऽसयोः ॥६ ॥ बाह्वोः स्फुर्तौ सुहृत्स्नेहो हस्तयोस्तु धनागमः ।
पृष्ठस्फुतौ न विजयो वक्षःस्फुर्तौ जयो भवेत् ॥६ ॥ कुक्षिस्फुर्तौ प्रीतिलाभः स्तने स्त्रीप्रसवो भवेत् ।
नाभिस्फुर्तौ स्थानहानिरन्त्रस्फुर्तौ धनागमः ॥७ ॥ जानुसन्धौ परैः सन्धिर्बलिभिश्च समागमः ।
जङ्घास्फुर्तौ खण्डभागेविनाशः स्यान्न संशयः ॥८ ॥ पादयोः स्फुरणे लक्ष्मि धिष्ण्यस्थानमवाप्नुयात् ।
पादतलस्फुरे चाध्वप्रवासो लाभकृद् भवेत् ॥९ ॥ वामे नार्या सदा लाभा दक्षे पुंसः स्फुरादयः ।
अलाभदा विपर्यस्ता भवेयुर्नात्र संशयः ॥3.148.१० ॥ अनिष्टस्फुर्तिजनने हवनं तर्पणं तथा ।
सुवर्णेन प्रकर्तव्यं दानं च भोजनादिकम् ॥११ ॥ शान्तिस्तत्र वैष्णवी वा रौद्री कार्या सुखाप्तये ।
अथ हृदुत्थविकृताकारान् निद्रामयान् शृणु ॥१ २॥ अनिष्टान् दुष्टफलदान् दृष्ट्वा शान्तिं प्रकारयेत् ।
नाभिं विनाऽन्यगात्रेषु तृणवृक्षाङ्कुरोद्भवः ॥१ ३॥ चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कमर्दनम् ॥१४॥ पङ्के च मग्नता चोच्चैः पातो दोलाधिरोहणम् ।
अर्जनं पक्वलौहानामश्वानां मारणं तथा ॥१५॥ रक्तपुष्पद्रुमाणां च मण्डलस्याऽधिरोहणम् ।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥१ ६॥ भक्षणं पक्वमांसानां तैलस्य कृसरस्य च ।
नर्तनं हसनं चापि विवाहो गीतमित्यपि ॥१७॥ तन्त्रीवाद्यविहीनानां वाद्यानामभिवादनम् ।
स्रोतोऽवगाहनं चापि स्नानं गोमयवारिभिः ॥१८ ॥ पङ्केन स्नानमेवापि धूलीतोयेन वापि च ।
मातुः प्रवेशो जठरे चितारोहणमित्यपि ॥१ ९॥ इन्द्रध्वजाभिपतनं पतनं चन्द्रसूर्ययोः ।
दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम् ॥3.148.२० ॥ देवद्विजातिभूपालगुरूणां क्रोधनं तथा ।
आलिङ्गनं कुमारीणां पुरुषाणां तु मैथुनम् ॥२१ ॥ हानिश्चापि स्वगात्राणां विरेकवमनादिकम् ।
दक्षिणाशाभिगमनं व्याधिनाऽभिभवोऽपि च ॥२२॥ पुण्यहानिः फलहानिः स्वप्ने गृहस्य मार्जनम् ।
गृहस्य पतनं क्रीडा पिशाचैर्वानरैः सह ॥२३॥ ऋक्षक्रव्यादकुनरैः कुस्त्रीभी रमणं तथा ।
परादभिभवश्चापि पराच्च दुःखसम्भवः ॥२४॥ काषायाम्बरधारित्वं काषायिस्त्रीसमागमः ।
स्नेहपानं स्नेहमग्नता रक्तपुष्पलेपनम् ॥२५॥ भोजनानां भ्रष्टता च काष्ठानां दर्शनं तथा ।
गन्त्रीणां मार्गभ्रंशश्च बहुसंयावभोजनम् ॥२६॥ वेश्यानां दर्शनं तासां स्तन्यपानं तथा खलु ।
शतघ्नीनां स्फोटनादि तथोच्छिष्टादिभोजनम् ॥२७॥ रङ्गकारगृहाणां च दर्शनं घातकस्य च ।
तडागानां प्रवाहेषु पतनं सस्यदाहनम् ॥२८॥ कलहश्च जलैर्नौकाभरणं चान्धदर्शनम् ।
कालीकट्यां निषदनं ह्युपानत् मस्तके स्थितम् ॥२९॥ विरुद्धाक्षरविन्यासा प्रवासे निजदर्शनम् ।
चित्रमूर्त्यदृश्यता च गणेशशवमस्तकम् ॥3.148.३०॥ उष्ट्रस्य दर्शनं भोज्यभक्षणे विघ्नता तथा ।
मुण्डनं चाब्धिपतनं लिङ्गाद् रक्तस्रवस्तथा ॥३ १॥ जीर्णाम्बरधरत्वं च गुरोर्विप्रस्य क्रुद्धता ।
भषमाणश्वाऽवलोकः फणाध्रग्रहणं मृतिः ॥३२॥ चन्द्रशालादितश्चापि शिलासु पतनं तथा ।
वनिमार्जाराऽवलोकः कृष्णपुङ्कृतलक्ष्यकम् ॥३३॥ निशानं धूष्कृतीनां च मृषाऽऽयुधस्य स्फोटनम् ।
तक्रकृसराप्राशश्च वस्तूनां विगमोऽपि च ॥३४॥ शत्रूणां दर्शनं चापि विष्टायां पादपातनम् ।
षटपदीयजन्तूनां च विष्ठायां दर्शनं तथा ॥३५॥ यवनाद्यैः कृतं कर्णनासिकयोश्च कर्तनम् ।
नग्नं स्वदर्शनं तैलाक्तं रक्तस्त्रीसुयोजनम् ॥३६॥ मुकुटादेः पश्चभागे विवर्तनं प्रपातनम् ।
शिखाप्रपातनं कल्गेः प्रपातनं दतामपि ॥३७॥ लिङ्गस्य पतनं चापि पत्नीप्रज्वलनं तथा ।
गलपाशावलोकश्च ताडने मरणं तथा ॥३८॥ गोस्त्रीवधादिकं स्वप्ने महोत्पातादिदर्शनम् ।
पितॄणां दर्शनं चापि परदेशपलायनम् ॥३९॥ सर्वैः कृतस्तिरस्कारः शवाधिरोहणं तथा ।
शत्रुभिश्च धृतश्चापि द्रव्यस्य तु भुवस्तलात् ॥3.148.४०॥ भूत्वा पिपीलिका यानं वृश्चिका वा तथाविधम् ।
पत्न्याः पलायनं चापि सर्वस्वनाशसूचकम् ॥४१ ॥ कन्यावैधव्यभावश्च देवालयविनाशनम् ।
रक्तस्रावो रक्तरोगः क्षयरोगस्य दर्शनम् ॥४२॥ मृतगर्भप्रसवश्च गर्भिणीमरणं तथा ।
विमानपतनं चापि शकटीभङ्ग इत्यपि ॥४३॥ व्याघ्रधृतिः सिंहकृतं मारणं स्वस्य वै वने ।
मकरैर्धर्षणं चापि गह्वरे पतनं तथा ॥४४॥ खाते रोधस्तथा नैजे भवने रोधनं तथा ।
पादयोर्बन्धनं चापि विदायं बहुभिर्जनैः ॥४५॥ चाण्डालीभोग एवापि चाण्डालभोग इत्यपि ।
भूतानां दर्शनं स्वप्ने भयदाऽरण्यदर्शनम् ॥४६ ॥ हिंस्राणां दर्शनं चापि वह्निमध्ये प्रवेशनम् ।
यानेन स्वर्गगमनं श्मशानगमनं तथा ॥४७ ॥ याम्यावलोकनं चापि कालपुरुषदर्शनम् ।
प्रेतस्य दर्शनं स्वप्ने पाशधरस्य दर्शनम् ॥४८ ॥ राजदूतस्याऽवलोको गरुडस्यापि दर्शनम् ।
तुलसीभक्षणं चापि गोमयैर्भूविलेपनम् ॥४९ ॥ झञ्झावातेनोह्यमानत्वं च यन्त्रेण कर्षणम् ।
समाजे कर्चनं चापि पादैः प्रदलनं तथा ॥3.148.५ ० ॥ वमनं रक्तकमिश्रं वमने कीटदर्शनम् ।
कृष्णसर्पस्य दंशश्च भोजने कृमिदर्शनम् ॥५ १ ॥ अद्रीणां चालनं चापि भवनानां च चालनम् ।
कन्यानां बालसूतिश्च स्त्रीणां विकृतसूतिता ॥५२ ॥ नराणां श्मश्रुप्रपातः स्त्रीणां श्मश्रुप्ररोहणम् ।
नराणां स्त्रीवेषवत्त्वं स्त्रीणां पुरुषवेषिता ॥५ ३ ॥ अस्तनीत्वं तथा स्त्रीणां नराणां स्तनयुक्तता ।
स्वप्ने चेद् दृश्यते त्वेतद् देशहानिर्महाभयम् ॥५४॥ राजा स्वप्ने हतो दृष्टो राज्यनाशो भवेद्ध्रुवम् ।
वृक्षाणां गमनं चापि वल्लीनां गमनं तथा ॥५५ ॥ कन्यानां गमनं चापि विदेशं प्रति दृश्यते ।
लक्ष्मीहानिश्च दुर्भिक्षं भवेदेव न संशयः ॥५ ६॥ सरितां गमनं चाप्युद्वेलताऽब्धेः समन्ततः ।
जलेन प्रलयस्तत्र खण्डस्य च क्षितेरपि ॥५७॥ पृथिव्या वा प्रलयः स्यान्नात्र कार्या विचारणा ।
देवालयानां गमनं चाद्रीणां गमनं तथा ॥५८ ॥ शिलासैन्यविहारश्च देशनाशफलो भवेत् ।
दुर्गे शब्दास्तु जायन्तेऽज्ञाता भयावहा यदि ॥५९ ॥ दुर्गनाशभयं तत्र राज्यनाशभयं भवेत् ।
कक्षासु गर्जना रात्रावाकस्मिकी भवेद् यदि ॥3.148.६० ॥ रोगव्याप्तिर्महामारी प्रजानाशोऽति जायते ।
हसन्ति गृहकोणेषु वानराः ऋक्षका यदि ॥६१ ॥ गृहं शून्यं भवेदेव मासान्ते नात्र संशयः ।
मुण्डी रक्ताम्बरः स्वप्ने दृश्यते दण्डधृग् यदि ॥६२ ॥ मरणं तत्र जायेत विनाशः सम्पदामपि ।
वनदेव्यो यत्र शुष्काः क्षीणाश्च वृद्धकन्यकाः ॥६३ ॥ सगर्भा शुष्कदेहाश्च दृश्यन्ते स्वप्नके यदि ।
भग्नपादाश्च खञ्ज्यश्च वृक्ण्यः शृङ्गककुद्मिकाः ॥६४॥ अनावृष्टिहता लोका म्रियन्तेऽत्र न संशयः ।
गावो यत्र विशस्यन्ते म्लेच्छैः स्वप्नेऽवलोक्यते ॥६५॥ तत्र म्लेच्छोपद्रवाश्च जायन्ते नात्र संशयः ।
क्रव्यादा यत्र दृश्यन्ते नगरोपरि यूथशः ॥६६॥ नगरस्य विनाशः स्याद् रक्षा रुद्रमखैर्भवेत् ।
उज्ज्वला उज्जलाः कन्या रुदन्ति यान्ति यत्स्थलात् ॥६७॥ तत्र विद्याविनाशः स्यादुद्योगानां विनाशनम् ।
कलाकौशल्यनाशश्च दारिद्र्यं रङ्कताऽऽपतेत् ॥६८॥ विधवानां मण्डलानि दृश्यन्ते यत्र चाभितः ।
कबन्धानां मण्डलानि तत्र नाशो हि सङ्गरात् ॥६९॥ अनृतौ पशवो यत्र स्खलन्ति पाशवीषु वै ।
धर्मभङ्गो भवेद् देशे म्लेच्छाचारविवर्धनम् ॥3.148.७०॥ एवमादीनि चान्यानि कुष्ठादिदर्शनं तथा ।
दुःस्वप्नानि भवेयुश्च द्राक् तेषां कथनं वरम् ॥७१ ॥ भूयः प्रस्वापनं चापि कल्कस्नानं तिलैरपि ।
होमोवह्नौ ब्राह्मणानां सतां पूजा सुरार्चनम् ॥७२॥ स्तुतिः श्रीहरिकृष्णस्य वासुदेवस्य पूजनम् ।
नागेन्द्रमोक्षश्रवणं बालकृष्णस्य पूजनम् ॥७३॥ रुद्रयागो विष्णुयागश्चोत्सवो हरिकीर्तनम् ।
कारयेत् स्वगृहे लक्ष्मी कथां नारायणाश्रिताम् ॥७४॥ लक्ष्मीनारायणसंहितायाः पारायणं महत् ।
भये महति सम्प्राप्ते कारणीयं भयापहम् ॥७५॥ स्वप्नं तु प्रथमे यामे सम्वत्सरे फलप्रदम् ।
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्तृतीयके ॥७६॥ चतुर्थे मासमात्रेण प्रातर्दशाहकृत्फलम् ।
स्वप्नद्वये शुभाशुभे रात्रौ स्यातां तदा फलम् ॥७७॥ पश्चाद् दृष्टस्य जायेत प्राग्दृष्टं लोपमीयते ।
एतेषामसतां स्वप्ने दर्शने तन्निवारणम् ॥७८॥ ग्रहयज्ञं विष्णुयज्ञं रुद्रयज्ञं सतीमखम् ।
पितृयज्ञं भोज्ययज्ञं दानपुण्यं समाचरेत् ॥७९॥ राज्ञा धर्मप्रसक्तेन प्रजानां च हितेप्सुना ।
ग्रहयज्ञाः प्रकर्तव्या लक्षहोमसमन्विताः ॥3.148.८०॥ नदीनां सङ्गमे चापि देवानामग्रतस्तथा ।
तटाकसन्निधौ दैवतीर्थे भूमिं परीक्षयेत् ॥८१ ॥ खनेत् कुण्डं हस्तमात्रं चाष्टोत्तरसहस्रकम् ।
हवनं तत्र कर्तव्यं शान्तिस्तेन प्रजायते ॥८२॥ द्विगुणं लक्षहोमे च कोटिहोमे चतुर्गुणम् ।
अष्टौ वै ऋत्विजः कार्या मूलक्षीरफलाशनाः ॥८३॥ रत्नानि दानयोग्यानि मण्डपे सन्निधापयेत् ।
गायत्र्या दशसाहस्रं मानस्तोकेन षड्गुणः ॥८४॥ त्रिंशद् ग्रहादिमन्त्रैश्च चत्वारो विष्णुदैवतैः ।
कुष्माण्डैर्जुहुयात् पञ्च कुसुमाद्यैस्तु षोडश ॥८५॥ होतव्या दशसाहस्रं बादरैर्जातवेदसि ।
श्रियो मन्त्रेण होतव्याः सहस्राणि चतुर्दश ॥८६॥ शेषाः पञ्चसहस्राणि होतव्यास्त्विन्द्रदैवतैः ।
हुत्वा शतसहस्रं तु पुष्यस्नानं समाचरेत् ॥८७॥ कुम्भैः षोडशसञ्ज्ञैश्च सहिरण्यैः सुमङ्गलैः ।
स्नापयेद् यजमानं तु ततः शान्तिर्भवेद् ध्रुवम् ॥८८॥ हस्त्यश्वरथयानानि भूमिवस्त्रधनानि च ।
अनडुद्गोशतं दद्यात् ऋत्विजां चात्र दक्षिणाम् ॥८९॥ मासे पूर्णसमाप्तौ तु लक्षहोमः प्रकीर्तितः ।
कोटिहोमविधानं तु शृणु लक्ष्मि नदीतटे ॥3.148.९०॥ ऋत्विजः षोडश तत्र दीक्षा साम्वत्सरी मता ।
चैत्रे वा कार्तिके होमारम्भं कृत्वा तु वत्सरम् ॥९१ ॥ कारयेत् यजमानस्तु पयोभक्षी फलाशनः ।
यवादिव्रीहयो माषास्तिलाश्च सर्षपास्तथा ॥९२॥ पालाशाः समिधः शस्ता वसोर्धारा तथोपरि ।
आद्यमासे तु ऋत्विग्भ्यो दद्याद्वै क्षीरभोजनम् ॥९३॥ द्वितीये कृसरां दद्याद्धर्मकामार्थसाधिनीम् ।
तृतीये मासि संयावं चतुर्थे मोदकान् शुभान् ॥९४॥ पञ्चमे दधिभक्तं च षष्ठे तु सक्तुभोजनम् ।
पूपाँश्च सप्तमे दद्यादष्टमे घृतपूपकान् ॥९५॥ मिष्टौदनं च नवमे दशमे यवमिष्टकम् ।
एकादशे माषवटान् द्वादशे षड्रसान् दिशेत् ॥९६॥ अहतवासाः संवीतो दिनार्धं जुहुयाच्छुचिः ।
इन्द्राद्यादिसुराणां च प्रीणनं सार्वकामिकम् ॥९७॥ सर्वदानानि देवानामग्निष्टोमं च कारयेत् ।
विधिना कारयेत्तत्र पूर्णाहुतिं शते शते ॥९८॥ सहस्रे द्विगुणा देया यावच्छतसहस्रकम् ।
पुरोडाशो देवताभ्यो देयः समर्चयेद् द्विजान् ॥९९॥ सुरान् पितॄन् तर्पयेच्च पिण्डार्पणैर्विधानतः ।
होमान्ते दक्षिणां दद्यात्तुला शिक्यद्वयान्विताम् ॥3.148.१० ०॥ बध्वाऽऽत्मानं तोलयेच्च पत्नीं च तोलयेत्तथा ।
सुवर्णेन रजतेन शर्कराभिश्च हीरकैः ॥१ ०१ ॥ दद्याद् दानं राजसूयफलं स्याद् विघ्ननाशकम् ।
प्रीयतां श्रीहरिकृष्णः सर्वयज्ञेश्वरः प्रभुः ॥१ ०२॥ इत्युक्त्या प्रणमेद् विप्रान् भोजयेल्लक्षमानवान् ।
सर्वोपघाता नश्यन्ति पुण्यान्यस्य भवन्ति च ॥१ ०३॥ न शोचेज्जन्ममरणे कृताकृतविचारणे ।
यथाशक्ति प्रकुर्याद्वा ग्रहादिमखमुत्तमम् ॥१ ०४॥ सर्वतीर्थविधानस्य सर्वयज्ञविधेः फलम् ।
एवं कृत्वाऽऽप्नुयाल्लक्ष्मि! श्रवणात्पठनादपि ॥१ ०५॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दुःस्वप्नाद्युपघात तच्छान्त्यर्थकग्रहयज्ञादिनिरूपणनामा अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८ ॥