११२

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रिं! त्वं गौर्देया विधिना सदा ।
गौर्बोध्या त्रिविधा श्रेष्ठा पृथ्वी धेनुः सरस्वती ॥१ ॥ शिष्याय देया विद्यागौर्ब्राह्मीविद्या मुमुक्षवे ।
कलाज्ञानं शिल्पिने च, भौतिकं रसवेदिने ॥२ ॥ खज्ञानं गणकायाऽपि नार्यै पाककलामपि ।
शास्त्रज्ञानं च विदुषे देयं गोभूसमं हि तत् ॥३ ॥ धेनुदानं प्रदातव्यं मातरो धेनवः सदा ।
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥४ ॥ सन्ताड्या नहि पादेन देव्यः पूज्याः सुमङ्गलाः ।
गोवाहका गवादाश्च राक्षसा निरयङ्गमाः ॥५ ॥ तृषिताः क्षुधिता गावो जनं हन्युः सबान्धवम् ।
पितृसद्मानि सौधाश्च देवतायतनानि च ॥६ ॥ पूयन्ते शकृता यासां पूतं किमधिकं ततः ।
घासमुष्टिं चान्नमुष्टिं वर्षं दद्याद् गवे तु यः ॥७ ॥ अकृत्वा स्वयमाहारं व्रतं तत् सार्वकामिकम् ।
फलं पुत्रान् यशोऽर्थाश्च श्रियं चाप्यधिगच्छति ॥८ ॥ विनश्यत्यशुभं तस्य दुःस्वप्नं नैव जायते ।
दुष्टाय गौर्न दातव्या लुब्धाय नास्तिकाय न ॥९ ॥ वत्से दयारहिताय क्रूराय घातिनेऽपि च ।
घाससेवारहिताय न दातव्या कदाचन ॥3.112.१ ०॥ गृहस्थानरहिताय तृणादिरहिताय च ।
भक्तिधर्मविहीनाय न दातव्या कदाचन ॥१ १॥ साधवे बहुपुत्राय भिक्षवे देवतार्थिने ।
क्षेत्रवते प्रदातव्या तृणसेवाकृते च गौः ॥१ २॥ गोसेवा गुरुसेवा च पितृसेवा सदा रमे! ।
घ्नन्ति पापप्रपुञ्जानि तारयन्ति समर्पकान् ॥१ ३॥ सतां समागमो लक्ष्मि तथा तारयति ध्रुवः ।
अलाभे तु गवां दद्याद् घृतधेनुं शुभावहाम् ॥१४॥ तस्यैता घृतवाहिन्यः क्षरन्ति वत्सला इव ।
घृतालाभे क्षीरधेनुं दद्यादुत्साहश्रद्धया ॥१५॥ स कष्टात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ।
क्षीरालाभे तिलधेनुं दद्यात्तिलैः प्रमोदते ॥१६॥ तिलालाभे फलधेनुं दद्यात् फलैः प्रमोदते ।
फलालाभे कणधेनुं दद्यादन्नैः प्रमोदते ॥१७॥ अन्नालाभे गूडधेनुं दद्यान्मिष्टैः प्रमोदते ।
गूडाऽभावेऽम्बरधेनुं दद्याद् वस्त्रैः प्रमोदते ॥१८॥ सर्वाभावे जलधेनुं दद्यान्नदीषु मोदते ।
एकापि कपिला दत्ताऽमृताऽऽपगाऽस्य जायते ॥१९॥ अप्येका साधवे दत्ता देवतार्चनयोगिनी ।
प्रापयत्येवाऽक्षरं मे दातारं धाम शाश्वतम् ॥3.112.२०॥ गोप्रदाता यत्र याति लोकास्ते नित्यमोदिनः ।
न तत्र क्रमते कालो न जरा न च पावकः ॥२१ ॥ अशुभं तत्र नाऽऽस्ते च न व्याधिर्न च वै क्लमः ।
यदिच्छन्त्युपतिष्ठन्ति गवां पुण्यबलेन वै ॥२२॥ कामगाः कामचारिण्यो गावस्तत्रोपयन्ति च ।
वाप्यः सरांसि सरितो घृतदुग्धमयास्तथा ॥२३॥ गृहाणि पर्वताश्चारण्यानि वनानि यन्ति च ।
मनोज्ञमिष्टं मिष्टं च रसोपेतं प्रपद्यते ॥२४॥ तत्र सर्वसहाः क्षान्ता गोदातारः प्रयान्ति ह ।
गुरुशुश्रूषका यान्ति दानिनोऽतिथिपूजकाः ॥२५॥ न पापा गोप्रहर्तारः पुण्यलोकं प्रयन्ति वै ।
दायद्रव्येण गां क्रीत्वा प्रयच्छेच्छ्रेयसां कृते ॥२६॥ श्रमाप्तनाणकैः क्रीत्वाऽर्पयेन्मोक्षार्थमेव तु ।
द्यूते जित्वा धनं तेन क्रीत्वा दद्यात् स्वराप्तये ॥२७॥ दायभागां च गां दद्याद् दद्याद् दानाऽऽगतां च वा ।
सत्यव्रतस्य गोदातुः सहस्रगोसमं फलम् ॥२८॥ नित्यं प्रातर्नमेद् गां च तृणग्रासाँस्तथाऽर्पयेत् ।
जलं प्रपाययेद् यश्च राजसूयफलं लभेत् ॥२९॥ अनाहारोऽग्रभक्तं यो गवे दद्याद्धि गोव्रती ।
वर्षेण गोसहस्रस्य फलं लभते सेवया ॥3.112.३ ०॥ एकभक्तो हि गां क्रीत्वा दद्याद्वै गुरवे स तु ।
तस्या यावन्ति रोमाणि तावद्गोफलमाप्नुयात् ॥३ १॥ यस्त्वात्मविक्रयं कृत्वा धेनुं क्रीत्वा प्रयच्छति ।
रोम्णि रोम्णि धेनुदातुर्लोका भवन्ति चाक्षयाः ॥३२॥ अरण्ये गां भूसुरं च साधुं यस्त्रायतीति सः ।
अश्वमेधक्रतोस्तुल्यं फलं लभते मोदते ॥३३॥ मृत्युकाले यथेच्छाऽस्य भवेद् दिव्यविभूतिगा ।
तत्सर्वं समवाप्नोति परित्राणेन रक्षकः ॥३४॥ सुवर्णं परमं दानं दक्षिणा च गवा सह ।
दातव्या वै यथाशक्ति स्मृद्धिदा पावनी सदा ॥३५॥ दरिद्रो निर्धनश्चैवाऽपरिग्रहस्तु यो भवेत् ।
कुर्याद् व्रतं व्रतान्येव लभेत स परं पदम् ॥३६॥ इन्द्रियाणां नियमो वै व्रतं श्रेष्ठतमं रमे! ।
जितेन्द्रियो ब्रह्मभक्तो ब्रह्मलोके प्रमोदते ॥३७ ॥ दमः सुखप्रदो दान्ता निर्वृत्ता विषयव्रजात् ।
प्रत्याहृत्य मनोवेगं ब्रह्मणि यान्ति पाविताः ॥३८॥ विक्रमेण च तपसा यज्ञैर्दानैः प्रसेवया ।
भक्त्या शान्त्या विद्यया च सन्ति लोकाः सनातनाः ॥३९॥ ऋषिलोकान् देवलोकान् सिद्धलोकान् गवां गृहान् ।
मुक्तलोकानीशलोकान् शीलव्रताः प्रयान्ति हि ॥3.112.४०॥ अध्यापको होमकर्ता गुरुसेवापरस्तथा ।
सतीसाध्वीपूजकश्च याति धामाऽक्षरं मम ॥४१ ॥ भक्तौ धर्मे व्रते शूरा दानेऽध्ययनकर्मणि ।
यजने सङ्गरे शुश्रूषायां चोपार्जनेऽपि च ॥४२॥ दमे शूराः ऋते ज्ञानेऽरण्ये त्यागे गृहेऽपि च ।
शमे च नियमे शान्तावार्जवे शूरकर्मिणः ॥४३ ॥ गुरोर्मातुः पितुः पत्युः शुश्रूषायां तथाऽपरे ।
भैक्ष्येऽतिथौ तपस्येव शूराः सन्ति च केचन ॥४४॥ सर्वे यान्त्यैश्वरान् लोकान् यथाकर्मफलभृतान् ।
सत्यव्रतिनो भक्ताश्च यान्ति वैकुण्ठमुत्तमम् ॥४५॥ आजन्ममरणाद् यस्तु ब्रह्मचारी भवेदिह ।
न तस्य किञ्चिदप्राप्यं नारायणस्य वै यथा ॥४६॥ ब्रह्मचर्यं दहेद् दोषान् सर्वपापान्युपासितम् ।
ब्रह्मधामगतः स्याद्वै ब्रह्मचारी बलैधितः ॥४७॥ मातरं पितरं वाऽपि गुरुमाचार्यमच्युतम् ।
सेवते यस्तस्य धामाऽक्षरं मे शाश्वतं पदम् ॥४८॥ नाऽबीजं जायते किञ्चिन्न बीजेन विना फलम् ।
यादृशं वपते बीजं लभते तादृशं फलम् ॥४९॥ बीजं पुरुषाकरो वै सेवात्मको वृषात्मकः ।
क्षेत्रं सद्गुरवो माता पिता गौदैवतेश्वरः ॥3.112.५०॥ भक्तश्च कर्षुको यादृग् वपते चैति तादृशम् ।
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ॥५१॥ कृतं लभते सर्वत्र स्वर्गं स्वर्गसुखानि च ।
रूपं भाग्यं प्रसौभाग्यं रत्नानि विविधानि च ॥५२॥ तारकास्त्रिदशाः सिद्धा यक्षाश्चन्द्रार्कमारुताः ।
सर्वे कृतेन धर्मेण मानुष्याद् देवतां गताः ॥५३॥ नाऽदातारं भजन्त्यर्था निष्क्रियं न भजन्त्यपि ।
अपुण्यं न भजन्त्यर्था भजन्ति त्वर्थकारिणम् ॥५४॥ अकृत्वा मानुषं यत्नं दैवमात्रं प्रतीक्षते ।
न तस्य सिद्धिः कमले! क्लीबपत्न्या इवोभये ॥५५॥ सेवायां शूरता यस्य बलं शीलमयं तथा ।
यत्नो दैवं यस्य चास्ते सिद्धिस्तस्याऽञ्जलिस्थिता ॥५६॥ न केवलं रमे! दैवं पुष्णात्यवति रक्षति ।
निजयत्नसमायुक्तं दैवं साधु विवर्धते ॥५७॥ निःस्नेहः खलु वै दीपः स्वयमेव प्रशाम्यति ।
विना पुण्यं विना यत्नं भाग्यं स्वयं प्रशाम्यति ॥५८॥ तस्माल्लक्ष्मि! सदा यत्नः कर्तव्यस्तपसि व्रते ।
पुण्ये दानेऽर्जने भक्तौ सेवायां भूतिमिच्छता ॥५९॥ धनं विपुलं भोगांश्च योषितो भोजनानि च ।
पुण्यहीनो न वै भोक्तुं समर्थो जायते क्वचित् ॥3.112.६०॥ व्ययशीलं दानशीलं चोपैति विपुलं धनम् ।
पूर्वदत्तेन चायाति विना यत्नं क्वचित् प्रिये ॥६१ ॥ दातव्यं सर्वथा सर्वं यद् यदिष्टतमं भवेत् ।
दानस्यैव फलं भुङ्क्ते लोकोऽयं कर्मबन्धनः ॥६२॥ नाऽदत्ता प्राप्यते लक्ष्मीर्नाऽदत्ता प्राप्यते प्रिया ।
नाऽदत्ता प्राप्यते धेनुर्नाऽदत्ता प्राप्यते मही ॥६३॥ नाऽदत्ता प्राप्यते बुद्धिर्नाऽदत्ता स्मृद्धिराप्यते ।
नाऽकृता प्राप्यते सेवा नाऽदत्तं प्राप्यते सुखम् ॥६४॥ नाऽकृतं प्राप्यते चाऽऽयुर्नाऽदत्तं राज्यमाप्यते ।
नाऽदत्तं चाप्यते लक्ष्मि सुखमैन्द्रियिकं बहु ॥६५॥ तस्माद् दानानि देयानि भूषाम्बरगृहाणि च ।
भोज्यप्रेयप्रभोग्यानि यानि स्वेष्टतमानि वै ॥६६॥ मया सृष्टीः समुत्पाद्याऽवतारेश्वरदेवताः ।
कन्यादानैस्तोषिता वै तत्फलं स्त्र्यर्बुदाब्जकम् ॥६७॥ यद्यप्यहं समर्थोऽस्मि नित्यपुण्याश्रयो हरिः ।
ममांऽगात् प्रमद्य वामाज्जायन्तेऽर्बुदकोटयः ॥६८॥ न मे दानफलापेक्षा समर्थस्य परात्मनः ।
तथापि लोकरक्षार्थं निदर्शनं प्रदर्शितम् ॥६९॥ सर्वं जगच्छरीरं मे नरा नार्योऽर्धमूर्तयः ।
नरा नारायणार्धा मे नार्यो मेऽर्धाङ्गनास्तथा ॥3.112.७० ॥ एवं संसारनिर्वाहो दानेनाऽऽसाद्यते फलम् ।
तपोनियमसंयुक्ताः साधवः संशितव्रताः ॥७१ ॥ फलं प्राप्य भवन्त्येव नारायणसमेश्वराः ।
येन लोकास्त्रयः सृष्टा मया श्रीपतिना पुरा ॥७२॥ सोऽहं तपामि क्षीरोदे बदर्यां च चिरं रमे ।
सोऽहं कृत्वा दर्शयामि कुर्वन्तु तप उत्तमम् ॥७३॥ वामनोऽहं क्षितिं प्राप्य पर्शुरामस्तथा पृथुः ।
दानं पृथ्व्याश्चकारैव रामादित्योऽपि वै पुरा ॥७४॥ शिक्षयामास भगवान् भूत्वाऽपि दानमुत्तमम् ।
प्रजाभ्यो यज्ञकार्यैश्च यज्ञनारायणोऽप्यहम् ॥७५॥ मया राधा प्रदत्ता वै श्रीकृष्णाय मदात्मने ।
नारायणी तथा दत्ता नारायणात्मने तु मे ॥७६॥ भूर्दत्ता च वराहाय श्रीर्दत्ता विष्णवे पुरा ।
लक्ष्मीर्महाविष्णवे च सावित्री ब्रह्मणेऽर्पिता ॥७७॥ प्रकृतिर्या मूलरूपा पुरुषाय पुरार्पिता ।
एवं कृत्वा सङ्कलनं दानरीतिः प्रवर्तिता ॥७८॥ तस्माल्लक्ष्मि दानफलं प्रमोदाः सर्व एव ह ।
येन येन शरीरेण यद्यद् दानं करोति यः ॥७९॥ तेन तेन शरीरेण तत्तत् फलमुपाश्नुते ।
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ॥3.112.८०॥ तस्यां तस्यामवस्थायां भुङ्क्ते कर्ता तु तत्फलम् ।
चक्षुर्दद्यान्मनोदद्याद् वाचं दद्यादृतम्भराम् ॥८१॥ आत्मानं सम्प्रदद्याद्वै सेवेत सततं गुरुम् ।
एवं दानं परं प्रोक्तं देहं दद्याद् यथोचितम् ॥८२॥ एवमपि प्रदानेन तरत्यब्धिं हि कर्मणाम् ।
शृण्वत्र कथयाम्येव ज्ञानेन दानमुत्तमम् ॥८३॥ यत्फलं ब्रह्मलोकाख्यं प्राप्ता ब्रह्मसती पुरा ।
योगिन्यासीद् ब्रह्मसती ब्राह्मणी सा कुमारिका ॥८४॥ सोमनाथे शुभे तीर्थे भजमाना तु शङ्करम् ।
युवती च सुरूपा च शीलयुक्ता तपोधना ॥८५॥ सरस्वत्यां करोत्येषा त्रिषवणं जपादिकम् ।
तैर्थिकाः सूर्यतुल्यां तां पश्यन्ति यन्ति मुग्धताम् ॥८६ ॥ सा न दृष्टिं ददात्येव क्वापि कुत्रापि सर्वथा ।
एकदा तां तु संवीक्ष्य दैत्यः स्थण्डिलघोषकः ॥८७॥ उज्जहार बलेनैव व्योम्नाऽब्धौ निजमन्दिरम् ।
तस्या भोगं प्रसह्यापि चक्रे वै ब्रह्मयोषितः ॥८८॥ साऽप्यनाथा च निर्विण्णा ज्ञात्री देहविरागिणी ।
शोकं तथाऽप्यशोकं च मेने चात्मप्रतिष्ठता ॥८९॥ शीलं व्रतं सदा रक्ष्यं तद्भङ्गः शोक एव सः ।
आपत्काले न चेद् रक्षा देहोऽहं नेत्यशोचनम् ॥3.112.९०॥ विवेकेन शरीराद्वै भिन्नात्मानममन्यत ।
देहं भिन्नं तथा मत्वा शोकं जहौ पराश्रया ॥९१॥ एवं विधां तु तां वीक्ष्य दैत्यः पप्रच्छ तां मुहुः ।
कथं न कुरुषे शोकं प्रधर्षिताऽपि भामिनि! ॥९२॥ सा तु प्राह मलिनोऽयं देहो वै धर्षितस्त्वया ।
नाऽहं प्रधर्षिता दैत्य! शुद्धाऽहं चेतनात्मिका ॥९३॥ त्वयि नारायणश्चास्ते ब्रह्म यत्परमः प्रभुः ।
तदधिष्ठितदेहेन भुक्तो देहो न चेतनः ॥९४॥ त्वमज्ञो वर्तसे दैत्य! नाऽहमज्ञाऽऽपदि स्थिता ।
शोचनीयः सदा देहस्तं शोचाम्यवशा कथम् ॥९५॥ आत्मा न स्त्री पुमान्नैव पृथ्वीपाषाणरूपिणौ ।
देहौ तथाऽभिधानो वै तत्र का परिदेवना ॥९६॥ श्रुत्वैवं स्थण्डिलघोषस्त्वाश्चर्यं परमं ययौ ।
ज्ञानमासाद्य च ततो ययाचे कर्मणः क्षमाम् ॥९७॥ तां स्कन्धे स्वे निधायैव सोमनाथं समानयत् ।
ज्ञानयोगेन दैत्योऽपि तपोभक्तिं चकार ह ॥९८॥ तस्या योगेन तपसा शुद्धो भूत्वा हरस्य सः ।
कालेन गणतां प्राप्तो ययौ कैलासमुत्तम् ॥९९॥ ब्रह्मसती शुशोचापि यत्र मे परवश्यता ।
तत्राऽधीनाऽभवं चाऽब्धौ दैत्यहस्तगता तदा ॥3.112.१ ००॥ ज्ञानाग्निना मया पापं ज्वालितं किन्तु लौकिकम् ।
प्रायश्चित्तं विधातव्यं न लुप्येत वृषो यथा ॥१०१ ॥ सा ययौ योगिनं शान्तं किरीटिनं हराश्रितम् ।
पप्रच्छ शौचं शीलस्य किरीट्युवाच तां तदा ॥१ ०२॥ रूपं ते विद्यते साध्वि! शङ्करस्यापि मोहकम् ।
तस्मात् पुनः पुनर्विघ्नं ते भविष्यति यौवने ॥१ ०३॥ तस्मादाश्रय कान्तं त्वं स्वेष्टं ब्रह्मविदं जनम् ।
येन विघ्नविलोपः स्यात् पापं शान्तं भवेत्ततः ॥१ ०४॥ देहशुद्ध्या तथा चैवोद्वाहेन विधिनाऽपि च ।
प्रायश्चित्तं तवैव स्याद् राजस्वल्यं च शोधकम् ॥१ ०५॥ इत्युक्ता सा ज्ञानकोशा भक्ता तमेव योगिनम् ।
किरीट्याख्यं पतिं वव्रे गुरुं पतिं चकार सा ॥१ ०६॥ दीक्षां जग्राह गार्हस्थ्यशोभनां शङ्करान्तिके ।
पार्वत्या कृततिलका दत्तसौभाग्यचन्द्रिका ॥१ ०७॥ समर्था योगिनी जाता दिव्या शम्भोः शुभाशिषा ।
एवं देहेनाऽर्पिता सा गणपत्नी सुयोगिनी ॥१ ०८॥ दिव्या सामर्थ्यसम्पन्ना व्यवर्तत हि शाश्वती ।
एकदा शम्भुना साकं विष्णुलोकं गता सती ॥१ ०९॥ तया दासीस्वरूपा सा नीता ब्रह्मसती सह ।
नारायणं तु मां दृष्ट्वा मुमोह स च भामिनी ॥3.112.१ १०॥ सत्या निवेदिता मह्यं सा मुक्ता सम्बभूव ह ।
दिव्यरूपेण वै नित्या रमया सह राजते ॥११ १॥ ब्राह्मीसतीतिनाम्नैव पत्नी मे साऽभवत्ततः ।
अपरेणाऽपि रूपेण किरीटस्यापि भामिनी ॥१ १२॥ वर्तते नित्यकैलासे मोदते शम्भुसेविका ।
इत्येतत् कथितं लक्ष्मि रहस्यं तेऽर्पणे विधौ ॥१ १३॥ देहदानं प्रकर्तव्यं लभ्यते चेन्नरायणः ।
नारायणप्रदाता च लभ्यते मोक्षदः प्रभुः ॥१ १४॥ देहदानं विधातव्यं मोक्षार्थं सार्वकालिकम् ।
अन्यैर्यो भुज्यते देहो भुज्यतां परमात्मना ॥१ १५॥ तदर्पणेन वै लक्ष्मि लक्ष्मीतां लभते सती ।
पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्गतिर्भवेत् ॥१ १६॥ रहस्यं परमं त्वेतत् कथितं ते पुराऽभवत् ।
ततश्चान्या रूपवत्यश्चार्पणं चक्रुरात्मनाम् ॥१ १७॥ नारायणेऽभवन् साध्व्यः कोटिशो वै शुभाङ्गनाः ।
मम योगेन संसारं तीर्त्वा ब्रह्मपदं ययुः ॥१ १८॥ ब्रह्मप्रियाश्च ताः सर्वा वर्तन्तेऽत्र तवाऽग्रतः ।
ब्रह्मप्रियासु योगिन्यो मुक्तान्यो दिव्यविग्रहाः ॥११ ९॥ अपात्राभ्यो न दातव्यं ज्ञानमेतन्नरायणि ।
श्रुत्वा च निन्दिकाभ्यश्च न दातव्यं कदाचन ॥3.112.१ २०॥ मोक्षार्थकृतसर्वस्वाभ्यो दातव्यं शुभं त्विदम् ।
यत्प्राप्य मत्पदं दिव्यं लभन्ते मामनुश्रिताः ॥१२१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गोदानगोकल्पदानविविधव्रताचारार्पणफलनिरूपणे ब्रह्मसत्या योगिन्या देहदाननिदर्शनं मोक्षणं चेत्यादिनिरूपणनामा द्वादशाधिकशततमोऽध्यायः ॥११२ ॥