०९०

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं येषां स्वर्गं हि शाश्वतम् ।
दानधर्मयुता नित्यं देवभक्ताः शुभाशयाः ॥१ ॥ तपःसत्यपराः शुद्धा यान्ति स्वर्गं निरामयम् ।
गुरुशुश्रूषावदाता विद्याशीलसुशोभनाः ॥२ ॥ प्रतिग्रहाघरुचयो यान्ति स्वर्गं निरामयम् ।
स्वार्थात् कीर्तेर्भयाद् व्याधेः कष्टाद् दारिद्र्यदूषणात् ॥३ ॥ ज्ञानाल्लोभादाश्रयाच्च स्नेहात् सम्बन्धयोजनात् ।
सहवासाद्भक्तिमन्तो यान्ति स्वर्गं निरामयम् ॥४ ॥ क्षमाधैर्यतितिक्षाढ्याः सत्कार्येषु सदोत्थिताः ।
पूजाद्याचारसम्पन्ना यान्ति स्वर्गं निरामयम् ॥५ ॥ मद्यमांसव्यवायादिनिवृत्ताश्चौर्यवर्जिताः ।
देवप्रसादभोक्तारो यान्ति स्वर्गं निरामयम् ॥६ ॥ धर्मशालाप्रकर्तारो देशोद्धारादिकारिणः ।
द्रुमोद्यानाश्रमपाश्च यान्ति स्वर्गं निरामयम् ॥७ ॥ ग्रामनगरपातारः प्रजारक्षाविधायकाः ।
आपत्सहायदाः सर्वे यान्ति स्वर्गं निरामयम् ॥८ ॥ भूषाम्बरप्रदातारश्चान्नपानप्रदास्तथा ।
कुटुम्बसेवकाः सर्वे यान्ति स्वर्गं निरामयम् ॥९ ॥ हिंसाद्रोहादिनिवृत्ताः सोढारश्चापदां सदा ।
शरणस्य प्रदाः सर्वे यान्ति स्वर्गं निरामयम् ॥3.90.१० ॥ आश्रयदास्तथापेक्ष्यपर्यङ्कशयनप्रदाः ।
यानवाहनदातारो यान्ति स्वर्गं निरामयम् ॥११ ॥ ग्रामक्षेत्रादिदातारो गृहगोवृषदास्तथा ।
पात्रोपकरणप्रादा यान्ति स्वर्गं निरामयम् ॥१२ ॥ वृद्धं गुरुं सुरं कान्तं मातरं पितरं हरिम् ।
शुश्रूषयन्ति साध्वीं च यान्ति स्वर्गं निरामयम् ॥१३ ॥ स्नेहवन्तो यथायोग्यं हितकाराः कुटुम्बिनाम् ।
परार्थसाधकाः सुज्ञा यान्ति स्वर्गं निरामयम् ॥१ ४॥ धर्माढ्या माधवबला जिततृष्णा जितेच्छवः ।
आराधनरता धीरा यान्ति स्वर्गं निरामयम् ॥१५ ॥ अपराधिदयावन्तो वत्सला मार्दवान्विताः ।
अदण्डरोषाः शास्त्रज्ञा यान्ति स्वर्गं निरामयम् ॥१६ ॥ आतिथेयाः शरण्याश्च सहस्रदाः सुसाधवः ।
अनेकत्राणकर्तारो यान्ति स्वर्गं निरामयम् ॥१७ ॥ स्वर्णरूप्यकरत्नानां दातारो वाससां तथा ।
मौक्तिकानां प्रदातारो यान्ति स्वर्गं निरामयम् ॥१८ ॥ महोत्सवेषु द्रव्याणां वस्तूनां चार्पकास्तथा ।
यौतकादिप्रदातारो यान्ति स्वर्गं निरामयम् ॥१९ ॥ वैवाहिकानां वस्तूनां दीक्षाङ्गानां तथा प्रदाः ।
दासदासीप्रदाश्चापि यान्ति स्वर्गं निरामयम् ॥3.90.२० ॥ प्रपाऽऽरामसभाकूपसरसां च विधायकाः ।
दीर्घिकासत्रकर्तारो यान्ति स्वर्गं निरामयम् ॥२१ ॥ क्षेत्रवसतिसौधानां गह्वरसरितां तथा ।
जलाशयानां दातारो यान्ति स्वर्गं निरामयम् ॥२२ ॥ कणानां द्विदलानां च धान्यानां दायिनस्तथा ।
रसानां च प्रदातारो यान्ति स्वर्गं निरामयम् ॥२३ ॥ मिष्टान्नानां फलानां च कन्दानां पत्रिणां तथा ।
शाकानां च प्रदातारो यान्ति स्वर्गं निरामयम् ॥२४॥ दुःखानां हारका ये च तापसन्तापनाशकाः ।
विपद्विनाशका लक्ष्मि यान्ति स्वर्गं निरामयम् ॥२५ ॥ यत्र क्वापि कुले जाता अपि स्नेहस्वभाविनः ।
वंशविस्तारवन्तश्च पुत्रपौत्रसुतान्विताः ॥२६ ॥ दयावन्तः साधुशीला लज्जामर्यादया स्थिताः ।
अमृषाहृदयाः शान्ता यान्ति स्वर्गं निरामयम् ॥२७ ॥ पराऽनिष्टाऽप्रकर्तारो निन्दाद्वेषाऽस्पृशो जनाः ।
सन्तुष्ट्या गुरुसेवाढ्या यान्ति स्वर्गं निरामयम् ॥२८॥ आशीर्वादगृहीतारः पुण्यकार्यनिषेविणः ।
पुण्यसाहाय्यकर्तारो यान्ति स्वर्गं निरामयम् ॥२९॥ प्रतिष्ठायामलुब्धाः स्वगौरवे स्नेहवर्जिताः ।
निर्माना दासवद्भावा यान्ति स्वर्गं निरामयम् ॥3.90.३०॥ निरपेक्षा धनानां च महासन्तोषसम्भृताः ।
अपरिग्रहसर्वस्वा यान्ति स्वर्गं निरामयम् ॥३ १॥ परिग्रहे सदा चाप्यकृतलम्बकराऽननाः ।
लुञ्चाभक्ष्यादिशून्याश्च यान्ति स्वर्गं निरामयम् ॥३२॥ सर्वघातादिशून्याश्च तथाऽत्मघातवर्जिताः ।
ब्रह्मघातादिशून्याश्च यान्ति स्वर्गं निरामयम् ॥३३॥ सहधर्मस्थिता नित्यं गृहस्था धर्मिकर्मिणः ।
भक्तिदानपराः शुद्धा यान्ति स्वर्गं निरामयम् ॥३४॥ शीलव्रतिनः सततं वनव्रतिन एव च ।
सन्न्यासव्रतशीलाश्च यान्ति स्वर्ग्रं निरामयम् ॥३५॥ कृतस्याऽऽघातकाश्चापि विश्वासस्याऽप्यघातकाः ।
ईष्टस्याऽघातकाः पुण्या यान्ति स्वर्गं निरामयम् ॥३६॥ लोकोपकारकाराश्च मोक्षोपकारकारकाः ।
हितोपकारकाराश्च यान्ति स्वर्गं निरामयम् ॥३७॥ शास्त्रोपकारकाराश्च कलोपकारकारकाः ।
उद्योगोपकारकारा यान्ति स्वर्गं निरामयम् ॥३८॥ नवीनयोजनावन्तो देशविघ्ननिवारकाः ।
प्रजासौख्यप्रकर्तारो यान्ति स्वर्गं निरामयम् ॥३९॥ अघाता ये सदा सन्ति चाऽहिंसाव्रतशीलिनः ।
देवाश्रिताश्चात्मतृप्ता यान्ति स्वर्गं निरामयम् ॥3.90.४० ॥ अघातयित्वा ये सन्ति घातकाख्या जनास्त्विह ।
तेषां सङ्गं न कुर्वन्ति यान्ति स्वर्गं निरामयम् ॥४१॥ श्रीनारायणीश्रीरुवाच-
अघातयित्वाऽपि च ये घातकाः सन्ति मानवाः ।
ताँस्तान् वेदितुमिच्छामि प्रदर्शय हरेऽत्र मे ॥४२॥ श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथयामि तादृशान् मानवानपि ।
अहिंसयित्वाऽपि जना हिंसकाः सम्भवन्ति तान् ॥४३॥ घातवदुःखदो यः स्याद् घातकः स तु कीर्तितः ।
घातवत् फलदश्चापि घातकः सम्प्रकीर्त्यते ॥४४॥ भिक्षुकं स्वयमाहूय भिक्षार्थे तिथिवर्जितम् ।
ब्रूयान्नास्तीति यः काले विद्याद् भिक्षुहणं तु तम् ॥४५॥ न्यायस्थितं तु यो राजा दण्ड्यं मत्वा ततः परम् ।
वृत्तिं हरति तस्मात् स जीवहा वृत्तिहारकः ॥४६॥ तृषितानां गवां विघ्नं तथान्येषां करोति यः ।
जलहा गोघ्न एवापि प्राणहा स भवेदिह ॥४७॥ यश्च शास्त्रं नियमाँश्च शासनं चोपदेशनम् ।
हन्ति चाज्ञो दूषयति न्यायहा शास्त्रकारहा ॥४८ ॥ निजपुत्रीं युवतीं च समये सदृशे वरे ।
न प्रयच्छति कन्याहा धर्महा स भवेदिह ॥४९॥ अधर्मिष्ठश्च यः साधुद्विजपूज्यादिदेहिषु ।
मर्मभेदं क्रियाच्छोकं पूज्यहा स मतो भवेत् ॥3.90.५ ० ॥ पङ्गोरन्धस्य मूर्खस्य नार्याश्चाऽनाथदेहिनः ।
सर्वस्वहर्ता भवति जीवहा सर्वहा तथा ॥५१ ॥ ग्रामारण्यवनादौ चाऽश्रमक्षेत्रगृहादिषु ।
अग्निदाता सर्वहा वै ग्रामहा ब्रह्महा मतः ॥५२॥ विषदश्चाऽस्त्रनिक्षेप्ता रोधयिता च मर्दकः ।
पाशदो भयमार्गदर्शकोऽनिष्टौषधिप्रदः ॥५३ ॥ अभिचारप्रदो मिथ्याकलङ्कदो यशःप्रहा ।
राज्यहा च कलायन्त्रसाधनाद्यपहारकः ॥५४॥ अङ्गुष्ठहा ऋतुहा च धर्महा यज्ञहा तथा ।
लग्नहा पाठहा पूजाघातको भक्तिघातकः ॥५५॥ गर्भहा नेत्रहा हस्तघातको लिङ्गहा तथा ।
बीजहा मुष्कहा जीव्यपशुहारक इष्टहा ॥५६॥ गुरूणां धिक्प्रवक्ता च सर्वे ते प्राणघातिनः ।
मोक्षहा चात्महा प्रोक्तो नास्तिको ब्रह्महा मतः ॥५७॥ शीलहा धर्महा प्रोक्तः पापकृत् स्वर्गहा मतः ।
सतीत्वदूषको नारीघ्नश्चोक्तो धर्महा अपि ॥५८ ॥ ब्रह्मणः श्रीहरेर्भीतिं त्यक्त्वा मे परमात्मनः ।
हनो भवन्ति ते तस्मात् सर्वेऽपि ब्रह्मघातिनः ॥५९ ॥ निरया याम्यलोका वै तेषां तु शाश्वतीः समाः ।
प्रेतभावास्तथा गर्भवासास्तिर्यग्भवादयः ॥3.90.६ ० ॥ नारकास्ते नरकस्था यत्र क्वापि भवन्ति वै ।
सर्वदा दुःखभोक्तारः सुखलेशविवर्जिताः ॥६ १ ॥ नहि तेषामयं लोकः स्वर्गं नैव कुतोऽक्षरम् ।
किन्तु मद्भक्तिमासाद्य तरन्ति कृपया चिरात् ॥६२॥ श्रीनारायणीश्रीरुवाच-
ननु पापकराणां ते कृपा वै जायते कथम् ।
तत्रापि घातकानां वै क्रूराणां लोकनाशिनाम् ॥६३ ॥ श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं यथा मे जायते कृपा ।
क्रमं ते विशदं चात्र वक्ष्यामि येन मोक्षणम् ॥६४॥ घातकानां तीव्रवेगवतां शापा भवन्ति वै ।
प्राणिनां शापनिःश्वासैः पुण्यहानिर्द्रुतं भवेत् ॥६५॥ शीघ्रं च दुःखभोगानामानन्त्यमुपतिष्ठति ।
गृहं द्वारा सुताः पुत्र्यः कुटुम्बं पशवो धनम् ॥६६॥ अचिरादेव नश्यन्ति दारिद्र्यं जायतेऽसहम् ।
रोगा भयङ्कराश्चापि सर्वनाशोऽपि जायते ॥६७॥ अन्नसलिलवस्त्राणां प्राप्तिः सर्वा विलीयते ।
भिक्षुकाः किङ्करा यद्वत् कदर्यास्ते भ्रमन्ति च ॥६८॥ धिक्काराऽमङ्गलाः स्थानहीना विवासितास्ततः ।
श्ववल्लोके विभ्रमन्ति दुःखदारिद्र्यधर्षिताः ॥६९॥ दुःखान्येतानि सम्भुक्त्वा चिरं धैर्यविवर्जिताः ।
तितिक्षारहिता दुःखदण्डैर्मार्दवमागताः ॥3.90.७० ॥ शोचन्ति सुतरां क्वापि भाग्यं दैवं हरिं तथा ।
हृदये शरणं यान्ति दुःखनिवारकं प्रति ॥७ १ ॥ ‘इदं दुःखमसह्यं मे लीयतां नाऽऽचरे पुनः ।
अहो नारायण! दुःखं मम नाशय चाऽसहम् ॥७२॥ शरणं ते पतितोऽस्मि चासह्यं त्वं निवारय ।
दानं पुण्यं तीर्थयात्रां करिष्ये सत्क्रियां शुभाम् ॥७३ ॥ जपं सेवां सतां वापि करिष्ये मानतां हरेः ।
व्रतं तपो गुरोश्चापि प्रायश्चित्तं करोमि च’ ॥७४॥ इत्येवं शुभसङ्कल्पाः प्रजायन्तेऽवशस्य वै ।
राजदण्डैर्लोकदण्डैर्देवदण्डैर्विपद्गणैः ॥७५॥ दुःखदण्डैर्याम्यदण्दैर्महाकष्टातिकष्टकैः ।
प्रजायन्ते शुभा बुद्धिस्ततो याति हृदा हरिम् ॥७६॥ धर्मं पुण्यं व्रतं भक्तिं जपं दानं शुभं प्रति ।
एवं शुभप्रसङ्गेन शुभक्रियाविधायिना ॥७७॥ मनाक्पुण्यं प्राप्यते वै पापध्वंसो मनाङ् मनाक् ।
शनैः पुण्यक्रियाभिश्च सुयोगाः सम्भवन्ति च ॥७८ ॥ सतां सेवा तीर्थसेवा परोपकार आर्जवम् ।
भजनं घातपापेभ्यो भयं मे स्मरणं तथा ॥७९॥ एवं चिरेण करणैर्याति मे शरणं सताम् ।
साधवो मम भक्ताश्च मन्त्रदानं च मालिकाम् ॥3.90.८०॥ नामकीर्तनभक्तिं च सत्सङ्गं कारयन्ति तम् ।
एवं पुण्योदये चित्ते नैर्मल्ये च मुमुक्षुता ॥८ १॥ जायते लीयते बुभुक्षता सम्पद्यते श्रितः ।
शिष्यः स वैष्णवः स्याच्च जिज्ञासति हरिं गुरुम् ॥८२॥ कथासत्सङ्गसेवाभिर्वर्धते भजनेऽनिशम् ।
आराधनायाः सोपानं यथा यथाऽधिरोहति ॥८३॥ तथा तथोपासना मे वर्धते प्रबला सुखा ।
एवं दग्धाऽघ एव स्यात् पुण्यशेवधिरित्यपि ॥८४॥ ततो दास्यं मम चाप्तस्ततश्चात्मनिवेदिताम् ।
ततः कृपा मे भवति जायते पङ्क्तिपावनः ॥८५॥ साधुर्वा जायते भक्तो मुक्तो वा जायते शुभः ।
परधामाऽर्ह एवाऽपि जायते च महेश्वरः ॥८६॥ एवं लक्ष्मि! नरो नारायणो भवति सा कृपा ।
कारणं तत्र बोद्धव्या मोक्षदा मन्नियोजिता ॥८७॥ पापाः पापतमाश्चापि तरन्त्येव चिरेण ह ।
यातनादुःखभोगाश्चाऽसह्यास्ते गुरुसदृशाः ॥८८॥ दण्डा निवर्तने लोके भवन्ति हेतवः क्वचित् ।
एवमार्त्ताः प्रायशो मां भजन्ति बहुदुःखिताः ॥८९॥ अर्थार्थिनश्च वै तद्वत् तरन्त्यपि न संशयः ।
साधवस्तारकाः शीघ्रं चेन् मिलन्ति कृपावशाः ॥3.90.९०॥ तेभ्यो दत्वा मनःप्राणाँस्तरन्ति पापिनोऽपि च ।
प्रातः सम्पूज्य साधूँश्च वृद्धान् प्रणम्य सर्वदा ॥९ १॥ गुरून् समर्प्य विप्राँश्च तरन्ति पापकोटितः ।
अर्पयेद् वस्तुजातं च तोषयेत् साधुसत्तमान् ॥९२॥ मम भक्ताः शीलधर्मा निःस्पृहाः स्वादवर्जिताः ।
पुण्याब्धयः साधवो ये तेभ्यो दत्तं महाफलम् ॥९३॥ कामक्रोधादिरहिताः सर्वसहा जितेन्द्रियाः ।
तापसा हितमैत्राश्च तेभ्यो दत्तं महाफलम् ॥९४॥ अरागा ज्ञानविज्ञानपारगाः सत्यसद्व्रताः ।
मोक्षमार्गरताः सन्तस्तेभ्यो दत्तं महाफलम् ॥९५॥ येषां शिष्याः प्रतीक्षन्ते सुवृष्टिमिव कर्षुकाः ।
तेभ्यो दत्तं प्रजायेत सहस्रगुणितं त्विह ॥९६॥ शीलचारित्रयुक्ता ये कृशाऽऽयजीविकादयः ।
भिक्षुकाः साधवो विप्रास्तेषु दत्तं महाफलम् ॥९७॥ स्वभक्ताः स्वगृहावासाः स्वबलाः स्वाश्रया द्विजाः ।
पावनाश्चार्थिनश्चेत् स्युस्तेषु दत्तं महाफलम् ॥९८॥ यस्य सत्राणि विद्यन्ते बटवः साधवो गृहे ।
भुञ्जते यस्य तस्यापि सत्रे दत्तं महाफलम् ॥९९॥ हृतसर्वविधस्वाश्च भक्तिमात्रपरायणाः ।
अनाथाः साधवो ये स्युस्तेषु दत्तं महाफलम् ॥3.90.१ ००॥ पारायणस्थिता यज्ञस्थिता महोत्सवस्थिताः ।
तेभ्यः पूर्त्यर्थमेवापि दत्तं सर्वं महाफलम् ॥१०१ ॥ आपत्काले कृशप्राणाः कृशद्रव्याः कृशव्रताः ।
तथापि साधुशीला ये तेभ्यो दत्तं महाफलम् ॥१ ०२॥ त्यागवन्तश्च निःस्नेहा दम्भमानविवर्जिताः ।
साधवः साधुभूषा ये तेभ्यो दत्तं महाफलम् ॥१ ०३॥ जापका ब्रह्मसर्वस्वा भैक्षाचारास्तपस्विनः ।
सन्तो मृषागन्धशून्यास्तेभ्यो दत्तं महाफलम् ॥१ ०४॥ बालाऽपराधशून्याश्च चात्माऽपराधवर्जिताः ।
ब्रह्माऽपराधशून्या ये तेभ्यो दत्तं महाफलम् ॥१ ०५॥ सतां ये तु कृपापात्राण्यपि भक्ता हरेस्तथा ।
साध्वीसन्तोषपात्राणि तेभ्यो दत्तं महाफलम् ॥१ ०६॥ इत्येवं कमले! दत्त्वा साधुभ्यो दानमुत्तमम् ।
अन्नजलाम्बरयोग्यवस्त्वात्मकं तरेत् ततः ॥१ ०७॥ नौका वै साधवः सन्ति पापिनः प्रस्तराः खलु ।
साधुनौकास्तरन्त्येव तारयन्त्यपि चाऽऽश्रितान् ॥१ ०८॥ पठनाच्छ्रवणाच्चास्य घातपापप्रणाशनम् ।
साधुसेवाफलं प्राप्य स्वर्गं लभेत शाश्वतम् ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वर्गगामिनः, अघातयित्वाऽपि घातकिनः, कृपया क्रमोद्धारः सत्सेवयोद्धारश्चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ॥९० ॥