०९२

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं ब्राह्मण्यं वचनादपि ।
अन्यजातेः पुरा जातं तथा लोके भविष्यति ॥१ ॥ दिवोदासो महाभक्तोऽभवद् वाराणसीनृपः ।
हैहयैरेकदा युद्धे जितो ययौ प्रयागकम् ॥२ ॥ भरद्वाजं बृहस्पतेः पुत्रमृषिं ननाम सः ।
दुःखं निवेदयामास ततः ऋषिः प्रतापतः ॥३ ॥ पुत्रेष्ट्या च सुतो जातो दिवोदासस्य योषिति ।
प्रतर्दनः स गत्वा च युवा वाराणसीं पुरीम् ॥४ ॥ युयुधे हैहयैः साकं पराजितास्तु हैहयाः ।
पलायनपरा भृगोः शरणं चाश्रमे गताः ॥५ ॥ प्रतर्दनो ययौ पृष्ठे प्राह भृगुं प्रणम्य च ।
देहि मे शत्रुभूपालान् वीतहव्यादिहैहयान् ॥६ ॥ तेषां वधाद् भविष्याम्यनृणः पितुः कृपां कुरु ।
भृगुः प्राह कृपाविष्टः क्षत्रिया नात्र सन्ति वै ॥७ ॥ प्रतर्दनः प्रत्युवाच कृतकृत्योऽस्मि वै भृगो ।
राजानोऽपि च वीर्येण स्वजातिं त्याजिता मया ॥८ ॥ प्रतर्दनो भृगुं नत्वा वीतहव्यं नृपं द्विजम् ।
विप्रं भृगोर्वचनेन प्राणरक्षणहेतवे ॥९ ॥ त्यक्त्वा ययौ निजां राजधानीं वाराणसीं ततः ।
भृगोर्वचनमात्रेण वीतहव्योऽपि हैहयः ॥3.92.१० ॥ भयेन क्षत्रभावं सन्त्यक्त्वा ब्रह्मर्षितां गतः ।
तस्य पुत्रो गृत्समदो विप्रर्षिर्वैदिकोऽभवत् ॥११ ॥ तस्य द्विजः सुतेजाश्च विहविस्तस्य वै द्विजः ।
तस्य वितत्यस्तस्य तु सत्यस्तस्य श्रवाद्विजः ॥१ २॥ तस्य ऋषिस्तस्य पुत्रः प्रकाशस्तस्य वाचिकः ।
तस्य प्रमितिर्विप्रश्च तस्य रुरुः सुविप्रकः ॥१३ ॥ तस्य शुनकस्तस्यैव शौनको विप्रसत्तमः ।
एवं साधोर्महर्षेश्च वचनाद् विप्रता तथा ॥१४॥ ब्रह्मण्यता भवत्येव दीक्षयाऽपि भवेत्तथा ।
दीक्षया त्रिवर्णजाता भवन्ति ब्राह्मणोत्तमाः ॥१५ ॥ साधवो वैष्णवाः सर्वे विप्रा अच्युतगोत्रजाः ।
एवं गुणैर्वचसा च दीक्षया विप्रता भवेत् ॥१६ ॥ ब्राह्मणस्य गृहे तिष्ठन्नाबाल्याद् यदि संस्कृतः ।
ब्राह्मणो जायते सोऽपि गृहीतोंऽके द्विजेन सः ॥१७॥ स्तन्यपो बालको येन वर्धितोऽन्नजलादिभिः ।
तज्जातिं समवाप्नोति ब्राह्मणे ब्राह्मणो भवेत् ॥१८॥ तपसा च चमत्कारैराशीर्वादैश्च वै द्विजाः ।
जायन्ते ब्राह्मणाश्चापि धर्मकर्मादिशोभनाः ॥१ ९॥ शृणु लक्ष्मि तथाऽन्यच्च समर्थो व्याकरोति हि ।
शङ्करेण कृतो नन्दी मानवोऽपि गणो निजः ॥3.92.२० ॥ रमाऽब्धिजा तु हरिणा कृता नारायणी निजा ।
विश्वामित्रेण नरपः त्रिशङ्कुर्देवताकृतः ॥२ १॥ कृता हराद्याः कृष्णेन गोलोके गोपिकाः स्त्रियः ।
मासि मासि च सुद्युम्नोऽभवन्नरोऽबला तथा ॥२२॥ अर्धनारीश्वरः शम्भुर्विष्णुश्च मोहिनी तथा ।
नरबीजं सर्वसृष्टौ सुता सुतोऽपि जायते ॥२३॥ देवपुत्रा मानवाश्च काश्यप्यः सर्वशः प्रजाः ।
एवं बीजेऽपि वैवर्त्त्यं जायते जातिरोधकम् ॥२४॥ स्वेदजाश्चापि जायन्ते सर्वे विजातयः खलु ।
जडेभ्यश्च जडाश्चापि विजातयो भवन्त्यपि ॥२५॥ तस्माज्जातिर्न नियता सापेक्षा गुणकर्मभिः ।
साधुत्वं सर्वतः श्रेष्ठं प्राप्तव्यं शुभकर्मभिः ॥२६॥ शृणु लक्ष्मि नहुषोऽभूत् सर्पस्तेनैव वर्ष्मणा ।
अगस्त्यस्य प्रशापेन वहमानस्य तं नृपम् ॥२७॥ कल्पाषपादः सहसा वशिष्ठशापतोऽभवत् ।
राक्षसो द्वादशवर्षाण्यचरत् स वनान्तरे ॥२८॥ अहल्या चाऽभवत् पत्युः शापाच्छिला पुनश्च सा ।
वृन्दाऽभवत्तूलसी सा वृक्षरूपा क्षणान्तरे ॥२९॥ हरिः शालग्रामरूपः काली गौरी तथाऽभवत् ।
शनैश्चरः पन्नतित्वं प्राप्तश्चेन्द्रो बिडालताम् ॥3.92.३ ०॥ हरिर्मत्स्यादिरूपश्च वह्निः सुवर्णरूपधृक् ।
भङ्गास्वनस्तथा राजा वने स्नात्वा सरोवरे ॥३ १ ॥ शतपुत्रजनकोऽपि स्त्रीत्वमाप्तो यथार्थतः ।
पुनः सा ऋषिभार्याऽभूच्छतपुत्रप्रसूर्वने ॥३२॥ श्रीनारायणीश्रीरुवाच-
कथं भङ्गास्वनो राजा नरो नारी तथाऽभवत् ।
श्रोतुमिच्छामि कान्ताऽत्र कथां तां वद मे हरे ॥३३ ॥ श्रीपुरुषोत्तम उवाच-
पुरा भङ्गास्वनो नाम राजर्षिर्धर्मवान् शुचिः ।
अनपत्यः स पुत्रेष्टिं समाचरत् क्रतुं शुभम् ॥३४॥ इन्द्रप्रधानभावस्याऽसत्त्वादिन्द्रो रुषा ज्वलन् ।
विघ्नं कर्तुमियेषाऽपि रन्ध्रं नाऽवाप वै ततः ॥३५॥ यज्ञान्ते तु क्वचिद्राजा मृगयार्थं वनं ययौ ।
इन्द्रश्छिद्रं परं लब्ध्वाऽऽगत्याऽऽविवेश भूभृति ॥३६॥ अश्वत्थं तं नृपं दूरेऽरण्ये निनाय भ्रान्तिगम् ।
राजा च तृषितस्तत्राऽपश्यच्छ्रेष्ठं सरोवरम् ॥३७॥ सोऽश्वं सम्पाययामास जलं बबन्ध पादपे।
स्वयं पीत्वा जलं पश्चात् स्नानं चक्रे सरोवरे ॥३८॥ अवगाहनमात्रेण द्रुतं स्त्रीत्वमवाप्तवान् ।
दृष्ट्वाऽऽत्मानं स्त्रीकृतं च व्रीडितोऽभवदेव च ॥३ ९॥ व्यचिन्तयन्मुखं कीदृग् दर्शयिष्ये पुरे मम ।
शतपुत्रा मम सन्ति तान्प्रवक्ष्यामि किन्त्विदम् ॥3.92.४०॥ एवं स दुःखितो राजा चाश्वमारुह्य कृच्छ्रतः ।
लज्जां विहाय नगरीं ययावश्वेन वै च तम् ॥४१ ॥ पुत्रा दाराश्च भृत्याश्च पौरा जानपदास्तदा ।
दृष्ट्वा किं त्विदमेवेत्याश्चर्यं च विस्मयं गताः ॥४२॥ स उवाच मृगयार्थं वनान्तरसरोवरे ।
गतः स्नातस्तावताऽहं स्त्रीत्वमापन्न एव ह ॥४३॥ पुत्रेभ्यो मम राज्यं सम्प्रददामि वनं ततः ।
प्रयामीत्यभिधायैव दत्त्वा राज्यं ययौ वनम् ॥४४॥ स्त्रीरूपा सा ऋषेः पत्नी ह्यभवत् स्वर्वहस्य तु ।
स्वर्वहर्षेः शत पुत्रा राज्ञ्यां तस्यां ततोऽभवत् ॥४५॥ सा तानादाय राज्यं स्वं ययौ पूर्वसुतान् प्रति ।
प्राह यूयं पुरुषत्वे सुताः स्त्रीत्वे सुतास्त्विमे ॥४६॥ एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ।
पितृमातृवचो मत्वा राज्यं बुभुजिरे सह ॥४७॥ अथेन्द्रस्तत्र चागत्य भेदयामास पूर्वजान् ।
पितृपुत्रा राज्ययोग्याः स्त्रीपुत्रा न कदाचन ॥४८॥ स्त्रीपुत्राः सन्ति विप्रा वै न तेऽर्हन्ति नृपास्पदम् ।
तत उत्तरजानाह भवन्तश्चोत्तमाः खलु ॥४९॥ पूर्वजाः क्षत्रियाः सन्ति भवद्दासा हि ते मताः ।
मा राज्यं ते प्रकुर्वन्तु राज्ययोग्या हि भूसुराः ॥3.92.५० ॥ इत्यन्योन्यं कारयित्वा वैरं युद्धेन नाशिताः ।
श्रुत्वा तु तापसी माता रुरोद शोकसम्प्लुता ॥५१ ॥ इन्द्रस्त्वागत्य तामाह केन दुःखेन रोदिषि ।
विप्ररूपं तु तं प्राह मम पुत्रशतद्वयम् ॥५२॥ युद्धेन नष्टं विप्रेन्द्र! शोचामि ताँश्च रोदिमि ।
इन्द्रः प्राह पुरा राज्ञा त्वया यज्ञः सुतेष्टिकः ॥५३॥ विहितो मामनादृत्य मम दुःखं त्वया कृतम् ।
वैरं निर्यापितं राज्ञि मया मा रोदनं कुरु ॥५४॥ श्रुत्वा राज्ञी निपपात पादयोः क्षम चाह वै ।
इन्द्रो वरं ददौ तस्यै जीवन्तु के सुतास्तव ॥५५॥ सा प्राह स्त्रीसमुत्पन्ना जीवन्तु मम पुत्रकाः ।
इन्द्रः प्राह कथं पूर्वे न जीवन्तु वदाऽत्र मे ॥५६॥ -म’- साऽऽह स्त्रियाः परः स्नेहोऽपत्येषु न नरस्य वै ।
तस्मादुत्तरजाता मे सर्वे जीवन्तु पुत्रकाः ॥५७॥ इन्द्रः प्राह शते द्वे वै सर्वे जीवन्तु ते सुताः ।
कृपया जीवयाम्येतान् राज्यं कुर्वन्तु ते मिथः ॥५८ ॥ इत्युक्ता जीविताः सर्वे सत्यवक्त्र्या सुपुत्रकाः ।
अथेन्द्रो वरदानार्थं पुनः प्राह स्त्रियं प्रति ॥५९॥ वरं वृणु नरत्वं नारीत्वं वा यत् प्रकाङ्क्षसे ।
स्त्री प्राह मे सदा स्त्रीत्वं चास्तु नैव नरत्वकम् ॥3.92.६ ० ॥ इन्द्रः प्राह कथं स्त्रीत्वे विशेषाभिनिवेशनम् ।
साऽऽह स्त्रिया नरयोगे प्रीतिरभ्यधिका सदा ॥६१ ॥ कामसुखं च दशधा तुष्यामि स्त्रीस्वरूपिणी ।
तथाऽस्त्विन्द्रो वरं दत्वा ययौ दिवं च सा सती ॥६२ ॥ स्त्रीरूपा स्वर्वहं कान्तं भङ्गास्वनाऽप्यसेवत ।
पप्रच्छ स्त्रीस्वभावाँश्च कान्तं कान्तो जगाद ताम् ॥६३ ॥ स्त्रियो मूलं हि दोषाणां लघुचित्ता विनाशिकाः ।
पञ्चचूडाऽप्सरोवरा नारदायाऽऽह पृच्छते ॥६४॥ नारद! स्त्रीस्वभावोऽस्ति चञ्चलः पुरुषाश्रयः ।
अबला चेहते कान्तं रामकं रमणोत्सुकम् ॥६५ ॥ कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।
मर्यादासु न वर्तन्ते दोषोऽयं प्रमदाजने ॥६६ ॥ स्त्रीत्वं सदाऽभिवाञ्च्छन्ति पुरुषाऽधीनताकरम् ।
गृहराज्यं स्त्र्यधीनं वै पुमान् स्त्र्यधीन एव च ॥६७ ॥ अप्रयत्नाः सदा भोग्यजातानि भुञ्जते स्त्रियः ।
पूज्यन्ते मानमर्हन्ति मोहगर्वं विदन्ति च ॥६८॥ आयोद्यमादिनिश्चिन्ताः सदा चेच्छन्ति भोग्यताम् ।
स्त्रीत्वमिच्छन्ति सौभाग्यं दार्ढ्यमेतत् स्त्रियाः सदा ॥६९॥ अनुकूलानृद्धिमतः सुरूपान् स्ववशे स्थितान् ।
परानन्तरमासाद्य भुञ्जते स्वान् विहाय च ॥3.92.७ ० ॥ अयं दोषो हि नारीणां महानास्ते ह्यगोचरः ।
स्त्रियं हि यः प्रार्थयते ददातीष्टं पुनः पुन ॥७ १ ॥ इषञ्च कुरुते सेवां निर्लज्जास्तं हि भुञ्जते ।
नैव मिलति यावद्वै विमार्गवाहको नरः ॥७२॥ भयं नैव कुटुम्बस्य मर्यादा नेतरस्य च ।
राजदण्डभयं चेन्न व्यवायं यान्ति तास्तदा ॥७३ ॥ नाऽगम्योऽस्ति नरः कोऽपि नाऽऽसां वयसि गोरवम् ।
न रूपादौ दार्ढ्यभावः पुमानित्येव भुञ्जते ॥७४॥ या रक्ष्यन्ते सर्वदानैः सर्वमानसपूरणैः ।
तथापि सम्प्रसज्जन्ते कुब्जाऽन्धजडवामनैः ॥७५ ॥ कामदोषो महानासां प्रवर्तन्ते मिथः स्त्रियः ।
चलस्वभावा दुष्पूर्या दुर्नियम्याः स्वभर्तृभिः ॥७६॥ कामानामपि दातारं मनसां प्रियकारिणम् ।
पालकं न गणयन्ति कान्तं नार्यो ह्यनर्गलाः ॥७७॥ रत्यनुग्रह एवाऽऽसां मुख्यः पुमर्थ इष्टकृत् ।
धर्मार्थमोक्षास्तमनु मताः स्त्रीणां तु यौवने ॥७८॥ साहसं कपटं मौढ्यं लोभो गुप्तिर्हठोऽनृतम् ।
अशौचं क्रूरता चापि दोषा भवन्ति योषिति ॥७९॥ आश्रयः स्वीयता सेवा तितिक्षा प्राणदायिता ।
मार्दवं स्निग्धता वश्यं गुणा ह्येते तु योषिति ॥3.92.८ ० ॥ दुःखे दुःखं सुखे सौख्यं हृदयैक्यं धनैकता ।
आत्मनिवेदिता दास्यं नारीषु प्रायशो गुणाः ॥८ १ ॥ धर्मवृत्तिर्व्रतवृत्तिश्चास्तिक्यं पूजनं हरेः ।
आतिथ्यं स्वजनकीर्तिर्गुणाः श्रेष्ठा हि योषिति ॥८२॥ दानं श्रैष्ठ्यं कुटुम्बस्य कान्तनिन्दाश्रुतिर्न च ।
क्षमा पालनशक्तिश्च गुणाः सन्ति हि योषिति ॥८३ ॥ गृहकार्यकारिणीत्वं चोपार्जनमतिस्तथा ।
व्ययभीरुत्वमेवाऽपि गुणाः सन्ति हि योषिति ॥८४॥ रासनं च सुखं स्वादश्चाङ्गमर्दनमित्यपि ।
समुद्विग्नमनःशान्तिर्गुणाः सन्ति हि योषिति ॥८५॥ वंशविस्तारकारित्वं बालरक्षा गृहाऽवनम् ।
परोपकारशीलत्वं गुणाः सन्ति हि योषिति ॥८६॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ।
उद्विग्नं प्रियवाक्यैश्च सन्तोषयन्ति मायया ॥८७॥ वानरीणां तु चाञ्चल्यं मार्जारीणां तु गुप्तता ।
कलहश्चक्रवाकीनां मूषिकाणां चरित्रता ॥८८॥ पिपीलिकानां चयनं मार्गणं गृध्रपक्षिणाम् ।
सूर्योदयस्य प्राकट्यं ह्यानन्दस्य तु मूर्छना ॥८९॥ शोको मृतैकपुत्रस्य मौर्ख्यमुष्ट्रस्य वै तथा ।
मार्दवं चोरणस्यापि तैक्ष्ण्यं क्षुरस्य वै तथा ॥3.92.९०॥ एते धर्माः प्रमदासु वर्तन्ते वै विशेषतः ।
पूर्वे सर्गे तदा नार्यः साध्व्यः सत्य इहाऽभवन् ॥९१ ॥ स्वयं प्रजा देवसमा आसन् यान्ति दिवं हि ताः ।
ततो मानवमोहार्थमसाध्वीर्विश्वमोहिनीः ॥९२॥ ब्रह्माऽसृजत् क्रियाहीनाः कामक्रोधपरायणाः ।
शय्यासनमलङ्कारमन्नपानमनार्यताम् ॥९३॥ दुर्वाग्भावं चोग्ररतिं ददौ स्त्रीभ्यः प्रजापतिः ।
तैर्धर्मैः रक्षितुं शक्या नैव नार्यः कथञ्चन ॥९४॥ तथापि लक्ष्मि जायन्ते तपोव्रतोपवासनैः ।
सतां सेवादिभिर्नार्यः पवित्रा लोकपावनाः ॥९६॥ कृष्णपातिव्रत्यपराः साध्व्यो भवन्ति योगतः ।
दोषान् दग्ध्वा हृषीकावन्मुक्ता जायन्त एव ताः ॥९६ ॥ यत्र क्वापि कुले जाता विप्राश्रिता द्विजास्तु ताः ।
साध्वीदीक्षान्वितास्तास्तु साध्व्यः सत्यो द्विजाश्च ताः ॥९७॥ योगदीक्षान्विता विप्रा योगिन्यस्ता हि देवताः ।
साङ्ख्ययोगान्वितास्तास्तु मुक्तान्यो ब्रह्मयोषितः ॥९८॥ हरेः पत्नीत्वमापन्ना ब्राह्मण्यस्ता हरिप्रियाः ।
त्यागिन्यस्त्यागमापन्ना ब्रह्मप्रियाः सदा मताः ॥९९॥ गोपालकन्या ब्रह्माणं प्राप्य गायत्रिकाऽभवत् ।
पूज्या वन्द्या ब्राह्मणी सा ब्रह्माणी लोकमातृका ॥3.92.१०० ॥ श्वपचस्य सुता प्राप्य वसिष्ठं ब्राह्मणी शुभा ।
आर्षी चाऽरुन्धतीनाम्नी पूज्या पतिव्रताऽभवत् ॥१०१ ॥ कन्यास्तु बहुवर्णानां कृष्णं प्राप्य च गोपिकाः ।
कार्ष्ण्यो जाताः कृष्णरूपा स्त्रियः शुद्ध्यन्ति योगतः ॥१ ०२॥ राक्षस्यो देवमासाद्य देव्यो भवन्ति सर्वथा ।
पौलोमी वै महेन्द्रं तु समासाद्य हि देवता ॥१ ०३॥ देव्यपि देवयानी च क्षत्रमासाद्य मानवम् ।
ययातेर्गृहिणी भूत्वा मानवी सा व्यजायत ॥१ ०४॥ दक्षपुत्र्यश्च काश्चित्तु चान्द्र्यो देव्योऽभवन् दिवि ।
धर्मपत्न्यो देवताश्च ब्राह्मण्यः ऋषियोषितः ॥१ ०५॥ मनुपत्न्यस्तु मानव्यः काश्यप्यो बहुजातयः ।
जातास्तस्मान्न वै स्त्रीणां जातित्वं नियतं क्वचित् ॥१ ०६॥ किमत्र बहुनोक्तेन मम पत्न्योऽर्वुदाऽर्बुदाः ।
सर्वभूस्वःसत्यमद्वर्जनपातालदेहिजाः ॥१०७॥ सर्वजातिसमुत्पन्ना मद्योगाद् विप्रजातयः ।
यज्ञोपवीतधारिण्यो ब्रह्मप्रिया रमा इव ॥१ ०८॥ भवत्य सन्ति चात्रैवाऽक्षरक्षेत्रे मया सह ।
ब्राह्मण्यः सर्वपूज्या वै दिव्या मद्रूपधारिकाः ॥१ ०९॥ सर्वा वै पारमेश्वर्यः पौरुषोत्तम्य ईशिकाः ।
पावन्यः सर्वसृष्टीनां श्रीभूगङ्गा इव प्रियाः ॥3.92.११ ०॥ तस्माल्लक्ष्मि! मम योगान्नारायणी यथा भवेत् ।
देवयोगाच्च देवी वै साधवी साधुयोगतः ॥१११ ॥ विप्रयोगाच्च विप्राणी ब्राह्मणी ब्रह्मयोगिनी ।
मुक्तयोगाच्च मुक्तानी सिद्धिः सिद्धप्रयोगिणी ॥१ १२॥ गणयोगाच्च गणिका योगियोगाच्च योगिनी ।
ईशयोगादीश्वराणि मनोर्योगात्तु मानवी ॥११३ ॥ नार्यश्चैवं प्रजायन्ते सत्ययोगात् सती सदा।
तत्र सर्वत्र श्रेष्ठोऽहं श्रीपतिः पुरुषोत्तमः ॥१ १४॥ मम योगेन च पौरुषोत्तमीत्वं परात्परम् ।
प्राप्तव्यं मां भजित्वैव साध्वीत्वं साधुसेवया ॥१ १५॥ मोक्ष एव भवेद् यस्मात् तद्गृहं शाश्वतं सदा ।
अशाश्वतं विहायैव शाश्वतं समुपाश्रयेत् ॥१ १६॥ पठनाच्छ्रवणादस्य ब्राह्मीत्वं चेह जायते ।
भुक्तिर्मुक्तिर्भवेच्चापि नारायणीत्वमीयते ॥१ १७॥