०८३

श्रीनारायणीश्रीरुवाच-
केन वै हेतुना साधुर्नारायणो निगद्यते ।
यद्यपि बहवस्तत्र हेतवः स्युर्दृढव्रताः ॥१ ॥ तथापि सरलं हेतुं यद्वा श्रेष्ठमनुत्तमम् ।
दुष्करं वाऽवगन्तुं तं समिच्छामि तथा वद ॥२ ॥ श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि महतश्च हेतून् बहुविधानपि ।
क्षमा शीलं विरागश्च शान्तिस्तथाऽपरिग्रहः ॥३ ॥ वैतृष्ण्यं स्वादशून्यत्वं चाऽऽत्मनिष्ठत्वमित्यपि ।
अलोलुपता द्वेषादिराहित्यं सर्वमित्रता ॥४ ॥ आत्मसाधनकर्तव्यं मयि सर्वसमर्पणम् ।
अस्नेहो बन्धशून्यत्वं मायाकैङ्कर्यवर्जनम् ॥५ ॥ देहेन्द्रियादियात्रातन्मात्रनिर्वाहणाऽर्जनम् ।
प्रतीक्षा मोक्षलोकस्य ममाऽहंवर्जनं तथा ॥६ ॥ नवोन्मेषारम्भहानिः स्थैर्यं चात्मनि नेतरे ।
शीलं मनसो नैर्मल्यं साधुत्वे कारणानि वै ॥७ ॥ परोपकारो यस्याऽस्ति मोक्षमार्गप्रदर्शनम् ।
व्रतं शीलं च यस्याऽस्ति नारायणार्थमुत्तमम् ॥८ ॥ तपश्चोग्रं च यस्याऽस्ति मायाबन्धनवर्जितम् ।
वृत्तयश्चापि सर्वा वै यस्य मद्गोचरः सदा ॥९ ॥ ह्येतच्चतुष्टयं लक्ष्मि साधुत्वे मुख्यकारणम् ।
नहि काषायवस्त्राणि नहि चिह्नानि बाह्यतः ॥3.83.१०॥ नहि दीक्षा नहि वासः साधुत्वे श्रेष्ठहेतवः ।
आत्ममोक्षविधातारो मायामोक्षाद्यभीप्सवः ॥१ १॥ परब्रह्मणि निष्णातास्तापसाः साधुसत्तमाः ।
साध्व्यश्चापि सतीधर्मपराः शीलपरा मम ॥१२॥ रागशून्या भक्तिमत्यः साध्व्यः साध्वीविभूषणाः ।
शरीरे भोगशून्यत्वं साधुसोपानमादिमम् ॥१ ३॥ इन्द्रियरागशून्यत्वं सोपानं च द्वितीयकम् ।
अन्तःकरणवशता सोपानं च तृतीयकम् ॥१४॥ आत्मनश्चार्पणं कृष्णे सोपानं तच्चतुर्थकम् ।
ज्ञाने मन्मूर्तिवासश्च सोपानं पञ्चमं च तत् ॥१५॥ मोक्षफलप्रयत्नश्च सोपानं षष्ठमेव तत् ।
तुर्यावस्थास्थितिर्नित्यं सोपानं चाऽन्तिमं हि तत् ॥१६॥ सप्तसोपानमारूढः साधुरेव सदुत्तमः ।
अपि साध्व्यस्तथाचाराः साध्व्युत्तमा मता मम ॥१७॥ त एते ह्युच्चकक्षास्थाः सन्तः साध्व्यो मयोदिताः ।
मध्यकक्षागताँश्चापि दर्शयामि निबोध मे ॥१८॥ देहेन्द्रियादिरागस्थास्तज्जन्यसुखलिप्सवः ।
किन्तु सर्वार्पणाः कृष्णे मयि चात्मनिवेदिनः ॥१९॥ मायाया गौणबलिनो मद्बले चोत्तमास्पदाः ।
एवंविधा मध्यमास्ते साधवः साध्विकाः प्रिये ॥3.83.२०॥ अथ ततोऽपि निम्नस्थान् शृणु लक्ष्मि मदर्थकान् ।
सर्वथा रागयुक्ताश्च देहेन्द्रियादियोगिनः ॥२१॥ लब्धदीक्षा अपि स्वार्थपरायणा मदाश्रयाः ।
कृत्वोऽग्रे मां प्रदर्श्याऽपि त्यागाश्रमनिवासिनः ॥२२॥ त्यागगन्धस्य मात्रां च स्वल्पां नैव विदन्ति च ।
तथापि कष्टमासाद्य त्यागमार्गे स्थिता इव ॥२३ ॥ वर्तन्ते ये निम्नचित्ता जालावृत्ता हरिध्वजाः ।
त एते नामतः सर्वे साधवो वै भवन्ति हि ॥२४॥ यथा काष्ठकृतो हस्ती यथा व्याघ्रश्च चर्मजः ।
तथाऽम्बरेण यः साधुस्त्रयस्ते व्यर्थशक्तयः ॥२५ ॥ अज्ञानां भयदाश्चैते विज्ञानामुपला इव ।
आश्रितानां नेष्टदास्ते त्रयो विश्वासघातकाः ॥२६ ॥ निश्चितार्थविघातास्ते समुन्नतिविरोधिनः ।
असत्काचसमाश्चैते सङ्गाद् भङ्गनिरूपकाः ॥२७॥ तपः श्रुतं च शक्तिश्चाऽप्येतत् साधुत्वलक्षणम् ।
क्षमा भक्तिर्विरागश्च साधुत्वे कारणानि वै ॥२८ ॥ एतादृशे तु साधौ वै तृप्ते तृप्ताः सुरादयः ।
यथा हि सुलभे क्षेत्रे फलं विन्दति कर्षुकः ॥२९ ॥ तथा समर्प्य साधौ वै फलं दाता समश्नुते ।
असाधौ दत्तमेवैतन्मोघं स्यान्नात्र संशयः ॥3.83.३० ॥ अदन्नसाधुर्हन्त्यन्नमद्यमानं च हन्ति तम् ।
तं चाऽन्नं पाति यः साधुरदन्नन्नं च रक्षति ॥३१ ॥ रक्षणं परलोकेऽपि पात्रेऽर्पितं करोति तत् ।
प्रभुर्ह्यन्नमदन् साधुर्दातारं पोषयत्यपि ॥३ २॥ पुण्येन कर्मणा तस्मात् सत्पात्रेऽन्नं नियोजयेत् ।
यदेव ददतः पुण्यं तदेवं प्रतिगृह्णतः ॥२३ ॥ यद्युभे साधुरूपे वै पात्रे स्यातां हि निर्मले ।
यत्र वै साधवः सन्ति श्रुतवृत्तोपयोगिनः ॥३४॥ तत्र दानफलं पुण्यं जायते वै सहस्रधा ।
ये ब्रह्मशुद्धाः सततं शीलशुद्धाश्च साधवः ॥३५ ॥ तपस्यभिरताश्चापि भक्ताः पूज्यतमा हि ते ।
तैश्च सद्भिः कृतः पन्था दिव्य एव न संशयः ॥३६ ॥ तेन याता न मुह्यन्ति मायायां चैश्वरे स्थले ।
परं पारं प्रगच्छन्ति ब्रह्मवाहा हि साधवः ॥३७ ॥ दुरन्वयं दुःप्रधर्षं दुरापं दुरतिक्रमम् ।
सदाशीर्वादतः सर्वमभ्येति नात्र संशयः ॥३८ ॥ सुरापो भ्रूणहाः स्तेनौ गुरुतल्पनिषेवणः ।
साधुना तीर्यते सर्वमेनसश्च प्रमुच्यते ॥३९ ॥ सर्वपूज्याः पूज्यधना विद्यावन्तो हि साधवः ।
तपस्विनो दानरता भक्तिमन्तो हि तारकाः ॥3.83.४ ० ॥ इमं च ब्रह्मलोकं च मोक्षस्थानमनुत्तमम् ।
साधुसेवासुकृतिनः प्रपद्यन्ते तु लौकिकाः ॥४ १ ॥ पूजिताः पूजयन्त्येते मानिता मानयन्त्यपि ।
प्रज्वाल्य पापिपापानि तारयन्ति हि साधवः ॥४२॥ यो भर्ता सेवकैस्तुष्टो भर्तुस्तुष्टाश्च सेवकाः ।
यत्रैवं साधुभावोऽस्ति तत्र कल्याणकोटयः ॥४३॥ अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।
साधोश्च सेवया तद्वत् सर्वपापमपोहति ॥४४॥ स्वस्ति करोति सर्वस्य पावयत्यपि देहिनः ।
एतत्क्रियापरः साधुः श्रेयःकर्ता जगत्त्रये ॥४५॥ जीवानां मुक्तये लक्ष्मि मया साम विनिर्मितम् ।
साधवः साम गायन्ति बोधयन्ति जनानिह ॥४६॥ उपदिशन्ति मन्त्रादीन् कीर्तयन्ति च मां मुहुः ।
वर्णयन्ति कथां मे च चरित्राणि बहूनि च ॥४७॥ गुणान्मे मम कार्याणि निरूपयन्ति सर्वथा ।
एवं साम्ना गीतिकाभिर्वाचयन्ति हि साधवः ॥४८॥ विद्वांसो मां शास्त्रमुखैः प्रसङ्गायन्ति नित्यदा ।
कवयन्ति च कवयः स्तुवन्ति चार्थसाधकाः ॥४९॥ एवं साम्ना हि बहुधा मामर्जयन्ति मानवाः ।
साम्ना गुरोर्मुखात्प्राप्य मां च दानेन साधयेत् ॥3.83.५० ॥ दानं समस्तभावेन समर्पणं निवेदिता ।
आत्मसमर्पणं दानं तेनाऽर्जयेच्च मां सदा ॥५१ ॥ साधवो दानयोगेन चार्जयन्ति ददत्यपि ।
ज्ञानदानं मन्त्रदानं नामदानं हरेस्तथा ॥५२॥ प्रसाददानं मालादिप्रदानं शिक्षणार्पणम् ।
लाभदानं सुखदानं मोक्षदानं परात्परम् ॥५३॥ ददत्यभयं दानं तत् तपोदानं शुभास्पदम् ।
पुण्यदानं प्रकुर्वन्ति साधवः साधुभूषणः ॥५४॥ कृपादानं तथा रम्याशीर्वादानां प्रदानकम् ।
दर्शनस्य प्रदानं च सेवादानं शुभावहम् ॥५५॥ सद्गुणानां प्रदानं च तेन तेन हि साधवाः ।
मां हरिं चार्जयन्त्येव भक्तेभ्यश्च ददत्यपि ॥५६॥ दीक्षादानं चात्मदानं कृत्वाऽपि तारयन्ति ते ।
भक्तिदानं शुभं कृत्वा तारयन्ति जनान् भवात् ॥५७॥ अन्ततश्चाश्रयदानं चरणामृतदानकम् ।
वाग्दानं साक्षितादानं कृत्वाऽपि तारयन्ति ते ॥५८॥ मनोदानं स्नेहदानं पावित्र्यादिप्रदानकम् ।
सदाचारक्रियाशिक्षादानं स्मृतिप्रदानकम् ॥५९॥ कण्ठीदानं चिह्नदानं कृत्वाऽपि तारयन्ति ते ।
मूर्तिदानं पात्रदानं कृत्वाऽपि तारयन्ति ते ॥3.83.६०॥ अथ भेदं योजयन्ति दानं साम च यत्र न ।
देहोऽयं मलसंयुक्तो मलिनः क्षणभङ्गुरः ॥६ १॥ आत्मा शुद्धो हरेर्भक्तो मुक्तियोग्यो हि शाश्वतः ।
एवं भेदं विवेकं वै योजयन्ति च साधवः ॥६२॥ अथ दण्डं वर्तयन्ति प्रायश्चित्तं विधर्मिणि ।
अमार्गगं जनं सन्तो नियमयन्ति सद्व्रतैः ॥६३॥ प्रायश्चित्तैः कृच्छ्रचान्द्रायणादिभिः क्रियात्मकैः ।
द्रव्यव्ययात्मकैर्यज्ञमहोत्सवैः सुखोत्सवैः ॥६४॥ अन्नसत्रैर्भोजनाद्यैः पूजादानार्पणादिभिः ।
श्रेयस्करैस्तथाऽऽयासैर्योजयन्ति विशुद्धये ॥६५॥ धर्मकर्मादिभिश्चापि योजयन्ति - प्रसह्य तान् ।
यद्वा प्रबलदण्डेन नियमयन्ति साधवः ॥६६ ॥ यथा पापानि नश्येयुर्मोक्षं विन्देयुरेव च ।
एवं हितात्मदण्डेन योजयन्ति हि साधवः ॥६७॥ गर्विष्ठानां तु वै क्रूरं दण्डं कुर्वन्ति वै क्वचित् ।
तेषां निष्कल्मषतार्थं मुक्त्यर्थं चापि साधवः ॥६८॥ दैविकं वा शुभं दण्डं प्रेरयन्ति जपादिकम् ।
येन निष्कल्मषत्वं च प्राप्य यान्ति परं पदम् ॥६९॥ पापी वा पुण्यशाली वा मिश्रितो वोभयादिभिः ।
भक्तिमान् वा ह्यभक्तो वा नास्तिको वाऽऽस्तिकोऽपि वा ॥3.83.७०॥ यः कश्चिद्वा भवेद् देही नयन्ति शरणं पुरः ।
संस्कृत्योपायभेदैश्च पावयन्ति पुनः पुनः ॥७१॥ प्रसादयित्वा सततं कृत्वा शुद्धं सनातनम् ।
निजतुल्यं ततः सन्तो नयन्ति धाम चाऽक्षरम् ॥७२॥ एवं सतां सदा लक्ष्मि परोपकारशालिता ।
अप्रतिदानलभ्या वै तया शुद्ध्यन्ति देहिनः ॥७३॥ यथा चाऽहं तथा ते वै गुरवो लोकतारकाः ।
आनखशिखं सन्तस्तु पवित्रा मम मूर्तयः ॥७४॥ यथा वै शर्कराखण्डः सर्वथा मिष्टसद्रसः ।
भागत्यागो न तत्राऽस्ति तथा ते साधवो मम ॥७५॥ यथा वा नवनीतस्य पिण्डः स्नेहात्मकोऽखिलः ।
भागत्यागो न तत्राऽस्ति तथा ते साधवो मम ॥७६॥ यथा वा मौक्तिकः शुद्धः स्वच्छो वा स्फटिकस्तथा ।
कौस्तुभो वा मणिर्यद्वत् तथा ते साधवो मम ॥७७॥ यथा वा कामधेनुर्गौर्यथा दुग्धं च निर्जलम् ।
यथा वा कनकं शुद्धं तथा ते साधवो मम ॥७८॥ यथा चिन्तामणिः श्रेष्ठो यथा कल्पतरुश्च वा ।
कल्पवल्ली यथा श्रेष्ठा तथा ते साधवो मम ॥७९॥ यथा मे हृदयं श्रेष्ठं यथा मूर्तिश्च मे परा ।
यथाऽक्षरं परं धाम तथा ते साधवो मम ॥3.83.८०॥ यथा विष्णुः सदा शुद्धः यथा शीलं व्रतोत्तमम् ।
यथा शान्तिर्महद्द्रव्यं तथा ते साधवो मम ॥८१॥ यथा क्षेत्रं कणिसस्यान्वितं गौः प्रसवोन्मुखी ।
यथा यज्ञो दक्षिणान्तस्तथा ते साधवो मम ॥८२॥ यथा वृक्षाः फलाढ्याश्च पुष्पाढ्या वल्लयो यथा ।
चमत्कारी यथा त्यागी तथा ते साधवो मम ॥८३॥ यथा रत्नमयी पृथ्वी माया गुणमयी यथा ।
आत्मा चाऽशत्रयाढ्यश्च तथा ते साधवो मम ॥८४॥ यथाऽहं सर्वसामर्थ्यो यथा लक्ष्मीर्हि सम्पदः ।
यथा कृष्णात्मकं सर्वं तथा ते साधवो मम ॥८५॥ यथा सुदर्शनं चक्रं यथा दण्डो यमस्य च ।
यथा प्रसन्नता विष्णोस्तथा ते साधवो मम ॥८६॥ यथा शम्भुकृता भक्तिर्यथा सेवा सतीकृता ।
यथा स्नेहः कामकृतस्तथा ते साधवो मम ॥८७॥ यथा क्षमा साधुनिष्ठा यथा भक्तगतं वचः ।
दास्यं साध्वीगतं यद्वत् तथा ते साधवो मताः ॥८८॥ व्रतं पत्नीगतं यद्वत् तृप्तिर्निस्तृष्णगा यथा ।
गङ्गाम्भः पावनं यद्वत् तथा ते साधवो मम ॥८९॥ यथा वंशः पुत्रगतो दानं कन्यागतं यथा ।
पूजा गणेशगा यद्वत् तथा ते साधवो मम ॥3.83.९०॥ यथाऽहं साधुरेवाऽस्मि साध्वी त्वं च विराजसे ।
यथा योगश्चावयोर्वै तथा ते साधवो मम ॥९ १॥ किम्वधिकं वेदयामि प्रशंसा नाऽत्रलभ्यते ।
भगवन्तः साधवो मे भक्तोऽहं सर्वथा सताम् ॥९२॥ अनर्प्य मम सद्भ्यो यो भुङ्क्ते स्वोदरसम्भरः ।
जायते स कृशे देशे कृशो वै ब्रह्मराक्षसः ॥९३॥ साधूचितं पूजनं चाऽकृत्वा यो मोदते गृहे ।
स्वगर्वात् सोऽपि देहान्ते जायते ब्रह्मराक्षसः ॥९४॥ धनैश्वर्ययुतश्चापि सेवते न सतो जनान् ।
निन्दति चाऽवजानाति स भवेद् ब्रह्मराक्षसः ॥९५॥ गुणाभिमानसन्दृब्धो प्राऽज्ञान् पश्यति वै सतः ।
दरिद्राँश्चाऽवजानाति स भवेद् ब्रह्मराक्षसः ॥९६॥ अजेयानपि साधूँश्च तिरस्कारान् करोति यः ।
मिथ्यादोषान् प्राहिणोति स भवेद् ब्रह्मराक्षसः ॥९७॥ अजातशत्रून् साधून् यः क्लेशे योजयतीश्वरः ।
सम्पन्नोऽपि मृतः पश्चाज्जायते ब्रह्मराक्षसः ॥९८॥ विद्वानपि सतः शान्तानवमत्य जुगुप्सति ।
हीयमानोऽपि दुर्वृत्तैः स भवेद् ब्रह्मराक्षसः ॥९९॥ यस्तु मित्रमुखः शत्रुर्भवति श्वासघातकः ।
अनार्यश्चार्यविद्वेष्टा जायते ब्रह्मराक्षसः ॥3.83.१०० ॥ अयत्सु वर्तमानश्च सतो भावं विडम्बते ।
प्रशंसति दुष्टभावान् जायते ब्रह्मराक्षसः ॥१०१ ॥ महद्गुणैस्तु यो हीनो महत् प्रार्थयतेऽखिलम् ।
सतोऽवमन्ता तद्योगे जायते ब्रह्मराक्षसः ॥१ ०२॥ तपस्विनं क्षमायुक्तं गुरुं विज्ञानिनं प्रभुम् ।
प्रसह्य चाऽवमन्ता यो जायते ब्रह्मराक्षसः ॥१०३ ॥ साधून् वनेचरान् वीक्ष्य नोत्तिष्ठते पुरस्तु यः ।
नात्महितं चरेद् यस्तु जीवन् वै राक्षसो हि सः ॥१ ०४॥ राक्षसोऽपि हरेर्भक्तान् साधून्नत्वा प्रसेवते ।
प्रसादयति सेवाभिश्चाशीर्वादान् सुविन्दति ॥१ ०५॥ सद्गुणान् सुखदान् लक्ष्मि यो गृह्णाति सतो जनात् ।
स एव जायते लोके साधुर्वै साधुवर्तनः ॥१०६ ॥ न जन्म नापि यत्नश्च न वेषः साधुताऽर्जकः ।
साधुसत्सङ्गसेवादि कारणं साधुताग्रहे ॥१ ०७॥ त एव तारका लक्ष्मि दर्शनात् स्पर्शनादपि ।
सेवनात् परिचरणात् तरन्ति देहिनो भवात् ॥१ ०८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुत्वे विविधप्रयोजककारणादि साधुस्तवनाऽस्तवनफलादि चेतिकथननामा त्र्यशीतितमोऽध्यायः ॥८३ ॥