०८०

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं साधुसेवाफलं परम् ।
पूर्णायुःसम्प्रदं शश्वत् साधुसाध्वीप्रसेवनम् ॥१ ॥ आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ।
साधूनां यद् यथावृत्तमेतदाचारलक्षणम् ॥२ ॥ अप्यदृष्टं श्रवादेव सन्तं सद्धर्मचारिणम् ।
भक्तिकर्माणि कुर्वन्तं प्रजाः स्मरन्ति दूरगाः ॥३ ॥ सतां धर्मं पालयेद्वै यदीच्छेद् भूतिमात्मनः ।
अपि पापशरीरस्य पापं हन्ति सतां वृषः ॥४ ॥ सदाचाराद् भवेत्पूर्णमायुः कृते दशाऽयुतम् ।
त्रेतायामयुतवर्षं द्वापरे तु सहस्रकम् ॥५ ॥ तिष्ये शतं समाश्चापि पूर्णायुर्जायते सदा ।
सदाचारात् सदा लक्ष्मीर्गृहे श्रीर्वसति ध्रुवा ॥६ ॥ कीर्तिश्चेह परत्राऽपि सदाचारस्य जायते ।
सतां प्रसन्नता हेतुदीर्घायुष्ट्वे मता मम ॥७ ॥ अन्यत् सर्वं बाध्यते वै बाध्यते न सतां वचः ।
मम भक्तियुताः शीलव्रतिनः शान्तमूर्तयः ॥८ ॥ ममाऽऽराधनकार्याश्च साधवः साधुभूषणाः ।
तारयन्ति मृताँश्चापि जीवतः पावयन्ति च ॥९ ॥ दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
यतस्त्रस्यन्ति भूतानि त्रासश्चायुर्विनाशकः ॥3.80.१ ०॥ ये निन्दकाः सतां क्रूरा गुरुशास्त्राऽभिलङ्घिनः ।
अधर्मस्था दुराचारास्ते भवन्ति गतायुषः ॥११ ॥ विशाला भिन्नमर्यादा हिंस्रा विषयिणश्च ये ।
अल्पायुषो भवन्त्येव भक्तिहीनाश्च निस्त्रपाः ॥१ २॥ सर्वलक्षणशून्योऽपि ह्युदाराचारवान् जनः ।
श्रद्धाभक्तियुतः साधुः पूर्णवर्षाणि जीवति ॥१ ३॥ अनसूयुः सत्यवादी क्रोधशाठ्यादिवर्जितः ।
अजिह्मश्चाऽप्यहिंसश्च पूर्णवर्षाणि जीवति ॥१४॥ लोष्ठमर्दी तृणच्छेदी नखखादी मलावृतः ।
अस्थिरमानसश्चापि नेहायुर्विन्दते परम् ॥१५॥ व्यभिचारी व्यवायी च दीर्घं नैव हि जीवति ।
नहीदृशमनायुष्यं लोके सर्वत्र विद्यते ॥१६॥ यादृशं पुरुषस्येह परदारोपसेवनम् ।
गुरुद्रोही पितृद्रोही साधुद्रोही न जीवति ॥१७॥ स्त्रीद्रोही मातृद्रोही च देवद्रोही न जीवति ।
वाहरागी नदीतारः शस्त्राभ्यासी न जीवति ॥१८॥ सुरापायी चामिषादश्चिरं नैव हि जीवति ।
वाक्सायकवदनश्च मर्मतुदोऽतिरोगवान् ॥१ ९॥ शापदग्धः साहसी च चिरं नैव हि जीवति ।
अभिचारी घातकी च पूज्यपूजाविलोपकः ॥3.80.२०॥ शरणागतघाती च वश्यघाती च सर्वथा ।
विश्वासघाती बालघ्नश्चिरं नैव हि जीवति ॥२१॥ पाशी शूली मुष्कनाशी भगबन्धी च गर्भहाः ।
ऋतुनाशी जन्तुनाशी मधुहाश्च न जीवति ॥२२॥ व्याधकर्मा तथा चक्री सूनी दीर्घं न जीवति ।
विषी भूती वायुरोगी क्षयी प्रमेहवान् कफी ॥२३॥ श्वासी रक्ती मन्दपाची चोद्वेजको न जीवति ।
प्रसह्यहर्ता चाग्निदो व्योमयानी न जीवति ॥२४॥ प्रवासी सततं यश्च प्रतारकश्च मादकी ।
अहिफेनव्यसनी च चिरं नैव तु जीवति ॥२५॥ मातापितरमाचार्यं गुरुं साधुं सतीं पतिम् ।
देवं वृद्धं पूर्वमेवोत्थाय यश्चाभिवादयेत् ॥२६॥ पथ्यं भुञ्जीत सततं यश्चिरं स च जीवति ।
घृतादश्च प्रसादादो दीर्घमायुर्हि विन्दति ॥२७॥ प्राङ्मुखो भोजनं भुङ्क्ते ह्यायुष्यं विन्दते महत्॥ पथ्यघृताक्तान्नभोजी दीर्घजीवी भवेत् खलु ॥२८॥ आर्द्रपादस्तु भुञ्जानो पूर्णायुर्जीवति ध्रुवम् ।
चतुस्तेजांसि नोच्छिष्ट आलभेत कदाचन ॥२९॥ अग्निं गां ब्राह्मणं साधुं तथा ह्यायुर्न रिष्यति ।
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ॥3.80.३ ०॥ प्रत्युत्थानाऽभिवादाभ्यां पुनस्तान् प्रतिपद्यते ।
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥३ १॥ न चाऽभीक्ष्णं शिरः स्नायात्तथाऽस्याऽऽयुर्न रिष्यति ।
तिलसृष्टं न चाऽश्नीयात्तथाऽस्याऽऽयुर्न रिष्यति ॥३२॥ अभ्यस्यति त्वनध्याये ह्यायुस्तस्य प्रहीयते ।
प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिस्त्रियम् ॥३३॥ ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ।
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥३४॥ दीर्घजिजीविषुर्विप्रं क्षत्रं सर्पं न दुःखयेत् ।
सन्तं साध्वीं सतीं गां च देवं घर्मं न कुत्सयेत् ॥३५॥ पतितैस्तु कथां नेच्छेत् तद्दर्शनं विवर्जयेत् ।
तत्संसर्गं न वै कुर्यात् तदायुर्विन्दते महत् ॥३६ ॥ न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् ।
न चास्नातां स्त्रियं गच्छेत् तदायुर्विन्दते महत् ॥३७॥ पूज्या वृद्धाः साधवश्च साध्व्यो देवा गुरुत्तमाः ।
गृहे वासयितव्यास्ते धन्यमायुष्यमेव तत् ॥३८॥ महात्मनामवमानमायुःक्षयकरं सदा ।
महात्मनोऽतिगुह्यानि न वक्तव्यानि कर्हिचित् ॥३९॥ सम्प्रशंसेत् सतीः साधून् तथाऽऽयुर्विन्दते महत् ।
सन्ध्यायां न स्वपेत् क्वापि जपेच्चिरं स जीवति ॥3.80.४० ॥ कारयेच्छमश्रुकर्म प्राङ्मुख उदङमुखोऽथवा ।
परिवादं न च ब्रूयात्तथाऽऽयुर्विन्दते महत् ॥४१ ॥ अनायुष्या भवेदीर्ष्या पूज्यनिन्दा च तादृशी ।
अनायुष्यं दिवास्वप्नं पारदार्यं तथाविधम् ॥४२॥ आचारो भूतिजननश्चाचारः कीर्तिवर्धनः ।
आचाराद् वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥४६ ॥ आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ।
सतामाशीर्वचनानि दीर्घायुःसम्प्रदानि वै ॥४४॥ मार्कण्डेयस्य दीर्घायुर्मत्त्वं सप्तर्षिवाक्यतः ।
वेधसो वाक्यतश्चापि निदर्शनं परं हि तत् ॥४५॥ पितुः क्रोधान्नाचिकेता मृत्युमवाप वै तथा ।
वानरा रामचन्द्रेणोज्जीविता ये रणे हताः ॥४६॥ वपुर्द्वेधा भौतकं च यशोरूपं तथा रमे ।
भौतिकं त्वायुरापेक्षं यशश्चाचारबन्धनम् ॥४७॥ आशीर्वादैभौतिकस्य शुभायुर्वर्धते त्विह ।
सदाचारैः सेवया च वर्धते तु यशः शुभम् ॥४८॥ सत्कर्मभिः पुण्यपुञ्जो वर्धते यशसा सह ।
भक्त्या द्वयं जायते च वर्धते शाश्वतं यथा ॥४९॥ कुले साधुर्भवेत् कश्चित् साध्वी वा ब्रह्मयोगिनी ।
कुलं तद् यशसा लोके ध्रुवं कीर्तिं प्रविन्दति ॥3.80.५०॥ पुण्ये कुले हि पुरुषाः ख्याताचारा भवन्ति हि ।
पापे कुले तु पापा वै जायन्त बहुधा खलु ॥५१॥ सर्वेऽनर्था कुले यत्र जायन्ते पापपूरुषाः ।
अकीर्तिं जनयन्त्येव कीर्तिॆ ते लोपयन्त्यपि ॥५२॥ विद्वानेको भवेत् पुत्रो भक्तः कीर्तिं करोति सः ।
सदाचारः स एवाऽत्र तारयत्येव बान्धवान् ॥५३॥ सदाचारा यदि साध्वी भवेत् कन्या वधूश्च वा ।
कुलं सर्वं पावनं च कृत्वा तारयति ध्रुवम् ॥५४॥ नारायणो हरिर्यस्य यस्या हृदि स्थितः प्रभुः ।
तारकस्तेन लोकान् सा स वा तारयति ध्रुवम् ॥५५॥ दीर्घायुश्च कुलं तस्य यशश्चिरं प्रतिष्ठति ।
मुक्तिश्चापि ध्रुवा तस्य तस्याः प्रजायते शुभाः ॥५६॥ दशाऽऽचार्येभ्य एवाऽत्रोपाध्यायः श्रेष्ठ उच्यते ।
दशोपाध्यायतः श्रेष्ठः पिता भवति सर्वथा ॥५७॥ दशपितृभ्यश्च माता श्रेष्ठा सदा गरीयसी ।
दशामातृसमा गुर्वी साध्वी सती पतिव्रता ॥५८॥ शीलयुक्ता ब्रह्मचर्यपरा ब्रह्मप्रिया हि सा ।
मत्स्वरूपा सदा साध्वी वैष्णवी सा नरायणी ॥५९॥ कार्ष्णी सा माधवी लक्ष्मीः शक्तिर्वै पौरुषोत्तमी ।
साधुरूपः सदा चाऽहं संवर्ते सर्वसृष्टिषु ॥3.80.६०॥ साधवो मत्स्वरूपा वै साध्व्यश्च मम शक्तयः ।
मम धामप्रदाः सर्वे सर्वाश्च पावनाः प्रिये ॥६ १॥ साधुभ्यस्तु परं नास्ति पावनं सर्वसृष्टिषु ।
साधुसेवासमं नास्ति पुण्यं तपश्च सर्वथा ॥६२॥ धनाढ्यास्तु धनेनैव सेवन्ते पूज्यदेहिनः ।
दरिद्राः साधुसेवाढ्या लभन्ते ब्रह्म शाश्वतम् ॥६३॥ धनाढ्या यान्ति वै स्वर्गं दरिद्रा यान्ति धाम च ।
अधना वर्ष्मणा सेवां कुर्वन्ति भावतः सताम् ॥६४॥ उपवासान् प्रकुर्वन्ति कोटियज्ञफलप्रदान् ।
अतो द्रव्यमयाद् यज्ञात् सेवायज्ञो विशिष्यते ॥६५॥ सदा तीर्थं सेवनीयं तारकं चात्मनां मुदा ।
स्थूलं तीर्थं भूजलादि सूक्ष्मं साधुप्रसेवनम् ॥६६॥ दिव्यं तीर्थं मनःशुद्धिस्तत्तीर्थाऽऽसेवनं चरेत् ।
मनस्तीर्थे तु यः पूतश्चात्मतीर्थे प्रमुच्यते ॥६७॥ अगाधे विमले शुद्धे सत्यतोये धृतह्रदे ।
स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ॥६८॥ तीर्थशौचं प्रवदामि शृणु लक्ष्मि प्रमोक्षदम् ।
साधुत्वं जायते येन येन मायाविनाशनम् ॥६९॥ अग्राहित्वमनर्थित्वमार्जवं सत्यमित्यपि ।
अहिंसा मार्दवं शान्तिरानृशंस्यं दमः शमः ॥3.80.७०॥ निर्ममाऽहङ्कृतित्वं निर्द्वन्द्वत्वं निष्परिग्रहः ।
शुचित्वं च गुणा यत्र तीर्थीभूता हि साधवः ॥७१॥ ब्रह्मवेत्ता महत्तीर्थं तारकं पापनाशकम् ।
सर्वत्यागेष्वभिरता भक्तिज्ञाः समदर्शिनः ॥७२॥ कषायरहिताः शान्ताः साधवस्तीर्थभूषणाः ।
मनःशौचं परंशौचं स्नातस्तत्र प्रमुच्यते ॥७३॥ नोदकक्लिन्नगात्रो वै स्नात इत्यभिधीयते ।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥७४॥ गतं नैवाऽनुशोचन्ति प्रत्यक्षे निर्ममाः सदा ।
स्पृहा नोत्पद्यते येषां तेषां शौचं हि तीर्थवत् ॥७५॥ निष्किञ्चनत्वं देहस्य मनसश्च प्रसन्नता ।
ज्ञानशौचं चात्मनश्च तीर्थानि त्रीणि चैव ह ॥७६॥ वृत्तशौचं शरीरस्य व्रतशौचं तु मानसम् ।
तीर्थशौचमात्मनश्च त्रीणि मोक्षकराणि वै ॥७७॥ ज्ञानोत्पन्नं परं शौचं ब्रह्मज्ञानजलात्मकम् ।
स्नाति यो मानसे तत्र मोक्षं याति न संशयः ॥७८॥ तत्त्वारोपितशौचस्तु नित्यं भक्तिसमन्वितः ।
सेवासद्गुणसम्पन्नस्तीर्थमेव जनः सदा ॥७९॥ कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् ।
सर्वपापानि दह्यन्ति ततो यात्यक्षरं पदम् ॥3.80.८०॥ परिग्रहाच्च साधूनां श्रीकृष्णस्य मनोर्ग्रहात् ।
भक्तिसरित्कृताप्लावात् तरन्ति प्राकृतं तमः ॥८ १॥ साधवस्तीर्थवर्या वै साधुता तीर्थसत्तमा ।
उभयोरेव यः स्नायात् स सिद्धिं शीघ्रमाप्नुयात् ॥८२॥ सदाचारः परो धर्मस्तीर्थं चोत्तममेव तत् ।
सतां धर्मं सह नीत्वा याति व्यक्तिः परां गतिम् ॥८३॥ धर्म एको मनुष्याणां सहायः पारलौकिकः ।
स चेद् दिव्यः कृतश्चाऽत्र साधूनां सेवया तदा ॥८४॥ मोक्षदो धामदश्चापि शाश्वतानन्ददः परः ।
मोक्षधर्मसमो धर्मो मूर्धन्यो नास्ति सृष्टिषु ॥८५॥ सर्वतीर्थमयो धर्मो मोक्षधर्मोऽस्ति साधुषु ।
साधवः पालिता येन सेविताश्च प्रसादिताः ॥८६॥ सर्वो धर्मः कृतस्तेन परमात्मा प्रसादितः ।
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ॥८७॥ साधुसेवातत्परस्य परं मोक्षपदं भवेत् ।
यथा नागपदेऽन्यानि पदानि संविशन्ति वै ॥८८॥ तथा सर्वाणि धर्माणि विशन्ति साधुसेवने ।
तेषां साधुसेविनां वै ब्रह्मलोको विधीयते ॥८९॥ नाभागेनाऽम्बरीषेण गयेन चित्रकेतुना ।
आयुना चाऽनरण्येन दिलीपेन च भूभृता ॥3.80.९०॥ शिबिना मुचुकुन्देन मान्धात्रा भरतेन च ।
जनकेन तथा रुक्माङ्गदेनाऽलर्कभृभृता ॥९१॥ पृथुना सागरेणापि लक्ष्मणेन महात्मना ।
एभिश्च राजभिर्नित्यं साधवः सम्प्रसेविताः ॥९२॥ साध्व्यः सत्यः पूजिताश्च परमात्माऽहमर्चितः ।
आत्मतीर्थकृतस्नानाः साध्वाशीर्वादवर्धिताः ॥९३॥ साधुधर्मपरा भूत्वा प्रयाताः परमां गतिम् ।
सर्वेन्द्रियाणां वृत्तीनां शान्तिर्यावन्न जायते ॥९४॥ तावद्भवति संसारो भवमृत्युप्रवाहकृत् ।
वृत्तिलये हि साधुत्वं साधुत्वे मुक्तिरुत्तमा ॥९५॥ नारायणस्य दूता वै सर्वे सन्तीह साधवः ।
कारयित्वा कीर्तनानि नयन्ति धाम चाक्षरम् ॥९६॥ साध्व्यो नारायणस्यैव शक्तयः सन्ति तारिकाः ।
कारयित्वा हरेः सेवां नयन्ति धाम चाक्षरम् ॥९७॥ ब्रहाप्रियाः समस्ता ये साध्व्यः सन्ति पतिव्रताः ।
भागवत्यश्च सात्त्वत्यस्तत्तद्देशेषु लीलया ॥९८॥ मदिच्छया समुत्पन्ना देशकल्याणहेतवे ।
जनतासु मम भक्तिप्रवर्तनार्थमेव ताः ॥९९॥ यूयं सर्वा मम पत्न्यः समुत्पन्ना हि साध्विकाः ।
साध्वीधर्मान् पालयन्तु श्रीकृष्णे स्वामिनि ध्रुवाः ॥3.80.१ ००॥ अनादिश्रीकृष्णनारायणे मयि परात्मनि ।
शाश्वतायुष्यभोगिन्यो मत्तुल्याः स्थो ध्रुवाः सदा ॥१०१ ॥ मम धामनिवासिन्यो मम पार्श्वे स्थ एव ह ।
द्वितीयेन स्वरूपेण भूस्थाः स्थोऽत्र मया सह ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने दीर्घाऽऽयुःप्रदसाधनं मोक्षसाधनं च सतां सेवानादिकमित्यादिनिरूपणनामाऽशीतितमोऽध्यायः ॥८० ॥