०९४

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं महतामाश्रयात् सदा ।
महत्त्वं चापि कल्याणं जायते धर्मरक्षणम् ॥१ ॥ सतां योगेन वै सर्वश्रेयांसि सम्भवन्ति हि ।
अत्रार्थे ते कथयामि पुरावृत्तं शुभास्पदम् ॥२ ॥ आजनाभमिदं वर्षं दशसाहस्रयोजनम् ।
सह्याद्रेः पश्चिमं मात्रागस्कराख्यं च यावता ॥३ ॥ सिंहारण्यं मध्यभागं भूभागं तीर्थमुत्तमम् ।
गोकर्णाख्यं महर्षीणां निवासाढ्यमभूत् पुरा ॥४ ॥ सगरस्य सुतैः खाता पृथिवी पश्चिमा हि सा ।
दक्षिणा पृथिवी खाता ह्यष्टसाहस्रयोजना ॥५ ॥ अवशेषोऽस्य खण्डस्य द्वे सहस्रेऽवशिष्यते ।
पृथ्वीखातोत्तरं तीर्थे गोकर्णे चिरकालतः ॥६ ॥ सामुद्रं जलमापन्नं भूमग्ना क्षारवारिभिः ।
तीर्थं गोकर्णसञ्ज्ञं च शारभं तीर्थमित्यपि ॥७ ॥ सिंहारण्यं समस्तं च जलमग्नं ततोऽभवत् ।
सार्धयोजनविस्तारं गोकर्णं भूतलं ह्यभूत् ॥८ ॥ गोकर्णाख्यऋषेः क्षेत्रं हरावताररूपिणः ।
तत्राऽसङ्ख्यानि तीर्थानि मुनिदेवालयास्तथा ॥९ ॥ अवसन् सिद्धसङ्घाश्च मुनयः संशितव्रताः ।
निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम् ॥3.94.१ ०॥ तत्क्षेत्रे सर्वदा लक्ष्मि प्रीत्या भूतगणैः सह ।
देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः ॥११ ॥ सिद्धिकामा वसन्ति स्म मुनयस्तत्र केचन ।
अचिरेणैव तत्सिद्धिं प्राप्नुवन्ति स्म तद्बलात् ॥१२ ॥ अम्भोधिसलिले मग्नं वीक्ष्याश्रमादि भूतलम् ।
तपसां निधयः सन्तस्तथा प्रजाजना अपि ॥१३ ॥ सह्याद्रिं पूर्वभागस्थं निलयर्थं समारुहन् ।
वसन्तस्तत्र ते सन्तः सम्प्रधार्य परस्परम् ॥१४॥ उद्धारोपायमत्यन्तश्रेष्ठं साधुसमाश्रयम् ।
महेन्द्रादौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः ॥१५॥ मलयाचलवासाश्च तथा नीलाद्रिवासिनः ।
देशभूवासिनश्चापि रामं गन्तुं प्रचक्रमुः ॥१६॥ शुष्कसुमित्रधर्माद्या मुनयः संशितव्रताः ।
ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति ॥१७॥ अतीत्य सुबहून् देशान् वनानि द्रोणमापगाः ।
आसेदुरचलश्रेष्ठं ददृशूराममण्डलम् ॥१८॥ प्रशान्तसर्वसत्त्वाढ्यं सर्वर्तुद्रुमशोभितम् ।
आश्रमं सम्प्रविश्यैव ददृशुः परशुप्रभुम् ॥१ ९॥ अजिने तु सुखासीनं शिष्यैः परिवृतं प्रभुम् ।
ववन्दिरे महामौनं पुपूजाऽर्घ्यादिभिर्हरिम् ॥3.94.२०॥ कृतातिथ्यानृषीन् रामः स्मितपूर्वमभाषत ।
स्वागतं वो महाभागाः पावितोऽहं शुभागमैः ॥२१ ॥ सेवां ममाऽर्हाम् ऋषयो दर्शयन्तु करोमि वै ।
श्रुत्वा महर्षयः प्राहुर्गोकर्णाख्यं तु भूतलम् ॥२२॥ खनद्भिः सागरजन्यैः पतितं सागराम्भसि ।
उत्सारितार्णवजलं क्षेत्रं तत् सर्वपावनम् ॥२३॥ उपलब्धुमभीप्सामो भवतस्तु कृपां कुरु ।
विष्णोरंशो भवानास्ते साधुः सतां बलोदयः ॥२४॥ भृगोः पुत्रस्यर्चिकस्य जमदग्निः सुतोऽमलः ।
तस्य त्वं ब्रह्मधर्माऽसि समर्थोऽसि महाप्रभुः ॥२५॥ तस्मात् कर्तुमशक्यं तत्ते किञ्चिन्नैव विद्यते ।
वाञ्च्छितार्थप्रदं त्वां चाभियाचितुं समागताः ॥२६ ॥ स त्वमात्मप्रभावेण समुत्सार्याऽर्णवोदकम् ।
क्षेत्रं गोकर्णमित्याख्यं सिंहारण्ये जले प्लुतम् ॥२७॥ दातुमर्हसि भगवन्नः सर्वानृषिसत्तमान् ।
इति श्रुत्वा ततो रामः प्राह योग्यं तपोधनाः ॥२८॥ करणीयं सतां कार्यं नाऽत्र कार्या विचारणा ।
किन्तु शस्त्राणि सन्न्यस्य तपः कर्तुं समागतः ॥२९॥ विना शस्त्रं तदसाध्यं किं कर्तव्यं दिशन्तु माम् ।
शुष्काद्याः ऋषयः प्राहुः श्रुत्वा रामोदितं हिं तम् ॥3.94.३ ० ॥ सतां संरक्षणार्थाय शस्त्रसङ्ग्रहणं तु यत् ।
व्रतं प्रतिज्ञां धर्मं वा सत्यं पोषयति ध्रुवम् ॥३ १ ॥ न च्यावयते सत्याद्वा न धर्माद्वा व्रतान्न वा ।
तस्मात् साधुर्हितार्थाय भवता ग्राह्यमायुधम् ॥३२॥ तप एव महत्तच्च कृतं तेऽत्र भविष्यति ।
धर्म एव महांस्तेन चरितस्ते भविष्यति ॥३३ ॥ इत्युक्तः परशुध्रक् च विचार्य साधुरक्षणम् ।
परं भागवतं धर्मं सशस्त्रः सह चाययौ ॥३४॥ तपस्त्यक्त्वा सतां रक्षातपो धृत्वाऽम्बरे ययौ ।
सह्याद्रिं चाययौ पश्चान्मलयाचलमाययौ ॥३५॥ वरुणं त्वाह्वयामास मेघगम्भीरया गिरा ।
अहं मुनिगणैः सार्धमागतस्त्वद्दिदृक्षया ॥३६॥ तस्मात् स्वरूपधृक् मह्यं प्रचेतो देहि दर्शनम् ।
पुनः पुनश्चापि समाहूतो यदा न चाययौ ॥३७॥ निस्तोयमर्णवं कर्तुमियेष रुषितो हरिः ।
आचम्य च धनुर्धृत्वाऽऽरोप्य ज्याघोषमाचरत् ॥३८॥ स्वर्णपुङ्खं विशिखं च भार्गवं वह्निदैवतम् ।
समन्त्रास्त्रं महाघोरं सन्दधे च मुमोच ह ॥३ ९॥ ततश्चचाल वसुधा सशैलवनकानना ।
प्रक्षोभं परमं जग्मुः सर्वलोकाश्च वार्धयः ॥3.94.४०॥ सदिग्दाहाऽभ्रपटलैरभवन् संवृता दिशः ।
अस्त्राग्निज्वालिता आपो विनाशं प्रययुस्तदा ॥४१ ॥ बभूव वरुणो देवो गर्विष्ठोऽपि शराग्निना ।
दग्धस्तूर्णं भस्मसाद्वै समुद्रः शुष्कतां ययौ ॥४२॥ तावद् ब्रह्मादयस्तत्राऽऽययुस्तुष्टुवुरीश्वरम् ।
अलं चाऽलं हरे शान्तिं गृहाण परमेश्वर ॥४३॥ असाध्यं ते न वै किञ्चिच्छ्रीपतेः परमात्मनः ।
वरुणो दग्धतां यातो जलं नष्टं प्रजायते ॥४४॥ जलहीनं जगत् सर्वं नाशं क्षणात् प्रयास्यति ।
प्रसीद त्वं कृपासिन्धो निवारयाऽस्त्रमुल्बणम् ॥४५॥ उज्जीवय च वरुणं जलहेतुं सुरं प्रभो ।
नमस्ते रुद्ररूपाय सङ्कर्षणाय ते नमः ॥४६ ॥ महाकालस्वरूपाय मृत्युरूपाय ते नमः ।
सर्वसंहारकृत्कृष्णसाधुरूपाय ते नमः ॥४७॥ क्षत्रान्तकाय देवानां हिताय च नमो नमः ।
सतां हिताय रामाय श्रीहरये ते नमः ॥४८॥ इतिस्तुतो हरिस्तत्र वीक्ष्य देवान् पुरःस्थितान् ।
शान्तिमासाद्य वह्न्यस्त्रं निजग्राह निवृत्तये ॥४९॥ संहृत्याऽस्त्रं स्थितो रामो वरुणो नाशतां गतः ।
उज्जीवनार्थं तस्यैवाश्विनीबालौ सुरादयः ॥3.94.५० ॥ सस्मरुस्तूर्णमायातौ ब्रह्माज्ञया रसौषधैः ।
वारुणं भस्मचयनं सिषिचतुः समन्त्रकैः ॥५१ ॥ वरुणो भस्मतस्तत्रोज्जीवनं प्राप्य चोत्थितः ।
कृताञ्जलिर्भीत एव पपात रामपादयोः ॥५२॥ उवाच रक्ष मां राम कृपया शरणागतम् ।
अपराधमिमं नैव प्रगणय्य प्रशाधि माम् ॥५३॥ एवं ब्रुवाणं वरुणं रामः प्राह जलेश्वरम् ।
त्वत्तोये मेदिनीं पूर्वं खनद्भिः सगरात्मजैः ॥२४॥ अधो निपातितं तीर्थं गोकर्णमृषिसेवितम् ।
एषां वासाय तत् क्षेत्रं प्रदेहि पूर्ववच्छुभम् ॥५५॥ मा जलं तत्र चायातु योजनानां शतद्वये ।
गोकर्णे चापि च शूर्पारके तीर्थे कदाचन ॥५६॥ भवतीर्थे सतीतीर्थे तीर्थे तथा च शारभे ।
श्रुत्वा वरुण ओमित्यङ्गीकृत्य सम्प्रपूज्य च ॥५७॥ भुवं दत्वा जीवनं च लब्ध्वा ययौ सुरैः सह ।
व्यस्मयन्त तु मुनयो दृष्ट्वा रामस्य विक्रमम् ॥५८॥ ऋषयः स्थानमासाद्य प्रसेदुश्चातिहर्षिताः ।
कृतकृत्या भशं राममाशिषा समपूजयन् ॥५९॥ तैराज्ञप्तो ययौ रामो महेन्द्रपर्वतं प्रति ।
तत्तोयनिःसृते क्षेत्रे न्यूषुर्महर्षयः प्रजाः ॥3.94.६ ०॥ द्वीपाश्चान्तर्जले ते च वर्तन्ते तीर्थरूपिणः ।
मुनयो व्योममार्गेण विचरन्ति हि योगिनः ॥६१ ॥ इत्येवं साधुयोगेन रामयोगेन पद्मजे ।
त्वत्पिता प्रददौ भूमिं जीवनं वरुणाय च ॥६ २॥ हरिः प्रददौ तत्रैव तीर्थलाभो भवत्पुनः ।
सर्वं ददाति साधुर्वै भुक्तिं मुक्तिं समुन्नतिम् ॥६३ ॥ परोपकारशीला वै साधवो ह्यनिवर्तिनः ।
शृणु चान्यां कथां चापि साधुजन्यां हितावहाम् ॥६४ ॥ सूर्यपुत्रो बभूवाऽपि चेक्ष्वाकुर्नृपसत्तमः ।
अयोध्यायां च तद्वंशे कुवलाश्वोऽभवन्नृपः ॥६५ ॥ धार्मिकश्च महाशूरो यज्वा साधुप्ररक्षकः ।
हिमालयस्य निकटे ह्युत्तङ्कस्याऽऽश्रमान्तिके ॥६६ ॥ धुन्धुनामा मधोः पुत्रो राक्षसोऽभवदुल्बणः ।
तन्नाशार्थं कुवलाश्वं युयोजोत्तङ्क एव ह ॥६७ ॥ सज्जोऽभवत् कुवलाश्वो धुन्धुं नाशयितुं सरुट् ।
सहस्रैरेकविंशत्या पुत्राणां सह सत्वरः ॥६८ ॥ तमाविशत्ततो विष्णुर्भगवान् स्वेन तेजसा ।
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ॥६९ ॥ दिव्यैः पुष्पैश्च तं देवाः समन्तात् समवाकिरन् ।
धुन्धुश्चासीद् वालुकायामन्तस्तले हि भूतले ॥3.94.७० ॥ तत्र गत्वा च राजा स्वतनयैः सह भूतलम् ।
विशालं खनयामास धुन्धुरासादितस्तले ॥७ १ ॥ धुन्धुर्मुखेन वह्निं वै ह्यवासृजद् भयङ्करम् ।
वह्निना कुवलाश्वस्य पुत्रा दग्धाः समस्ततः ॥७२ ॥ त्रयो दूरं स्थितास्तत्रोर्वरिता जीवसंयुताः ।
कुवलाश्वो जलास्त्रेण शमयामास चानलम् ॥७३ ॥ धुन्धुं च मारयामास शैवाऽस्त्रेण हिं सत्वरम् ।
उत्तङ्कं दर्शयामास मृतं तं राक्षसं नृपः ॥७४॥ उत्तङ्कोऽपि प्रसन्नोऽभूद् वरं ददौ तु भूभृते ।
ददतश्चाऽक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् ॥७५॥ धर्मे रतिं च सततं स्वर्गे वासं तथाऽक्षये ।
पुत्राणां चाऽक्षयान् लोकान् ये चात्र राक्षसा हताः ॥७६ ॥ उत्तङ्कस्य प्रसादेन चाययुर्देवतास्तदा ।
विमानानि समादाय पुत्रास्ते चैकविंशतिः ॥७७॥ सहस्राणि दिव्यदेहा भूत्वा विमानसंस्थिताः ।
ययुः स्वर्गं पश्यतां वै सर्वेषां जयनादिनाम् ॥७८ ॥ एवमृषेः प्रतापेन राजा विजयमाप्तवान् ।
पुत्राणां चाऽक्षयं स्वर्गं साधोः प्रतापतोऽभवत् ॥७९ ॥ अथैवं कुवलाश्वस्य दृढाश्वो जीववान् सुतः ।
तस्य वंशेऽभवद्राजा सत्यव्रतो महाबलः ॥3.94.८० ॥ स च विदर्भनृपतेर्विवाहे मण्डपे ययौ ।
पाणिग्रहणकाले वै युद्धं कृत्वा महाबलः ॥८ १ ॥ कामाद् बलाच्च मोहाच्च संहर्षेण बलेन च ।
भाविनोऽर्थस्य च बलाद् भार्यां जहार मण्डपात् ॥८२॥ देवान् विप्रानवमत्य पापं वै कृतवान् स च ।
तेन त्रय्यारुणाख्येन पित्रा त्यक्तो ह्यधार्मिकः ॥८३॥ कथितश्चापि वासाय श्वपाकैः सह वै बहिः ।
उवासाऽपि बहिर्गत्वा श्वपाकाऽवसथान्तिके ॥८४॥ अथ द्वादशवर्षाणि नाऽवर्षत् पाकशासनः ।
विश्वामित्रस्तदा देशे तपश्चकार दारुणम् ॥८५॥ विश्वामित्रस्य पत्नी च बहुपुत्रसमन्विता ।
कुटुम्बभरणार्थाय व्यक्रीणान्मध्यमं सुतम् ॥८६॥ ज्ञात्वा सत्यव्रतस्तद्वै मोक्षयामास तं सुतम् ।
दत्वा बहूनि चाऽन्नानि सत्यबलोद्भवानि च ॥८७॥ एवं सत्यव्रतस्तस्या भरणं ह्यकरोत्तदा ।
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमित्यपि ॥८८॥ विश्वामित्रसुतो यश्च मोचितो गालवो हि सः ।
महर्षिश्चाऽभवच्छूरो व्रतभक्तिसमन्वितः ॥८९॥ तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रादीन् सत्यव्रतो बभार ह ॥3.94.९०॥ वसिष्ठश्चाऽभवद् राज्ये त्रय्यारुणिनृपस्य वै ।
अयोध्यायां सत्यव्रते विमना इव सर्वथा ॥९१॥ इतिहेतोर्वसिष्ठे वै सत्यव्रतस्य भावना ।
नाऽऽसीन्मनागपि तत्र भाविनोऽर्थस्य वै बलात् ॥९२॥ सत्यव्रतोऽथ वै रोषाद् वसिष्ठस्याश्रमं ययौ ।
भोज्यादीनि समग्राणि जहार बालवत्तदा ॥९३॥ भोजयामास तत्सर्वं विश्वामित्रस्य चात्मजान् ।
वसिष्ठस्तं तदा प्राह त्रिपापस्त्वं सदाऽसि वै ॥९४॥ कन्यास्त्रीहरणं त्वेकं चाण्डालेन निवेशनम् ।
मम भोज्यादिहरणं त्रिशङ्कुस्त्वं ततो मतः ॥९५॥ विश्वामित्रस्तु तपसा निवृत्तो ज्ञातवानिदम् ।
प्रसन्नोऽभूद् वरं प्रादाद् देववत् प्रसुखी भव ॥९६॥ अथ वव्रे सत्यव्रतस्त्रिशङ्कुः पुण्यवानपि ।
सशरीरो व्रजे स्वर्गं भुक्त्वा राज्यमकण्टकम् ॥९७॥ त्रय्यारुणौ मृते राज्येऽभ्यषिचत् तं त्रिशङ्कुकम् ।
राज्यं कृत्वा ययौ तेन वर्ष्मणा दिवमेव सः ॥९८॥ मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
विश्वामित्रः सशरीरं दिवमारोपयन्नृपम् ॥९९॥ सम्भवोऽसम्भवस्याऽयं तदद्भुतमिवाऽभवत् ।
विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते ॥3.94.१० ०॥ प्रतापोऽयं महानास्ते साधोः ऋषेस्तपस्विनः ।
तस्माद्वै साधवः सेव्या उद्धर्त्तारो हि पापिनाम् ॥१०१ ॥ तस्य सत्यरता भार्या सुषुवे हरिचन्द्रकम् ।
रोहितस्तस्य पुत्रश्च विश्वामित्रकृपालयाः ॥१ ०२॥ तारिता बहुकष्टैश्च विश्वामित्रेण धीमता ।
शाश्वतकीर्तयो लोके कृताः स्त्रीपुत्रभूभृतः ॥१ ०३॥ एतत्ते कथितं लक्ष्मि साधोराश्रयणे सदा ।
कल्याणं विविधं चापि जायते मोक्षणं ह्यपि ॥१ ०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने परशुरामाश्रयेण सिंहारण्यवासिनां सागरमग्नस्य गोकर्णतीर्थस्य पुनर्लाभः, उत्तङ्कर्षेः कृपया कुवलाश्वस्य धुन्धुमारत्वम्, विश्वामित्रस्य कृपया सत्यव्रताख्यत्रिशङ्कोः सदेहस्वर्गगामित्वमित्यादिसाधुप्रतापवर्णननामा चतुर्नवतितमोऽध्यायः ॥९४ ॥