०८१

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं साघुसङ्गतिसत्फलम् ।
अहं भद्रावतीतीरे विहारार्थं गतोऽभवत् ॥१ ॥ गृध्रा मांसाशनास्तत्र क्षेत्रे तीरेऽभवन् शतम् ।
शौचार्थं कलशं धृत्वा क्षेत्रमध्ये गतोऽभवम् ॥२ ॥ गृध्राणां मध्यतो मार्गं कृत्वाऽहमगमं पुरः ।
गृध्रास्ते मिष्टशब्देन चोचुर्वाक्यानि वीक्ष्य माम् ॥३ ॥ तिष्ठन्तो यत्र तत्रैव विश्वस्ता निर्भयाः सुखाः ।
अहोऽस्माकं महद् भाग्यं भूतले समुपस्थितम् ॥४ ॥ अयं नारायणः साक्षादस्मन्मध्ये समागतः ।
साधुरूपः साधुशीलो मुक्तिदो मुक्तिदस्तथा ॥५ ॥ प्रगृह्णन्तु चरणयोश्चास्य रजांसि पक्षयोः ।
मूर्घ्नि मुखे जलं चास्य कलशादपि पावनम् ॥६ ॥ ब्रह्मकमण्डलूवारि सहस्रांशे न तत्समम् ।
मोक्षोऽस्माकं भवितैव स्पृशन्त्वस्य पदे ह्युभे ॥७ ॥ पक्षाभ्यां वीजयन्त्वेनॆ श्रीकान्तं पुरुषोत्तमम् ।
सुस्वरैः कीर्तयन्त्वेनॆ नारायण नरायण ॥८ ॥ मस्तकैः प्रणमन्त्वेनं पापप्रज्वालकं हरिम् ।
पद्भ्यां तमभिगच्छन्तु प्रदक्षिणं पुनः पुनः ॥९ ॥ चक्षुर्भ्यां श्रीहरिं कृष्णं विलोकयन्तु सत्पतिम् ।
सन्तं सतां पतिं साध्वीनाथं पक्षिपतिं प्रभुम् ॥3.81.१० ॥ इत्येवमुच्चरन्तश्चाऽऽययुः समन्ततश्च माम् ।
नेमुः पादौ पस्पर्शुश्च चक्रुश्च दर्शनं मुहुः ॥११ ॥ प्रार्थयामासुरत्यर्थं मोक्षार्थं पक्षियोनितः ।
ऊचुश्च वयमासन् वै शूद्रा व्याधा हि मानवाः ॥१ २॥ अब्रह्मण्या नृशंसाश्च कदर्याः पापजीविनः ।
अपहारकाश्चौराश्च द्वेष्टारो देहिनां तथा ॥१ ३॥ मिथ्याचारा व्यभिचारा परस्वहरणे रताः ।
देवपितृमखद्वेष्टारश्च भीदा हि देहिनाम् ॥१४॥ धनधान्यादिसम्पत्तिं दृष्ट्वाऽन्यस्येर्ष्यवस्तथा ।
तेन पापेन जाताः स्मो गृध्रजातीयपक्षिणः ॥१५॥ पक्षिषु श्वपचाः सर्वे दुर्गन्धिशवभक्षिणः ।
निकृष्टा निजपापैस्तान्नः कृपां कुरु चोद्धर ॥१६॥ व्याधत्वेऽपि वने साधून् दृष्ट्वा दत्वा फलानि च ।
आशीर्वादान् गृहीत्वा चाऽर्जितवन्तः सुपुण्यकम् ॥१७॥ तत्पुण्येन स्मृतिर्नाऽस्मान् विजहाति हरे प्रभो ।
इत्यर्थितस्तदाऽहं तानवोचं सङ्गतेर्बलात् ॥१८॥ सतां सेवाफलं त्वेतत् प्राग्जन्मस्मरणं तथा ।
ममापि दर्शनं चात्र तिर्यग्जन्मनिवारकम् ॥१ ९॥ अथ यूयं च राजानो भविष्यथ ततः परम् ।
विप्रा भूत्वा ततो देवास्ततो ब्रह्मर्षयः शुभाः ॥3.81.२०॥ सत्यलोके चिरं स्थित्वा प्रयास्यथाऽक्षरं मम ।
तत्र तत्र हि साधूनां समागमो भविष्यति ॥२१ ॥ इत्युक्तास्ते मया लक्ष्मि गृध्राः सर्वे मृतिं गताः ।
जातास्ते क्षत्रियाः सर्वे मृत्वा विप्रास्ततोऽभवन् ॥२२॥ ततो देवाश्च ऋषयस्ततो धामाऽक्षरं ययुः ।
इत्येवं साधुसङ्गस्य फलं तेऽभिहितं मया ॥२३॥ तिरश्चामपि यन्मेऽपि दर्शनं सुलभं ह्यभूत् ।
येनाऽवापुः पदं गृध्राः पूर्णं ब्रह्म सनातनम् ॥२४॥ तस्मात् समागमः कार्यः पापिनाऽपि सतां मुहुः ।
पापक्षालनमेवाऽपि पुण्यं मुक्तिश्च सम्भवेत् ॥२५॥ एकदा लोमशो भूमौ पद्भ्यां साधुशतैर्युतः ।
विचचार हि श्रेयोऽर्थं लोकानां शुद्धिकाम्यया ॥२६॥ मार्गे श्रुत्वा पदानां वै शब्दान् जीवटकीटकः ।
अधावद् वाटदेशाद्वै बहिर्गन्तुं त्वरान्वितः ॥२७॥ लोमशः परिपप्रच्छ दृष्ट्वा जीवटकीटकम् ।
कथं त्वरितस्त्रस्तोऽसि गम्यते क्व त्वया वद ॥२८॥ श्रुत्वा जीवटकीटश्च प्राहाऽहं वीक्ष्य मण्डलम् ।
सतां तु बहुसङ्ख्याकं श्रुत्वा पादस्वनाँस्तथा ॥२९॥ भयं प्राप्तो मृत्युजातं पादकच्चरमर्दनात् ।
धावामि सत्वरं मार्गाद् यथा बहिः प्रयामि वै ॥3.81.३ ०॥ गृहं मे विद्यते पार्श्वे स्त्रीपुत्रादिसुखान्वितम् ।
अकालमरणं मे न भवेच्छून्ये कुटुम्बिनः ॥३ १॥ एकलस्य मृतिः शून्ये कुटुम्बरहितस्य मे ।
असद्गतिप्रदा स्याद्वै शोचेयुर्मम बान्धवाः ॥३२॥ तस्माच्छीघ्रं प्रवदामि मृत्योर्दुःखं परं यतः ।
त्वरयामि जीवनार्थं जीवतः सुखमुत्तमम् ॥३३ ॥ लोमशस्तु समाकर्ण्य जीवटं प्राह ते कुतः ।
कीटयोनौ सुखं चास्ते दुःखयोनौ वदाऽत्र मे ॥३४॥ दुःखयोनेस्तु मरणं तव श्रेयो भवेदिह ।
नाभिजानासि वै श्रेष्ठान् स्पर्शभोगसुखोत्तमान् ॥३५॥ न च वेत्सि रसमिष्टान् यानवाहनसूत्सवान् ।
तस्मात्पापेऽत्र देहे ते श्रेयो वै मरणं भवेत् ॥३६॥ जीवटः प्राह श्रुत्वैव लोमशं दीर्घदर्शिनम् ।
देही सर्वत्र सुसुखी यत्र देहे प्रवर्तते ॥३७॥ वनं पश्यामि विविधं विविधान् दृश्यसम्भवान् ।
कुटुम्बं स्त्रीसुताढ्यं च पश्यामि चोत्सवान्वितः ॥३८॥ स्पृशामि स्त्रीं सुतं पुत्रीं कुटुम्बिनोऽत्र भूतले ।
शृणोमि विविधा गीतीश्चारण्ये स्वजनादियुक् ॥३९॥ भक्षयामि रसान् मिष्टान् वृक्षवल्लीसमुद्भवान् ।
जिघ्रामि बहुधा गन्धान् भुञ्जामि विषयान् बहून् ॥3.81.४०॥ यथादेहं विषया मे वर्तन्ते चोत्तमोत्तमाः ।
सकुटुम्बो भवाम्यत्र कुटुम्बं चोत्तमं मम ॥४१॥ इत्याकर्ण्य ऋषिः प्राह शृणु कीट! वदामि ते ।
अल्पायुस्त्वं लक्ष्यसेऽत्र कृतयत्नोऽपि सर्वथा ॥४२॥ मृत्युस्तव हि निकटे धृतपाशः प्रतिष्ठति ।
तस्मान् मा वह वाञ्च्छां वा जीवनार्थं सुखाय वा ॥४३ ॥ साधुसमागमः कीट बहुपुण्याय कल्पते ।
मृत्युस्ते विद्यतेऽवश्यश्चाऽद्य क्षणे न संशयः ॥४४॥ यदि मे दर्शनात् कीट श्रेष्ठं जन्म समिच्छसि ।
वद ते तद् ददाम्यत्र शुभं जन्म सतां बलात् ॥४५॥ एतान् साधून्नमस्कारं कृत्वा याहि मृतिं ततः ।
कल्याणं ते करिष्यामि वद किं ते मनोऽत्र ह ॥४६॥ जीवटश्च ततः प्राह यद्येवं मरणं मम ।
पार्श्वे मम कुटुम्बस्य सन्निधौ मृतिरस्तु मे ॥४७ ॥ मानवश्च ततो देहो भवत्वत्र च भूतले ।
येन श्रेयो विविधं मे सतां योगाद् भविष्यति ॥४८ ॥ इत्युक्त्वा तूर्णमेवाऽसौ वाटपार्श्वमुपागतः ।
तृणमूले कृतावासान् कुटुम्बिनश्च गर्तगान् ॥४९ ॥ आजुहाव द्रुतं कीटः सम्मिल्य तान् मृतिं ययौ ।
तज्जीवं स्थापयामास क्षत्त्रगर्भे सुराष्ट्रके ॥3.81.५० ॥ पौरराज्यकुले जातो राजा प्रजानियामकः ।
लोमशश्च ततो भूयो ययावब्धितटे मुदा ॥५ १ ॥ ददर्शभूपं भूयोऽपि जातिस्मरोऽर्चयन्मुनिम् ।
जग्राह चरणौ भक्त्या प्रोवाच सर्वमेव तु ॥५२ ॥ ऋषे ते कृपया कीटान्निर्गत्याऽस्मि नृपोऽभवन् ।
नार्यो गजाश्च तुरगा उष्ट्रा यानानि सम्पदः ॥५३ ॥ भवन्ति मम भोग्यास्ते कृपयाऽत्र गुरो सदा ।
साधुकृपाफलं चैतत् प्राश्नामि मिष्टमुत्तमम् ॥५४॥ श्रेष्ठशय्यातले राज्ञीसेवितश्च स्वपिम्यपि ।
जागर्मि वन्दितः सूताद्यैश्च देवो यथा हरिः ॥५५॥ दास्यो दासा ह्यसङ्ख्या मेऽमात्याश्चाज्ञावहाः शुभाः ।
नमस्तेऽस्तु गुरो साधो किं करोमि वदाऽत्र मे ॥५६ ॥ श्रुत्वा हृष्टो लोमशस्तं नृपं वै जीवचन्द्रकम् ।
प्राह राजँस्त्वया राजदेहाद् गन्तव्यमेव ह ॥५७॥ भोगा भुक्तास्त्वया राजन् बहुधा मे ह्यनुग्रहात् ।
अथ त्वं भव विप्रो वै श्रेष्ठजन्म गृहाण च ॥५८॥ मम ते दर्शनं जातं तदेव सुकृतं पुनः ।
वैष्णवस्त्वं भव मन्त्रं गृह्ण श्रेयो भविष्यति ॥५९ ॥ त्यज मोहं कुटुम्बस्य राज्यस्य स्त्रीजनस्य च ।
साधुकृपां गृहाणाऽत्र मा प्रमादी भवाऽत्र वै ॥3.81.६० ॥ इत्युक्तः स नृपस्तूर्णं जग्राह मन्त्रमुत्तमम् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥६ १ ॥ अथ श्रीलोमशस्तत्र दध्यौ नारायणं हृदि ।
तावद् राजा शरीरं स्वं तत्याज सर्वसन्निधौ ॥६२ ॥ सौराष्ट्रे चाऽभवद् विप्रोऽक्षरक्षेत्रेऽत्र चोत्तमे ।
कुङ्कुमवापिकातीर्थे चाश्वपट्टसरोन्तिके ॥६ ३ ॥ योगायनो महर्षिः स जातिस्मरोऽति भक्तिमान् ।
जन्मतः सिद्धिमान् धर्मी ब्रह्मिष्ठः पावनः परः ॥६४॥ अथ श्रीलोमशस्तं च कुमारं प्रत्यपद्यत ।
अनादिश्रीकृष्णनारायणं भज महामते ॥६५॥ मम योगात् क्षेत्रयोगान्मुक्तिस्ते भाविनी शुभा ।
परमेश्वरभक्तेश्च फलं ते स्यान्महोत्तमम् ॥६६॥ बटुः स वैष्णवश्रेष्ठः सर्वमन्त्रान् ऋषेर्मुखात् ।
जग्राह च ततो नैजां जननीं तु कलावतीम् ॥६७॥ पितरं चार्यशीलाख्यं ननाम भावतस्तदा ।
आज्ञां लब्ध्वा ततस्तूर्णं कृत्वा तीर्थं सुपूजनम् ॥६८॥ मामभिगम्य च नैजं देहं त्यक्त्वा विमानगः ।
मम सालोक्यमगमद् ब्रह्म धाम सनातनम् ॥६९॥ अवाप स पदं लक्ष्मि मम धामाऽक्षरं परम् ।
साधोः समागमादेवं मोक्षपदं हि लभ्यते ॥3.81.७०॥ साधवो मत्पादजुषश्चक्षुर्ददति चान्तरम् ।
विधून्वन्ति च पापानि जन्मह्रासं दधत्यपि ॥७१॥ कर्मक्षयं कारयन्ति कृपया पुण्यशेवधिम् ।
ददत्यपि स्वाऽनुगाय भक्ताय प्रहितात्मने ॥७२॥ बन्धनानि विचित्राणि दृढानि यानि चात्मनाम् ।
तानि विभेदयित्वेह वितरन्ति शुभानि च ॥७३॥ स्वर्गसुखानि रम्याणि सत्यकल्पोद्भवानि च ।
देवतुल्यानि वर्ष्माणि भोग्यानीश्वरभानि च ॥७४॥ शाश्वतदिव्यमूर्तिं च कृत्वा धामाऽक्षरं मम ।
प्रेषयन्ति प्रतापेन नैजेन मम साधवः ॥७५॥ साध्व्यश्चैव शुभाचारा मम भक्तिपरायणाः ।
स्वयोगमागतान् जीवान् प्रेषयन्ति पदं मम ॥७६॥ शृणु लक्ष्मि विनोदिन्या विप्रायाश्च कथां शुभाम् ।
धाराग्रामनिवासिन्या भक्ताया मम पावनीम् ॥७७॥ पतिव्रता पतिं साध्वी सिषेवे चेशवत् सदा ।
भागवतं शतानन्दनामानं विप्रमुत्तमम् ॥७८॥ दशसाहस्रवर्षाणि तयोर्गतानि भूतले ।
ब्रह्मपरायणयोर्वै भक्तयोरनपत्ययोः ॥७९॥ शतानन्दस्त्वेकदां तां पत्नीं प्राह शुभाशयः ।
कथं साध्वि ऋतुस्नाता धर्मेण सेविताऽपि वै ॥3.81.८०॥ गर्भे वंशकरं नैव घारयस्यत्र मे वद ।
कारणं वा विभाग्यं वा वन्ध्यात्वं वापि वेत्सि चेत् ॥८ १ ॥ मम दोषोऽथवा चास्ते मम भाग्यं न चास्ति वा ।
कथं पुत्रवती नैव चिरेणाऽपि विलोक्यसे ॥८२॥ श्रुत्वा पत्नी पतिं प्राह कारणं भक्तराट् शृणु ।
गर्भवासो महद् दुःखं जीवस्याऽनलपाचने ॥८३॥ जन्मदुःखं देहदुःखं मृत्योर्दुःखं पुनः पुनः ।
अशुद्धिश्च पुनर्दुःखं निरये गमनं पुनः ॥८४॥ वासनाऽपि महद्दुःखं स्नेहदुःखं पुनस्तथा ।
एवं दुःखानि चालोक्याऽनपत्यत्वे परं सुखम् ॥८५॥ मत्वा नाऽहं धारयामि गर्भं मायाविडम्बनम् ।
श्रुत्वा तां च पतिस्त्वाह ऋणं पितृकृतं प्रिये ॥८६॥ यावन्नोत्तीर्यते तावत् पितॄणां दुःखमित्यपि ।
मम दुःखं च ते दुःखं पुन्नामनरकोद्भवम् ॥८७॥ वन्ध्यात्वस्याऽपवादं च निर्वंशत्वादिकिङ्कथाम् ।
अपाकर्तुमपि साध्वी गर्भं धर्तुं त्वमर्हसि ॥८८॥ श्रुत्वैवं साध्विका प्राह यद्येवं कान्त संशृणु ।
पुत्रा ये ये भवेयुस्ते प्रेषणीया हरिं प्रति ॥८९॥ भक्ताः स्युः साधवश्चैते मुक्तिं दास्यन्ति मे च ते ।
इत्येवं वाग्बन्धनेन धारयामि च दौर्हृदम् ॥3.81.९०॥ तथाऽस्त्विति पतिः प्राह ऋतुस्नाता च सेविता ।
दधार गर्भं पतितः सुषुवे कालतः सुतम् ॥९१॥ ववृधे च शनैर्बालो बोधितश्चाऽऽत्मविद् यथा ।
मात्रा विवेकवान् पुत्रः कृतोपवीतसंस्कृतिः ॥९२॥ निवेदितश्च मह्यं वै साधुत्वार्थं समर्पितः ।
मुक्त्यायनो मया नाम्ना कृतः साधुर्विरक्तिमान् ॥९३ ॥ शतानन्दः प्रसन्नोऽभूत् पुत्रं साधुं विलोक्य ह ।
अथ पत्नीं द्वितीयं च गर्भं दधार कालतः ॥९४॥ सुषुवे कालतश्चापि वर्धयामास भावतः ।
बोधयामास विज्ञानैर्ददौ मह्यं च तं सुतम् ॥९५॥ सोऽपि सन्दीक्षितो नाम्ना ब्रह्मायनः कृतो मया ।
कविर्जातो महान् साधुर्मोक्षमार्गपरायणः ॥९६॥ शतानन्दश्च तं वीक्ष्य प्रसन्नः समजायत ।
ददौ तृतीयगर्भं च पत्न्यै प्रसन्नमानसः ॥९७॥ सुषुवे सा च तं पुत्रं शिक्षयामास सेवनम् ।
ज्ञानं गानं ददौ मह्यं साधुदीक्षार्थमेव च ॥९८॥ मया तु दीक्षितो नाम्ना प्रेमायनः कृतः स च ।
गीतिकाकुशलः साधुः सोऽपि मोक्षपरोऽभवत् ॥९९॥ पुत्राः पञ्चशतान्येवं समजायन्त वै चिरात् ।
सर्वे ते साधवो जाता मम दीक्षापरायणाः ॥3.81.१०० ॥ दिव्या दिव्यविहाराश्च दिव्यक्रिया हि साधवः ।
तीर्थरूपाः समस्तास्ते शीलव्रतपरायणाः ॥१० १॥ जीवानां मोक्षदाः सर्वे ज्ञानध्यानपरायणाः ।
मम भक्तियुताः सौम्या साधवः साधुभूषणाः ॥१ ०२॥ विद्यावन्तः शीलवन्तो मम मूर्तिपरायणाः ।
अश्वपट्टसरःक्षेत्रे वसन्त्येते हि योगिनः ॥१०३॥ शतानन्दस्य पुत्रास्ते महाभागवतास्त्विमे ।
वर्तन्ते भक्तिकर्तारश्चाऽक्षरे क्षेत्रके मम ॥१ ०४॥ अथाऽन्ते श्रीशतानन्दः पत्नीं प्राह सुतं तु मे ।
देह्येकं वंशकर्तारं मा तं साधुं विधेहि वै ॥१ ०५॥ इत्युक्त्वा ब्राह्मणी विनोदिनी पुत्रं तु चान्तिमम् ।
विश्वायनं ददौ संशिक्षितं कान्ताय पद्मजे ॥१ ०६॥ विश्वायनोऽभवन्नित्यं गृहधर्मान्वितो हि सः ।
विवाहितो वंशकर्ता महर्षिर्लोमशाश्रमे ॥१ ०७॥ महाभागवतो दीक्षायुतो वेदाङ्गपारगः ।
अथ विनोदिनी चेयं साध्वीदीक्षासुदीक्षिता ॥१ ०८॥ अमृताख्या ब्रह्मसखी वर्तते त्यागमाश्रिता ।
शतानन्दोऽपि साधुत्वे वर्तते चाश्रमे मम ॥१ ०९॥ मम सेवापरो दिव्यगतिमान् पद्मजे सदा ।
इत्येवं कथितं तेऽत्र विनोदिन्याः कथानकम् ॥3.81.१ १०॥ मोक्षार्थं समवर्तिन्याः सर्वपुत्रार्पणात्मकम् ।
पठनाच्छ्रवणाच्चास्य मोक्षमार्गो भवेद्ध्रुवः ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसङ्गत्या गृध्राणां मोक्षो जीवटकीटस्य मोक्षो विनोदिन्याः पञ्चशतपुत्राणां साधुत्वं चेत्यादि-
निरूपणनामैकाऽशीतितमोऽध्यायः ॥८१ ॥