११७

श्रीनारायणीश्रीरुवाच-
कथं पूर्वे वरं प्राप्ताः कैकसा नाम दैत्यकाः ।
येषां जयो भवेल्लोके नारायणीमृधेऽपि वै ॥१ ॥ श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथयामि नारायणीमृते क्वचित् ।
विजयो वृणुते नान्यं चान्ते जयो हरिश्रिते ॥२ ॥ किन्तु सन्तपसा सम्यगेधितानां महाहवे ।
क्षणं विभाव्यते लक्ष्मि जयवन्नाशकृज्जयः ॥३ ॥ कैकसेयाः सप्तसहोदराः पूर्वे तु भास्करम् ।
उद्दिश्य तु तपश्चक्रुः शतवर्षाणि निर्जलम् ॥४ ॥ शुष्कप्राया अभवंस्ते तदा सूर्य उपस्थितः ।
कैकसेयान् समुवाच भवतां तपसाऽधुना ॥५ ॥ परितुष्टोऽस्मि भद्रं वो वरं वृणुत दानवः ।
इत्युक्तास्ते वरं वव्रुर्योऽस्माकं संयुगे रिपुः ॥६ ॥ नारी नरो मनुष्यो बा देवोऽन्यो ब्रह्मसृष्टिजः ।
उपतिष्ठेत तिर्यक् च तेषां नेत्राणि वै तदा ॥७ ॥ अन्धीकर्तुं त्वया सूर्य स्थातव्यं नोऽक्षिषु ध्रुवम् ।
भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥८ ॥ तथाऽक्षिविषयः सर्वो निश्चेष्टो भवतात् तदा ।
चक्षुस्तेजोविहीनास्ते रिपवश्चान्धतां गताः ॥९ ॥ स्तब्धशस्त्राश्च निश्चेष्टा हन्तव्याः स्युर्जयश्च नः ।
इत्युक्तश्च रविस्तथाऽत्त्विति प्राह हि कैकसान् ॥3.117.१ ०॥ प्राहाऽधर्मॆ यदा द्रक्ष्ये गमिष्यामि तदा लयम् ।
धर्मयुद्धे सहायोऽहं भविष्यामि न संशयः ॥११ ॥ इत्युक्तास्ते कैकसाः श्रि! जयवत् जयमानिनः ।
सूर्यबलाद्विजयार्थं भण्डोक्तास्ते समाययुः ॥१ २॥ वरदानबलेनैव युद्धे चेरुर्मदोद्धताः ।
तदा सूर्यसमाविष्टनेत्रैस्तैस्तु निरीक्षिताः ॥१ ३॥ देवताः स्तब्धनेत्राश्च विफलोत्साहतां गताः ।
अभिभूताश्चान्ध्यदोषैः शक्तयो जोषमासत ॥१४॥ दैत्या व्यमर्दयन् शक्तिसैन्यं चाऽधर्मयोधनैः ।
लक्ष्म्यो विरमिताः स्तब्धा अन्धा व्यापारवर्जिताः ॥१५॥ अदृष्टयोऽभवँस्तासां युद्धं योग्यं न धर्मजम् ।
न हन्तव्यो रिपुर्युद्धे न्यस्तशस्त्रो निरङ्गकः ॥१ ६॥ पिबन् द्रवन् पतितश्च बद्धः शरणमागतः ।
एतादृशेषु युञ्जाना अधर्मो बाधते हि तान् ॥१७॥ कैकसेया अनिवार्य जघ्नुः शरादिभिः सतीः ।
देव्यस्ता दैत्यशस्त्रौघैः स्पृष्टगात्रास्तदाऽभवन् ॥१८॥ हाहाकरं तदा कृत्वा सस्मरुर्ललितेश्वरीम् ।
ललिताश्रीस्तदा सूर्यमधर्मं प्राह सत्वरम् ॥१९॥ अयुध्यतां हि योद्धृणां ताडनं दैत्यकारितम् ।
अधर्मं पश्य सूर्य त्वं कथं तिष्ठसि शत्रुषु ॥3.117.२०॥ सूर्यः शापभयेनैव निर्गतो दैत्यनेत्रतः ।
शक्तयो विगतान्ध्याश्च युयुधुर्वेगतस्तदा ॥२१ ॥ सिंहनादैर्विनद्यैषून् मोचयामासुरुल्बणान् ।
कृष्णरूपभुजङ्गाभान् बाणान् दैत्या न सेहिरे ॥२२॥ इतस्ततो मृद्यमानाः स्थितिं तत्र न लेभिरे ।
सावित्र्या प्रहितं चाऽस्त्रं सावित्रं दैत्यकोटिषु ॥२३॥ काकसेयाश्च ते सप्त तथा सैन्यस्य कोटयः ।
हतास्तदाऽस्त्रवेगेन रक्तनद्यस्ततोऽभवन् ॥२४॥ हतशिष्टाः कतिपया भण्डं जग्मुरसुप्रियाः ।
शशंसुः स्वविनाशं वै भण्डो निराशतां गतः ॥२५॥ सावित्रीं विजयं प्राप्तां शशंसुर्देवतागणाः ।
भण्डोऽपि शेषवर्गेण चकार मन्त्रणां तदा ॥२६॥ अहो दैत्यकुलानां वै विनाशः समजायत ।
उपेक्षामधुना कर्तुं प्रवृत्तो बलवान् विधिः ॥२७॥ मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः ।
तादृशानामिहाऽस्माकमागतोऽयं विपर्ययः ॥२८॥ करोति बलिनं क्लीबं धनिनं धनवर्जितम् ।
दीर्घायुषमनायुष्कं राजानं रङ्कसेविनम् ॥२९॥ क्व सत्त्वमस्मद्बाहूनां क्वेयं दुर्ललिता वधूः ।
यया चेट्या महागर्वाः सेनान्यो विनिपातिताः ॥3.117.३०॥ जीवग्राहो हि कर्तव्यो भोक्तव्या सा प्रसह्य वै ।
तदा निर्वापणं मे स्याद् गृह्णन्तु तां सुजीविताम् ॥३ १॥ स्त्रीवेषैर्वा भवद्भिश्च दैत्यानीभिश्च वा तथा ।
कापट्येन मिलिताभिर्गृह्यतां जीवयोगिनी ॥३२॥ यद्वा युद्धं क्रियतां वै चाग्रे महोल्बणं परम् ।
विकृष्यन्तां च सैन्यानि तासां सेनामुखे हि नः ॥३३॥ पृष्ठे सा स्वल्पसाहाय्या सुग्राहा मे भविष्यति ।
ततोऽहं स्त्रीवेषधर्ता यामि तत्रैव यत्र सा ॥३४॥ प्रसह्य धृत्वा भुक्त्वा च मारयित्वा ततः परम् ।
अन्याः सर्वा नाशयित्वाऽऽगमिष्यामि निजालयम् ॥३५॥ सैव निःशेषशक्तीनां मूलभूता महीयसी ।
तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥३६॥ तामाकृष्य विजित्यैव भुक्त्वा नेष्यामि वा गृहम् ।
इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः ॥३७॥ सेनापतींश्च सैन्यानि नीत्वा ययौ रणाजिरम् ।
सायङ्कालोऽभवच्चापि प्रवृत्तं च तमः परम् ॥३८॥ असुराणां प्रदुष्टानां रात्रिरेव बलप्रदा ।
तस्यां वै व्यापृतं सैन्यं देवीसैन्याग्रतोऽभवत् ॥३९॥ युयुधे शस्त्रघातैश्च तिमिरे प्राणनाशकम् ।
देव्यस्तत्र प्रताड्यन्ते म्रियन्ते दैत्यकोटयः ॥3.117.४०॥ जीवदा जीवनाशाश्च प्रहाराः सम्भवन्ति हि ।
गुप्ताचारा हि भण्डस्य ययुर्यत्र सुरेश्वरी ॥४१ ॥ तत्र युद्धं प्रचक्रुश्च पृष्ठे चाग्रे महामृधम् ।
अथ याः शक्तयः कालीप्रभतयो निशासुखाः ॥४२॥ भैरव्यो भैरवा रुद्रगणा रुद्राण्य ईशिकाः ।
निजघ्नुर्दानवान् दैत्यान् भूत्यो जघ्नुश्च दानवान् ॥४३॥ रात्रौ दानवसैन्यं तद् दशाऽक्षौहिणिकात्मकम् ।
विनष्टं सर्वमेवैतद् भण्डः पलायितोऽभवत् ॥४४॥ विभाता रजनी प्रातः प्रसन्नाश्चाऽभवन् दिशः ।
विजेत्रीणां च देवीनां ललिता तोषमासदत् ॥४५॥ अथ भण्डो मन्त्रयित्वा सममात्मसुतैः पुनः ।
चतुर्बाहुमुखान् पुत्रान् प्रेषयामास संयुगे ॥४६॥ त्रिंशत्सङ्ख्या दुर्मदास्ते युयुधुश्च दिवानिशम् ।
द्विशत्यक्षौहिणी सेना निर्ययौ वेगवत्तमा ॥४७॥ श्रीबाला तु महालक्ष्म्याः पुत्री सन्तोषिकाऽभिधा ।
या सा कुमारिका योद्धुं तदा सज्जाऽभवद् रणे ॥४८॥ शतकोटिसखीयुक्ता सर्वायुधधरा सती ।
अष्टादशभुजायुक्ता भण्डसेनां समद्रवत् ॥४९॥ ततः प्रववृते युद्धमत्युद्धतपराक्रमम् ।
कोटिरूपधरा जाता श्रीबाला युद्धदुर्मदा ॥3.117.५० ॥ दर्शयामास शौर्यं च ललितादुहिता मृधे ।
अस्त्रप्रत्यस्त्रमोक्षेण तान् सर्वानभिनत् क्षणात् ॥५ १॥ नारायणास्त्रमोक्षेण श्रीबाला सा कुमारिका ।
द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोद् दिने ॥५२ ॥ युगपत् त्रिंशतो बाजानवासृजत् सा कुमारिका ।
ननान्दा तव सन्तोषा भण्डसुतान् यमगृहम् ॥५३॥ प्रेषयामास सहसा विभिद्य तच्छिरांसि वै ।
शक्तयश्च जगुस्तत्र साघुवादान् मुहुर्मुहुः ॥५४॥ ततोऽन्ये जीविताशाश्च स्वल्पा दैत्या प्रदुद्रुवुः ।
स्वगृहं तु समासाद्य शोकं भण्डाय सञ्जगुः ॥५५॥ अथ श्रुत्वा सुतान्नष्टान् शोकानलपरिप्लुतः ।
विललाप स भण्डो वै मत्वा जातं कुलक्षयम् ॥५६॥ हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि चाऽद्य वै ।
नारी कुलक्षयकर्त्री विद्यतेऽद्य ममापि तु ॥५७॥ इतिमूर्छालुप्तभानो निष्पपात भुवस्तलम् ।
अथोत्थितः खड्गमुग्रमुद्धृत्य व्याजहार सः ॥५८॥ इदानीमेव तां लक्ष्मीं खड्गेनाऽनेन खण्डशः ।
शकलीकृत्य समरे शान्तिं प्राप्स्यामि शाश्वतीम् ॥५९॥ इति खड्गं विधुन्वन् स प्रलपन् सङ्गरे ययौ ।
चूषयामि समस्तास्ताः करवाणि निजाः प्रियाः ॥3.117.६०॥ छिनदानि सुरान् सर्वान् भिनदानि सुरालयान् ।
पिनषाणि च सैन्यानीत्येवं क्रुद्धा रणे ययौ ॥६१ ॥ भ्रातरो विहिताः सर्वे सेनान्यश्च हतास्ततः ।
युद्धं त्रिदिवसं सर्वं मन्नाशार्थं व्यजायत ॥६२॥ नाशो वा विजयो वा स्यान्न बलं स्वबलं विना ।
पत्नीं प्राप्स्ये ललितां तां यद्वा नेष्यामि तत्क्षयम् ॥६३॥ वदन् मुहुर्मुहुः कृत्वा धुन्वानः करवालिकाम् ।
कालाग्निरिव सङ्क्रुद्धः स्त्रीसैन्याग्रे स्थितोऽभवत् ॥६४॥ वीक्ष्य तं ललितालक्ष्मीस्तेन योद्धुं प्रचक्रमे ।
चक्रराजरथस्तस्याः शुशुभे प्रचचाल तम् ॥६५॥ चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥ आनन्दध्वजसंशोभी नवभूमिसमन्वितः ॥६६॥ नवभूमिस्थदेवीभिराकृष्टगुरुधन्विभिः ।
परार्धाऽधिकसङ्ख्यातदिव्यादिव्यसहायिभिः ॥६७॥ दशयोजनमुन्नद्धश्चतुर्योजनविस्तृतः ।
अन्यासामपि देवीनां वाहनानि परार्द्धशः ॥६८॥ नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ।
गजभेरुण्डशरभव्याघ्रवातमृगादयः ॥६९॥ जगर्जुर्भण्डनाशार्थं दिव्यरूपधराः सदा ।
देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः ॥3.117.७०॥ निमित्तानि प्रशस्तानि लक्ष्मीसैन्ये तदाऽभवन् ।
तदा प्रववृते युद्धं सेनयोरुभयोरपि॥७१॥ हन्यन्ते दानवसैन्यान्यजस्रं योषितां गणैः ।
भूर्जाता तु तदा नृत्यद्दैत्यकबन्धपूरिता ॥७२।
दैत्यकेशसहस्राढ्यशिरोभिर्नारिकेलिता ।
चक्रकृत्तकरिग्रामा शक्तिध्वस्ताऽसुराशया ॥७३॥ दैत्यवीराननव्याप्ता रक्तवाहातिकर्दमा ।
यां प्रपश्यामि मृत्योश्च त्रासोऽपि समजायत ॥७४॥ चतुर्थे दिवसे दैत्यसैन्यनाशोऽभवत्ततः ।
ललिताश्रीसमं युद्धं भण्डासुरस्य चाऽभवत् ॥७५॥ अस्त्रप्रत्यस्त्रसङ्क्षोभैर्विशिखैः प्राणहारिभिः ।
महालक्ष्मीप्रमुक्तो वै बाणश्चैको दशाऽभवन् ॥७६॥ दशधा शतधा व्योम्नि दैत्यसैन्ये सहस्रधा ।
दैत्याङ्गसङ्गे सम्प्राप्ता लक्षसङ्ख्याः शरास्तदा ॥७७॥ भण्डमर्मप्रभेदान् सा बाणैः सम्यक् चकार ह ।
भण्डो मुमोचाऽन्धतामिस्राख्यमस्त्रं भयङ्करम् ॥७८।
महाभास्करबाणेन महालक्ष्मीर्नुनोद तत् ।
पाखण्डास्त्रं भण्डदैत्यो रणे प्रमुमुचे ततः ॥७९॥ गायत्र्यस्त्रं मुमोचेयं लक्ष्मीर्नुनोद तत्ततः ।
अन्धास्त्रमसृजद् भण्डः सर्वदृष्टिविघातकम् ॥3.117.८०॥ महालक्ष्मीर्मुमोचाऽथ चाक्षुष्मतमहास्त्रकम् ।
अशक्त्यस्त्रं ततो भण्डो मुमोच योषितां गणे ॥८१॥ महाशक्त्यस्त्रमुग्रं च लक्ष्मीर्मुमोच तत्प्रति ।
अन्तकाऽस्त्रं भण्डदैत्यो मुमोच सर्वनाशकम् ॥८२॥ महामृत्युञ्जयाऽस्त्रं तु लक्ष्मीर्मुमोच तत्प्रति ।
सर्वाधीतिविनाशास्त्रं भण्डो मुमोच वै तदा ॥८३॥ धारणास्त्रं मुमोचेयं लक्ष्मीर्मेधाप्रदं निजाः ।
भण्डस्ततो भयास्त्रं च कमला चाभयास्त्रकम् ॥८४॥ भण्डो महाऽऽमयास्त्रं च लक्ष्मीर्निरामयास्त्रकम् ।
भण्डश्चायुर्नाशनास्त्रं लक्ष्मिर्योगास्त्रमित्यथ ॥८९॥ आसुरास्त्रं भण्डकश्च लक्ष्मीर्दुर्गास्त्रकं तदा ।
आसुराणां तु लक्षाणां दुर्गानां लक्षयोगिनाम् ॥८६॥ सैन्यानि चाभवन् व्योम्नि युयुधुर्बहुवेगतः ।
शूलं चक्रं गदां शक्तिं चापं खड्गं शरान् पविम् ॥८७॥ दण्डं पाशं गोलकाँश्च धृत्वा धृत्वा परस्परम् ।
मारयामासुरत्यर्थं देवीषु न स्पृशन्ति वै ॥८८॥ आसुरास्तत्र हन्यन्ते देवीगणैः समन्ततः ।
सिंहवाहनमारुह्य दुर्गा युद्धं तथाऽकरोत् ॥८९॥ नारायणी महालक्ष्मीर्विजयं संलभेत वै ।
अर्णवास्त्रं ततो भण्डो मुमोच योषितां गणे ॥3.117.९०॥ महालक्ष्मीः शोषणास्त्रं मुमोच त्वम्बरे ततः ।
अथ क्रुद्धो भण्डदैत्यो हुङ्कारमातनोत्ततः ॥९१ ॥ जाताः सहस्रशो दैत्या दुर्गास्ताननयद् यमम् ।
अथ भण्डो हरिण्यस्रं लक्ष्मीः सिंहास्त्रमातनोत् ॥९२॥ बल्यस्त्रं चासृजद् भण्डो लक्ष्मीर्वामनमस्त्रकम् ।
हैहयास्त्रं भण्डकश्च पर्शुरामास्त्रमीश्वरी ॥९३॥ रावणास्त्रं ततो भण्डो लक्ष्मीः रामास्त्रमासृजत् ।
राजास्त्रं व्यातनोद् भण्डो लक्ष्मीः कृष्णास्त्रमातनोत् ॥९४॥ ब्रह्माण्डास्त्रं भण्डदैत्यो व्यूहास्त्रं कमलाऽसृजत् ।
कल्पस्त्रं भण्डदैत्यश्च लक्ष्मीः कल्क्यस्त्रमातनोत् ॥९५॥ दशावताराः सर्वे ते कृत्वा चासुरनाशनम् ।
ललितां श्रीं नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः ॥९६॥ महालक्ष्म्या निदेशेन वैकुण्ठाय च ते ययुः ।
मोहास्त्रं चाऽसृजद् भण्डो लक्ष्मीर्ज्ञानास्त्रमातनोत् ॥९७॥ लक्ष्मीर्नारायणास्त्रेण दैत्यान् भस्मीचकार ह ।
चमूनाथान् समस्ताँश्च भस्मीचकार वह्निना ॥९८॥ भण्डं भस्मीचकारापि परब्रह्मास्त्रतेजसा ।
नगरं भस्मसाच्चक्रे तलमात्रमशिष्यत ॥९९॥ भण्डो मृतोऽथ त्रैलोक्यं जातं सुहर्षनादितम् ।
पठनाच्छ्रवणादस्य दैत्यभीतिर्विनश्यति ॥3.117.१ ००॥ शत्रुभीतिः कदनानि विनश्यन्ति न संशयः ।
भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च भजन्त्यपि ॥१० १॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महालक्ष्म्याः सैन्यैर्भण्डासुरसैन्यानां नाशे कृते भण्डासुरनाशोऽपीतिनिरूपणनामा सप्तदशाधिकशततमोऽध्यायः ॥११७ ॥