१३६

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं लक्ष्मीनाम्नां शतद्वयम् ।
पुरा जप्त्वा समाराध्य तपः कृत्वा तवोपरि ॥१ ॥ अच्छोदा नाम पितॄणां कन्यका मानसी शुभा ।
अमावसुं हि बलिनं पतिं प्राप्तवती ततः ॥२ ॥ पितॄणां च महालक्ष्म्या आशीर्वादमवाप सा ।
मत्स्ययोनिसमुत्पन्ना वसोः राज्ञः सुवीर्यजा ॥३ ॥ कन्यका धीवरपोष्या सस्यवती भविष्यसि ।
पराशरस्य वीर्येण .पुत्रमेकमवाप्स्यसि ॥४ ॥ द्वीपे तु बदरीप्राये बादरायणमच्युतम् ।
विष्णोर्माता स्वयं भूत्वा ततः परं विवाहिता ॥५ ॥ समुद्रांशेन भूपेन शन्तनुना सुपुत्रिणी ।
भविष्यसि सुतौ चित्राङ्गदविचित्रवीर्यकौ ॥६ ॥ उत्पाद्य च ततः पितृलोकं प्रयास्यसि द्रुतम् ।
प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि ॥७ ॥ नाम्ना सत्यवती लोके पितृलोके तथाऽष्टका ।
आयुरारोग्यदा नित्यं सर्वकामफलप्रदा ॥८ ॥ भविष्यसि ततश्चापि नदीत्वं संव्रजिष्यसि ।
अच्छोदानामतश्चापि पित्रुद्धारकरी सदा ॥९ ॥ इत्येवं सा पितृकन्या लक्ष्मीशान्तिव्रतेन वै ।
ख्यातिमती व्यासमाता वरदानमवाप ह ॥3.136.१० ॥ गीयते द्वे शते नाम्नां येनाऽष्टम्यां च पूजने ।
गोदाने श्राद्धदाने वा बहुपुत्रो भवेद्धि सः ॥११ ॥ द्वे शते ते तथा लक्ष्मि तीर्थान्यपि भवन्ति च ।
सृष्टित्रयेऽपि तत्रापि स्नाता ब्रह्माऽधिगच्छति ॥१२॥ पितरस्तस्य सन्तृप्तास्तरन्ति ब्रह्म यान्त्यपि ।
अथ चान्ये बर्हिषदः पुलस्त्यस्य सुता दिवि ॥१ ३॥ पितरः शतशः सन्ति तासां कन्या तु मानसी ।
पीवरी नामतः साध्वी चक्रे लक्ष्मि व्रतं तव ॥१४॥ लक्ष्मीशान्तिकरं कृत्वा व्रतं तपश्च दारुणम् ।
त्वां लब्ध्वा गोचरां दिव्यां हरिकृष्णयुतां वने ॥१५॥ वरं चावाप तत्रैव त्वत्तः पतिमती भव ।
पतिस्ते शुक्रदेवो वै महायोगी भविष्यति ॥१६॥ व्याससुतस्तस्य भार्या भवती मानसीं सुताम् ।
कृत्वीनाम्नीं लप्स्यसे च योगिनीं दिव्यशोभनाम् ॥१७॥ दास्यसि त्वं सुतां राज्ञे पाञ्चालेशाय वै ततः ।
पुत्रास्तेऽपि च चत्वारः कृत्व्यनुजा महेश्वराः ॥१८॥ कृष्णो गौरः प्रभुः शम्भुर्भविष्यन्ति प्रमुक्तिदाः ।
पतिपुत्रादिसहिता चिरेण मोक्षमेष्यसि ॥१९॥ इत्येवं पीवरी प्राप्ता वरदानं तव व्रतात् ।
अथ चाऽन्ये पितरोऽपि मरीचिगर्भनामिनः ॥3.136.२० ॥ एतेषां मानसी कन्या यशोदा नामतः शुभा ।
कृत्वा व्रतं तव लक्ष्मि पत्नी ह्यंशुमतोऽभवत् ॥२१ ॥ जनन्यपि दिलीपस्य भगीरथपितामही ।
अजायत ततः स्वर्गं मोक्षं गताऽपि सुन्दरी ॥२२॥ अथाऽऽज्यपानां कन्यापि नाम्ना तु विरजा पुरा ।
लक्ष्मीशान्तिव्रतं कृत्वा नहुषस्य प्रियाऽभवत् ॥२३॥ ययातेर्जननी सा च ऐकाष्टकाऽभवत्ततः ।
ब्रह्मलोकगता तत्र मोदते शाश्वतीः समाः ॥२४॥ अथ मानसपितॄणां कन्या तु नर्मदा सती ।
लक्ष्मीशान्तिव्रतं कृत्वा नदीरूपा प्रमोदते ॥२५॥ प्रमोदते सदा स्वर्गे पितृलोकेऽपि मोदते ।
पूज्यते त्रिषु लोकेषु हरेर्नर्मप्रदा सखी ॥२६॥ अथ गौः पितृकन्यापि लक्ष्मीशान्तिव्रतेन वै ।
शुक्रस्य दयिता पत्नी साध्यमाता विराजते ॥२७॥ एवं स्वर्गे तथा सत्ये भूतलेऽपि स्थले-स्थले ।
लक्ष्मीशान्तिव्रतेनैव मोदन्ते सम्पदर्द्धिभिः ॥२८॥ अथ लक्ष्मि शुकपुत्री नाम्ना कृत्वी तु योगिनी ।
पितृमानसकन्यायाः पीवर्याः पुत्रिका पुरा ॥२९॥ लक्ष्मीशान्तिव्रतं चक्रे नारायणसमन्वितम् ।
पुत्रार्थं तत्पतिश्चापि पञ्चालाधिपतिर्नृपः ॥3.136.३ ०॥ अनघो नाम वैभ्राजो हरिं नारायणं रमाम् ।
लक्ष्मीशान्तिव्रतेनैव तोषयामास वै ततः ॥३ १ ॥ लक्ष्मीजनार्दनौ तुष्टौ प्राहतुस्तौ वराय च ।
वव्राते तौ वरं पुत्रं नारायणसमं तदा ॥३२॥ पारगं सर्वशास्त्राणां धार्मिकं योगिनं वरम् ।
सर्वभूतरुतज्ञं च महाबलपराक्रमम् ॥३३॥ एवमस्त्विति चार्पय्य वरदानं तिरोगतौ ।
सोऽयं नारायणः साक्षात्तस्य पुत्रोऽभवत्तदा ॥३४॥ ब्रह्मदत्ताभिधानो वै दयालुः सत्त्वसद्बलः ।
तस्य भार्याऽभवल्लक्ष्मीर्नाम्ना सन्नतिरित्यथ ॥३५॥ विश्वक्सेनोऽभवत्तस्याः पुत्रोऽपि भगवान् स्वयम् ।
एवं लक्ष्मीव्रतपुण्यं महाफलप्रदं सदा ॥३६॥ अथ कर्दमपत्नी या सिनीवाली पुराऽभवत् ।
लक्ष्मीशान्तिव्रतं कृत्वा देवहूती ततोऽभवत् ॥३७॥ कपिलं श्रीहरिं पुत्रं प्राप्तवती व्रतेन ते ।
द्युतिस्तप्त्वा तपः कृत्वा लक्ष्मीशान्तिव्रतं पुरा ॥३८॥ विभावसुं पतिं लेभे पवमानादिकान् सुतान् ।
तुष्टिस्तेपे तपश्चापि लक्ष्मीशान्तिव्रतं व्यधात् ॥३९॥ पतिं प्राप हि धातारं सर्वलोकनमस्कृतम् ।
प्रभा कृत्वा व्रतं लेभे पतिं प्रभाकरं हरिम् ॥3.136.४० ॥ कुहूः कृत्वा व्रतं लेभे हविष्यन्तं पतिं शुभम् ।
कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम् ॥४१ ॥ धृतिः प्राप्ता पतिं नन्दिं पुरूरवसमुर्वशी ।
उर्वशी त्वेकदा लक्ष्मीस्वयंवरे ननर्त ह ॥४२॥ लक्ष्मीशान्तिव्रतं चक्रे सुतानष्टावजीजनत् ।
आयुं दृढायुमश्वायुं धनायुं सधृतिं वसुम् ॥४२॥ शुचिविद्यं शतायुं च ततो दिवं ययौ हि सा ।
अथ लक्ष्मि वृषपर्वसुता शर्मिष्ठिका शुभा ॥४४॥ लक्ष्मीशान्तिव्रतं कृत्वा ययातिं प्राप सत्पतिम् ।
शुक्रपुत्री देवयानी चक्रे लक्ष्मीव्रतं ततः ॥४५॥ गुरुपुत्रं कचं दैत्यवृकैरत्तमजीवयत् ।
पुनर्दैत्यैर्मदिरायां चूर्णितं पायितं कचम् ॥४६॥ शुक्राय स च शुक्रोऽपि सञ्जीवनीं कचाय वै ।
ददावुदरस्थायाऽपि देवयान्याः शुभाग्रहात् ॥४७॥ लक्ष्मीशान्तिव्रतं कृत्वा कचः पितृगृहं ययौ ।
सञ्जीवनीं स्वशिष्येभ्योऽध्यापयामास तद्बलात् ॥४८॥ अथ वै ज्यामघभार्या चैत्रा लक्ष्मीव्रतेन वै ।
पुत्रं विदर्भसञ्ज्ञं चाऽवाप सद्गुणशालिनम् ॥४९॥ स्नुषा पतिं ह्यवापाऽथ लक्ष्मीव्रतेन तं तथा ।
या जिता रणसङ्ग्रामे ज्यामघेन स्नुषा कृता ॥3.136.५०॥ लक्ष्मीशान्तिव्रतं चक्रे दृशद्वती ह्युशीनरात् ।
शिबिमौशीनरं पुत्रं लेभे वै चक्रवर्तिनम् ॥५१ ॥ बलेः पत्नी सुदेष्णा च कृत्वा लक्ष्मीव्रतं पुरा ।
अङ्गं वङ्गं कलिङ्गं च पुण्ड्ं सुह्मं सुतान् शुभान् ॥५२॥ दीर्घतमसः संलेभे ब्राह्मणान् राज्यभोगिनः ।
शकुन्तला व्रतं कृत्वा लेभे तु भरतं सुतम् ॥५३॥ ममता तु व्रतं कृत्वा भरद्वाजं सुतं शुभम् ।
अवाप तु बृहस्पतेर्भरताय ददौ च तम् ॥५४॥ हिरण्यनाभिनः शिष्यः कौशल्यस्य महात्मनः ।
कृतायनो व्रतं कृत्वा लक्ष्मीप्रसादतस्ततः ॥५५॥ चतुर्विंशतिधाश्चक्रे दिव्या वै सामसंहिताः ।
अहल्या तु दिवोदासभगिनी वै शरद्वतात् ॥५६॥ शतानन्दमृषिं पुत्रं लेभे लक्ष्मीव्रतात् किल ।
कावेरी कृष्णवेणी च नर्मदा यमुना तथा ॥५७॥ गोदावरी वितस्ता च चन्द्रभागा इरावती ।
विपाशा कौशिकी चापि शतद्रूः सरयूस्तथा ॥५८॥ सीता मनस्विनी चापि ह्रदिनी पावना नदी ।
लक्ष्मीशान्तिव्रतं कृत्वा धिष्ण्यान् पुत्रान् हि लेभिरे ॥५९॥ एवमन्या योषितोऽपि कृत्वा लक्ष्मीव्रतं त्विदम् ।
लेभिरे सम्पदः पुत्रीपुत्रान् स्वर्गं च मोक्षणम् ॥3.136.६०॥ शृणु लक्ष्मि व्रतं श्रेष्ठं सौभाग्यशयनं त्वपि ।
पुरा कृतं त्वया त्वेतत् सर्वकामफलप्रदम् ॥६१ ॥ पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महःसु च ।
सौभाग्यं सर्वभूतानां पिण्डीभूतं तदाऽभवत् ॥६२॥ वैकुण्ठं तत् समासाद्य विष्णोर्वक्षःस्थले स्थितम् ।
पुनः सृष्टौ प्रजायां तत् सौभाग्यं गन्तुमिच्छुकम् ॥६३॥ हरेर्वक्षःस्थलाल्लक्ष्मीरूपं प्रादुरजायत ।
सर्वसौख्यप्रदं तच्चाऽभवद्धरेरनुज्ञया ॥६४॥ लक्ष्मीरूपं विहायैव रसरूपं सुधात्मकम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये सृष्टेर्वै धुरन्धराः ॥६५॥ ते सौभाग्यं पपुस्तत्र रसं देवीसमन्विताः ।
रूपलावण्यसौभाग्यतेजोबलादिवर्धनम् ॥६६॥ शेषं सर्वप्रभूतार्थमष्टधा समजायत ।
रसात् सप्ताऽभवन् मोदाः सप्त सौभाग्यदायिनः ॥६७॥ इक्षवो गुडपिण्डावा निष्पावा जीरकानि च ।
गोक्षीरादि कुसुम्भं च सिन्दूरं कुङ्कुमं तथा ॥६८॥ लवणं चेति सौभाग्यं वर्धन्ते तानि तद्व्रतात् ।
नारायणेन सौभाग्यात्मकं स्वेनापि रक्षितम् ॥६९॥ लालनात् साऽभवत्तस्य ललिता नाम सुन्दरी ।
लोकान् सौभाग्यरूपान् सा लालयत्येव सर्वदा ॥3.136.७०॥ लोकानवाप्य लालित्याल्ललिताश्रीस्तदुच्यते ।
त्रैलोक्यसुन्दरीमेनामुपयेमे महाप्रभुः ॥७१ ॥ या लोके सौभाग्यमयी भुक्तिमुक्तिफलप्रदा ।
त्वमेव लक्ष्मि सञ्जाता महालक्ष्मीः सुभाग्यदा ॥७२॥ त्वामाराध्य नरो नारी भक्त्या किं किं न विन्दति ।
आराधनं व्रतं ते तद् वक्ष्याम्यत्र हितावहम् ॥७३॥ वसन्तमासमासाद्य तृतीयायां तु शुक्लके ।
पूर्वाह्णे यजमानस्तु तिलैः स्नानं समाचरेत् ॥७४॥ सौभाग्या ललिता देवी वव्रे नारायणं तदा ।
तया सहैव मां नारायणं सम्पूजयेत् प्रगे ॥७५॥ तृतीयायां फलैः पुष्पैर्धूपैर्दीपैर्निवेदनैः ।
पञ्चगव्येन च तीर्थतोयैः संस्नापयेच्छ्रियम् ॥७६॥ नमो लक्ष्म्यै महालक्ष्म्यै ललितायै तु मस्तके ।
नमो देव्यै महादेव्यै ललितायै मुखे नमः ॥७७॥ नमो ब्राह्म्यै महाब्राह्म्यै वैष्णव्यै हृदये नमः ।
नमो मात्रे महामात्रे नारायण्यै तथोदरे ॥७८॥ नमः श्रियै महाश्रियै वासुदेव्यै कटिस्थले ।
नमो भाग्यै महाभाग्यै सौभाग्यायै उरौ नमः ॥७९॥ नमो भूम्न्यै महाशून्यै व्यापिकायै च पादयोः ।
नमोऽनादिकृष्णनारायणपत्न्यै समन्ततः ॥3.136.८०॥ सौभाग्यभवनायै ते नमः कान्ताविभूतये ।
नमो युगलरूपायै दम्पत्यै ते नमो नमः ॥८ १ ॥ सर्वसौभाग्ययुक्तायै ललितायै नमोनमः ।
एवं संस्नाप्य विधिना वस्त्रालङ्कारमर्पयेत् ॥८२॥ भूषणानि समस्तानि शृङ्गाराणि समर्पयेत् ।
घृतं सिन्दूरकं क्षीरं कुङ्कुमं लवणं तथा ॥८३ ॥ जीरकं कज्जलं चापि चन्दनं रक्तचन्दनम् ।
हरिद्रां कर्पूरकं च कस्तूरीं कङ्कणानि च ॥८४॥ शृङ्खलां नत्थिकां तन्तीं नूपुरोर्मिकसंयुताम् ।
निष्पावान् पत्रिकां पूगीफलं ताम्बूलकं तथा ॥८५॥ शर्करां च लवङ्गं च एलां संस्थापयेत् पुरः ।
धूपं दीपं च नैवेद्यं दद्याज्जलं सुगन्धि च ॥८६॥ आरार्त्रिकं प्रकुर्याद्वै ललितायाः प्रदक्षिणम् ।
नमस्कारं पुनः कुर्यात् पुष्पाञ्जलिं समर्पयेत् ॥८७॥ प्रार्थयेल्ललितां कृष्णं दीयेतां भाग्यमुत्तमम् ।
दम्पतीरूपमेवापि ह्यखण्डितसुखावहम् ॥८८॥ रसधान्यादिभोज्यानि मिष्टान्नानि सदा गृहे ।
सूपौदनानि शाकानि दध्योदनानि यानि च ॥८९॥ क्षीरोद्भवानि सर्वाणि चेक्षुभवानि यानि च ।
वेशवारादिकं चापि मुखवासादिकानि च ॥3.136.९० ॥ शय्यास्तरणयानानि वेषशृङ्गारकाणि च ।
भूषाम्बराणि सर्वाणि विविधाभूषणानि च ॥९१ ॥ यानवाहनरथका गोवाजिगजसद्वृषाः ।
दासदासीभृत्यसखीवर्गाः स्वर्णालयास्तथा ॥९२॥ भवनानि विचित्राणि क्षेत्राणि वाटिकास्तथा ।
महोद्यानानि सर्वाणि वंशः पुत्राः सुतास्तथा ॥९३॥ स्नुषाश्च बान्धवाश्चापि यशो कीर्तिश्च सम्पदः ।
ऋद्धिः शान्तिः रत्नगजा आरोग्यं धर्म उत्तमः ॥९४॥ भक्तिर्ज्ञानं च दीयन्तां कृष्णौ धामाक्षरं ततः ।
एवमभ्यर्च्य तौ तत्र स्थापयेन्मण्डपे त्वथ ॥९५॥ हवनं तु प्रकुर्याद्वै चाष्टोत्तरशतात्मकम् ।
दक्षिणां च ततो दद्याद् भोजयेद्विप्रसज्जनान् ॥९६॥ दीनाऽनाथान् भोजयेच्च दद्याद्दानानि वै ततः ।
परिहारं प्रकुर्वीत मध्याह्ने पुनरेव च ॥९७॥ भोजयेद् विविधं भोज्यं जलं ताम्बूलकं दिशेत् ।
स्वापयेद्घटिकामुत्थापयेत् कृष्णां नरायणम् ॥९८॥ जलं फलं प्रदद्याच्च सायं रात्रौ प्रपूजयेत्॥ आरार्त्रिकं सोत्सवं च कारयेद् भोजयेत्ततः ॥९९॥ स्वापयेद् भगवन्तौ तौ शयने मृदुले शुभे ।
सहैव शयनं चैतत् सौभाग्यशयनं व्रतम् ॥3.136.१० ०॥ प्रातरुत्थापयेद् देवौ पूजयेद् विधिना ततः ।
तथा च द्विजदाम्पत्यं पूजयेद् वस्त्रभूषणैः ॥१०१ ॥ सौभाग्याऽष्टकसंयुक्तं सुवर्णचरणद्वयम् ।
द्वयोश्चतुष्टयं दद्याद् विप्राय साधवे तदा ॥१ ०२॥ ललितां गुरवे दद्यात् कृष्णं दद्यात्तु साधवे ।
युगलं साधवे दद्यात् सौभाग्यचिरताप्तये ॥१ ०३॥ एवं सम्वत्सरं यावत् तृतीयायां समाचरेत् ।
वत्सरान्ते प्रकुर्याच्च सूद्यापनं महत्तमम् ॥१ ०४॥ चैत्रे शृङ्गाटकं दद्याद् वैशाखे घृतपायसम् ।
ज्येष्ठे मन्दारकुसुमं वृन्दापत्रं शुचौ तथा ॥१ ०५॥ श्रावणे दधि दद्याच्च नभस्ये तु कुशोदकम् ।
क्षीरमाश्वयुजे मासि कार्तिके नवनीतकम् ॥१ ०६॥ मार्गे मासे द्विदलां च पौषे घृतं सशर्करम् ।
माघे कृष्णातिलान् दद्यात् पञ्चगव्यं तु फाल्गुने ॥१ ०७॥ तुलसीकमलादीनि सर्वमासे मतानि वै ।
एवं कृत्वा व्रतं नारी कुमारी विधवाऽपि वा ॥१ ०८॥ व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ।
लक्ष्मीनारायणौ हैमौ शयने स्थापयेत्ततः ॥१ ०९॥ दानं दद्याद् ब्राह्मणाय साधवे वा सुपूजिने ।
धान्यालङ्कारगोदानं धनं दद्याद् द्विजातये ॥3.136.१ १ ०॥ एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् ।
सर्वान् कामानवाप्नोति पदं चानन्तमश्नुते ॥१११ ॥ यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम् ।
करोति स्त्री नरो वापि देव्यनुग्रहलालितौ ॥१ १२॥ पूज्यमानौ वसेतां स्वः यावत्कल्पाऽयुतत्रयम् ।
शृणुयाद्वा पठेद्वापि प्रदद्यादथ वा मतिम् ॥१ १ ३॥ सोऽपि देवेश्वरो भूत्वा स्वर्गे वसेन्न संशयः ।
भुक्तिं मुक्तिमवाप्नोति शाश्वतानन्दसम्पदः ॥१ १४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लक्ष्मीशतद्वयनामजपेन पितृकन्यकादीनां स्वेष्टफलावाप्तिः, लक्ष्मीसौभाग्यशयनव्रतविधि-
श्चेतिनिरूपणनामा षट्त्रिंशदधिकशततमोऽध्यायः ॥१३६ ॥