१४०

श्रीनारायणीश्रीरुवाच-
भगवन् पावनान्येव व्रतानि कथितानि मे ।
नवनवानि चान्यानि शिष्टान्यपि निवेदय ॥१ ॥ श्रीपुरुषोत्तम उवाच-
बहूनि सन्ति कमले! व्रतानि मोक्षदान्यपि ।
भुक्तिदान्यपि बहुधा वदामि शृणु तान्यपि ॥२ ॥ फलेच्छया विहितानि भोगदानि भवन्ति वै ।
मम प्रसन्नतार्थं तु कृतानि मोक्षदानि हि ॥३ ॥ सम्वत्सरं नक्तभोजी नक्तव्रतं समीरितम् ।
कार्तिकाद्वा ह्यषाढाद्वा समारभेत तद्व्रती ॥४ ॥ एकादशीं समारभ्य वर्षे पूर्णे तु धेनुयुक् ।
चक्रं सुदर्शनं हैमं दद्याच्छ्रीगुरवेऽर्पणे ॥५ ॥ सुसाधून् भोजयेच्चापि व्रतोद्यापनमाचरेत् ।
वस्त्रदानानि दद्याच्च विष्णुलोके स मोदते ॥६ ॥ एकभक्तं व्रतं कुर्यान्मध्याह्ने भोजनात्मकम् ।
देवाय सर्वं प्राऽर्प्यैव भुञ्जीत नाऽन्यया क्वचित् ॥७॥ वर्षव्रतं भवेदेतद् वर्षान्ते च महोत्सवम् ।
उद्यापनं कारयेच्च वृषभं कानकं दिशेत् ॥८॥ भोजनानि दिशेच्चापि साधुभ्यो गां दिशेदपि ।
एकान्तरव्रतं चापि वर्षमात्रं प्रपालयेत् ॥९ ॥ एकान्तरितभोजी स्याद् व्रतान्ते च महोत्सवम् ।
स्वर्णपद्मं दिशेद् दाने ह्युद्यापनं समाचरेत् ॥3.140.१ ०॥ शर्करापूर्णपात्रं च दद्यात् प्रभोजयेत् सतः ।
व्रती याति महापुण्यं चान्तेऽपि वैष्णवं पदम् ॥११ ॥ चातुर्मास्ये वर्जयेच्च देहाभ्यङ्गं सुतैलजम् ।
अभ्यङ्गवर्जनं त्वेदत् व्रतं प्रोक्तं तपः परम् ॥१२॥ व्रतान्ते तैलदानादि दद्याच्च भोजन्यान्यपि ।
मम प्रीतिकरं त्वेतत्तेन याति हरेः पदम् ॥१ ३॥ रसानां वर्जनं चापि रसव्रतं प्रकीर्तितम् ।
मधुनारिकेलवारिदधिक्षीरघृतैक्षवम् ॥१४॥ वर्जयेद् वत्सरान्ते वा ह्युद्यापनं समाचरेत् ।
रसदानादि दद्याच्च सूक्ष्मवस्त्राणि चार्पयेत् ॥१५॥ कामव्रतं प्रकुर्याच्च सदा शोकविनाशकम् ।
चातुर्मास्ये ब्रह्मचर्यपरायणः सदा भवेत् ॥१ ६॥ पूर्णे व्रते काञ्चनस्याऽशोकवृक्षं समर्पयेत् ।
इक्षुं समर्पयेच्चापि वस्त्राण्यपि समर्पयेत् ॥१७॥ उद्यापनं चरेद्भुक्त्वा भोगान् विष्णुपदं व्रजेत्॥ नखानां कर्तनं चातुर्मास्ये व्रती हि वर्जयेत् ॥१८॥ केशानां वपनं चापि चातुर्मास्ये विवर्जयेत् ।
अकर्तनसञ्ज्ञं चैतद् व्रतं कृत्वा महोत्सवम् ॥१ ९॥ कुर्यादुद्यापनं चान्ते भोजयेत् पायसं सतः ।
कानकान्नखकेशाँश्च दाने दद्याद् द्विजातये ॥3.140.२०॥ सौम्यां मूर्तिं मम लक्ष्मि तव प्रतिदिनं दिशेत् ।
मासपर्यन्तमेवैतत् सौम्यव्रतं प्रकीर्तितम् ॥२१ ॥ वैकुण्ठे सौम्यमुक्तः स्यादत्र वै चन्द्रमा भवेत् ।
बहुदानानि रत्नानां दद्यात्तु श्रावणाऽन्तके ॥२२॥ कार्तिके कानकीं मूर्तिं गृहोपस्करशोभिताम् ।
दद्यात् सम्पूज्य गुरवे सौभाग्यव्रतमुच्यते ॥२३ ॥ विष्णोर्मूर्तिं श्रिया मूर्तिं दद्याच्छ्रीगुरवे तदा ।
अन्यदानानि कुर्वीत श्रीहरिः प्रीयतामिति ॥२४॥ सारस्वतं व्रतं कुर्यात् सन्ध्यायां मौनमेव तु ।
सम्वत्सरं व्रतं कृत्वा घृतकुम्भं तिलान् घटम् ॥२५॥ वस्त्रयुग्मं च पात्रं च घण्टां दद्याद् द्विजायते ।
गोदानं गुरवे दद्यात् पुस्तकानां प्रदानकम् ॥२६॥ सारस्वतव्रतं चेदं विद्यारूपादिदायकम् ।
अथ सम्पद्व्रतं कुर्यात् पञ्चम्यां माधवीं सतीम् ॥२७॥ लक्ष्मीं नित्यं पूजयेच्च वर्षान्ते हेमपद्मकम् ।
कमलं गुरवे दद्याद्धेनुं दोग्ध्रीं सवत्सिकाम् ॥२८॥ स वैष्णवं पदं याति लक्ष्मीवान् जन्मजन्मसु ।
नित्यं वै मार्जयेत् सर्वं मन्दिरं श्रीपते प्रभोः ॥२९॥ वर्षान्ते प्रदिशेद्धेनुं दोग्ध्रीं जलघटं तथा ।
जन्मायुतं स राजा स्यात्ततो विष्णुपुरं व्रजेत् ॥3.140.३० ॥ एतदायुर्व्रतं नाम पापमार्जनकारकम् ।
अथ कीर्तिर्व्रतं कुर्यादेकभुक्तं सदाऽऽचरेत् ॥३ १ ॥ वर्षान्ते धेनुदशकं दद्याद् वृक्षं हिरण्मयम् ।
अश्वमेधफलं स्याच्च भूतिकीर्तिफलं भवेत् ॥३२॥ अथ सामव्रतं प्रोक्तं नित्यं स्तोत्रं प्रकीर्तयेत् ।
हरेरग्रे त्रिकालं वै तिलदानं च नित्यदा ॥३३॥ पुष्पाऽक्षतप्रदानं च हरये पूजनार्थकम् ।
सम्वत्सरान्ते पूर्णे च हेमपद्मं दिशेन्महत् ॥३४॥ अष्टाङ्गुलं तिलधेनुं दद्याद्याति परं पदम् ।
अथ वीरव्रतं कुर्यान्नवम्यामेकभुक्तकः ॥३५॥ कन्यका भोजयेद् वर्षं वर्षान्ते हेमकञ्चुकीः ।
शाटीर्हैमं केशरिणं दद्याच्छ्रीगुरवे तथा ॥३६॥ कन्यकाभ्यो यथायोग्यभूषाम्बरादि चार्पयेत् ।
जन्मार्बुदं सुरूपः स्याच्चाऽन्ते धाम हरेर्व्रजेत् ॥३७॥ सम्वत्सरं पूर्णिमायां पयोव्रती भवेत्तथा ।
समान्ते पञ्चधेनूश्च दोग्ध्रीर्दद्यात् सवत्सिकाः ॥३८॥ वासांसि च पिशङ्गानि जलकुम्भयुतानि च ।
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् ॥३९॥ पितृश्राद्धं कारयेच्च पितृव्रतमिदं मतम् ।
अथ चैत्रादिमासेषु चतुर्षु शीतलं जलम् ॥3.140.४०॥ पाययेत् सर्वलोकांश्च व्रतान्ते मणिकं दिशेत् ।
अन्नवस्त्राणि दद्याच्च तिलपात्रं सुवर्णकम् ॥४१ ॥ जलानन्दव्रतं त्वेतत् कल्पान्तो भूपतिर्भवेत् ।
अथ कुर्याद् धृतिव्रतं प्रत्यहं श्रीहरिं तु माम् ॥४२॥ पञ्चामृतेन सुभगं स्नपनं कारयेत्ततः ।
वर्षान्ते शङ्खदानं च कुर्याद् याति हरेः पदम् ॥४३॥ मा हिंस्यात् सर्वभूतानि वर्षान्ते व्रतकृज्जनः ।
गोदानं हेमहरिणप्रदानं चाचरेत् त्विदम् ॥४४॥ अहिंसाव्रतमेतेन कल्पान्तो भूपतिर्भवेत् ।
अथ माघस्नानमेव कुर्याच्छीतेन वारिणा ॥४५॥ सूर्यं नित्यं पूजयेच्च दद्याद् दानं द्विजातये ।
धान्यवस्त्रविभूषादि सूर्यव्रतं तदुच्यते ॥४६ ॥ चातुर्मास्ये महाविष्णुं महालक्ष्मीं च पूजयेत् ।
गोदानं भोजनं चापि यथाशक्ति दिशेद् व्रती ॥४७॥ स वैष्णवपदं याति विष्णुव्रतमिदं शुभम् ।
अथ व्रतं शीलनाम शीलाऽऽरोग्यफलप्रदम् ॥४८॥ वर्षं पूर्णं ब्रह्मचर्यं पालयेत् स्त्रीः नरोऽपि वा ।
घृतधेनुः प्रदद्याच्च पुष्पमालाः सदाऽर्पयेत् ॥४९॥ सुसाधून् घृतमुत्कृष्टं पायसं भोजयेत्तथा ।
उद्यापनं वत्सरान्ते कुर्याद् धान्यधनं दिशेत् ॥3.140.५० ॥ अनादिश्रीकृष्णनारायणाऽक्षरं प्रयाति सः ।
अथ वर्षं न भुञ्जीत तैलं यच्छेत्प्रदीपकम् ॥५१ ॥ स्वर्णं दीपं काञ्चनं च चक्रं दद्याद् द्विजातये ।
वस्त्रयुग्मं प्रददेत याति ब्रह्मपदं हि सः ॥५२॥ दीपव्रतमिदं प्रोक्तं दीप्तिदं रूपदं तथा ।
अथ कार्तिकमारभ्य नक्तं भुञ्जीत पायसम् ॥५३॥ वर्षान्ते गां प्रदद्याच्च पायसाख्यव्रतं त्विदम् ।
कल्याणकारकं पृथ्व्या राज्यप्रदं प्रमोक्षदम् ॥५४॥ अथ गन्धानुलेपादि वर्जयेद् वत्सरं सदा ।
निर्गन्धाख्यं व्रतं प्रोक्तं वर्षान्ते गन्धदानकम् ॥५५॥ अथ कान्तिव्रतं कुर्याद् गोदानं प्रत्यहं दिशेत् ।
लवणं नैव भुञ्जीत सम्वत्सरं ततः परम् ॥५६॥ उद्यापनं प्रकुर्याच्च कान्तिकीर्तिफलप्रदम् ।
राजा भूत्वा कल्पपूर्णं विष्णुलोके वसेद् ध्रुवे ॥५७॥ ब्रह्मव्रतं ततः कुर्याद् ब्रह्माण्डं काञ्चनं शुभम् ।
स्वल्पं तिलसमायुक्तं पुण्ये दिने द्विजायते ॥५८॥ दद्यात् त्रिदिवसान् तिलाशनो भवेद् व्रती तथा ।
माल्यवस्त्रविभूषाणां दानं कुर्याद् व्रती परम् ॥५९॥ ब्रह्मलोकं प्रयात्येषो निर्वाणपदमाप्नुयात् ।
शक्तितस्त्रिपलादूर्ध्वं ब्रह्माण्डं परिकीर्तितम् ॥3.140.६०॥ अथ धेनुव्रतं कुर्यात् त्र्यहं पयोव्रती भवेत् ।
काञ्चनं च वृषं धेनुं ददेतोभयतोमुखीम् ॥६१ ॥ तण्डुलान् सम्प्रयच्छेच्च पलोर्ध्वं कानकं वृषम् ।
दत्वा ब्रह्मपदं याति गोलोकं धेनुसद्व्रतात् ॥६२॥ अथ कल्पव्रतं कुर्यात् पलोर्ध्वं कल्पपादपम् ।
कृत्वा दद्यात् साधवे च तण्डुलान् द्विदलान्वितान् ॥६३॥ कल्पदानेन कल्पान्ते स्वर्गाद् गच्छति मत्पदम् ।
अथ मासोपवासी स्यात् प्रयच्छेन्महिषीं शुभाम् ॥६४॥ दोग्ध्रीं श्रीगुरवे चैतन्माहिषं व्रतमुच्यते ।
दद्याद् विंशतिपलोर्ध्वं पृथिवीं काञ्चनीं शुभाम् ॥६५॥ धराव्रतमिदं प्रोक्तं त्वैकभोजी दिने भवेत् ।
सप्तकल्पशतान्येव वसति श्रीशमन्दिरे ॥६६॥ ततो यात्यक्षरं धाम धराव्रतकरः पुमान् ।
मद्भक्तो मां प्रयात्येव पार्षदः सन् प्रसेवते ॥६७॥ माघे चैत्रे गुडं दद्याद् गुडव्रतपरायणः ।
गुडभोजी गुडपायी तिलैर्गुडैः प्रपूजयेत् ॥६८॥ मां. लक्ष्मीं च गुडदाने दद्याद् गुडमयीं गुडम् ।
गुडव्रतमिदं प्रोक्तं मुक्तिदं मोक्षदं तथा ॥६९॥ अथ पक्षोपवासी स्यात् कपिलायुगलं दिशेत् ।
उद्यापनं प्रकुर्याच्च परमानन्दकारकम् ॥3.140.७०॥ कल्पान्ते राजराजः स्यात् कपिलाव्रतमेव तत् ।
अथ वर्षं चैकभोजी नित्यभोज्यजलप्रदः ॥७१ ॥ विष्णुलोके वसेदन्ते प्राप्तिव्रतमिदं मतम् ।
नक्ताशी चाष्टमीषु स्याद् वत्सरान्ते च धेनुदः ॥७२॥ स्वर्गं याति ततश्चान्ते ब्रह्मपदं प्रयाति सः ।
सुगतिव्रतमेवेदं प्रोच्यते सद्गतिप्रदम् ॥७३॥ विप्रायेन्धनदो यस्तु वत्सरं धेनुदस्तथा ।
वैश्वानरव्रतं चेदं तत्कर्ता ब्रह्म गच्छति ॥७४॥ एकादश्यां व्रतकर्ता द्वादश्यां काञ्चनीं शुभाम् ।
अनादिश्रीकृष्णनारायणमूर्तिं ददाति च ॥७५॥ समान्ते वैष्णवं हैमं चक्रं ददाति यो व्रती ।
एतत्कृष्णव्रतं कृत्वा कल्पान्ते राज्यभाग् भवेत् ॥७६॥ वर्षान्ते मां प्रदायैव मम धाम ह्यवाप्नुयात् ।
पायसाशी समान्ते तु दद्याद् विप्राय गोयुगम् ॥७७॥ लक्ष्मीलोकमवाप्नोति श्रीव्रतं चैतदुच्यते ।
सप्तम्यां यः प्रदद्याच्च धेनुं पयस्विनीं शुभाम् ॥७८ ॥ सूर्यलोकं प्रयात्येव भानुव्रतं तदुच्यते ।
चतुर्थ्यां नक्तभुक् दद्यादब्दान्ते हेमहस्तिनम् ॥७९॥ व्रतं वैनायकं नाम भुक्तिमुक्तिफलप्रदम् ।
चातुर्मास्ये स्वर्णरूप्यफलानि चार्पयेद् व्रती ॥3.140.८० ॥ फलव्रतं विष्णुलोकप्रदं त्वेतन्महाबलम् ।
यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् ॥८ १ ॥ गाश्च दद्यात् स्वर्णघटे सौरव्रतं प्रकीर्तितम् ।
सूर्यलोकप्रदं चैतत् सूर्यदानं दिशेदपि ॥८२॥ द्वादश द्वादशीर्यस्तु समाप्योपोषणेन ह ।
गोवस्त्रकाञ्चनभूषा दद्याच्छ्रीगुरवे व्रती ॥८३॥ परं पदमवाप्नोति विष्णुव्रतमिदं रमे ।
कार्तिक्यां तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ॥८४॥ शैवपदं समाप्नोति वार्षव्रतमिदं मतम् ।
गोपदानि सुवर्णानि दद्याद् दाने पदव्रतम् ॥८५॥ सप्तरात्रोषितो दद्याद् घृतकुम्भं तु साधवे ।
घृतव्रतमिदं प्रोक्तं ब्रह्मलोकफलप्रदम् ॥८६॥ आकाशशायी वर्षासु चान्ते धेनुं पयस्विनीम् ।
दद्यादाकाशसञ्ज्ञं च व्रतमिन्द्रपदप्रदम् ॥८७॥ अनग्निपक्वभोजी च तृतीयायां ततः परम् ।
गोदानं तु प्रकुर्याद्वै मासान्ते यः पयस्विनीम् ॥८८॥ श्रेयोव्रतमिदं प्रोक्तं गोलोकदं सुखप्रदम् ।
हैमं पलद्वयादूर्ध्वे रथं चाश्वयुजं शुभम् ॥८९॥ ददानो द्राग् वसेत् स्वर्गे कल्पशतं रथव्रती ।
कल्पान्ते राजराजः स्यात्ततो याति परं पदम् ॥3.140.९०॥ षष्मासानुपवासान् यः कुर्यादेकान्तरं दिनम् ।
समान्ते गोप्रदः स्याच्च वारुणं व्रतमुच्यते ॥९१ ॥ वारुणं राज्यमासाद्य ततो याति परं पदम् ।
चान्द्रायणं व्रतं कुर्याद्धेमचन्द्रं दिशेत् सते ॥९२॥ चन्द्रव्रतमिदं श्रेष्ठं चन्द्रलोकफलप्रदम् ।
ज्येष्ठे पञ्चतपा नित्यं हेमधेनुप्रदो भवेत् ॥९३॥ तपोव्रतमिदं प्रोक्तं साम्राज्यं लभते ततः ।
वैकुण्ठं चापि गोलोकं चाऽक्षरं लभते ततः ॥९४॥ देवालये वितानं तु दद्यात् पटादिभिः कृतम् ।
वितानदो दिवं याति वितानव्रतसत्फलात् ॥९५॥ माघे निन्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् ।
राजा भवेद् दिवं याति चार्द्रव्रती प्रमुक्तिगः ॥९६॥ श्रेष्ठं तु भवनं धाम ददाति फाल्गुने तु यः ।
धामव्रती प्रयात्येव परमेश्वरमन्दिरम् ॥९७॥ साधुं साध्वीं प्रपूज्यैव भोजयेद्मिष्टमुत्तमम् ।
स्वयं प्रसादं भुञ्ज्याच्च प्रसादाख्यव्रतं त्विदम् ॥९८॥ सर्वपापहरं पुण्यप्रदं मोक्षप्रदं तथा ।
पावनं सर्वश्रेष्ठं वै पङ्क्तिपावनमुत्तमम् ॥९९॥ प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः ।
नित्यं वैश्वानरपूजाकर्ता याति विभावसुम् ॥3.140.१० ०॥ वैश्वानरव्रतं चेदं दिव्यतादं सुखप्रदम् ।
दशम्यानेकभक्ताशीं समान्ते दशधेनुदः ॥१ ०१ ॥ सुवर्णपत्रिकां दद्याद् ब्रह्माण्डाधिपतिर्भवेत् ।
विश्वव्रतं प्रोच्यते वै लक्ष्मि पुण्यस्य सागरः ॥१ ०२॥ कीर्तनं सर्वदा कुर्यात् कीर्तनाख्यं व्रतं त्विदम् ।
कथां च सर्वदा कुर्यात् कथाख्यं तु व्रतं त्विदम् ॥१० ३॥ भजनं सर्वदा कुर्याद् भजनाख्यं व्रतं त्विदम् ।
एकषष्टिव्रतान्येवं लक्ष्मि ते कथितानि वै ॥१ ०४॥ लोकानामुपकारार्थं यतो लोकस्त्रिरङ्गवान् ।
पठनाच्छ्रवणाच्चास्य स्मरणात् करणादपि ॥१ ०५॥ अनुमोदनदानाच्च सहाय्यकरणादपि ।
व्रतपुण्यं लभेतैव भुक्तिं मुक्तिमवाप्नुयात् ॥१०६॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने प्रकीर्णकानामेकषष्टिव्रतानां सङ्क्षेपतो निरूपणनामा चत्वारिंशदधिकशततमोऽध्यायः ॥१४० ॥