१४७

श्रीपुरुषोत्तम उवाच-
अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतम् ।
अनृतौ तु दिवाऽनन्ता वृष्टिर्बोध्या भयप्रदा ॥१ ॥ अनभ्रे वैकृताश्चापि विज्ञेया राजमृत्यवे ।
शीतोष्णानां विपर्यासे नृपाणां रिपुजं भयम् ॥२ ॥ शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् ।
अङ्गारपांसुवर्षायां नगरस्य विनाशनम् ॥३ ॥ मज्जाऽस्थिस्नेहमांसानां जनमारभयं महत् ।
धान्यपुष्पफलान्नेषु तथा शत्रुभयं महत् ॥४ ॥ पांसुवर्षा फलानां तु रोगभीतिकरी मता ।
अकाले चाऽन्नवर्षायां सस्यानां भयमापतेत् ॥५ ॥ विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ।
दृश्यते चेत् प्रतीपा वै तदा देशभयं भवेत् ॥६ ॥ अकाले करकावृष्टौ दुष्कालस्य भयं भवेत् ।
निरभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ॥७ ॥ इन्द्रधनुस्तथा चोल्कापातो गन्धर्वपत्तनम् ।
दिग्दाहः परिवेषश्च दिशां मलिनताऽपि चेत् ।
परचक्रभयं स्याद्वै स्वदेशोपद्रवोऽपि च ॥८ ॥ तच्छान्त्यर्थं सूर्ययज्ञं चन्द्रयज्ञं प्रकारयेत् ।
पर्जन्ययज्ञं च तथा मरुद्यज्ञं प्रकारयेत् ॥९ ॥ धनं द्रव्यं काञ्चनं च गा दद्यात् तत्र दक्षिणाः ।
उत्पातास्ते शान्तिमाप्य फलदा न भवन्ति वै ॥3.147.१० ॥ शृणु लक्ष्मि तथा चान्यानुत्पातान् दुःखशंसकान् ।
नगरादुपसर्पन्ते समीपमुपयान्ति वा ॥११ ॥ नद्यो ह्रदाः प्रस्रवाणि विरसाश्च भवन्ति वा ।
विवर्णं कलुषं तप्तं फेनवज्जन्तुसङ्कुलम् ॥१२॥ स्नेहं क्षीरं सुरां रक्तं वहन्ते वा कुलोदकाः ।
षण्मासाभ्यन्तरे तत्र परचक्रभयं भवेत् ॥१ ३॥ जलाशया नदन्ते वा प्रज्वलन्ति यथाऽनलैः ।
विमुञ्चन्ति तथा लक्ष्मि ज्वालाधूमरजांसि च ॥१४॥ यद्वा तेषु जलोत्पत्तिः सुसत्त्वा वा जलाशयाः ।
सङ्गीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥१५॥ तच्छान्त्यै मधुतैलाज्यैर्हवनं त्वाचरेन्नृपः ।
जपेत्तु वारुणान्मन्त्रान् जापयेद् विप्रकोविदैः ॥१६॥ जले होमो जले चाप्यभिषेचनं घृतादिभिः ।
मध्वाज्यपायसं दद्याद् भोजने साधुयोगिनाम् ॥१७॥ श्वेताम्बरयुता गाश्च दद्याच्छ्रीगुरवे तथा ।
जलकुम्भान् प्रदद्याद्वै रत्नमौक्तिकमर्पयेत् ॥१८॥ शृणु लक्ष्मि तथा चाऽन्यन्नारीषु विकृतिं यथा ।
अकालप्रसवा नार्यः कालातीतप्रजास्तथा ॥१ ९॥ विकृतप्रसवाश्चापि युग्मत्रिप्रसवाश्च वा ।
अमानुषा ह्यतुण्डाश्च सञ्जातव्यसनाः स्त्रियः ॥3.147.२० ॥ हीनाङ्गा अधिकाङ्गाश्च प्रसूयन्ते वसन्ति च ।
पशवः पक्षिणश्चापि जन्तवश्च सरीसृपाः ॥२१ ॥ यत्र देशेऽथवा ग्रामे कुले वा तादृशा यदि ।
विनाशस्तस्य देशस्य ग्रामस्य वा कुलस्य वा ॥२२॥ नृपस्तादृशहीनाङ्गान्नरान्नारीर्विवासयेत् ।
स्वराष्ट्रे सूयमानाश्च स्त्रीजातीः शान्तयेद्धवैः ॥२३॥ नारीयज्ञं प्रकुर्याद्वै हवनं भोजनादिकम् ।
नारीणां बालिकानां च वस्त्रालङ्कारकार्पणम् ॥२४॥ मातॄणां देवतानां च देवीनां पूजनं तथा ।
योगिनीनां सतीनां च साध्वीनां पूजनं तथा ॥२५॥ राधालक्ष्मीप्रभापारवतीनां पूजनं चरेत् ।
माणिक्यादुःखहालक्ष्मीमहालक्ष्मीप्रपूजनम् ॥२६॥ ललितायमुनागङ्गारतिभक्तिप्रपूजनम् ।
कुलदेवीप्रपूजां च कुर्यात्तथैव कारयेत् ॥२७॥ कस्येच्छकैः प्रकुर्याच्च विप्रतर्पणमित्यपि ।
ततः शान्तिर्भवेल्लक्ष्मि ह्यपपद्रवो न जायते ॥२८॥ शृणु नारायणीश्रि त्वं यानोपद्रवसूचनाम् ।
यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति च ॥२९॥ नोद्यमानान्यपि पृष्ठे यान्ति तत्र महद्भयम् ।
वाह्यमाना न वाह्यन्ते वाह्यन्ते नात्यनाहताः ॥3.147.३० ॥ अचलाश्च चलन्त्येव न चलन्ति चलानि च ।
आकाशे तूर्यनादाश्च गीतगान्धर्वनिःस्वनाः ॥३ १ ॥ काष्ठदर्वीकुठारादि विकारं कुरुते यदि ।
गावो लाङ्गूलहननैः स्त्रियः स्त्रीश्च प्रताडयेत् ॥३२॥ उपस्करादिविकृतौ घोरं शस्त्रभयं भवेत् ।
तच्छान्त्यर्थं वायुपूजां कारयेद् विप्रपूजनम् ॥३ ३ ॥ सक्तून् दद्यादम्बरादि मिष्टान्नानि तु वायवे ।
पवमानमहामन्त्रान् मारुताँश्च मनून् जपेत् ॥३४॥ परमान्नं भोजयेच्च हवनं पायसादिभिः ।
दक्षिणा भूयसीर्दद्यात्तेन शान्तिर्भवेद् रमे ॥३५॥ शृणु श्रीशिवराज्ञीश्रि तथाऽन्यत् पशुसूचनम् ।
प्रविशन्ति यदा ग्राममारण्या वनपक्षिणः ॥३६॥ अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलौकसः ।
स्थलौकसो जलं यान्ति घोरं वाशन्ति निर्भयाः ॥३७॥ राजद्वारे पुरद्वारे शिवा घूकाः श्वजातयः ।
दिने रात्रिञ्चरा यद्वा रात्रौ दिनचरास्तथा ॥३८॥ ग्राम्यास्त्यजन्ति वै ग्रामं शून्यता तत्र वै फलम् ।
दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ॥३९॥ वाशन्ति विस्वरं यत्र तत्रापि शून्यता फलम् ।
काका घूका मस्तकस्योर्धे वाशन्ति दिवा यदि ॥3.147.४० ॥ तस्याऽऽपत्काल आगच्छेद् वह्निर्वाऽऽकस्मिको भवेत् ।
मरणं चाप्यकीर्तिश्च स्थानत्यागो भवेच्च वा ॥४१ ॥ आपत्कालो भवेत्तस्य प्रजाकुटुम्बिभिः कृतः ।
प्रदोषे कुक्कुटो वाशेद्धेमन्ते यत्र कोकिलः ॥४२॥ अर्कोदये त्वभिमुखी शिवा रौति भयं दिशेत् ।
गृहं कपोतः प्रविशेत् क्रव्यादो मूर्ध्नि लीयते ॥४३॥ मक्षिकाश्च मधु कुर्युर्मृत्युर्गृहपतेर्भवेत् ।
प्राकारद्वारगेहेषु तोरणापणवीथिषु ॥४४॥ केतुच्छत्राऽऽयुधाद्येषु क्रव्यादः प्रपतेत् यदि ।
जायन्ते वाऽथ वल्मीका मधु वा स्यन्दते यदि ॥४५ ॥ स देशौ नाशमायाति राजा च म्रियते तथा ।
मूषकाः शलभाश्चापि शुकाः क्षुद्रास्तृणादनाः ॥४६॥ दृश्यन्तेऽसङ्ख्यका यत्र क्षुन्मारभयमापतेत् ।
काष्ठोल्मुकास्थिशृङ्गाढ्याः श्वानो मर्कटवेदनाः ॥४७॥ विषश्वानश्चाभितोऽपि भ्रमन्ति यत्र पत्तने ।
काका धान्यखले धान्यमुखाः पतन्ति वा पुरे ॥४८॥ दुर्भिक्षवेदना तत्र बोध्या देहिक्षयङ्करी ।
रणसेनाभयं स्याच्च प्रजानां च वा तत्र च ॥४९ ॥ काको मैथुनसक्तो वै दिवसे यदि दृश्यते ।
राजा वा म्रियते तत्र स च देशो विनश्यति ॥3.147.५०॥ उड्डीयन्ते निशि काका गृहभङ्गो भवेत् खलु ।
उलूको दृश्यते यत्र नृपद्वारे तथा गृहे ॥५१ ॥ ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ।
मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ॥५२॥ देवाः कपोता रक्षन्तु ग्रामं गृहं कुटुम्बिनः ।
रुद्रमन्त्रानिन्द्रमन्त्रान् जपेयुः पञ्चषा द्विजाः ॥५३ ॥ गावो देया ह्यवनान्ते ग्रहशान्तिं मखं चरेत् ।
विष्णुयज्ञं प्रकुर्याच्च रुद्रयज्ञं च वा चरेत् ॥५४॥ भौतिकीं शान्तिमेवाऽपि कारयेद्द्विजपुङ्गवैः ।
शृणु लक्ष्मि तथा चाऽन्यद्भौतिकं सूचनादिकम् ॥५५॥ प्रासादतोरणाऽट्टालद्वारप्राकारवेश्मनाम् ।
निर्निमित्तन्तु पतनं दृढानां राजमृत्युकृत् ॥५६॥ रजसा वाऽथ धूमेन दिशो यत्र समाकुलाः ।
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धिदाः ॥५७॥ राक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः ।
ऋतवश्च विफला वै ह्यपूज्यः पूज्यते जनैः ॥५८॥ नक्षत्राणि वियोगीनि महद्भयप्रदानि वै ।
केतूदयोपरागौ च छिद्रं वा शशिसूर्ययोः ॥५९॥ ग्रहर्क्षविकृतिर्यत्र तत्र देशे महद्भयम् ।
स्त्रियस्तु कलहायन्ते बाला निघ्नन्ति बालकान् ॥3.147.६०॥ क्रियाणामुचितानां च विच्छित्तिर्यत्र जायते ।
हूयमानस्तु यज्ञाऽग्निर्दीप्यते नैव शान्तिषु ॥६१ ॥ पिपीलिकाश्च क्रव्यादा यान्ति चोत्तरतस्तथा ।
पूर्णकुम्भाः स्रवन्ते च हविर्वा विप्रलुप्यते ॥६२॥ मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः ।
क्षवथुर्बाधते यत्र हसन्ति पुत्तलानि च ॥६३॥ बाधन्ते भोज्यजातानि स्रवन्ते पात्रतः पयः ।
देवेषु सत्सु विप्रेषु दैवतं दृश्यते न च ॥६४॥ देवसाधुब्राह्मणेषु भावनारहिताः प्रजाः ।
मन्दघोषाणि वाद्यानि वाद्यन्ते विस्वराणि च ॥६५॥ गुरुमित्रद्विषो यत्र शत्रुपूजारता जनाः ।
पूज्यान्मान्यान् श्रेष्ठजनान् जनो यत्राऽवमन्यते ॥६६॥ शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते ।
राजा वा म्रियते तत्र देशो वा स विनश्यति ॥६७॥ राज्ञो यत्र तु दुर्भाग्यं तत्र चिह्नानि वै शृणु ।
प्रजा निजाः नृपो द्वेष्टि प्रजाजनैर्विरुद्ध्यते ॥६८॥ प्रजास्वं बलतो धत्ते प्रजाजनान् जिघांसति ।
कृतघ्नतां दर्शयति याचितश्च प्रकुप्यति ॥६९॥ करोति निन्दनं सतां प्रशंसां नाभिमन्यते ।
असह्यं तु करं लोभाद् बलात् पातयते जने ॥3.147.७० ॥ एवं वै विकृते भावे शक्रयाग समाचरेत् ।
सपत्नीकं सुरेशं च तथा देवान् प्रतर्पयेत् ॥७१ ॥ भोजनानि द्विजातिभ्यः सुरेभ्यो बलयस्तथा ।
सद्भ्यः पूजा सतीभ्यश्च शृङ्गारादिप्रदापनम् ॥७२॥ बालिकाभ्यो भोजनानि बालेभ्योऽपि शुभानि च ।
गोदानं भूकाञ्चनादिदानं वस्त्रार्पणादिकम् ॥७३॥ कर्तव्यं हवनं श्रेष्ठं तेन शान्तिर्भवेत् खलु ।
यत्र देशेऽथवा ग्रामे रन्धितान्नं तु मांसवत् ॥७४॥ दृश्यते दधि रक्ताभं नश्येद् ग्रामः प्रदेशकः ।
ग्रामाध्यक्षस्य वै धिष्ण्यं पतेत्तु कारणं विना ॥७५॥ भग्नं भवेद् गृहं वापि नृपनाशो भवेत्तदा ।
रक्तपाषाणवर्षा चेत् श्वरोदनं समन्ततः ॥७६॥ देशग्रामविनाशः स्याद् विष्णुयागं ततश्चरेत् ।
भूकम्पो गर्जनायुक्तो दुर्भिक्षस्य प्रसूचकः ॥७७॥ दक्षिणादुत्तरं याति साम्राज्यस्य भयं महत् ।
पूर्वात्तु पश्चिमं याति नृपघातो भवेद् ध्रुवम् ॥७८॥ पूर्व तु पश्चिमाद् याति युद्धं नृपेषु जायते ।
उत्तराद् दक्षिणं याति सुभिक्षं जायते तदा ॥७९॥ आद्यप्रहरे रोगः स्याद् द्वितीये धननाशकृत् ।
तृतीये धान्यधनकृच्चतुर्थे मध्यमप्रदः ॥3.147.८०॥ सन्ध्यायां भूक्म्पने तु सर्वस्वनाशसूचनम् ।
प्रयाणे कण्टके वृक्षे क्लेशदं काकभाषणम् ॥८१ ॥ प्रयाणे सन्मुखं काकश्चायाति वाहने स्थितः ।
यद्वाऽम्बरे तदा मृत्युः प्रवासं नैव कारयेत् ॥८२॥ दक्षपार्श्वे पक्षक्षेपे गन्तव्यं नैव तद्दिशि ।
गतः पुनर्न व्यायाति मरणं स्याद्ध्रुवं रमे ॥८३॥ वामाद् दक्षं प्रयाते तु काके वधश्च बन्धनम् ।
उत्तरं ताराक्षरणं दुर्भिक्षकृन्महद् भवेत् ॥८४॥ महामारीरोगजन्म प्रजानां कदनं महत् ।
तारकयोर्द्वयोश्चाभिमुख्ये क्षरणं युद्धकृत् ॥८५॥ सशिखस्योदये छत्रभङ्गो बालादिनाशनम् ।
सपुच्छस्योदये नाशो पशूनां वै समापतेत् ॥८६॥ खग्रासे ग्रहणे युद्धं दुर्भिक्षं वा भवेद् भुवि ।
प्रयाणे सौषधो देही कृष्णधान्यं कपासकम् ॥८७॥ शुष्कतृणानि च करीषाणि शुष्कं च काष्ठकम् ।
भस्म तैलं गुडं भाग्यहीनो जनः सतैलकः ॥८८॥ नग्नो विकीर्णकेशा स्त्री रुग्णः काषाम्बरस्तथा ।
विचित्तो जीर्णकन्थादि श्वपचो मलपात्रकम् ॥८९॥ मृतपक्षी लोहवस्तु विधवा कर्दमस्तथा ।
चर्म चर्मकरश्चापि तक्रं शवं च गर्भिणी ॥3.147.९० ॥ कारागारी कृष्णवृषः सर्पो मण्डूक इत्यपि ।
कृकलासो वनगोधा शशस्तुषाश्च सूकरः ॥९१॥ तृणान्यस्थि रक्तपुष्पं मार्जारो हिंस्रकः पशुः ।
लोहकारो यन्त्रपिष्टा मुण्डी च दुर्जनोऽपि वा ॥९२॥ जटी खञ्जश्च महिषो व्यङ्गश्च गर्दभस्तथा ।
रोदनं च यतिश्चापि शत्रुश्च बन्धितो जनः ॥९३ ॥ श्वयुद्धं च लुताजालं महत्पिपीलिकादयः ।
पिपीलिकाप्रवासश्च पाषाणो लवणं तथा ॥९४॥ क्षुवनं गोक्षुवनं च वन्ध्या रजकश्चाऽप्रियम् ।
अभिमिलेद् यदि मार्गे न गच्छेत्तत्र वै क्वचित् ॥९५॥ मरणं वा महादुःखं कार्याऽसिद्धिर्विडम्बना ।
वामाङ्गानि पुरुषस्य नार्या दक्षाङ्गकानि तु ॥९६॥ स्फुरेयुर्यदि विद्याद्वै महापत्तिं विनाशनम् ।
गमने यष्टिकापातः शस्त्रपातोऽथवा भवेत् ॥९७॥ मुकुटादेः प्रपातो वा पतनस्यैव सूचकः ।
पतनं स्वस्य हर्म्याग्रे सोपानादौ च वा यदि ॥९८॥ पराजयो भवेत्तूर्णं मरणं दुःखमित्यपि ।
एवं जातेषु तत्कालं शान्तिकर्माणि चाचरेत् ॥९९॥ विष्णुयागं रुद्रयागं देवपूजां ग्रहार्चनम् ।
जपदानव्रताद्यं च कुर्याच्छान्तिर्भवेद्ध्रुवा ॥3.147.१०० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने बहुविधोत्पातानां शान्तिकर्मादिकथननामा सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७ ॥