१२६

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि महादानं हिरण्यगर्भसञ्ज्ञकम् ।
सर्वपापहरं पुण्यप्रदं देयं शुभाप्तये ॥१ ॥ पवित्रं दिवसं दृष्ट्वा तुलापुरुषदानवत् ।
ऋत्विङ्मण्डपसम्भारभूषापात्राम्बराणि च ॥२ ॥ सङ्गृह्योपोषितः प्रातर्देवावाहनमाचरेत् ।
पुण्याहं वाचयेत् विप्रैः कारयित्वाऽधिवासनम् ॥३ ॥ प्रतिमां कानकीं धर्मदेवस्य परमेष्ठिनः ।
कुम्भं तु कानकं तद्वद् राजतं मण्डपे न्यसेत् ॥४ ॥ द्विसप्तत्यङ्गुलोच्छ्रायां हेमपङ्कजगर्भकम् ।
त्रिभागहीनविस्तारं घृतक्षीरादिपूरितम् ॥५ ॥ रत्नपल्लवतण्डुलवस्त्रफलाभिशोभितम् ।
तत्पार्श्वे स्थापयेद् दात्रीं सूचीं च हेमनालकम् ॥६ ॥ पीठकं बहिरादित्यं वस्त्रं तथोपवीतकम् ।
हैमं दण्डं पिधानं च कमण्डलुं शुभं नवम् ॥७ ॥ मुक्तावलीं पद्मरागान् स्थापयेद् घटसन्निधौ ।
तिलद्रोणान्वितस्थालीं स्थापयेच्च घटोपरि ॥८ ॥ घटं तु मण्डपे वेदीमध्ये संस्थाप्य पूजयेत् ।
मङ्गलैर्वेदमन्त्रैश्च ब्रह्मघोषैः स्तवैः शुभैः ॥९ ॥ प्रोक्षितः स्नापितः सर्वौषधिवारिभिरादरात् ।
यजमानः शुक्लमाल्याम्बरधृग् भूषणान्वितः ॥3.126.१ ०॥ कुसुमाञ्जलिमाबद्ध्योच्चारयेत् स्तवनं नमः ।
नमोऽक्षराधिनाथाय कृष्णनारायणाय ते ॥१ १ ॥ नमो नित्यहिरण्याय हिरण्यवर्णिने नमः ।
नमो हिरण्यकेशाय हिरण्याऽऽप्रणवात्मने ॥१२॥ नमो हिरण्यानाथाय हरिण्याः पतये नमः ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥१ ३॥ नमः सुवर्णवर्णाय स्वर्णश्मश्रुप्रशोभिने ।
नमो महामहानारायणीनाथाय ते नमः ॥१४॥ अनादिश्रीकृष्णनारायणाव परमात्मने ।
धर्मदेवाय ते चापि वेधसेऽपि च ते नमः ॥१५॥ सृष्टित्रयाधिनाथाय जगद्धात्रे च ते नमः ।
सर्वे लोकास्तव गर्भे व्यापकस्य व्यवस्थिताः ॥१६॥ सर्वे देवास्तव देहे माधवस्य व्यवस्थिताः ।
सर्वा देव्यस्तव देहे लक्ष्म्यात्मकस्य संस्थिताः ॥१७॥ नमस्ते विश्वरूपाय परेशतनवे नमः ।
नमस्ते भुवनाकार भुवनाधार ते नमः ॥१८॥ भुवनाश्रय सर्वात्मन् नमस्ते गर्भरूपिणे ।
नमो हिरण्यगर्भाय ब्रह्मगर्भाय ते नमः ॥१ ९॥ सम्पद्गर्भस्वरूपाय पुण्यगर्भाय ते नमः ।
मुक्तिगर्भाय कृष्णाय स्वर्गगर्भाय ते नमः ॥3.126.२०॥ त्रिदेवा यस्य गर्भे स्युस्तस्मै देवाय ते नमः ।
सर्वात्मा श्रीहरिस्त्वं वै भूते भूते व्यवस्थितः ॥२१ ॥ सर्वभूतात्मभूतात्मन् मामुद्धर भवार्णवात् ।
एवं कृत्वा नमस्कारं स्तवनं कानकं ततः ॥२२॥ मुष्टिभ्यां परिसङ्गृह्य धर्मराजचतुर्मुखौ ।
जानुमध्ये शिरः कृत्वा तिष्ठेदुच्छ्वासपञ्चकम् ॥२३॥ तदा कुर्याद् द्विजस्तत्र संस्कारान् वैदिकान् शुभान् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥२४॥ हिरण्यगर्भदेवस्य ब्रह्मणः परमेष्ठिनः ।
धर्मदेवस्य च तत्र घटपात्रे स्थितस्य च ॥२५॥ गीतमङ्गलमन्त्राद्यैस्तत उत्थापयेद् गुरुः ।
जातकर्मादिसंस्काराः कर्तव्याः षोडशोऽपि च ॥२६॥ ततः शुद्धं पूर्णमूर्तिं वेधसं च वृषं नमेत् ।
सूच्यादिक तु गुरवे दद्याद् वै साधवेऽपि वा ॥२७॥ नमस्कारं प्रकुर्वन् वै स्तुतिं कुर्यादिमां शुभाम् ।
नमो हिरण्यगर्भाय सावित्रीपतये नमः ॥२८॥ महालक्ष्म्यधिनाथाय हरिणीपतये नमः ।
नमस्ते विश्वगर्भाय स्वर्णगर्भाय ते नमः ॥२९॥ चराचरस्य जगतो गृहभूताय ते नमः ।
साक्षिरूपाय देवाय ब्रह्मरूपाय ते नमः ॥3.126.३ ०॥ यथाऽहं जनितः पूर्वं मर्त्यधर्मा तथा पुनः ।
त्वद्गर्भजननाच्चाहं दिव्यदेहो भवामि च ॥३१॥ इत्यभ्यर्थयमानस्तु चतुर्भिः कलशैर्द्विजाः ।
स्नापयेयुर्यजमानं मन्त्राशीर्वादतत्पराः ॥३२॥ अद्यजातस्य तेऽङ्गानि चाभिप्रेक्ष्यामहे वयम् ।
दिव्येनाऽनेन वपुषा चिरञ्जीव सुखी भव ॥३३॥ पापहीनः पुण्यनिधिः स्वर्गाधिकारवान् भव ।
भक्तिमान् मुक्तिमान् चान्ते शाश्वतानन्दभाग् भव ॥३४॥ ब्राह्मणेभ्यः प्रदद्याच्च दक्षिणाः स्वर्णराजतीः ।
रत्नमयीर्धनमयीर्वस्त्रान्नपानरूपिणीः ॥३५॥ अथ श्रीगुरवे दद्याद्धिरण्यगर्भमुत्तमम् ।
धर्मं दद्यात् साधवे च घटान् दद्यात्तु भिक्षवे ॥३६॥ विप्रेभ्यः स्वर्णमुद्राश्च कलशान् रूप्यकाँस्तथा ।
पात्राम्बराणि दद्याच्च भोजनान्युत्तमान्यपि ॥३७॥ विप्राश्च साधवः पूज्या बहुदानपरायणैः ।
तत्रोपकरणं सर्वं गुरवे वा निवेदयेत् ॥३८॥ उपानत्पादुकाछत्रचामरासनभाजनम् ।
ग्रामं वा विषयं शालां गृहं वा मन्दिरं शुभम् ॥३ ९॥ एवं हिरण्यगर्भस्य दाता ब्रह्माण्डदानतः ।
विशेषदः सदा भूत्वा ब्रह्मलोके महीयते ॥3.126.४०॥ कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ।
पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् ॥४१ ॥ इन्द्रराज्यं परं कृत्वा सूर्यराज्यं तथाऽपरम् ।
चन्द्रराज्यं ततः कृत्वा ध्रुवराज्यं ततः परम् ॥४२॥ परमेष्ठिपदं भुक्त्वा भवेद् वैराज्यराज्यवान् ।
श्रीपुराख्यं महालक्ष्म्या राज्यं प्राप्य सनातनम् ॥४३॥ भूमराज्यं वासुदेवराज्यं भुक्त्वा ततः परम् ।
याति वै चाऽक्षरं धामाऽनादिनः परमात्मनः ॥४४॥ ललिताश्रीमहालक्ष्म्या नारायण्याः पदाम्बुजे ।
भक्तो भूत्वा च मां श्रीशं कृष्णनारायणं प्रभुम् ॥४५॥ प्राप्याऽश्नुते सर्वकामान् सह नारायणेन सः ।
हिरण्यगर्भदानं तद् भुक्तिमुक्तिप्रदं रमे ॥४६॥ पितॄणां तारकं वंशप्रदं पुत्रसुताप्रदम् ।
नारकाणां तारकं च सर्वविघ्नविनाशकम् ॥४७॥ अरिष्टानां नाशकं च तथा दुर्भाग्यनाशकम् ।
क्लेशानां नाशकं चापि सिद्धिबुद्धिसुखप्रदम् ॥४८॥ पाठकस्य तथा श्रोतुः पठमानस्य वै तथा ।
मधुतुल्यं सुधातुल्यं फलदं सिद्धमानदम् ॥४९॥ हिरण्यगर्भदानार्थं मतिं दद्याद्धि देहिने ।
सोऽपि देवाऽप्सरोभिश्च पूज्यते नायको भवन् ॥3.126.५० ॥ शृणु लक्ष्मि तथा चान्यन्महादानमनुत्तमम् ।
ब्रह्माण्डदानमित्येतत् सर्वपातकनाशकम् ॥५१ ॥ सर्वस्मृद्धिप्रदं सर्वसाम्राज्यश्रीप्रदं तथा ।
ब्रह्मपदप्रदं चापि स्वर्गप्रदं सुखप्रदम् ॥५२॥ पुण्यं दिनं समासाद्य मण्डपं कारयेत्ततः ।
आकारयेद् ऋत्विजश्च सम्भारान् क्लृप्तयेत्ततः ॥५३॥ भूषाम्बरधनरत्नस्वर्णरजतहीरकान् ।
दानार्थं स्थापयेत्तत्र स्वर्णादिकलशाँस्तथा ॥५४॥ फलं जलं स्वर्णमालां दानद्रव्याणि यानि च ।
सर्वाणि स्थापयेत्तत्र मण्डपे हव्यकानि च ॥५५॥ अन्नानि विविधान्येव रसाँश्च विविधांस्तथा ।
श्रीहरेः श्रामहालक्ष्म्या आवाहनं प्रकारयेत् ॥५६॥ लोकपालान् देवगणानवतारान् समाह्वयेत् ।
गन्धाऽमृतजलपुष्पाऽक्षतचन्दनकुङ्कुमैः ॥५७॥ पूजयेद् विधिना सर्वान् स्वर्णमूर्तिमयाँस्तथा ।
अधिवासनकं कुर्याद् देवानां श्रीजुषां तदा ॥५८॥ सुवर्णस्याऽथवा रूप्यकस्य विंशपलाधिकम् ।
ब्रह्माण्डं कारितं तत्र मण्डपे स्थापयेच्छुभम् ॥५९॥ कलशद्वयसंयुक्तं शेषकच्छपशोभितम् ।
दिग्गजाऽष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम् ॥3.126.६०॥ लोकपालाष्टकोपेतं मध्यस्थितचतुर्मुखम् ।
शिवाऽच्युताऽर्कचन्द्रादिदेवालयविराजितम् ॥६१॥ उमालक्ष्मीसतीब्राह्मीसावित्रीमाणिकीयुतम् ।
प्रज्ञापद्मावतीकृष्णाराधाश्रीभूसमन्वितम् ॥६२॥ वस्वाऽऽदित्यमरुद्रुद्रनिधिसिद्धिसमाश्रितम् ।
चतुर्दशस्तरगर्भं मेरुदण्डविराजितम् ॥६३॥ रत्नखनिप्रराजच्च महाधातुसमन्वितम् ।
वितस्तेरङ्गुलशतं यावदायामविस्तरम् ॥६४॥ कौशेयवस्त्रसंवीतं तिलद्रोणोपरिन्यसेत् ।
तथाऽष्टादशधान्यानि समन्तात् परिसन्न्यसेत् ॥६५॥ पूर्वेणाऽनन्तशयनं लक्ष्मीनारायणं न्यसेत् ।
अग्नौ न्यस्येद् देवदेवं प्रद्युम्नं परमेश्वरम् ॥६६॥ दक्षिणे प्रकृतिं मायां महालक्ष्मीं तु कम्भराम् ।
निर्ऋते श्रीमहाराजं सङ्कर्षणं प्रभुं न्यसेत्॥६७॥ पश्चिमे चतुरो वेदान् वेदाङ्गनान्वितान् न्यसेत् ।
वायव्ये श्रीपतिं चानिरुद्धं देवं समन्यसेत् ॥६८॥ सौवर्णॆ वह्निदेवं तूत्तरे श्रीसेवित न्यसेत् ।
अग्नौ श्रीमद्वासुदेवं वासुदेवीयुतं न्यसेत् ॥६९॥ अनादिश्रीकृष्णनारायणं मध्ये रमापतिम् ।
समन्ताच्छ्रीराधिकाकान्तं श्रीकान्तं नरान्वितम् ॥3.126.७०॥ वासुदेवन्नयनं च स्थापयेत् स्वर्णनिर्मितान् ।
समन्ताद् गुडपीठेषु स्थापयेत् कलशान् दश ॥७१ ॥ पञ्चपल्लवरत्नाढ्यान् फलाक्षतसमन्वितान् ।
नारिकेलयुतान् वस्त्रसंवीतान् जलपूरितान् ॥७२॥ दशधेनूः स्थापयेच्च स्वर्णराजतशार्कराः ।
यथाशक्ति समूर्ता वा सवत्सा दुग्धदोत्तमाः ॥७३॥ स्वर्णशृङ्गयुता रूप्यशफवत्यम्बरान्विताः ।
ताम्रपृष्ठयुताश्चापि कांस्यदोहसमन्विताः ॥७४॥ घासग्रासादिसंयुक्ताः शृङ्गारिताः प्रपूजिताः ।
उपानत्पादुकाछत्रचामरासनदर्पणैः ॥७५॥ भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः ।
पूजयेत् सर्वदेवांश्च धेनूश्च ब्राह्मणानपि ॥७६॥ साधून् साध्वीः पूजयेच्च सर्वपूजनवस्तुभिः ।
राजयोग्यैर्गन्धसारैर्मालाहाराम्बरादिभिः ॥७७॥ आरार्त्रिकं प्रकुर्याच्च ब्रह्माण्डस्य प्रदक्षिणम् ।
नमस्कारं प्रकुर्याद् गा देवान्साधून् सतीर्द्विजान् ॥७८॥ घृताक्ततिलपुष्पाढ्यव्रीहिहोमान् शतोत्तरान् ।
कारयित्वा ततश्चाधिवासनान्ते समन्त्रकम् ॥७९॥ स्नानं तीर्थजलैर्विप्रा यजमानस्य पापहम् ।
कलशानां जलैः सम्यक् कारयेयुः सुपुण्यदम् ॥3.126.८०॥ प्रदक्षिणं प्रकुर्याच्च यजमानस्त्रिवारकम् ।
ततः सम्प्रार्थयेद् देवं ब्रह्माण्डाख्यं नरायणम् ॥८ १ ॥ नमोऽनन्तमहासृष्टिगर्भ विश्वात्मवासद ।
विश्वधाम जगत्क्षेत्र ब्रह्माण्ड ते नमो नमः ॥८२॥ परार्धं ते परब्रह्माऽधोऽर्धं ते श्रीनरायणी ।
द्वयोर्मध्येऽक्षरन्धाम सर्वसृष्टिसमन्वितम् ॥८३ ॥ सर्वावतारधामानि सर्वेश्वरविभूतयः ।
सर्वदेवविहाराश्च सर्वमानवमूर्तयः ॥८४॥ सर्वे मध्ये निवसन्ति ब्रह्माण्डोदरवासिनः ।
सर्वसृष्टिमयी मूर्तिर्नारायणी परेश्वरी ॥८९॥ ब्रह्माण्ड त्वं राजसेऽत्र दानं ते वितराम्यहम् ।
सर्वपापानि नश्यन्तु भवन्तु पुण्यकानि मे ॥८६॥ पितरो मे भवन्त्येव मुक्तास्ते दानतो ध्रुवम् ।
दुःखिताः सुखिनः सन्तु दारिद्र्यं नाशमेतु च ॥८७॥ रोगाः सर्वे विनश्यन्तु भवन्तु सम्पदो गृहे ।
ऋद्धयः सर्वदा सन्तु भूतयो मे गृहे सदा ॥८८॥ स्वर्णरौप्यमहारत्नहीरकाः सन्तु मे गृहे ।
वंशविस्तारवाँश्चापि भवामि तव दानतः ॥८९॥ पापदोषा लयं यान्तु कुटुम्बिनां ममापि च ।
सौभाग्यं सर्वदा चास्तु नारीणां मत्कुटुम्बके ॥3.126.९० ॥ नमोऽस्तु ब्रह्मरूपाय स्वाहा नारायणाय ते ।
इत्युक्त्वा प्रणमेदण्डं सौवर्णं राजतं च वा ॥९१ ॥ गुरवे साधवे दद्यात् सत्पात्राय द्विजाय वा ।
अन्योपकरणान्येव दद्याच्छ्रीगुरवे तथा ॥९२॥ अन्यरत्नानि सौवर्णमुद्रा दद्याद् द्विजातये ।
भिक्षुकेभ्यश्चापि दद्याद् रूप्यमुद्रा यथाधनम् ॥९३॥ यद्वा विभज्य दशधा ब्रह्माण्डं च ततः परम् ।
भागद्वयं श्रीगुरवे शेषभागान् द्विजातये ॥९४॥ ब्राह्मणेभ्यः प्रदद्याच्च भिक्षुकेभ्योऽपरं धनम् ।
एवं ब्रह्माण्डदानं वै कृत्वा सम्भोजयेत् सतः ॥९५॥ साधून् साध्वीर्भोजयेच्च बालाँश्च बालिकाँस्तथा ।
दीनाऽनाथान् भोजयेच्च विधवा भिक्षुकीस्तथा ॥९६॥ विद्यार्थिनीर्भोजयेच्च विद्यार्थिनोऽपि भोजयेत् ।
ब्रह्मिष्ठान् भोजयेच्चापि भक्तान् सम्भोजयेत्तथा ॥९७॥ एवं ब्रह्माण्डदानेन पुण्यं ब्रह्माण्डदानजम् ।
स्वर्गराज्यं महाराज्यं पारमेष्ठ्यपदं परम् ॥९८॥ नैकविमानसाम्राज्यं दिव्यसिद्धिसुखान्वितम् ।
वैराजं वा पदं लब्ध्वा गोलोकं प्राप्य शाश्वतम् ॥९९॥ वैकुण्ठं वा परं लोकं मुक्तमुक्तानिकायुतम् ।
नित्यकैलासलोकं वा गोलोकं प्राप्य शाश्वतम् ॥3.126.१ ० ०॥ तत्राऽनन्तसमयं सः प्रापयित्वा पितामहान् ।
जननीकुलवंशाँश्च सहस्राणि कुटुम्बिनः ॥१ ० १॥ तारयित्वाऽक्षरन्धाम प्रयाति दानकृज्जनः ।
यः शृणोति प्रपठति स्मरत्येव विधिं त्विमम् ॥१ ०२॥ तस्य पुण्यं हि दानस्य जायते स्वर्गमुत्तमम् ।
अन्यस्मै दानकार्यस्य मतिं ददाति योऽपि च ॥१०३॥ तस्य स्वर्गं भवेदन्ते पुण्यभागेन राज्यभाग् ।
पुनर्दानं परं दत्वा याति वै परमं पदम् ॥१ ०४॥ इत्येवं शिवराज्ञीश्रि! ब्रह्माण्डदानकं परम् ।
कथितं ते भुक्तिमुक्तिप्रदं परपदप्रदम् ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महादानेषु हिरण्यगर्भदानस्य ब्रह्माण्डदानस्य च विधेर्निरूपणनामा षड्विंशत्यधिकशततमोऽध्यायः ॥१२६ ॥