०८४

श्रीनारायणीश्रीरुवाच-
कृपासिन्धो जीवबन्धो चात्मप्राणपते विभो ।
कर्मक्षेत्रे नरनारीदेहे प्राप्ते शुभावहे ॥१ ॥ श्रेयोऽर्थिना दरिद्रेण भाग्यहीनेन सर्वथा ।
यत्र नैव तु साधूनां लभ्यतेऽपि समागमः ॥२ ॥ तत्र कृत्वा विधिं किं च प्राप्येत मोक्षणं निजम् ।
आत्मकल्याणवाञ्च्छावान् कल्याणं लभते कथम् ॥३ ॥ श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं श्रेष्ठं पृच्छसि शोभनम् ।
कर्मक्षेत्रमिदं चास्ते लब्ध्वा मानुषमुत्तमम् ॥४ ॥ मातुः सेवां प्रकुर्वीत गृहतीर्थस्य सर्वथा ।
यथा यथा निजा माता प्रसन्ना स्यात्तथा तथा ॥५ ॥ सेवयित्वा चाऽर्जयेद्वै तदाशिषः सुपुण्यदाः ।
दारिद्र्यनाशिकाश्चापि श्रेयसां सम्प्रदाः शुभाः ॥६ ॥ मातुश्च सेवया भाग्यं भाग्यहीनस्य वर्धते ।
माता नारायणी ब्राह्मी श्रेयः करोति चाशिषा ॥७ ॥ एवं पितुः शुभा सेवा कर्तव्या तीर्थरूपिणः ।
तदाशीर्वादलाभेन श्रेयः पुण्यं हि लभ्यते ॥८ ॥ भाग्यं भवेद्विशालं च सम्पन्नं श्रेयसा भृतम् ।
अथैवं सेवया भाग्योदयेन स्यात् सती मतिः ॥९ ॥ शास्त्रार्थचिन्तने योग्या ततो ज्ञानं समर्जयेत् ।
ज्ञानोत्तरं विवेकश्च ततो ध्येयं हरिं तु माम् ॥2.84.१० ॥ ध्यायीत भक्तिं कुर्वीत ममैव सर्वदा शुभाम् ।
बहुधा यत्र नैर्मल्यं स्थैर्यं च मनसो भवेत् ॥११ ॥ नामजपं प्रकुर्वीत हरे कृष्ण नरायण ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥१२ ॥ एवं वै कीर्तनं कुर्वन् कारयन् भजनं परम् ।
सखायं संविदधीत सखीन् भक्तान् विवर्धयेत्॥१३ ॥ सत्सङ्गमण्डलं पश्चात् स्थापयेत् सम्भजेत माम् ।
कीर्तनं मे सदा कुर्यात् सायं चैकत्र मण्डलम् ॥१४॥ हरेर्भक्ता मण्डले ये ते बोध्याः साधवस्तदा ।
शास्त्रश्रवणलाभेन वृद्धवाक्येन वा सदा ॥१ ५॥ साधुगुणान् सखीन् प्राप्त्वा सत्सङ्गं वर्धयेत् ततः ।
एवं कृत्वा विशालं वै विदधीत स्वमण्डलम् ॥१६ ॥ महापुण्यप्रतापेन खलु सत्सङ्गमण्डलात् ।
मुमुक्षुता भवेच्छ्रेष्ठा ततो भक्त्या सुभावया ॥१७॥ भजित्वा माऽऽत्मकल्याणं प्रकुर्वीत स भक्तराट् ।
एवं लक्ष्मि बलं नैजं सबीजं वर्धयेत् सदा ॥१८॥ सत्सङ्गपोषकं येन भुक्तिर्मुक्तिर्भवेत्ततः ।
नामकीर्तनतुल्यं वै सुलभं साधनं नहि ॥१ ९॥ अलब्धसाधुसङ्गस्य नामकीर्तनमुत्तमम् ।
साध्वी जिह्वा निजा बोध्या तत्समागममाचरेत् ॥2.84.२० ॥ साध्वी मतिर्निजाबोध्या तया मन्वीत माधवम् ।
मनः साधु निजं बोध्यं तेन मन्वीत मां सदा ॥२१ ॥ देवः साधुरितिकृत्वा तेन सेवेत केशवम् ।
एवं सङ्गतिमासाद्य मां भजेत सनातनम् ॥२२ ॥ आचार्या वा गुरवश्च कोटिकल्याणकारिणः ।
एवमात्मबलेनैव तेरुर्भवार्णवात् स्वयम् ॥२३ ॥ तारयामासुरन्याँश्च श्रीहरेः कृपया त्विह ।
यतमानं निजं भक्तं साहाय्यवर्जितं हरिः ॥२४॥ स्वयं तत्राऽवतीर्यैव चोषित्वा हृदयेऽपि च ।
भक्तमण्डलमध्ये वा चोषित्वा श्रेय अर्पयेत् ॥२५॥ नहि कीर्तनकृत् कश्चिदनिष्टं विन्दति प्रिये ।
स एव तत्र साधुर्वै कीर्तनेन प्रजायते ॥२६॥ अयि लक्ष्मि श्वपचोऽपि गृहे सङ्कीर्तयँश्च माम् ।
सुदूरोऽपि साधुमनाः साधुस्निग्धो हि साधुवत् ॥२७॥ चर्मकारोऽपि शीलाढ्यो मम भक्तिपरायणः ।
साधुस्निग्धः साधुरेव कीर्तयन्मां स्वकर्मकृत् ॥२८॥ म्लेच्छोऽपि शीलयुक्तश्चेन्मम भक्तिपरायणः ।
साधुस्निग्धः साधुरेव कीर्तयन्मामहिंसकः ॥२९ ॥ घातकी व्याध एवाऽपि शीलव्रतस्त्यजन् हतिम् ।
साधुस्निग्धः साधुरेव कीर्तयन्मामहिंसकः ॥2.84.३०॥ ध्वजी चक्री च वा साधुः साधुस्नेहपरायणः ।
शीलव्रतोऽहिंसकश्च कीर्तयन्मामहर्निशम् ॥३ १ ॥ गणिका च व्यवायी च साधुस्नेहपरायणौ ।
साधूशीलव्रतौ कीर्तयन्तौ मां कामवर्जितौ ॥३२॥ धीवरश्चापि मत्स्यादः शीलव्रतोऽप्यहिंसकः ।
साधुस्नेहपरः साधुः कीर्तयन्मां परेश्वरम् ॥३३॥ जल्लादो हारकः स्तेनः साधुस्नेहपरायणाः ।
शीलव्रताः कर्मशून्याः साधवश्चेद् रटन्ति माम् ॥३४॥ भुजिष्या वृन्दलो वापि साधू शीलपरौ यदा ।
साधुस्निग्धौ कीर्तयन्तौ मां हरिं पुरुषोत्तमम् ॥३५॥ भाण्डा नटा नर्तकाश्च कुशीलवाश्च साधवः ।
शीलव्रताः साधुस्निग्धाः कीर्तयन्तश्च मां हरिम् ॥३६॥ बहुरूपा नर्मकाराः शवहाराश्च साधवः ।
शीलव्रताः साघुस्निग्धाः कीर्तयन्तश्च मां हरिम् ॥३७॥ सर्वादा गणिकेशाश्च गोधादाः सर्पभोजनाः ।
साधवः शीलव्रतिनः साधुस्निग्धा रटन्ति माम् ॥३८॥ जालग्राहाः पिशितादाः सन्त्यज्य क्रूरवर्तनाम् ।
साधवः शीलव्रतिनः साधुस्निग्धा रटन्ति माम् ॥३९॥ अग्निदा गरदाः शूलप्रदाः पाशप्रदा अपि ।
रटन्तो मां साधुशीला साधुस्निग्धा हि साधवः ॥2.84.४०॥ शस्त्रजीवी चिकित्साकृच्छवाङ्गिभेदिनो यदि ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४१ ॥ भार्ष्ट्रभट्ठीकराश्चापि वनारणाविघातिनः ।
शीलपराः साधुस्निग्धाः साधवो हि रटन्ति माम् ॥४२॥ उन्मत्तश्च विचित्तश्च शठः स्वार्थी हि साधवः ।
साधुस्निग्धाः शीलपरा मां रटन्ति विदुर्गुणाः ॥४३॥ आसुरा राक्षसा दैत्या दानवाः पापिनोऽपि च ।
साधुस्निग्धाः शीलवन्तः साधवो मां रटन्त्यपि ॥४४॥ भूताः प्रेताः पिशाचाद्या रटन्तो मां हि साधवः ।
शीलपराः साधुव्रताः साधुस्निग्धास्तथा मयि ॥४५॥ माधुकघ्ना मत्स्यहाराः शकुनिघ्ना हि साधवः ।
साधुशीला साधुस्निग्धाः कर्मशून्या रटन्ति माम् ॥४६॥ पशुवाहाः पञ्जरिणो विश्वासघातकाश्च ते ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४७॥ तिर्यग्वृत्तय आत्मस्त्रीरक्तविक्रयिणोऽपि तु ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४८॥ यन्त्रिणाश्चक्रिणश्चापि शस्त्रिणः साधवो हि ते ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि सात्त्विकाः ॥४९॥ राजभटाधिपा न्यायाधिपा नृपा हि साधवः ।
रटन्तो मां साधुशीला साधुस्निग्धा हि सात्त्विकाः ॥2.84.५०॥ मुष्कच्छेदकरा दंष्ट्राहाराश्च लिङ्गकृत्तिनः ।
रटन्तो मां साधुशीला साघुस्निग्धा हि सात्त्विकाः ॥५१॥ अकर्माणो विकर्माणो नृशंसा अपि साधवः ।
रटन्तो मां साधुशीला साधुस्निग्धा हि साधवः ॥५२॥ दौर्हृदनाशका धातुभोजिनः शौचवर्जिताः ।
रटन्तो मां साधुशीला साघुस्निग्धा हि साधवः ॥५३॥ येषां वै पञ्चकं सिद्धं साधवस्ते सदा मताः ।
निष्कामता ह्यलोभित्वं निर्मानित्वं निःस्वादिता ॥५४॥ निःस्नेहिता च सर्वत्र सन्तस्तत्पञ्चवृत्तयः ।
कामवासनाहीनत्वं निष्कामिता यथायथम् ॥५५॥ आवश्यकातिरिक्तेच्छाहीनत्वं लोभवर्जिता ।
अगर्वः सर्वथा निर्मानित्वं स्तब्धत्ववर्जिता ॥५६॥ प्राणयात्रार्थभोज्याप्तिर्निःस्वादित्वं हि तत् स्मृतम् ।
एवं शीलपराः साधुर्भक्तिमार्गपरायणः ॥५७॥ तरति तारयत्यन्यान् महाभागवतो हि सः ।
येषां वा पञ्चकं चान्यन्मुमुक्षुत्वं कथाश्रुतिः ॥५८॥ भक्तसाधोः सङ्गतिश्च सेवाभक्तिप्रवर्तनम् ।
आत्मनिवेदनं चेति पञ्चवत्साधवो मताः ॥५९॥ येषां वा पञ्चकं चान्यत् प्रातःस्नानप्रपूजनम् ।
मध्याह्ने हरये भोज्यनिवेदनं सदाऽन्वहम् ॥2.84.६०॥ उपार्जनस्य विंशांऽशोऽर्पणीयो हरये तथा ।
मालिकावर्तनं नित्यं चान्ते त्वात्मनिवेदनम् ॥६१॥ त एते साधवः स्युश्च गृहे वने च निर्जने ।
समाजे वापि जीवानां तारकास्ते भवन्ति वै ॥६२॥ दुष्टगुणान् विहायैव सद्गुणानर्जयेत्तु यः ।
साधुरत्र भवेत् सोऽपि भजते चेद्धरिं सदा ॥६३॥ माया पापं पापवन्तो जीवा मायाविनः खलु ।
मायादुर्गुणमुत्सृत्य सद्गुणान् प्राप्य मद्रताः ॥६४॥ धर्मवशाश्रया लोके साधवः साधुभूषणाः ।
संसारिणस्तु ये जीवाः सर्वे दुर्गुणसम्भृताः ॥६५॥ पश्चात्प्राप्य सतां श्रेष्ठगुणान् भवन्ति साधवः ।
मायामलेन हीनास्ते सन्तो भवन्ति निर्मलाः ॥६६॥ दीयमानानि रत्नानि कम्बलान्यम्बराणि च ।
सम्पदः सुखभोग्याश्च नाऽवेक्षते हृदाऽपि यः ॥६७॥ भोग्यभोक्तृत्ववृत्तिश्च यस्य नाऽऽवर्तते मुहुः ।
साधुवृत्तिः स विज्ञेयस्तापसो दोषतापनः ॥६८॥ जैह्वयं शैश्न्यं जितं येन जितं सर्वं महात्मना ।
अश्राव्यो बधिरो यश्चाऽप्यप्रेक्ष्ये नेत्रवर्जितः ॥६९॥ अस्पृश्ये त्वग्विहीनश्चाप्यघ्रेये घ्राणवर्जितः ।
अकथ्ये जिह्वया हीनश्चाऽभक्ष्ये रसनाक्षयः ॥2.84.७०॥ अग्राह्ये हस्तशून्यश्चाप्यगम्ये पादवर्जितः ।
अत्याज्ये पायुशून्यश्चाप्ययोग्ये कामवर्जितः ॥७१ ॥ अलिङ्ग्ये लिङ्गशून्यश्च सर्वथा मत्परायणः ।
विदेहः साधुरेवाऽयं परस्यापि गतिप्रदः ॥७२॥ आस्यभूर्मृगवद्यस्य शय्या चाऽऽजगरी यथा ।
निद्रा च जलवद् यस्य कल्पना व्योमपुष्पवत् ॥७३॥ देहश्छायासमो यस्य वस्तुजातं तु स्वप्नवत् ।
स्मृद्धयो भस्मवद् यस्य समुत्सवः श्मशानवत् ॥७४॥ अस्तित्वं नास्तितातुल्यं साधुः सोऽयं सदुत्तमः ।
यस्य सर्वं मयि चास्ते मत्तुल्यः साधुरेव सः ॥७५॥ यथाऽऽकाशगतं चाऽम्भं विद्युद्वेगात् प्रवर्षति ।
तथा साधोः प्रसङ्गाच्च भक्तः स्नेहेन वर्षति ॥७६॥ यथा मेघा विलीयन्ते वायुवेगेन चाम्बरे ।
तथा साधोः प्रसङ्गेन लीयन्ते पापकोटयः ॥७७॥ यथा वै जाग्रतः स्वाप्नं लीयते तत्क्षणं तथा ।
साधोर्योगेन लीयन्ते कषायास्तत्क्षणं रमे ॥७८॥ यथा तमोविनाशो वै सूर्यभाभिः प्रजायते ।
तथा साधोश्चमत्कारैर्लीयन्ते कल्मषाणि वै ॥७९॥ यथा पुत्रप्रसवेन लीयन्ते शोककोटयः ।
तथा साधुप्रसङ्गेन लीयन्ते शोककोटयः ॥2.84.८०॥ यथा लग्नप्रसङ्गे आनन्दा भवन्ति सोत्सवाः ।
तथा साधुप्रसङ्गेन मोक्षानन्दोत्सवोद्भवाः ॥८ १॥ यथा मातुर्दर्शनेन सुखं बालस्य जायते ।
तथा साधोर्दर्शनेन सुखं भक्तस्य जायते ॥८२॥ यथा मिष्टान्नलाभेन मोदन्ते बालबालिकाः ।
तथा वै साधुलाभेन मोदन्ते भक्तकोटयः ॥८३॥ यथा वर्षर्तुमासाद्य केका वदन्ति केकिनः ।
तथा साध्वर्तुमासाद्य कीर्तयन्ति हरेर्जनाः ॥८४॥ यथैकपुत्रनाशेन वृद्धपित्रोर्विदेहता ।
तथा सतां वियोगे तु भक्तानां स्याद् विदेहता ॥८५॥ यथा वन्ध्या पुत्रलाभे हर्षोन्मत्ता प्रजायते ।
तथा साधोर्गृहे लाभे हर्षोन्मत्ता ममाऽऽश्रिताः ॥८६॥ यथा सुगन्धसाराद्यैः प्रफुल्लं मानसं तथा ।
श्रीकृष्णसाधुधर्माद्यैर्भक्तमनः प्रफुल्लति ॥८७॥ यथाऽतीष्टस्य लाभेन सर्वानन्दा भवन्ति वै ।
तथा साधोरागमने सर्वानन्दा भवन्ति हि ॥८८॥ यथा नाट्यगतं पात्रं रङ्गं प्रसन्नयत्यति ।
तथा साधोः सेवकश्च साधून् प्रसन्नयत्यति ॥८९॥ यथा साध्वी हरिं कान्तं सदा प्रसेवते सुखा ।
तथा भक्तो हरिं साधुं सेवते च मुदा सुखः ॥2.84.९०॥ यथा व्याधस्य पुत्रादौ स्नेहः सदा प्रपोषणे ।
तथा भक्तस्य साध्वादौ स्नेहः सदा प्रमोक्षणे ॥९ १॥ यथा गौर्वत्समासाद्य ददाति धारया पयः ।
भक्तः साधून् समासाद्य सर्वस्वं प्रददाति ह ॥९२॥ यथा वृक्षा जलं पीत्वा प्रफुल्लिता नवाऽङ्कुराः ।
तथा भक्ताः सतः प्राप्य बह्वार्पणनवांऽकुराः ॥९३॥ यथा नद्यः पूरवृद्ध्या ह्युन्मत्ता आप्तुमप्निधिम् ।
तथा भक्ता भक्तिवृद्ध्या ह्युन्मत्ता आप्तुमीश्वरम्॥९४॥ यथा च नापितो राजसेवा प्राप्य प्रमोदते ।
तथा भक्तः साधुसेवां प्राप्य सदा प्रमोदते ॥९५॥ यथा युवा च युवतीं प्राप्यैति तत्तदात्मताम् ।
तथा भक्तो हरिं साधुं प्राप्यैति तत्तदात्मताम् ॥९६॥ यथा राजाऽऽज्ञया भृत्या वर्तन्ते नम्रमार्गिणः ।
तथा साध्वाज्ञया भक्ता वर्तन्ते धर्ममार्गिणः ॥९७॥ यथा दीपो रात्रियोगे प्रकाशते स्वयम्प्रभः ।
तथा भक्तः साधुयोगे प्रकाशते हरिप्रभः ॥९८॥ यथा पक्वं फलं वृक्षं जहात्येव हि कालतः ।
तथा पक्वफलो भक्तो जहात्येव तु मायिकम् ॥९९॥ यथा पत्नी धर्मशीलाऽनुसरत्येव सत्पतिम् ।
तथा साध्वीं च वा साधुमनुव्रजति भक्तराट् ॥2.84.१० ०॥ नारायणनिवासेन यथा नारायणायते ।
तथा साधुत्ववासेन व्यक्तिर्वै साधवायते ॥१० १॥ यद्वद्भक्तिनिवासेन भक्तो भवति मानवः ।
लक्ष्मि साधुत्ववासेन साधुर्भवति मानवः ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसमागमरहितस्यापिमोक्षोपायाः साधुलाभः साधुत्वलाभस्तद्विविधता चेत्यादिनिरूपणनामा चतुरशीति-
तमोऽध्यायः ॥८४ ॥