०८२

श्रीनारायणीश्रीरुवाच-
अनादिश्रीकृष्णनारायण कृष्ण प्रभो विभो ।
स्वैरिण्याश्चापि कामिन्याः पुंश्चल्याश्चापि योषितः ॥१ ॥ सवासनायाः पापानि नश्येयुर्वै कथं वद ।
का गतिर्वापि तस्याः स्यात् केन शुद्धिश्च जायते ॥२ ॥ कथं वा सद्गतिः स्याच्च दयां कृत्वा वदस्व मे ।
अनाथाया हि नाथस्त्वं चाऽबलाया बलं भवान् ॥३ ॥ श्रीपुरुषोत्तम उवाच–
शृणु नारायणीश्रि त्वं पृष्टं कल्याणकृद्वचः ।
दयया हि त्वया पृष्टं तस्माद् ऋजु वदामि ते ॥४ ॥ सङ्गाद् बलाच्च पुष्टेश्च मदाद् रसाच्च यौवनात् ।
जायन्ते वासनास्तीव्रा भोगात्मिक्यो हि कामनाः ॥५ ॥ ऋतवो धातवश्चापीन्द्रियदार्ढ्यं सुखेषणा ।
उत्तेजका हि कामानां तृष्णातन्तुविवर्धकाः ॥६ ॥ अङ्गानां दर्शनाद्धास्यादेकान्तस्य प्रसेवनात् ।
प्रायशो हि विवर्धन्ते स्पर्शादेः कामवासनाः ॥७ ॥ अयोग्या अपि युज्यन्ते देहाभ्यां वै परस्परम् ।
लोकशास्त्रव्यवहारान् परित्यज्य स्वतन्त्रतः ॥८ ॥ कामिनीत्वं पुंश्चलीत्वं स्वैरिणीत्वं ततो भवेत् ।
कामकारेण लोकेऽत्र योषितां लग्नमन्तरा ॥९ ॥ पुरुषाणां च स्वैरत्वं स्त्रीचलत्वं च कामिता ।
भवत्येवातिकामेन तृष्णया माययाऽपि च ॥3.82.१० ॥ तेषां पापविनाशार्थं साधनानि बहून्यपि ।
भवन्ति पद्मजे प्रायश्चित्तानि च व्रतानि च ॥१ १॥ दुष्कराणि तथा याम्यवेदनानि बहून्यपि ।
देहदण्डानि चान्यानि राजदण्डानि सन्त्यपि ॥१२॥ त्यागाश्रमाणि रम्याणि तापसाश्रमणानि च ।
तीर्थानि विविधान्येव भवन्ति शुद्धयेऽपि च ॥१ ३॥ तदेतेषां परंश्रेयःकरं तु शरणागतिः ।
नैतादृशं परं चास्ति साधनं चेतरत् त्विह ॥१४॥ पापानां नाशकं सर्वपुण्यानां दायकं तथा ।
साधूनां सेवनं तत्र वासनाक्षालकं मतम् ॥१५॥ सत्सङ्गो ज्ञानदस्तत्र मोहरागनिवारकः ।
कृपा - चात्मोन्नतिप्राप्तिकारणं वै सतां मता ॥१६॥ प्रसादभोजनं पादवार्यमृतादिपानकम् ।
सतां सद्यः पुनात्येव पापकोटियुतं जनम् ॥१७॥ सन्तः प्रत्यक्षतीर्थानि सन्तः प्रत्यक्षवह्नयः ।
सन्तः प्रत्यक्षवर्षा च सन्तः साक्षात्सुधामृतम् ॥१८॥ सन्तः साक्षाद् धर्मदेहाः सन्तोऽहं भगवान् स्वयम् ।
सन्तो यज्ञा गोचरा वै सन्तो देवाधिदेवताः ॥१९॥ सन्तो व्रतानि सर्वाणि सन्तो नावो भवाम्बुधौ ।
सन्तो’ नारायणाः सर्वे सन्तस्तेजांसि शार्ङ्गिणः ॥3.82.२०॥ सन्तस्तपांसि सर्वाणि सन्तो ब्रह्म हि पावनम् ।
सन्तः कामदुघा बोध्याः सन्तो वै कल्पपादपाः ॥२१ ॥ सन्तश्च कल्पलतिकाः सन्तश्चिन्तामणीश्वराः ।
सन्तश्चाऽक्षयपात्राणि पुण्यानां धर्मकर्मणाम् ॥२२॥ सन्तश्चाऽव्ययकोशाश्च शाश्वतानन्दवारिधेः ।
तारका धारकाः सन्तः पापानां क्षालका द्रुतम् ॥२३॥ हरेर्गृहाणि सन्तो वै मूर्तयः साधवो मम ।
तेषां समागमात्तूर्ण महापापाब्धयोऽपि च ॥२४॥ अनले तृणवद् भस्मीभवन्ति स्पर्शमात्रतः ।
महापापाभिरेवाऽत्र स्त्रीभिर्नैजविशुद्धये ॥२५॥ सर्वस्वाऽर्पणभावेन सेवनीया हि साधवः ।
मम मन्त्रान् शरणादिप्रदान् सद्भ्योऽवगम्य च ॥२६॥ महाभाग्यवतीरीत्या प्रसेवेत सतो जनान् ।
दर्शनं स्पर्शनं नतिं परिचर्या च पूजनम् ॥२७॥ भोजनं मर्दनं पानं स्नानं च श्रवणं हरेः ।
सतां चापि प्रकुर्याच्च येषां स्वामी भवाम्यहम् ॥२८ ॥ तदा लक्ष्मि! स्वामिवत्पावनाः सन्तो मता मम ।
सन्त इव च शरणागताश्च सेवकाः खलु ॥२९ ॥ सेविकाश्च भवन्त्येव सुदिव्या निर्गुणास्तथा ।
निष्पापा पावनाः सर्वे विष्णुः सन्तश्च सेवकाः ॥3.82.३० ॥ इत्येतत्परमं गुप्तं रहस्यं मम ते प्रिये ।
अबलानां कृते चोक्तं सुलभं पावनं परम् ॥३१ ॥ यदाश्रित्य सतां योगाज्जायन्ते वह्निसन्निभाः ।
ब्रह्मनिभा भवन्त्येव नार्यो निष्पापविग्रहाः ॥३ २॥ शृणु तेऽत्र कथयामि प्रत्यक्षं ते निदर्शनम् ।
वाराणसी पुरी लक्ष्मि शिवेश्वरस्य ते पितुः ॥३३ ॥ यत्र गणाश्च गणिकाः सहस्रशः पितुस्तव ।
सेवकाः सेविकाश्चापि विद्यन्ते चाऽविवाहिताः ॥३४ ॥ यथेष्टकामचाराश्च शिवस्य भक्तिकारिणः ।
स्वैरिण्यश्चापि पुंश्चल्यः कामिन्यो गणिकाः खलु ॥३ ५॥ वसन्ति ते पितुः पुर्यां पुमांसेऽपि तथाविधाः ।
गणा भाण्डा नर्तकाश्च गायका वादका अपि ॥३६ ॥ नग्ना गणास्तथा नग्ना योगिन्यो गणिकास्तथा ।
यथाकामं प्रवर्तन्ते योगिशङ्करसंश्रयाः ॥३७ ॥ तेषां तासामेकदा वै गङ्गायास्तु जलेऽभवत् ।
समाजो हि तु नौकासु गानकीर्तननर्तनैः ॥३८ ॥ गणिकानां नर्तनानि भाण्डानां हसनानि च ।
वृन्दलानां च नर्माणि प्रावर्तन्त निशामुखे ॥३९ ॥ प्रवृद्धमङ्गलनाम्ना जायते स महोत्सवः ।
तत्र वै प्रेक्षका रात्रौ लक्षशो मानवा अपि ॥3.82.४० ॥ अभवन् सङ्घशो वारौ नौकासु सर्वतोदिशि ।
कृत्वोत्सवान् साप्तदैनान् व्यरमन्त पितुस्तव ॥४१ ॥ विश्वनाथस्वसूपस्य मन्दिरे नर्तनादिभिः ।
अथात्र भगवान् योगी वात्स्यायनो महानृषिः ॥४२ ॥ आजीवं ब्रह्मचर्यस्थः साधुधर्मपरायणः ।
ऊर्ध्वरेताः शम्भुवच्च महायोगीन्द्रसत्तमः ॥४३ ॥ समाजगाम तत्रैव धर्मारण्यात् सुतीर्थकृत् ।
विवस्त्रो भानहीनश्च सर्वाङ्गधूलिधूसरः ॥४४॥ अविकारो युवा चापि वार्धक्यवृत्तिभूषितः ।
सर्वं ब्रह्मस्वरूपं च यस्य दृष्टौ प्रवर्तते ॥४५॥ नरनारीतिभाहीनः स्वयं साधुः सुशोभनः ।
ददर्श शङ्करं देवं गणान् पूजनतत्परान् ॥४६॥ गणिकाश्च समस्ता वै युवतीर्भूषितास्तथा ।
शृङ्गारिता यथा ताश्च स्वैरिणीरिव संस्थिताः ॥४७॥ पुंश्चलीः कामिनीश्चापि सर्वचेष्टासमन्विताः ।
उत्सवे ते पितुः प्रसन्नताप्राप्त्यै सुयत्निताः ॥४८॥ वह्निकन्या इव रम्या देवीरिव समुज्ज्वलाः ।
रत्नहीरकमौक्तिकाद्यलङ्कृताः सुशोभनाः ॥४९॥ वीक्ष्य सर्वां ऋषिर्वात्स्यायनः साधुर्ननाम ह ।
हरभक्तानिकाः सर्वा वीक्ष्य शान्तं स्थितं मुनिम् ॥3.82.५०॥ युवानं रक्तपुष्टं च नग्नं शङ्करसदृशम् ।
ध्यानमग्नं देहभानवर्जितं सूर्यभास्वरम् ॥५ १ ॥ मोहोत्पादकरूपं च भोग्यमानससंश्रयम् ।
पुण्यपुञ्जं स्पर्शमात्रात् पापपुञ्जप्रदाहकम् ॥५२॥ एतादृशं वरं वीक्ष्य मुग्धा निश्चित्य शङ्करम् ।
मूर्तिमन्तं चागतं वै पस्पर्शुः गणिकागणाः ॥५३॥ यद्यपि कामभावेन मोहभावेन काश्चन ।
काश्चन देवभावेन साधुभावेन काश्चन ॥५४॥ पादौ चुचुम्बुर्देवस्य ऋषेर्लिगं च नेत्रयोः ।
स्पर्शयामासुरत्यर्थं मेनिरे च कृतार्थताम् ॥५५॥ आश्चर्यं तत्र तासां वै जातं शृणु हि पद्मजे ।
ऋषिस्तु तिष्ठते स्तब्धो जडवत् सुसमाधिगः ॥५६॥ याः स्पृशन्ति गणिकास्तं तासां राजसवृत्तयः ।
याश्चासन् प्राक्समस्तास्ता व्यलीयन्त स्पृशेः ऋषेः ॥५७॥ निष्कामतां गताः सर्वाः सत्त्वपूर्णाः शुभाशयाः ।
कामवृत्तिविहीना वै स्पर्शमात्रात् क्षणान्तरे ॥५८॥ चाञ्चल्यं सर्वथा नष्टं गणिकानां समन्ततः ।
योनीनां च विकारा वै वेगा निर्वेगतां ययुः ॥५९॥ मानसानि समस्तानां निर्विकाराणि चाऽभवन् ।
सङ्कल्पा वासनाः कामा रागा रतिश्च कामना ॥3.82.६० ॥ सर्वे लीनाः क्षणात् तासां योगिस्पर्शगयोषिताम् ।
दिव्याश्च दृष्टयस्तासामभवन् शम्भुयोषिताम् ॥६१ ॥ अथाऽऽकाशे महाश्चर्यं व्यलोकयँस्ततश्च ताः ।
लक्षशश्च समुद्भूता वागुरिका ह्यधोमुखाः ॥६२॥ गताश्चाकाशमार्गेण गङ्गाऽनुगा हिमालयम् ।
गणिकास्तत्र सञ्जाताः सर्वावरणवर्जिताः ॥६३॥ दिव्याश्च दिव्यदेहाश्च सतीराधारमा यथा ।
ततस्ताः शुद्धिमापन्नाः सर्वाः पापविवर्जिताः ॥६४॥ अन्तर्दृष्ट्या विलोक्यैनं वात्स्यायनं हि योगिनम् ।
ब्रह्मरूपं पापनाशकरं स्पर्शेन सर्वथा ॥६५॥ विदित्वा तं मुनीन्द्रं वै साधुं साधुविभूषणम् ।
नत्वा स्पृष्ट्वा पुनः सन्तं पप्रच्छुर्विनयान्विताः ॥६६॥ साधो पुण्यप्रतापात्ते दिव्या नो दृष्टयस्त्विह ।
देहाश्चापि च दिव्या नो जाताः स्पर्शनदर्शनात् ॥६७॥ कामा हृदय्या नष्टाश्च युवतीत्वं हि चञ्चलम् ।
सर्वं लीनं भवद्योगात् पादधूलिप्रवाहणात् ॥६८॥ वयं सर्वाः पाविताश्च स्वैरिण्यो गणिकास्त्विह ।
पुंश्चल्यश्चापि कामिन्यो यथा साध्व्यः स्म एव ह ॥६९॥ शङ्करस्य प्रपूजायाः फलं महोत्सवस्य च ।
प्राप्तं त्वद्य हि लोकेऽत्र हृन्दि यन्निर्मलानि नः ॥3.82.७०॥ परं पृच्छाम एवाऽत्र साधो वागुरिकाश्च याः ।
अम्बरे ताः समुड्डीय लक्षशो विगतास्त्वितः ॥७१ ॥ कास्ताः कथं समायाताः क्व गताश्च कुतश्च ताः ।
वद नस्तद् यथार्थं वै त्वं नौ नैर्मल्यकारकः ॥७२॥ श्रुत्वा वात्स्यायनः प्राह साध्व्यः शृणुत मद्वचः ।
मम स्पर्शो भवतीभिर्येन केनापि कर्मणा ॥७३॥ येन केनापि भावेन विहितोऽत्रांऽगनास्ततः ।
भवतीनां वासना याः कामपापात्मिकास्तथा ॥७४॥ तृष्णाः पापात्मिकाश्चापि पापान्यसङ्ख्यकानि च ।
गणिकाकृतकर्माणि तानि सर्वाणि यानि च ॥७५॥ मम पादस्पर्शनेन मल्लिङ्गस्पर्शनेन च ।
मद्धूलिधारणेनापि देहेभ्यो निर्गतानि वै ॥७६॥ भवतीनां शरीराणां पावनत्वं विलोक्य च ।
अशक्तानि हि संस्थातुं निर्यातानि समन्ततः ॥७७॥ तानि सर्वाणि पापानि वागुलिकात्मकानि च ।
भूत्वा यातानि सर्वाणि हिमालये तु मानसम् ॥७८॥ सरस्तत्र भविष्यत्यद्धा तन्मोक्षो विलीनता ।
मम योगेन सर्वासां पापानि निर्गतानि वै ॥७९॥ अथ यूयं समस्ताश्च गृह्णत मन्त्रमुत्तमम् ।
इत्युक्त्वा प्रददौ मन्त्रं गणिकाभ्यो मनुं मम ॥3.82.८०॥ ‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ।
गृहीत्वा गणिकादेव्यो मन्त्रं तूर्णं चतुर्भुजाः ॥८१॥ भूत्वा श्रीवैष्णवीदेव्यो दिव्यदेहाः सुशोभनाः ।
नारायण्यो विमानैश्च ययुर्धामाऽक्षरं मम ॥८२॥ सहस्रशो गणिकास्ता हरिप्रियास्ततोऽभवन् ।
वर्तन्ते चाऽक्षरेधाम्नि मम सेवापरायणाः ॥८३॥ इत्येवं साधुसङ्गेन लक्ष्मि! पुंश्चलिका अपि ।
सद्यः शुद्ध्यति धर्माढ्या दिव्या भवति सेविका ॥८४॥ तस्मात् पापातिपापानां शोधकं सेवनं सताम् ।
येन केनापि भावेन सेविताः शोधयन्ति ते ॥८५॥ अथाऽन्या गणिकाः श्रुत्वा चाययुस्तमृषिं प्रति ।
शुद्ध्यर्थं च तदा ताभ्यः कामशास्त्रं जगाद ह ॥८६॥ श्रावयित्वा शिक्षयित्वा सेवां दत्वा निजां ततः ।
तासां मोक्षं चकाराऽपि वात्स्यायनो महानृषिः ॥८७॥ शङ्करश्च स्वयं मूर्तिमान् भूत्वा गोचरोऽस्य च ।
अभवत् प्राह धन्योऽसि गणिकामोक्षकृद् ऋषे ॥८८ ॥ साधो साधुस्वरूपोऽसि कामं कृत्वा सुचिन्तितम् ।
अपि कामेन नैव त्वं लिप्तोऽसि कामशास्त्रकृत् ॥८९॥ यथाऽहं दाहकश्चाऽस्मि कामस्य जीवकोऽपि च ।
यथा कृष्णो विजेताऽस्ति कामस्य रमयन्नपि ॥3.82.९०॥ तथा त्वं च विजेताऽसि कामस्य वर्णयन्नपि ।
भव साधो मुक्तिदाता पापं विनाश्य योषिताम् ॥९१॥ शास्त्रं ते तव नाम्नैव ख्यातं लोके भविष्यति ।
इत्युक्त्वा शङ्करो देवो तिरोभावं पिता तव ॥९२॥ ययौ काश्यां च साधुः स व्यचचार महीतले ।
मोक्षयन् जीवजातानि वात्स्यायनो हि वैष्णवः ॥९३॥ पठनाच्छ्रवणादस्य स्मरणात् सेवनादपि ।
महापापानि नश्यन्ति मोक्षगतिर्ध्रुवा भवेत् ॥९४॥ इत्येवं कथितं लक्ष्मि रहस्यं साधुसेवनम् ।
भुक्तिमुक्तिप्रदं दिव्यभावप्रदं कथानकम् ॥९५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वैरिणीकामिनीपुंश्चलीनामपि गणिकानां काश्यां साधुवात्स्यायनसमागमेन पापनाशोत्तरं मुक्तिप्राप्तिरित्यादि-
निरूपणनामा द्व्यशीतितमोऽध्यायः ॥८२ ॥