१२८

श्रीपुरुषोत्तम उवाच –
शृणु त्वं शिवराज्ञीश्रि! महादानं तथाविधम् ।
हिरण्यकामधेनोस्तत् सर्वसङ्कल्पसाधकम् ॥१ ॥ मण्डपं कारयेद् रम्यं कुण्डतोरणशोभनम् ।
आसनैश्चोपकरणैर्हव्यैर्वह्न्यादिभिर्युतम् ॥२ ॥ लोकपालान् देवताश्च परमेशं रमापतिम् ।
लक्ष्मीः सर्वास्तथाऽऽवाह्य पूजां होमं च कारयेत् ॥३ ॥ यजमानस्ततस्तत्राऽधिवासनं समाचरेत् ।
पुण्यवेदस्तवघोषान् विप्राः कुर्युश्च साधवः ॥४ ॥ काञ्चनस्याऽतिशुद्धस्य धेनुं वत्सां च कारयेत् ।
उत्तमां पलसाहस्रीं तदर्धेन तु मध्यमाम् ॥५ ॥ कनीयसीं तदर्धेन त्रिपलादूर्ध्वमित्यपि ।
कारयित्वा मण्डपे तामानाय्य मृगचर्मणि ॥६ ॥ वेद्यां गुडोपरि स्थाप्य महारत्नादिभिः शुभैः ।
शृङ्गखुरपृष्ठवंशे स्वर्णभूषादिभिस्तथा ॥७ ॥ ललाटे कुङ्कुमाद्यैश्च पूजयेत्तां सवत्सिकाम् ।
कुम्भाष्टकं रत्नपत्रजलतण्डुलशोभितम् ॥८ ॥ स्थापयेन्मण्डपे तत्र धान्यान्यष्टादशाऽपि च ।
इक्षुदण्डाष्टकं तद्वत् फलानि विविधानि च ॥९ ॥ पात्राणि दोहपात्रं च रज्जुं च शृङ्खलां शुभाम् ।
खानपात्रं रस्यघासं स्थापयेन्मण्डपे तथा ॥3.128.१०॥ कौशेयाऽम्बरयुगलं भूषाछत्रप्रदीपकान् ।
कुण्डलचामरघण्टास्वर्णशृङ्गादिकास्तथा ॥११ ॥ विभूषा रूप्यखुरिकाः सर्वरसान् न्यसेच्छुभान् ।
हरिद्रां फलपुष्पाणि कस्तूरीं चन्दनं तथा ॥१२॥ कर्पूरं शर्कराः सौम्यं वितानकं तथाऽम्बरम् ।
एवं सर्वाः शुभा दिव्याः सामग्रीस्तीर्थवारि च ॥१ ३॥ दर्भं चाक्षतकाँश्चापि तुलसीपत्रकाणि च ।
संस्थाप्य मण्डपे तत्र यजमानः शुचिः स्वयम् ॥१४॥ पुष्पहस्तः पूजयेद् गां विप्रो वेदान् समुच्चरेत् ।
मङ्गलैः स्तवनैर्युक्तः त्रिःप्रदक्षिणमाचरेत् ॥१५ ॥ स्तवनं च प्रकुर्याद्वै तिष्ठन् गोसन्निधौ तदा ।
मातस्त्वं सर्वदेवानां मन्दिरं सर्वयोगिनाम् ॥१६ ॥ देहिनां तारिणी त्वं वै शक्तीनामाश्रयाशुभा ।
स्वर्गमार्गप्रदा मोक्षप्रदा सम्पत्प्रदाऽसि च ॥१७॥ पापनाशकरी चास्ते सुखदे त्वां नमाम्यहम् ।
यथेष्टफलदे मातर्दुःखसन्तापनाशिनी ॥१८॥ कामधेनो महानन्दप्रदात्रि परमेश्वरि ।
मोक्षदात्रि हरेर्नित्यं प्रीतिकरि नमोऽस्तु ते ॥१९॥ कानकी त्वं हरिणी त्वं हिरण्या त्वं च चन्द्रिका ।
श्रीस्त्वं लक्ष्मीर्महालक्ष्मीः कमला त्वं हरिप्रिया ॥3.128.२०॥ नारायणी त्वं रसदा सङ्कल्पपूरिका रमा ।
पद्मा त्वं धामशक्तिस्त्वं जया त्वं ललितेश्वरी ॥२ १॥ शारदा त्वं माणिकी त्वं प्रभा त्वं परमेश्वरी ।
दुःखहा त्वं पाशवती पद्मजा त्वं च तूलसी ॥२२॥ माधवी त्वं च गायत्री कार्ष्णी त्वं शाङ्करी सती ।
वैकुण्ठा त्वं चाक्षरी त्वं ब्राह्मी त्वं कनकेश्वरी ॥२३॥ स्वर्गिणी त्वं तापसी त्वं सत्या त्वं वैष्णवी प्रिया ।
मेदिनी त्वं प्रसूस्त्वं च वाटिका त्वं हि शाश्वती ॥२४॥ रक्षयित्री प्रापयित्री पुण्यस्य शाश्वतस्य वै ।
मोचयित्री हि पापानां दात्री मोक्षस्य पावनी ॥२५॥ त्वं धेनो मां विनिष्पापं कृत्वा कुटुम्बसंयुतम् ।
स्मृद्धं स्वर्गं सदा दत्वा ततो मोक्षं प्रदास्यसि ॥२६॥ कृपया ते गताः स्वर्गं पितरो मे पुरातनाः ।
गमिष्यन्त्यपरे प्रेताः स्वर्गं मोक्षं प्रदानतः ॥२७॥ एषा भवती दत्ताऽसि गुरवे ब्राह्मणाय च ।
सत्पुरुषाय दिव्याय साधवे हरयेऽपि च ॥२८॥ इत्युक्त्वा च जलं क्षिप्त्वा दद्याद् गां गुरवे तदा ।
मणिरत्नानि मुद्राश्च रूप्यकाणि धानानि च ॥२९॥ धान्यानि वस्त्रजातानि दद्यादन्येभ्य आदरात् ।
भोजनानि विचित्राणि मिष्टान्नान्युत्तमानि च ॥3.128.३ ०॥ पायसानि सुगन्धानि भोजयेद् विप्रयोगिनः ।
दीनाऽनाथसतीसाध्वीसाधुबालान् प्रभोजयेत् ॥३ १ ॥ दद्याद् दानानि बहूनि चान्यान्यपि यथाधनम् ।
एवं स्वर्णधेनुदाता याति ब्रह्म सनातनम् ॥३२॥ स्वर्णधेनुप्रदाने यः शक्तो नास्ति स राजतीम् ।
सवत्सां गां प्रदद्याच्च तत्राऽशक्तस्तु वत्सिकाम् ॥३ ३॥ वत्सिकादानकरणेऽप्यशक्तो मानवस्तु यः ।
दानप्रशंसां कुर्याच्च बोधयेत्प्रेरयेत्परान् ॥३४॥ शृणुयाच्छ्रावयेच्चापि कीर्तयेत् तत्फलं व्रजेत् ।
अथाऽन्यत्ते प्रवक्ष्यामि लक्ष्मि दानमनुत्तमम् ॥३५॥ महादानं हिरण्याऽश्वप्रदानं स्वर्गराज्यदम् ।
मोक्षदं श्वेतवाहानां वैहायसविमानदम् ॥३६॥ पुण्यदिनं समासाद्य मण्डपं कारयेच्छुभम् ।
वेदिकां वा शुभं कुण्डं होमार्थं तत्र कारयेत् ॥३७॥ सर्वोपकरण्यान्येव स्थापयेत् सन्निधौ तथा ।
दानसामग्रिकाः सर्वाः स्वर्णरूप्यकहीरकान् ॥३८॥ अन्नवस्त्रभाजनानि स्थापयेत् पूजनार्थिकाः ।
सामग्रीश्चापि सर्वाश्च चन्दनाक्षतमालिकाः ॥३९॥ नैवेद्याऽऽरार्त्रिकवस्तून्यपि पार्श्वे न्यसेत्ततः ।
तीर्थजलेन पूर्णं वै कुम्भं न्यसेच्च मण्डपे ॥3.128.४०॥ पुण्याहवाचनं तत्र कारयेद्विप्रसत्तमैः ।
लोकपालादिदेवानामावाहनं प्रकारयेत् ॥४१ ॥ अनादिश्रीकृष्णनारायणस्य श्रीपतेस्तथा ।
अवतारप्रमुक्तानां शक्तीनां सर्वयोषिताम् ॥४२॥ आवाहनं कारयेच्च पूजयेच्च विधानतः ।
स्थापयेद् वेदिकामध्ये कृष्णाऽजिनतिलोपरि ॥४३॥ कौशेयवस्त्रसंवीतं सौवर्णं श्रेष्ठवाजिनम् ।
त्रिपलात्तु समारभ्याऽऽसहस्रपलसूद्भवम् ॥४४॥ स्वर्णपल्याणपृष्ठं च स्वर्णहारसुकल्गिकम् ।
सुवर्णरशनायुक्तं सुवर्णपट्टशोभितम् ॥४५॥ सुवर्णनेत्रपटलं हीरकशाविराजितम् ।
सच्छत्रं सत्पादबन्धं सच्छफं सुमनोहरम् ॥४६॥ यद्वाऽश्विनीं सुवर्णस्य सवत्सरीं विभूषिताम् ।
स्थापयेत् सौम्यवर्णां वा दानार्थं मण्डपे तिले ॥४७॥ उपानत्पादुकाछत्रचामरासनभाजनम् ।
स्थापयेन्मण्डपे तत्रेक्षुदण्डान् कलशाऽष्टकम् ॥४८॥ माल्यतण्डुलपत्रादिरत्नश्रीफलसंयुतम् ।
जलपूर्णं हि सौवर्णं राजतं ताम्रजं च वा ॥४९॥ अन्यानि दानयोग्यानि वस्तूनि सुभगान्यपि ।
हीरकमाणिक्यरत्नान्यनेकधान्यकानि च ॥3.128.५०॥ वस्त्रालङ्कारपात्राणि दानार्थं तत्र विन्यसेत् ।
शय्यां पर्यङ्कसहितां शिरोधानादिसंयुताम् ॥५१ ॥ पार्श्वधानोपधानोपस्करादिशोभितां न्यसेत् ।
स्थालीं च कलशं रम्यां वाटिकीं च न्यसेदपि॥५२॥ मिष्टान्नानि च पेयानि दुग्धादीनि न्यसेदपि ।
फलान्यनेकमिष्टानि सुपक्वानि न्यसेदपि ॥५३॥ कन्दानि मूलकन्दानि दलशाकानि सन्न्यसेत् ।
एवंविधे मण्डपे वै यजमानः शुचिः शुभः ॥५४॥ विप्रैः सर्वौषधिस्नानस्नापितः कुसुमाञ्जलिः ।
त्रिः प्रदक्षिणमावृत्य वह्निमश्वं गुरुं ततः ॥५५॥ प्रार्थयेत् परमात्मानं सर्ववाजिविराजितम् ।
नमस्ते सर्ववाजाढ्य सर्वात्मन् वाजिहृद्गत ॥५६॥ वेदाऽऽहरणकर्तस्त्वं चाऽश्विनीपुत्र ते नमः ।
स्वर्णाश्वरूपमूर्ते ते दिव्यमूर्ते च ते नमः ॥५७॥ सूर्याश्वमूर्ते कल्क्यश्वमूर्ते तुभ्यं नमो नमः ।
उच्चैःश्रवसे देवाश्वरूपिणे ते नमो नमः ॥५८॥ इन्द्रियाश्वस्वरूपाय मानसाश्वाय ते नमः ।
अश्वत्थसाम्यरूपाय महाश्वाय च ते नमः ॥५९॥ श्वेताश्वरूपधर्त्रे ते पापघ्नाय च ते नमः ।
वाजिरूपो हरिस्त्वं मां पाहि संसारसागरात् ॥3.128.६०॥ स्वर्गं मोक्षं महाराज्यं देहि ऋद्धिं सनातनीम् ।
देहि मे सम्पदः सर्वा मोक्षं देहि ततः परम् ॥६१ ॥ तव दानेन विश्वात्मा तृप्तो भवतु माधवः ।
एवमुच्चार्य परितश्चैकं प्रदक्षिणं चरेत् ॥६२॥ अष्टोत्तरं शतं हुत्वा ततो दानेऽर्पयेद्धयम् ।
नमस्कृत्य हि गुरवे तमश्वं विनिवेदयेत्॥६३॥ अन्यान्यपि च वस्तूनि दद्याद् दाने यथोचितम् ।
ऋत्विग्भ्यश्चार्पयेद् द्रव्यं भिक्षवेऽन्नं धनादिकम् ॥६४॥ दत्वा पापक्षयाद् दिव्यो जायते यजमानकः ।
सूर्यलोकं सत्यलोकं वैकुण्ठं च प्रयाति सः ॥६५॥ संहिताश्रवणं कुर्याद् भोजनादि प्रकारयेत् ।
विप्रेभ्यश्चापि साधुभ्यः साध्वीभ्योऽन्नानि चार्पयेत् ॥६६॥ अनाथबालबालाभ्यो गोभ्योऽश्वेभ्यो तृणानि च ।
दद्याद् भावभरो भूत्वा भोजयेदन्नकाङ्क्षिणः ॥६७॥ लक्ष्मि स्वर्णाश्वदानं यो ददात्येवं यथाधनम् ।
सम्पूज्यमानो देवेशैर्मुक्तो याति पदं हरेः ॥६८॥ स्वर्णविमानमारूढो यात्यर्कलोकमुत्तमम् ।
शृणुयाद्वा कथां चेमां सोऽपि यात्यर्कसद्गृहम् ॥६९॥ वाचयेच्छ्रावयेच्चापि सोऽपि यात्यर्कसन्निधिम् ।
अभिनन्दनदश्चापि याति स्वर्गं सुखाश्रयम् ॥3.128.७०॥ शृणु लक्ष्मि महादानं पुण्यमश्वरथात्मकम् ।
पुण्यं दिनं समासाद्य मण्डपं कारयेच्छुभम् ॥७ १ ॥ वेदीं कुण्डं कारयेच्च पूजावस्तूनि चाहरेत् ।
लोकपालान् देवताश्च परब्रह्माऽवतारकान् ॥७२॥ ईश्वरानीश्वरिणीश्चाऽऽवाहयेन्मण्डपे शुभे ।
अष्टादश च धान्यानि पात्राणि च धनानि च ॥७३॥ वस्त्रभूषणरूप्याणि स्थापयेन्मण्डपेऽभितः ।
गणेशाद्याँस्तथा देवान् श्रीपतिं मां जनार्दनम् ॥७४॥ बालकृष्णं तथा कृष्णां ब्रह्मप्रियां हरिप्रियाः ।
आवाहयेत्पूजयेच्च सुवर्णरथमाहरेत् ॥७५॥ अश्वसप्तकयुक्तं च चतुश्चक्रं ततोऽधिकम् ।
ऐन्द्रनीलेन कुम्भेन वरूथेन ध्वजेन च ॥७६॥ कूबरेण सूर्यमुख्या सूतेन च विराजितम् ।
अनादिश्रीकृष्णनारायणं मां कमलायुतम् ॥७७॥ स्थापयेद्रथमध्ये पट्टराज्ञीसमन्वितम् ।
पार्षदान्मे स्थापयेच्च छत्रचामरशोभितान् ॥७८॥ वेत्रधरान् हेतिधरान् पूजासेवनतत्परान् ।
साधून् साध्वीः स्थापयेच्च रथे मत्पार्श्वतस्तथा ॥७९॥ देवर्षिपितृसङ्घातान् स्थापयेद् रथसत्तमे ।
महालक्ष्मीं कम्भरां च श्रीमद्गोपालकृष्णकम् ॥3.128.८०॥ सन्तुष्टां स्थापयेच्चापि सर्वा देवीः शुभाश्रयाः ।
ललितां स्थापयेत्तत्र सर्वशक्तिसमन्विताम् ॥८ १॥ रत्नानि हीरकान् हारान् स्वर्णभूषा रथे न्यसेत् ।
सिंहचर्मोपरि द्रोणतिलान् ततोऽधिकांश्च वा ॥८२॥ आधारपटकान् कृत्वा तेषु संस्थापयेद् रथम् ।
षोडश वा चतुरो वा सरत्नपल्लवाक्षतान् ॥८३॥ बस्त्रजलफलपूर्णान् कलशांस्तत्र विन्यसेत् ।
कौशेयवस्त्रसंयुक्तान् पूजयेद्भावतः सुरान् ॥८४॥ रथे मां पूजयेल्लक्ष्मि मन्नाम्ना चाधिवासनाम् ।
कुर्याद् यथान्यवस्तून्याहरेद् दानार्थमेव च ॥८५॥ छत्रं च चामरे चापि कौशेयाम्बरमित्यपि ।
उपानहौ पादुके च गाः शय्या पात्रमित्यपि ॥८६॥ मञ्चकश्चापराण्येव वस्तूनि शोभनानि च ।
हेमसिंहं कारयेच्च रथेन सह शोभनम् ॥८७॥ द्वाभ्यां वा च चतुर्भिर्वा वाजिभिः सहितं रथम् ।
चक्ररक्षाकरौ साश्वौ सहेती पार्श्वगौ तथा ॥८८॥ रथं सहस्रसौवर्णं तदन्यत्तु यथाधनम् ।
यद्वा रथं त्रिपलोर्ध्वं पूजयेत् त्रिःप्रदक्षिणम् ॥८९॥ शुचिः स्वयं यजमानो गृहीतकुसुमाञ्जलिः ।
शुक्लमाल्याम्बरधरः कृत्वा मे हवनं घृतैः ॥3.128.९० ॥ अथान्यफलपुष्पाद्यैस्ततो रथं प्रदक्षिणम् ।
कृत्वाऽर्थयेद् रथं मां चाऽभेदेन श्रीपदं प्रभुम् ॥९ १ ॥ नमो धामाभिगतये नमो नारायणाय ते ।
नमोऽनादिकृष्णनारायणरूपाय योगिने ॥९२॥ ब्रह्माण्डपारगायाऽपि सर्वलोकात्मकाय ते ।
नमो धाम्नामधीशाय सर्वेश्वररथाय ते ॥९३॥ महाकालो महामृत्युश्चायने ऋतवो ह्यराः ।
सर्वे ते गतिचक्राख्यास्तेभ्यो मां त्रातुमर्हसि ॥९४॥ देहि स्वर्गं शाश्वतं मे देहि च धार्मिकीं गतिम् ।
देहि मे परमं धाम कालमायाविवर्जितम् ॥९५॥ पितॄणां मे कुटुम्बानां मोक्षं कुरु रथोत्तम ।
दिव्यो विमानरूपस्त्वं भूत्वा नयाक्षरं पदम् ॥९६॥ मुक्तास्तव ध्वजे सन्ति धामाऽक्षरं तु पट्टके ।
ईश्वरा दण्डदेहे च वरूथे शक्तयोऽखिलाः ॥९७॥ अन्तर्भागे स्वर्गलोका मध्ये नारायणो हरिः ।
परितो देवताः सर्वा सर्वे देवा बहिःस्थिताः ॥९८॥ अधः सप्ततलवासाश्चक्रयोश्च यमो वृषः ।
अग्रे पुण्यं तथा भक्तिर्गुरवस्ते वसन्ति च ॥९९॥ तेषां साक्ष्ये ददाम्येव रक्ष मां भवसागरात् ।
इत्युक्त्वा गुरवे देयो रथश्चान्यधनान्यपि ॥3.128.१०० ॥ अन्यत् सर्वमनाथेभ्यो देयं दानं यथायथम् ।
भोजयेत्सर्वसाधूँश्च विप्राँश्च बालबालिकाः ॥१०१ ॥ विसर्जयेत्ततः सर्वान् परिहारं विधापयेत् ।
श्रावयेत् संहितां दानकथां चान्यान् दिशेत्तथा ॥१ ०२॥ उपदेष्टाऽनुमन्ता च फलं तुल्यं हि विन्दति ।
दिव्यरथेऽधिरुह्यैव याति धामाऽक्षरं मम ॥१०३॥ सर्वस्वर्गविशेषाँश्च भुक्त्वा कुटुम्बयुक् चिरम् ।
ईश्वरोऽपि महान् भूत्वा याति धाम रथार्पकः ॥१ ०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महादानेषु स्वर्णकामधेनुदानहिरण्याश्वदानहिरण्यरथदानविधिनिरूपणनामा अष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८ ॥