११५

श्रीनारायणीश्रीरुवाच-
अहं जाता बहुवारं सृष्टौ वै भवता सह ।
लक्ष्मीर्नारायणी श्रीश्च भार्गवी माधवी रमा ॥१ ॥ वृन्दा च तुलसी शिवराज्ञीश्रीः कमला प्रमा ।
पद्मा विद्यापरा पद्मावती शतसहस्रशः ॥२ ॥ मम रूपाणि लोकेऽत्र विद्यन्ते श्रीहरे प्रभो ।
जिज्ञासा मे समुत्पन्ना महालक्ष्मीः कदा कथम् ॥३ ॥ समुत्पन्ना च किन्नाम्नी पृथ्व्यां कृष्णनरायण ।
यद्यप्यहं विजानामि श्वश्रूं मे जननीं तव ॥४ ॥ महालक्ष्मीं चाऽथ गजाननां सुराष्ट्रकेऽपराम् ।
चमत्कारपुरे जातां क्षीरोदसागरोद्भवाम् ॥५ ॥ द्वितीयां तां विजानामि तथा महाहिरण्मयीम् ।
तृतीयां तां विजानामि तदन्या यदि भूस्थिता ॥६ ॥ महाकार्यकरी चाऽऽस्ते चेत् तां मह्यं प्रकीर्तय ।
यां श्रुत्वा सम्प्रहर्षामि यद्बलं च चमत्कृतिम् ॥७ ॥ श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथयामि वर्तमानां तु भूतले ।
चमत्कारकरीं पूज्यां महालक्ष्मीं तु दक्षिणे ॥८ ॥ काञ्चन्यां तु नगर्या सा माता वै राजते सती ।
पुरा शम्भोर्मोहनार्थं कामदेवः समाययौ ॥९ ॥ कैलासे दैवकार्यार्थं शङ्करेण स भस्मितः ।
चित्रकर्मा गणो भस्म किञ्चिद् धृत्वा तु पुत्तलम् ॥3.115.१ ०॥ रचयामास तत्रैवाऽऽवेशयामास जीवनम् ।
बालकश्चेतनः सोऽपि सञ्जातो रोषवानति ॥१ १॥ शतरुद्रीयपाठी च पपाठ शङ्करान्तिके ।
शम्भुर्भूत्वा प्रसन्नस्तं वरार्थं प्राह वै तदा ॥१ २॥ वरं वव्रे स मे राज्यं त्रैलोक्ये स्यादकण्टकम् ।
प्रतियोद्ध्रस्त्रशस्त्राणि वृथा भवन्तु सर्वथा ॥१ ३॥ ममाऽस्त्रशस्त्रमन्त्राश्च मा भवन्तु वृथा क्वचित् ।
तथेत्याह तदा शम्भुः राज्यमस्मै तथा ददौ ॥१४॥ षष्टिवर्षसहस्राणि राज्यं भवत्वकण्टकम् ।
तदा वीक्ष्य स्वयं ब्रह्मा भण्डासुरेतिनामतः ॥१५॥ भण्डास्फोटो ह्ययं जात इति मत्वा जगाद ह ।
अथाऽयं रुद्रभालस्य क्रोधानलात् प्रभर्जितः ॥१६॥ भस्मोत्पन्नः पुनस्तस्माद् रुद्रजो दानवोऽभवत् ।
ववृधे शीघ्रमेवाऽसौ शुक्रं समाह्वयत् गुरुम् ॥१७॥ मयं समाह्वयत् पूजां चक्रे तयोस्ततः पुनः ।
मयं तं शिल्पिनं प्राह पुरातनी पुरी तु या ॥१८॥ दैत्येश्वराणां चास्ते तां भग्नां पुनर्नवां कुरु ।
तच्छ्रुत्वा तु मयो गत्वा चक्रे नवं पुरं हि तत् ॥१९॥ यत्र स्थित्वा तु दैत्येन त्रैलोक्यं शासितं पुरा ।
तत्राऽभिषिक्तः शुक्रेण दैतेयैः स महाबलैः ॥3.115.२०॥ शुशुभे परया स्मृद्ध्या तेजोभिश्च बलादिभिः ।
हिरण्यकशिपुर्यं वै किरीटं प्राक् दधार ह ॥२१ ॥ किरीटं तं सजीवं चाऽविनाश्यं शुक्रधारितम् ।
दधौ भण्डश्चामरे द्वे सजीवे शक्तिशोभिते ॥२२॥ न रोगो न च दुःखानि जायन्ते यन्निषेवणात् ।
आतपत्रं दधौ यस्य छायास्थान् नाऽस्त्रकोटयः ॥२३॥ बाधन्ते न विनाशो न पराजयो न जायते ।
विजयाख्यं धनुः शङ्खं रिपुघ्नं भूषणानि च ॥२४॥ सिंहासनं तैजसं चाऽक्षयशौर्यं ददौ कविः ।
एवं राजा समावृत्तस्तस्याऽष्टौ तु महाबलाः ॥२५॥ प्रधानाः सैन्यपूज्याश्चाऽभवन् त्रिलोकिगामिनः ।
इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः ॥२६॥ उग्रकर्मोग्रधन्वा च विजयः श्रुतिपारगः ।
सर्वे वै वेदशास्त्रज्ञाः कर्मकाण्डपरायणाः ॥२७॥ युद्धविशारदा मायाविशारदाः प्रतापिनः ।
अथ दैत्यं विशुक्रं स दक्षांसेन ससर्ज ह ॥२८॥ वामांसेन विषाङ्गं स ससर्ज दुष्टशेखरम् ।
धूमिनीं भगिनीं चापि कण्ठात् ससर्ज भण्डकः ॥२९॥ सुमोहिनी कुमुद्वती चित्राङ्गी सुन्दरी तथा ।
चतस्रो वनितास्तस्य दैत्यपुत्र्योऽर्पितास्तदा ॥3.115.३०॥ स्यन्दनास्तुरगा नागा विमानानि सहस्रशः ।
सम्बभूवुर्जितलोकाः शुक्राचार्यमतानुगाः ॥३१ ॥ भण्डो बभूव भक्तोऽसौ शङ्करस्य सदैत्यकः ।
गृहे गृहे रुद्रयज्ञास्तदा चासन् समन्ततः ॥३२॥ ऋचो यजूँषि सामानि तन्त्राणि च प्रतिग्रहम् ।
प्रवर्तन्ते स्म दैत्यानां समूहेऽपि तथाऽध्वरे ॥३३॥ तदा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः ।
भ्रातृभ्यामुग्रवीर्याभ्यां प्रधानैश्च बलैस्तथा ॥३४॥ दिशो जिगाय सर्वाश्च रेजे महेन्द्रवत्तदा ।
ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः ॥३५॥ बहुवारं देवताद्या निर्जिता रणमूर्धनि ।
ब्रह्मविष्णुमहेशाद्यास्तं दृष्ट्वा दीप्ततेजसम् ॥३६॥ पलायनपराः सर्वे स्वे स्वे धाम्नि सदाऽवसन् ।
केचित्पातालगर्भेषु केचिदम्बुधिवारिषु ॥३७॥ केचिद् दिगन्तकोणेषु केचित् कुञ्जेषु भूभृताम् ।
विलीना भृशवित्रस्ता विचेरुश्छन्नवेषिणः ॥३८॥ पितॄन् सिद्धान्साध्यदेवान् नागान् यज्ञान् दिगीश्वरान् ।
ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमित्यपि ॥३९॥ मत्वा तृणायितान् सर्वान् लोकान् भण्डः शशास ह ।
एवं राज्यं कृतवतो भण्डस्य जितकाशिनः ॥3.115.४०॥ षष्टिवर्षसहस्राणि व्यतीतानि ततः परम् ।
हीयमानबलान् देवान् सम्प्रेक्ष्य कमलापतिः ॥४१॥ उग्रं भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् ।
ससर्ज सहसा मायां स्वात्मरूपां विमोहिनीम् ॥४२॥ निजरूपा ललिता सा बभूव परदेवता ।
महालक्ष्मीः स्वयं याऽस्ति कम्भरा जननी मम ॥४३॥ पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा ।
सा माता परमा शक्तिः परब्रह्मस्वरूपिणी ॥४४॥ या महावैष्णवी दैत्यव्रातविलयकारिणी ।
तामुवाच हरिर्मायां भण्डं दैत्यं निषूदय ॥४५॥ एवमाज्ञां समासाद्य सा ययाचेऽप्सरोगणम् ।
हरिर्ददावप्सरसः सापि विश्वाचिकादिभिः ॥४६॥ ययौ या हिमगिरिं यत्रास्ते भण्डकासुरः ।
तत्र सा तु महालक्ष्मीर्मूले चम्पकशाखिनः ॥४७॥ निवासमकरोद् रम्यं गायन्तीं मधुरस्वरम् ।
श्रुत्वा दैत्यश्चागतस्तां ययाचे मदनातुरः ॥४८॥ सापि हावाँस्तथा भावान् चेष्टा वार्ताश्च मञ्जुलाः ।
कृत्वाऽहरद्धि दैत्यानां मनांसि भण्डकस्य च ॥४९॥ विसस्मरुस्तदा भण्डो दैत्याः सायं श्रीशङ्करम् ।
सन्ध्यां स्तोत्रं पूजनं च वृद्धानां सेवनादिकम् ॥3.115.५०॥ विजहुस्ते यज्ञकार्यं तथा सर्वं शुभावहम् ।
एवं शुक्रं निजाचार्यं विसस्मश्च पूजनम् ॥५१॥ इयं देवी मोहयित्वा रुरोध दैत्यपुङ्गवान् ।
अवमानहतः शुक्रः कोपितोऽभूत्तदा मुहुः ॥५२॥ दैत्यानाह न वै योग्या भवन्तो राज्यऋद्धये ।
पतन्तु परराज्याद्वै मदो वो यातु सङ्क्षयम् ॥५३॥ जडीभूतानसुराँश्च मायाकृतान् विलोक्य तु ।
इन्द्राद्याः कृतसन्नाहास्तपोऽर्थं यमुनां ययुः ॥५४॥ मखमारम्भयामासुर्वैष्णवं बलदं शुभम् ।
नारायण्या महालक्ष्म्याः पूजां चक्रुर्हि देवताः ॥५५॥ उग्रे तपसि संस्थाना जपध्यानपरायणा ।
अनन्यमानसा लक्ष्मीः सावधाना बभूव सा ॥५६ ॥ बह्वब्देषु व्यतीतेषु स्वयं शुक्रः पुरोहितः ।
दैत्यानाह भवतां वै विनाशार्थं सुरादयः ॥५७॥ यज्ञं ध्यानं तपश्चापि कुर्वन्त यमुनातटे ।
जातिमात्रं हि भवतां हनिष्यति सुरादयः ॥५८॥ हरिः सर्वान् भवत्पक्षान् हनिष्यत्यचिरात् खलु ।
तेनैव निर्मिता माया महालक्ष्मीस्वरूपिणी ॥५९॥ तस्यां मुग्धान् भवतश्च वीक्ष्येन्द्राद्यास्तपन्ति वै ।
गत्वा शीघ्रं तत्र विघ्नं समाचरत वै द्रुतम् ॥3.115.६० ॥ श्रुत्वा भण्डासुरयुक्ता दैत्या युद्धविशारदाः ।
यमुनातटमासाद्य विघ्नं चक्रुर्महारणम् ॥६१ ॥ तपोविघ्नकरान् दैत्यान् वीक्ष्य भक्तार्थकारिणी ।
महालक्ष्मीरकरोद्वै महाप्राकारमुज्ज्वलम् ॥६२॥ अलङ्घ्यं दानवैदैत्यैरिन्द्रप्रस्थाभिधं दृढम् ।
तं दृष्ट्वा भण्डकश्चापि विषण्णः स्वपुरं ययौ ॥६३॥ श्रुतवर्मा सखा भण्डं प्राह राजन् वचः शृणु ।
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम् ॥६४॥ ततोऽन्तस्तव राज्यस्य कालोऽयं शिवनोदितः ।
अशक्यप्रतिकार्योऽयं तस्मात् कालं प्रयापय ॥६५॥ काले तु भोगः कर्तव्यः काले निवृत्तिरुत्तमा ।
इत्युपदेशं संश्रुत्वा विरेमे भण्डकासुरः ॥६६॥ देवता इन्द्रप्रस्थे वै विशाले वनविस्तरे ।
कुण्डं सुयोग्यविस्तारं कृत्वा वह्निं निधाय च ॥६७॥ कृत्वा दृढां प्रतिज्ञां वै महालक्ष्मीं प्रपूज्य च ।
परितो हवनं चक्रुः प्रीत्यर्थं तु श्रिया हरेः ॥६८॥ ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् ।
इत्येवं हवनं चक्रुस्तावत् प्रादुर्बभूव ह ॥६९॥ चक्राकारं महत्तेजस्तन्मध्ये पारमेश्वरी ।
जगन्माता जीवदात्री नारायणी परेश्वरी ॥3.115.७०॥ व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशाङ्कुशेक्षुकोदण्डपद्ममाला लसत्करा ॥७१ ॥ दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं प्रसूम् ॥७२॥ जय लक्ष्मि जगन्मातर्जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥७३॥ जय ब्राह्मि महालक्ष्मि ब्रह्मात्मिके परात्मिके ।
जय नारायणि शान्ते जय श्रीललिते रमे ॥७४॥ जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
नमः सहस्रशीर्षायै सहस्राननलोचने ॥७५॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥७६॥ अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥७७॥ हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
दृशश्चन्द्रार्कदहना दिशः कर्णा भुजाः सुराः ॥७८॥ मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
क्रीडा ते लोकरचना सखा ते परमेश्वरः ॥७९॥ आहारस्ते सदानन्दो वासस्ते हृदये हरेः ।
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥3.115.८०॥ शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥८१ ॥ यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥८२॥ प्राणायामस्तव श्वासो रसना ते सरस्वती ।
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥८३॥ आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
हृत्स्था त्वं व्यापिनी लक्ष्मीर्मोहिनी त्वं तथा परा ॥८४॥ इदानीं दृश्यसे ब्राह्मी नारायणी प्रियङ्करी ।
नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥८५॥ सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः ।
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥८६॥ रुद्रं तथा सुराग्र्याँश्च तस्यै लक्ष्म्यै नमो नमः ।
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥८७॥ यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥८८॥ कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
जयाललितापाञ्चालीरमातन्वै नमो नमः ॥८९॥ पद्मावतीरमाहंसीसुगुणाऽऽज्ञाश्रियै नमः ।
नमः स्तुता प्रसन्नैवं छन्दयामास सद्वरैः ॥3.115.९०॥ देवाः प्राहुश्च तुष्टा चेद् भण्डासुरं विनाशय ।
दुर्धरं जीवितं सौख्यं देहि ते शरणार्थिनः ॥९१॥ महालक्ष्मीः समुवाच मुदिताः सन्तु निर्भयाः ।
भण्डासुरं नाशयिष्ये ललिताऽहं महासती ॥९२॥ स्तावका मे भविष्यन्ति श्रीयशोधर्मसम्भृताः ।
विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥९३॥ पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
इतिलब्धवरा देवाः सत्रं चक्रुः प्रपूर्णकम् ॥९४॥ अथ सा ललिता लक्ष्मीर्वरमालां करोत्थिताम् ।
अनादिश्रीमहाविष्णुस्वरूपाय परात्मने ॥९५॥ तत्रैव पश्यतां सर्वसुराणां चार्पयद् गले ।
देवदुन्दुभयो नेदुर्जयशब्दास्तदाऽभवन् ॥९६॥ गीतयश्चाऽभवंस्तत्राऽप्सरसां सुरयोषिताम् ।
ननृतुश्चाप्सरसश्च जगुर्गान्धर्वसत्तमाः ॥९७॥ ऋषयः स्तवनं चक्रुराशीर्वादपरायणाः ।
साधवो नमनं चक्रुः सेवां चक्रुश्च पार्षदाः ॥९८॥ लक्ष्म्याद्याः पूजनं चक्रुर्दम्पत्योश्चेन्द्रप्रस्थके ।
यौतकानि ददुश्चापि भूषणानि धनानि च ॥९९ ॥ रत्नानि विविधान्येव दम्पतीभ्यां सुरादयः ।
भोजनानि व्यधुस्तत्र विवाहान्ते सुरादयः ॥3.115.१० ०॥ अथ ब्रह्मा प्रजगाद भण्डासुरक्षयाय तु ।
महालक्ष्मीं ललिताख्यां परब्रह्महरिं तथा ॥१० १॥ धर्मस्य रक्षणार्थाय देवानां रक्षणाय च ।
तदा तूर्णं महालक्ष्मीर्नारायणाज्ञया तदा ॥१ ०२॥ सस्मार दिव्यहेतींश्च चक्रादीन् दिव्यविग्रहान् ।
आययुर्मूर्तिमन्तस्ते तस्थुश्च पुरतो हरेः ॥१ ०३॥ जग्राह तान् महालक्ष्मीः सर्वकामाक्षिणी सती ।
सर्वकामप्रदस्य श्रीनारायणस्य चाज्ञया ॥१०४॥ सर्वदेवान् सहायाँश्चाऽदृश्यनारायणान्वितान् ।
नीत्वा दैत्यान्नाशयितुं प्रतस्थे जयवर्धिता ॥१०५॥ सैन्यानि पार्षदानां च गणानां द्युसदां तथा ।
देवीनां चापि सिद्धानां निर्ययुः सज्जहेतयः ॥१ ०६॥ सहस्रशो गवाश्वाश्च सिंहाः शार्दूलकाः खगाः ।
वृषभाः शरभाश्चापि हंसाश्च गरुडास्तथा ॥१ ०७॥ विमानानि सहस्राणि यानानि च रथास्तथा ।
सायुधाः कल्पजाश्चेन्द्रप्रस्थाद् विनिर्ययुस्तदा ॥१ ०८॥ महालक्ष्मीमहासैन्यं श्रीलक्ष्मीकमलान्वितम् ।
दुर्गासतीमहाचण्डीदेवीकोटिसमन्वितम् ॥१ ०९॥ दिव्यं चाऽव्याहतगति निर्ययौ त्वम्बरेण तत् ।
दिव्याऽस्त्रशस्त्रमन्त्राद्यैर्वर्धितं रक्षितं तथा ॥3.115.११ ०॥ गगनं सत्यलोकान्तं शब्दितं सैन्यगर्जन्नैः ।
सर्वे नारायणाश्चेशाः श्रुत्वा तूर्णं समाययुः ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कामदेवभस्मत उत्पन्नस्य भण्डासुरस्य नाशार्थमिन्द्रप्रस्थाऽऽगतदेवानां मखे प्रादुर्भूतललितामहालक्ष्मीसैन्यसन्नाहादिनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ॥११५ ॥