१३१

श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि महादानमनुत्तमम् ।
महाकल्पलताख्यं च दानं सुवर्णवल्लिकम् ॥१ ॥ पुण्यां तिथिं समासाद्य कारयेन्मण्डपं शुभम् ।
वेदिं कुण्डं कारयेच्च स्थापयेद्धवनार्थकम् ॥२ ॥ वस्तुघ्रातं ब्राह्मणैश्च कारयेत् स्वस्तिवाचनम् ।
दानवस्तून्युपादाय मण्डपे तत्र सन्न्यसेत् ॥३ ॥ ऋत्विज_ सर्वसम्भारभूषणाच्छादनादिकम्।
आसनेषु च देवानां नारायणस्य मे श्रियः ॥४ ॥ देवीनां च तथा कुर्यादावाहनं प्रपूजयेत् ।
मण्डपे तत्र सौवर्णीर्दश कल्पाख्यवल्लिकाः ॥५ ॥ दशोत्तरसुवर्णोत्थाः स्थापयेत् फलपुष्पिताः ।
रत्नांशुकादिसंयुक्ता भूषिताः शोभितास्तथा ॥६ ॥ विद्याधरीभिः संयुक्ताः सुपर्णैः शोभितास्तथा ।
प्रतिवल्लि प्रकुर्याच्च दिक्पालाष्टकयोषितः ॥७ ॥ शर्करापर्वते वल्ली सर्वाश्चाभ्यधिरोहयेत् ।
ऐन्द्रीं हस्तिस्थितां शक्तिमाग्नेयीं मेषसंस्थिताम् ॥८ ॥ याम्यां महिषीनिष्ठां च नैर्ऋतिं गर्दभीस्थिताम् ।
वारुणीं मकरस्थां च वायवीं हरिणीस्थिताम् ॥९ ॥ कौबेरीं स्वर्णयानस्थामीशानीं वृषभस्थिताम् ।
तथा षोडशधान्यानि स्थापयेत् तत्र मण्डपे ॥3.131.१० ॥ लक्ष्मीं शिवां च सावित्रीं माणिक्यां दुःखहात्माम् ।
कम्भराश्रीमहालक्ष्मीं सन्तुष्टा भगिनीं हरेः ॥११ ॥ रसान् गन्धान् मिष्टरसान घृतकुम्भान् न्यसेत्तथा ।
आसहस्रमितस्वर्णैः कृत्वा न्यसेद्धि मण्डपे ॥१२॥ अष्टधेनूश्चाऽष्टकुम्भान् रत्नसलिलपूरितान् ।
वस्त्रतण्डुलपत्राद्यैः शोभितान् स्थापयेदपि ॥१३॥ पूजयेत्तान् विधानेन वल्लिकाः पूजयेत्तथा ।
वेदघोषैः पूजयित्वा कृत्वा प्रदक्षिणत्रयम् ॥१४॥ प्रार्थयेत्ता वल्लिकाश्च कृष्णनारायणाऽन्विताः ।
विनाशिनीभ्यः पापानां पालिनीभ्यः स्वसञ्जुषाम् ॥१५॥ नमोऽस्तु फलदाभ्यश्च कल्पाभ्यो वै नमो नमः ।
सर्वसम्पत्प्रदाभ्यश्च सर्वर्द्धिभ्यो नमो नमः ॥१६॥ महालक्ष्मीस्वरूपाभ्यः सर्वात्मिकाभ्यो वै नमः ।
स्वर्गामृतं श्रीपुरं च वैराजं च गवायनम् ॥१७ ॥ वैकुण्ठं चाक्षरं धाम वितरन्तु च नः सदा ।
भवत्यो दानरूपाश्च दत्ता रक्षन्तु नः सदा ॥१८॥ इति प्रार्थ्य पुनः कृत्वा प्रदक्षिणं समर्पयेत् ।
गुरवे साधवे चार्धमर्धाश्चान्येभ्य एव तु ॥१९॥ रत्नहीरकरूप्याणि गा वस्त्राणि च यानि च ।
तद्धि दद्याद् भिक्षुकेभ्योऽनाथहीनेभ्य इत्यपि ॥3.131.२० ॥ हवनं विधिवत् कुर्याद् भोजयेत् साधुभूसुरान् ।
बालोश्च बालिकाश्चापि भोजयेच्चार्पयेद्धनम् ॥२१ ॥ परिहारं ततः कुर्याद् विसृजेत्प्रणमेत् प्रिये ।
एवं कल्पलतादानं कुर्यात्तस्य फलं बहु ॥२२॥ साम्राज्यं जायते पित्रुद्धारो भवत्यपि ।
क्षितिः सस्यादिसम्पूर्णा सदा तस्योपतिष्ठते ॥२३ ॥ सिद्धयश्चाणिमाद्याश्च लतादातुर्भवन्ति हि ।
स्वर्गे कल्पलतास्ताश्चाऽप्सरसोऽस्य भवन्ति च ॥२४॥ एवं लक्ष्मि महादानं सङ्कल्पपूरकं हि ते ।
कथितं सर्वलोकेषु महाराज्यप्रदं शुभम् ॥२५॥ तथा कल्पप्रियादानं कर्तव्यं शृणु तद्विधिम् ।
स्वर्णभारसहस्रैस्तु कर्तव्या पुत्तली शुभा ॥२६॥ वस्त्रालङ्कारसंयुक्ता सर्वशृङ्गारशोभिता ।
रूपवती युवती च पुत्रपुत्र्यादिशोभिता ॥२७॥ गोमहिषीगजवाजियुक्ता शय्यादिशोभिता ।
धनधान्यादियुक्ता च रसभोज्यफलान्विता ॥२८॥ मण्डपे न्यस्य तां पत्नीरूपां तत्र महारमाम् ।
आवाहयेद् वेदिकाऽग्रे पूजयेत् सर्ववस्तुभिः ॥२९॥ आरार्त्रिकं प्रकुर्याच्च सुनैवेद्यं जलं दिशेत् ।
यादृशी चेष्यते पत्नी यथासामग्रिकान्विता ॥3.131.३ ०॥ तादृशी सा तु कर्तव्या शृङ्गारद्रव्यशोभिता ।
दासदासीसखीयुक्ता गृहसौभाग्यशोभिता ॥३ १ ॥ तां प्रपूज्य च हवनं कुर्याद् वह्नौ शतोत्तरम् ।
दद्यात् सा स्वकरे धृत्वा कृत्वाऽनलं प्रदक्षिणम् ॥३२॥ गुरवे चापि विप्राय साधवे हरयेऽथवा ।
कुमाराय सते वापि प्रार्थयेच्च ततः परम् ॥३३॥ एषा दत्ता मया पत्नीरूपा दाने द्विजातये ।
सर्वगार्हस्थ्योपकरणादियुक्ता विभूषिता ॥३४॥ नारायणी महालक्ष्मीस्त्वमेव परमेश्वरी ।
दानफलं च दाम्पत्यं मम देहि सदा रमे ॥३५॥ स्वर्गे सत्ये च वैराजे वैकुण्ठे पत्निका मम ।
संयुक्ता सहगा स्याच्च तथा देहि फलं मम ॥३६॥ एवमाभाष्य विप्रस्य गुरोर्हस्ते न्यसेत् प्रियाम् ।
भुक्तिदा मुक्तिदा सा स्यात् स्वर्णपुत्तलिका प्रिया ॥३७॥ जन्मान्तरसहस्रेषु दाम्पत्यं स्यादखण्डितम् ।
सर्वस्मृद्धिप्रदं लक्ष्मि शाश्वतानन्ददायकम् ॥३८॥ सर्वभोगप्रदं पुत्रपौत्रवंशविवर्धनम् ।
कल्पपत्नीमहादानमिदं प्रोक्तं मया तव ॥३९॥ यथासङ्ख्या योषितश्चेष्यन्ते दिवि क्षितौ च वा ।
तथासङ्ख्याः प्रदातव्याः पुत्तल्यः पत्निका निजाः ॥3.131.४०॥ मण्डपे ता निधायैव वह्नेः समीपतः खलु ।
विवाहविधिना सर्वा विवाहयेद् द्विजैः पुरा ॥४१ ॥ वरमालाभिसन्नद्धा हस्तकृतपरिग्रहाः ।
सर्वाभरणशोभाश्च सर्वालङ्कारसम्भृताः ॥४२॥ निजपत्नीकृताः सर्वास्ततो दानेऽर्पयेद् बुधः ।
एवं दत्ता हि विधिना चेह परत्र ताः स्त्रियः ॥४३॥ भवन्त्येव न सन्देहो महादानमिदं परम् ।
स्वर्णस्त्रीदानमेवैतत् स्वस्त्रीप्रतिनिधिप्रखम् ॥४४॥ नारी दाने न वै देया देया सौवर्णपुत्तली ।
नारीदानं महादानं तदेवोक्तं हि वेधसा ॥४५॥ एवं लक्ष्मि सुवर्णस्य पतिं दानेऽपि चार्पयेत् ।
सर्वालङ्कारसंयुक्तं सर्वस्मृद्धिसुशोभितम् ॥४६॥ स्वर्णकान्तमहादानं पतिसौभाग्यदं हि तत् ।
विधिं ते कथयाम्यत्र यत्कृतेन कदापि वै ॥४७॥ वैधव्यं जायते नैव पतिसौभाग्यमेति सा ।
सुवर्णपुत्तलं कृत्वा मण्डपे तत्र पूजयेत् ॥४८॥ आवाहयेत्तत्र नारायणं श्रीपतिमीश्वरम् ।
स्थापयेन्मण्डपे चापि विवाहविधिना ततः ॥४९॥ तं स्त्री परिणयेन्मत्वा पतिं नैजं तु कानकम् ।
वरमालायुता हस्तग्राहोत्तरं पतिप्रखम् ॥3.131.५० ॥ प्रदक्षिणकृतस्वात्मपतिं दानेऽर्पयेत्ततः ।
अन्यान्यपि समस्तानि वस्तून्यपि तदाऽर्पयेत् ॥५१ ॥ यादृशः स्वपतिश्चेष्टो जन्मजन्मान्तरेऽपि च ।
तादृशः सर्वसम्पन्नो दातव्यो विप्रयोषिते ॥५२॥ एतद्दानं महादानं पतिदानं प्रकीर्तितम् ।
सर्वसौभाग्यदं नित्यगार्हस्थ्यसम्प्रदं शुभम् ॥५ ३ ॥ स्वर्गमोक्षप्रदं चापि शाश्वतानन्दसम्प्रदम् ।
पुत्रदानं भ्रातृदानं स्वर्णपुत्तलिकोद्भवम् ॥५४॥ एवमेव विधातव्यं चावाह्य मां परेश्वरम् ।
विधिवद् दीयमानं तत् पुत्ररूपं फलत्यपि ॥५५॥ भ्रातृरूपं फलत्येव यद् दत्तं तत्प्रजायते ।
हरेर्मूर्तेः प्रदानेन हरिर्मिलति माधवः ॥५६॥ कान्तदानप्रदानेन कृष्णः कान्तो भवत्यपि ।
एवमेतानि दानानि देयानि विधिना ततः ॥५७॥ दासीदासप्रदानेन दासीदासा मिलन्ति च ।
नाऽदत्तं प्राप्यते किञ्चित् तस्माद् देयं हि भूतले ॥५८॥ अत्र वापि परत्रापि दत्तमत्रोपतिष्ठते ।
सुखदः सुखवान् स्याच्च दुःखदो दुःखवान् भवेत् ॥५९॥ पुण्यदानं प्रदातव्यं जलं मुक्त्वा कुटुम्बिने ।
रोगिणे च दरिद्राय परलोकविदायिने ॥3.131.६०॥ मरणोन्मुखजीवाय पुण्यं देयं व्रतादिजम् ।
एवमन्यानि पुण्यानि यानि तपोमयानि तु ॥६ १ ॥ मखात्मकानि पुण्यानि महोत्सवोद्भवान्यपि ।
पारायणादिपुण्यानि जपपुण्यानि यानि च ॥६२॥ दानपुण्यानि सर्वाणि सत्रप्रपोद्भवानि च ।
देवपूजोत्थपुण्यानि गुरुसेवोद्भवानि च ॥६३॥ दाने देयानि विधिना पतिसेवोद्भवानि च ।
पातिव्रत्यादिधर्माश्च देया दाने सुखप्रदाः ॥६४॥ पत्नीव्रतादिधर्माश्च साधुधर्माः सुखावहाः ।
परोपकारधर्माश्च देया दाने विधानतः ॥६५॥ विद्यापुण्यं खातपुण्यं चेष्टापूर्तादिपुण्यकम् ।
ओषधाद्युपकारोत्थं दाने पुण्यं सुखप्रदम् ॥६६॥ शरण्यपुण्यं सत्योत्थं तथा दयोद्भव शुभम् ।
अहिंसोत्थं महापुण्यं दाने देयं विशेषतः ॥६७॥ कण्ठदानोद्भवं पुण्यं कटिदानोद्भवं तथा ।
हार्ददानोद्भवं पुण्यं दाने देयं विशेषतः ॥६८॥ शरणागतरक्षोत्थं निराश्रिताश्रयोद्भवम् ।
जीवदानमहापुण्यं देयं दाने विशेषतः ॥६९॥ सर्वदानमहादानं ब्रह्मदानं परात्परम् ।
ज्ञानदानं हरेर्दानं मोक्षदानं ततोऽधिकम् ॥3.131.७० ॥ अभयस्य प्रदानं वै सर्वदानोत्तमोत्तमम् ।
प्रदेयं सर्वतोभावैर्यस्मात्परं न विद्यते ॥७१॥ चन्द्रसूर्यप्रदानं वै नेत्रयोस्तेजसा प्रदम् ।
विज्ञानस्य प्रदानं वै हृदयस्य प्रभाप्रदम् ॥७२॥ मुक्तिदानं चात्मनस्तु शाश्वतानन्ददायकम् ।
अभीतिदानमेवैतद् देयं मुक्तिमभीप्सता ॥७३॥ देहदानं प्रकर्तव्यं शुभदेहादिलब्धये ।
गेहदानं प्रकर्तव्यं भवनादिसुलब्धये ॥७४॥ घृतदानं प्रकर्तव्यं देहपुष्टिसुलब्धये ।
बीजदानं प्रकर्तव्यं धर्मवशादिवृद्धये ॥७५ ॥ जलदानं प्रकर्तव्यं पितॄणां स्वस्य तृप्तये ।
गुरुदानं विधातव्यं गुरोर्मूर्तिं तु कानकीम् ॥७६॥ विधाप्य विधिनाऽभ्यर्च्य शृङ्गारसहितां च ताम् ।
गुरुमावाह्य सम्प्रार्थ्य स्वात्मतारणहेतवे ॥७७॥ प्रदद्यात्तां धार्मिकाय साधवे पूजकाय च ।
यस्याः पूजां नित्यमेव कर्तुं यः शक्त एव ह ॥७८॥ तस्मै देया गुरोर्मूर्तिः पूजाफलं हि लभ्यते ।
अपूज्यायाः प्रत्यवायभागिता स्यात् प्रदातरि ॥७९॥ देवानां मूर्तयश्चापि स्वर्णराजतसम्भवाः ।
मणिरत्नादिजन्या वा तरुचित्रादिनिर्मिताः ॥3.131.८०॥ प्रदातव्या विधिनैव प्रतिष्ठापूर्विका हि ताः ।
सर्वाभरणशोभाढ्याः सर्ववेषोपसंयुताः ॥८१ ॥ सर्वशृङ्गारसहिताः सौम्या रूपाभिरूपिकाः ।
प्रदातव्याः पात्रयुता गन्धार्हणोपवस्तुभिः ॥८२॥ सहिता हारहारालीभूषोत्सवार्हहेतिभिः ।
गणेशस्य हनूमतो विष्णोः शम्भोः रवेस्तथा ॥८३॥ वास्तोश्च लोकपालानां गणानां स्वामिनां तथा ।
पार्षदानां सतां देयाः प्रतिमाः शोभनाः शुभाः ॥८४॥ सर्वाभरणयुक्ताश्च सर्वशृङ्गारशोभनाः ।
योग्यवेषाभिसम्पन्ना योग्यायुधसमन्विताः ॥८५॥ योग्यवाहनयुक्ताश्च योग्यभृत्यसमन्विताः ।
निजशक्तियुताश्चापि दाने देयाः सुखप्रदाः ॥८६॥ महानारायणी ब्राह्मी महालक्ष्मीः रमाऽमृता ।
कमला श्रीः प्रभा देया कानकी माणिकी तथा ॥८७॥ सौवर्णा कम्भरालक्ष्मीर्ललिताश्रीः शुभानना ।
गजानना महालक्ष्मीर्देया शोभाभिशोभिता ॥८८॥ गङ्गा दुर्गा पाशवती सती कन्याकुमारिका ।
सन्तुषा जानकी देया रमा जया च पद्मिनी ॥८९॥ सावित्री विजया देया दुःखहा वेदमातृका ।
सञ्ज्ञा स्वाहा वह्नियुक्ता चण्डी देया विभूषिता ॥3.131.९०॥ कात्यायनी महाकाली देया तद्वेशशोभिता ।
गौरी देया च तुलसी वृन्दा विवाहशोभिता ॥९१ ॥ एवमाद्याः सुराण्यश्च तथेशान्यश्च मातरः ।
योगिन्यश्चापि मुक्तान्यो देया दाने जनार्दने ॥९२॥ पूजार्थं साधवे देया भक्ताय च द्विजातये ।
महोत्साहेन देयास्ता मूर्तयः सुप्रतिष्ठिताः ॥९३॥ वेषालङ्कारनैवेद्यपात्राम्बरादिशोभिताः ।
तासां निवासयोग्यानि देयानि मन्दिराण्यपि ॥९४॥ उद्यानाश्च महास्मृद्धाः फलमाल्यमधुभृताः ।
वाटिका सस्ययुक्ताश्च क्षेत्राणि चेक्षुवन्ति हि ॥९५॥ शाकपत्रादियुक्तानि देयानि विविधानि च ।
अरण्यानि प्रदेयानि कूपा वाप्यः सरांसि च ॥९६॥ उपभोग्यानि सर्वाणि गन्धरसाऽदनानि च ।
धान्यानि धनकोशाश्च देया दासाश्च दासिकाः ॥९७॥ यद् दीयते लभ्यते तन्नाऽदत्तं लभ्यते क्वचित् ।
तस्माद् देयाः प्रतिमाश्च कृत्वापि दारदासिकाः ॥९८॥ एवं दत्वा लभेतापि परं सौख्यं गृहाश्रमे ।
इह लोके सुखी भूत्वा साम्राज्यं विन्दते पुनः ॥९९॥ स्वर्गे सत्ये च वैराज्ये वैकुण्ठे श्रीपुरेऽक्षरे ।
गोलोके जायते धामेश्वरनारायणप्रभः ॥3.131.१०० ॥ सर्वविलाससम्पन्नः सर्वभोगाभिभोगवान् ।
सर्वानन्दमहानन्दप्लुतो भवति शाश्वतः ॥१०१ ॥ पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।
दाने प्रपेरणाच्चापि तुल्यपुण्याश्रयो भवेत्॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महाकल्पलतासुवर्णवल्लीदानस्य कल्पप्रियादानस्य स्वर्णकान्तदानस्य पुण्यदानस्याऽभयादिदानानां गुरुदेवदेवी-
महादानानां मन्दिरक्षेत्रवाट्यलङ्कारादिमहादानानां च विधिनिरूपणनामैकत्रिंशदधिकशततमोऽध्यायः ॥१३१ ॥