१०६

श्रीपुरुषोत्तम उवाच-
यथा पत्नी तथा पुत्रो धर्माश्रयः पितुर्मतः ।
पिता पुत्रस्वरूपोऽस्ति पितृधर्मः सुते स्थितः ॥१ ॥ प्रच्छन्नो वा प्रकाशो वा पुत्रः पिता प्रकीर्तितः ।
आर्यत्वं धर्मशीलत्वं मार्दवं व्यवसायिता ॥२ ॥ भक्तिर्विवेक एते व्यञ्जयन्ति पुत्रमुत्तमम् ।
अनार्यत्वमनाचारः क्रूरता निष्क्रियात्मता ॥३ ॥ अभक्तिश्चाऽविवेकश्च कालुष्यं व्यञ्जयन्ति वै ।
पित्र्यं वै भजते शीलं मातृजं वोभयं तथा ॥४ ॥ शुद्धयोनिप्रजन्मा वै साङ्कर्यं भजते नहि ।
ज्यायानपि तु शीलेन हीनो मानं न चार्हति ॥५ ॥ अपि शूद्रोऽपि शीलाढ्यः सद्वृत्तः पूज्यते जनैः ।
आख्यात्मानमेवाऽत्र शीलचारित्रकर्मभिः ॥६ ॥ आत्मा पुत्र औरसः स्वः पिता स्वयं स कथ्यते ।
स्वक्षेत्रे तु नियोगेन परजन्यो द्वितीयकः ॥७ ॥ स्वक्षेत्रे चाऽनियोगेन प्रच्छन्नजस्तृतीयकः ।
ऊढा गर्भवती भार्या तज्जातस्तु चतुर्थकः ॥८ ॥ जन्मतः केनचिद्दत्तः पञ्चमः सः प्रवर्धितः ।
यौवने दत्तकतया गृहीतः षष्ठ इत्यपि ॥९ ॥ शिष्यरूपेण सम्प्राप्तः सप्तमः पुत्र इत्यपि ।
क्रीतः प्रोक्तस्त्वष्टमश्चाऽनूढाजो नवमः सुतः ॥3.106.१०॥ मनोजन्यो दशमश्च कथितो मानसः सुतः ।
पथि त्यक्तो जातमात्रो गृहीतः कृत्रिमः सुतः ॥११ ॥ एकादशः स विज्ञेयः दौहित्रो द्वादशः स्मृतः ।
पुत्र्यश्चापि तथा बोध्या द्वादशधा तु वंशजाः ॥१ २॥ संस्काराश्चात्मवत्तेषां स्वामिवत् सम्भवन्ति हि ।
कानीनको ह्यनूढाजो मातृवर्णं प्रपद्यते ॥१३॥ गणिकानामपत्यानि मातृवर्णानि तानि वै ।
दासीनां पतिहीनानामपत्यानि तु यानि वै ॥१४॥ मातृवर्णानि बोध्यानि स्वामिवर्णानि वा तथा ।
भिक्षादीक्षालभ्यबाला अच्युतगोत्रका हि ते ॥१५॥ साध्व्यश्च साधवः सर्वे भवन्त्यच्युतगोत्रकाः ।
त्यागिवर्गाश्च वै पुत्राः पुत्र्यो नारायणस्य ह ॥१६॥ एवं वै भूतले लोके व्यवस्थाऽस्ति तु पद्मजे ।
ऐच्छिकी त्वन्यलोकेषु तथैषाऽपि प्रवर्तते ॥१७॥ भार्या चतुर्विधा लक्ष्मि प्रायशः सम्भवन्ति हि ।
पत्नी विवाहिता प्रोक्ता दासी या तु सहागता ॥१८॥ उपकुर्वाणिका या तु कञ्चित्कालं गृहे स्थिता ।
प्रच्छन्नयोगमापन्ना रक्षिता सा तु कीर्तिता ॥१९॥ स्वामिनोऽपि तथा सन्ति चतुर्धा पद्मजे! शृणु ।
विवाहितः पतिः प्रोक्तो लग्नितः श्रेष्ठ एव सः ॥3.106.२०॥ देवरादिर्गौणकान्तो द्वितीयः स प्रकीर्तितः ।
नियोगमाप्तस्तृतीयश्चोपकुर्वाणकः स हि ॥२१ ॥ प्रच्छन्नयोगमापन्नो रक्षितः स प्रकीर्तितः ।
प्रजास्तयोर्यथायोगं नार्या वा च नरस्य वा ॥२२॥ विवादेऽपत्यमेवाऽत्र यमिच्छेत् तस्य वै हि तत् ।
देशभेदात् कालभेदाद् रीतिभेदात् पृथग्वृषः ॥२३॥ दत्ता कन्या दानरूपा पुत्री कथं न कल्प्यते ।
कल्प्यते भोग्यरूपा सा तस्माद् रीतिर्हि कारणम् ॥२४॥ भावना यादृशी यत्र व्यवहारश्च तादृशः ।
भुक्त्वा क्रोधेन वै त्यक्ता वैराग्येण तथा च वा ॥२५॥ त्यागेनाऽपि विवेकेन त्यक्ता मातृसमा हि सा ।
तस्माल्लक्ष्मि! महामायाप्रवाहो मूर्छनात्मकः ॥२६॥ मूर्छनासु विविधासु नयन्ति देहिनः सदा ।
यथाविधः प्रवाहोऽस्ति यदा यत्र युगे स्थले ॥२७॥ तथारीतिकृतो धर्मः सुखदः शान्तिदो भवेत् ।
देवानां रीतयश्चान्या योगिनामितराश्च ताः ॥२८॥ मानवानां विभिन्नाश्च पश्वादीनां तथेतराः ।
यथारीतिः स वै धर्मो यद्यनर्थं न चाऽऽवहेत् ॥२९॥ अनर्थं प्रापयन्पन्था धर्मात्मा नैव गण्यते ।
दुःखदो नैव धर्मोऽस्ति सुखदः सर्वथा वृषः ॥3.106.३०॥ अर्थो वृषानुसञ्जुष्टोऽनर्थोऽधर्मानुयोजितः ।
कामो धर्मार्थसहितस्तद्धीनो न पुमर्थकः ॥३१ ॥ धर्मार्थकामपारं यो यातः स विन्दतेऽक्षरम् ।
अधर्म्यनर्थी विषयी विन्दते यमयातनाम् ॥३ २॥ कुटुम्बादिव्यवस्थाऽपि पुरुषार्थपरायणा ।
अपुमर्थयुता रीतिः पाशवी न तु मानुषी ॥३३ ॥ शास्त्रं शासनधर्मं वै मानुषादौ प्रवर्तते ।
तिर्यग्योनौ न वै शास्त्रं विद्याशून्यतया खलु ॥३४॥ बलं रीतिः पशूनां तु मोहश्चेति निबन्धनम् ।
तदाधाराणि तिर्यञ्चि यादांसि कीटयोनयः ॥३५॥ अथैवं वर्तमानानां भवपारो न विद्यते ।
यदृच्छया सतां योगे भवपारो भवेत् क्वचित् ॥३६ ॥ नह्यात्मा शक्यते हन्तुं तस्मादुद्धारमाचरेत् ।
स्नेहेन दर्शनं साधोः संवासं सेवयाऽऽचरेत् ॥३७॥ ब्रह्मवासकृतारम्भं साधुं सेवेत मानवः ।
निहत्य मानं शोकं च क्रोधं हर्षं च वासनाम् ॥३८ ॥ विश्रम्भपात्रं भूतानां शुचिं श्रीकृष्णदैवतम् ।
ऊर्ध्वब्रह्मस्थितिं शान्तं सर्वेषां प्रियदर्शनम् ॥३ ९॥ निःशेषितसमारम्भं ध्याननिष्ठं वशेन्द्रियम् ।
निष्णातं ब्रह्मविद्यायां समनेत्रं दयापरम् ॥3.106.४० ॥ एतादृशं साधुजनं चाश्रयेत् प्रार्थयेत्तथा ।
अज्ञानाद् यत्कृतं पापं प्रक्षालय जगद्गुरो ॥४ १ ॥ मोक्षमार्गस्य सोपानं प्रदर्शय जगद्गुरो ।
वासनाग्रन्थिमुज्ज्वाल्य पावय स्वान् जगद्गुरो ॥४२ ॥ भक्तिं प्रदर्श्य परमां प्रमोक्षय जगद्गुरो ।
एवं वै प्रार्थनां कुर्याद् यथा कुर्यात् कृपां तथा ॥४३ ॥ वक्तव्यं च सतामग्रे तवाऽस्मीति पुनः पुनः ।
करवाणि यदाऽऽज्ञा स्यात् सर्वं कर्ताऽस्मि दुष्करम् ॥४४॥ यदि राज्यं यदि धनं यदि गा यदि स्वं गृहम् ।
यज्ञं दानं सुतं वाटीं ब्रूहि सर्वं ददामि ते ॥४५॥ इत्येवमर्थयेत् साधुं प्रतोषयेत् समर्पणैः ।
अशङ्कयाऽर्पयेत् सर्वं मुक्तिभाक् स भवेत् खलु ॥४६॥ माया हि संशयः प्रोक्तो ब्रह्मणि नास्ति संशयः ।
संशयश्चेत् सतां योगे सेवायां वचने कृतौ ॥४७॥ कदा मुक्तिः कदा शुद्धिः कथं सेवा भवेदिह ।
कदा शुद्धस्वरूपस्य निष्ठा वापि भवेदिह ॥४८॥ तस्मान्निःसंशयो भूत्वा सेवेत साधुमुत्तमम् ।
पापक्षालनशक्तं च मोक्षदं दिव्यवर्तनम् ॥४९॥ सन्तुष्टं ज्ञानकोशं च ब्रह्माधानं निराश्रयम्।
निरालम्बं मदालम्बं मन्मूर्तिं सेवयेत् सदा ॥3.106.५०॥ शृणु लक्ष्मि कथयामि साधुसेवाफलं परम् ।
सस्वामिपशुपक्ष्याप्तसुहृदां मोक्षणं यतः ॥५१ ॥ आसीत् कर्णाटके देशे भक्तिमान् तापसो मुनिः ।
नाम्ना शम्भलवारश्च जात्या सूतीयसम्भवः ॥५२॥ स तु नद्यास्तटे वासं चकारैकल एव ह ।
युवाऽपि स्त्रीं विनाऽनङ्गभोगेच्छुः समधारयत् ॥५३॥ तपः श्रेष्ठं परं कृत्वा भुक्त्वा भोगान् हि धर्मतः ।
यास्याम्यहं ततः स्वर्गं शाश्वतं परमं पदम् ॥५४॥ विचार्येत्थं तीर्थयात्रां कर्तुं गृहाद्विनिर्गतः ।
गोदावर्यास्तटे रम्ये समुत्सेधस्थले शुभे ॥५५॥ ग्रामे सत्राशयाख्ये वै निजावासं व्यधात् ततः ।
उच्छ्रये स तपः कर्तुं वीक्ष्यानुकूलभूतलम् ॥५६॥ मानवैः कृतसम्मानोऽन्नादिभिः स मनो दधे ।
पञ्चाग्निषु निषसाद षण्मासानथ तत्परम् ॥५७॥ उत्थितोऽभूद् वर्षमात्रं त्वेकपादेन तापसः ।
तपश्चचार परमं भजन् विष्णुं नरायणम् ॥५८॥ वर्षान्ते निजपादौ स बद्ध्वा वल्ल्या वटद्रमे ।
शाखायां निम्नमूर्द्धाऽसौ व्यलम्बत समान्तरम् ॥५९॥ एवं कृत्वा तपः पश्चाद् वर्षान्ते मस्तकं भुवि ।
निधायोर्ध्वपदो भूत्वा तपश्चचार दारुणम् ॥3.106.६०॥ वर्षान्ते चोर्ध्वहस्तोऽभूदङ्गुष्ठमात्रतोलनः ।
अनिमेषोऽर्कदृष्टिश्च तपश्चचार दारुणम् ॥६१ ॥ षण्मासान् तत्परं नद्यां जलान्तरेऽवसत्ततः ।
पञ्चमे वत्सरे विष्णुर्जले मत्स्यस्वरूपधृक् ॥६२॥ आययौ चक्रचिह्नाढ्यश्चखाद चर्म तन्मुनेः ।
मांसं चखाद च तथापि न कम्पं ययौ मुनिः ॥६३॥ विष्णुर्मत्स्यस्य वाचा तं प्राह जलेऽत्र वर्तसे ।
कस्त्वं कथं स्थितस्त्वत्र वद कोऽर्थोऽत्र ते मतः ॥६४॥ श्रुत्वा शम्भलवारस्तं मत्स्यमाह शुभाशयम् ।
तपः करोमि सौख्यार्थं सुखं धर्मफलं यतः ॥६५॥ राज्यं गृहं धनं भार्याः सुताः पुत्र्यश्च धेनवः ।
दासा दास्यो वाहनानि लभ्यन्ते तपसा सदा ॥६६॥ धर्मार्थकाममोक्षाश्च लभ्यन्ते गृहयोगतः ।
भूत्वा गृही प्रयास्यामि तपः कृत्वा परं पदम् ॥६७॥ इत्युक्तो मत्स्य आहाऽपि किं ते भोगेषु वासना ।
तपः कृत्वा फलं भुङ्क्ष्व मोक्षपदे परे पदे ॥६८॥ अनित्याः सन्ति भोगा वै दुःखदा बन्धनात्मकाः ।
तान् विहाय पदं याहि नारायणस्य शाश्वतम् ॥६९॥ श्रुत्वा शम्भलवारश्च प्राह मत्स्यं तदा पुनः ।
भवान् मत्स्यो यथा ज्ञानी वर्तसे विषयेष्वपि ॥3.106.७०॥ तथा ज्ञात्वाऽपि विषयानभुक्त्वा न निवर्तनम् ।
भुक्त्वा विविधान् विषयान् तृप्तिमासाद्य सर्वथा ॥७१ ॥ वासनायाः क्षयं कृत्वा ततो यायात्परं पदम् ।
इत्येवं सुलभः पन्थास्तदन्यः संशयात्मकः ॥७२॥ सरागस्य गतिर्नास्ति रागं प्रशामयेत्ततः ।
अतोऽहं तपसाऽऽराध्य विष्णुं प्रसाद्य माधवम् ॥७३॥ वृत्त्वा भोगान् प्रभुक्त्वा तान् भक्त्या यास्यामि तत्पदम् ।
श्रुत्वा मत्स्यस्तदा प्राह पश्य मे रूपमैश्वरम् ॥७४॥ तपसा ते प्रतुष्टोऽस्मि नारायणोऽस्मि चागतः ।
वृणु यत्ते यथेष्टं तद् ददामि सर्वथा चिरम् ॥७५॥ मुनिर्वव्रे धनं राज्यं नारीः पुत्रान् पशून् सुताः ।
गजाश्ववृषभान् गाश्च पुरुषार्थचतुष्टयम् ॥७६॥ तथाऽस्त्विति हरिः प्राह दत्वा वरं तिरोऽभवत् ।
अथ शम्भलवारोऽपि जलाद् बहिर्विनिर्ययौ ॥७७॥ मालामावर्तयन्नाम्ना नारायणस्य वै हरेः ।
उवासोत्सेधभागे च नद्यास्तटे मनोहरे ॥७८॥ अथ सत्राशयो ग्रामो दशसाहस्रमानवः ।
वर्षायां सरितः पूरैः समावृणोत् समन्ततः ॥७९॥ जलमग्नोऽभवच्चापि तद्राजा मरणं ययौ ।
अन्येऽपि बहवो लोका नरा नार्यो जनाः प्रजाः ॥3.106.८०॥ जलप्लवेन निधनं याताः पञ्चसहस्रिणः ।
ततः परे ययुर्देशान्तरे वासार्थमेव च ॥८१ ॥ सहस्रं मानवास्तत्र न्यूषुर्धैर्यप्रपालिताः ।
भक्ताः सर्वे तापसाश्च नारायणपरायणाः ॥८२॥ अथ शम्भलवारोऽपि मानपात्रं परं शुभम् ।
तद्ग्रामवासिनां तत्र चाभवत्तापसो यतः ॥८३॥ ग्रामराज्यं प्रचकार प्रजाभिर्मानितस्ततः ।
एवं राजाऽभवत्तत्र सहस्रमानवार्चितः ॥८४॥ ग्रामप्रजा ददुस्तस्मै कन्यकाश्चैकविंशतिम् ।
गावः पशवो दासाश्च दास्यः प्रजाजनास्तथा ॥८५॥ अजावयोऽश्ववृषभाः सर्वे तस्याऽभवँस्ततः ।
एवं स तपसा राज्यं भोगान् स्त्रीश्च सुतादिकान् ॥८६॥ प्राप नारायणभक्तिं चक्रे सतां प्रसेवनम् ।
अस्य भक्त्या धर्मभृत्या व्यवर्धन्त प्रजाः पुनः ॥८७॥ दशसाहस्रसङ्ख्योर्ध्वा अभवन् सत्रनागराः ।
सर्वा अनेन मुनिना वैष्ण्व्यस्ता कृतास्तथा ॥८८॥ नामसङ्कीर्तनं चापि पूजनं श्रीहरेस्तथा ।
अकारयद् यथायोग्यं मन्दिरं चाप्यकारयत् ॥८९॥ साधवोऽस्य गृहे नित्यं निवसन्ति सहस्रशः ।
भक्तिं च नवधा नित्यमकारयत् सुमन्दिरे ॥3.106.९० ॥ अथाऽयं विगते काले प्रजाः प्राह विवेकवान् ।
पुत्रा मे चासते दैवाच्छतं पञ्च तथा स्त्रियः ॥९१ ॥ एकविंशतिसङ्ख्याश्च पुत्र्यो मे द्वे शते तथा ।
गावः सन्ति सहस्राणि वृषभा वाजिनस्तथा ।
शुकाश्च सारिकाश्चापि हस्तिनः सरमासुताः ॥९२ ॥ दासा दास्यो भवन्त्यत्र प्रजा यूयं सुखास्तथा ।
धर्मः कृतस्तथा चार्थः कामो दृष्टोऽथ मोक्षणम् ॥९३ ॥ कर्तुमिच्छामि सहसा दत्वा राज्यं सुताय मे ।
ज्येष्ठाय च ततो यास्ये नारायणाक्षरं पदम् ॥९४॥ प्रजास्तथास्त्विति प्राहुः प्राहुश्चान्यच्छुभाऽऽस्पदम् ।
वयं सर्वाः प्रयास्यामः सहैव परमं पदम् ॥९५॥ स्वस्वसुतान् प्रसंस्थाप्य यथाधिकारकर्मसु ।
एवं सम्मन्त्र्य राजाऽसौ समाधौ योगमाप्तवान् ॥९६॥ सर्वं पुत्रे सन्निधाय मोक्षे वृत्तिं समादधत् ।
राज्ञ्यः सर्वाः प्रजाः सर्वास्तत्स्थले श्रीहरौ तदा ॥९७॥ योजयित्वेन्द्रियप्राणान् लग्ना आसन् निजात्मसु ।
भजन्तः श्रीपतिं नारायणं प्रियं प्रभुं पतिम् ॥९८॥ आययौ तत्र वै विष्णुर्विमानैः सह पार्षदैः ।
प्रभासयन् दिशः सर्वा गर्जयद्भिर्दिगन्तरान् ॥९९॥ प्राह भक्तं शम्भलं तं समागच्छ विमानके ।
नत्वाऽऽर्च्य भगवन्तं तं प्राह शम्भलवारकः ॥3.106.१०० ॥ भगवन् कृपया सर्वाः प्रजा यास्तु समुत्सुकाः ।
आगन्तुं मोक्षमेवाऽत्र सज्जास्ता नय वै सह ॥१०१ ॥ गवाऽश्ववृषभाऽजाश्चावयो गावः शुकादयः ।
तथाऽन्ये ये भवन्त्यत्र तव प्रसादपाविताः ॥१ ०२॥ मम पुत्राश्च पुत्र्यश्च राज्ञ्यश्चापि कुटुम्बिनः ।
सज्जा ये ये भवन्त्यत्र तांस्तान् नय निजं पदम् ॥१०३ ॥ इतीच्छां मे हरे कृष्ण प्रपूरय कृपां कुरु ।
हरिः प्राह तथास्त्वेवं तव भक्त्या करोम्यहम् ॥१ ०४॥ पुत्रास्ते भिन्नजातीया भिन्ननारीसमुद्भवाः ।
ब्राह्मणाः क्षत्रियाश्चान्ये वैश्याः शूद्रास्तथाऽपरे ॥१ ०५॥ भिन्नजातीयराज्ञीनां सुताः पुत्रास्तथाऽनुगाः ।
दासा भृत्याश्च दास्यश्च येऽन्येऽन्या भक्तिमार्गगाः ॥१ ०६॥ आरोहन्तु विमानं मे नयामि मम धाम तान् ।
इत्युक्ताः सर्व एवैते ये ये मुमुक्षवोऽभवन् ॥१ ०७॥ आरुरुहुर्विमानं ते नवसाहस्रसङ्ख्यकाः ।
पशवः पक्षिणः सर्वे कृपया श्रीहरेस्तदा ॥१ ०८॥ आरुरुहुर्विमानं तद् दिव्यदेहाश्चतुर्भुजाः ।
चतुर्भुज्यश्च कमला नार्यः शर्वास्तदाऽभवन् ॥१ ०९॥ प्रजाः सर्वा आरुरुहुर्विमानं दिव्यभास्वराः ।
एकैकपुत्रं सन्त्यज्य वंशबीजं यथायथम् ॥3.106.११ ०॥ सर्वाः प्रजास्तथा राजा राजकुटुम्बसंयुतः ।
सर्वे ययुर्विमानेन वैकुण्ठं परमं पदम् ॥१११ ॥ एवं शम्भलवारो वै साधुर्गृहे स्थितोऽपि सन् ।
तापसोऽपि भुवो भोगान् भुक्त्वा प्रपूज्य केशवम् ॥१ १२॥ ययौ पदं तु परमं भक्त्या नारायणाश्रितः ।
भिन्नजातीयपत्नीनां पतिः पुत्रादिसंयुतः ॥१ १३॥ एवं साधुप्रसङ्गेन कुटुम्बं सर्वथा रमे! ।
प्रयाति परमं धाम योग्यायोग्ये न तत्र वै ॥१ १४॥ पठनाच्छ्रवणादस्य भोगवैराग्यवान् भवेत् ।
भक्त्या भुक्तिं समालभ्य मुक्तिं व्रजेद् बलाद्धरेः ॥१ १५॥ साधुवृत्त्या व्रजेन्मुक्तिं नयेन्मुक्तिं सहस्रशः ।
यया शम्भलवारोऽसौ ययौ मुक्तिं प्रजायुतः ॥१ १६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधपुत्राः, विविधपत्न्यो विविधपतयः, साधुयोगे मुक्तिः, सूतजातीयस्य शम्भलवारस्य साधुभक्तस्य भक्त्या तपसा राज्यसुतपशुपक्ष्यादिप्राप्त्युत्तरं सप्रजस्य मुक्तिरित्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६ ॥