०७८

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं साध्वीकथां ह्यनुत्तमाम् ।
सौराष्ट्रे जालकपुर्यामभूद् गोपी सुचन्द्रिका ॥१ ॥ गोपश्चास्याः पतिः कृष्णनारायणं भजत्यपि ।
भक्तोऽभवत् सदा स्नानपरश्च गोव्रजाऽनुगः ॥२ ॥ गोपालो गोपवासाश्च गोपवासश्च मां सदा ।
सेवते बालकृष्णं वै वने वन्यादिभिः सदा ॥३ ॥ पायसैर्दुग्धपाकैश्च क्षीरैर्दध्ना घृतादिभिः ।
नवनीतेन पुष्पैश्च जलैः पूजयतीति माम् ॥४ ॥ स च ज्वरेण वै वर्षाकाले त्यक्त्वा निजं वपुः ।
ययौ स्वर्गं सकामो मे भक्तो दौर्हृदलक्षणाम् ॥५ ॥ गोपीं पत्नीं परित्यज्य ह्यर्धायुर्विगमे सति ।
गोपालो वै कृपया मे विमानवरमास्थितः ॥६ ॥ अप्सरोभिश्च सहितो राजते धेनुभिः सह ।
सर्वे सर्वोपकरणैर्भक्ष्यभोज्यादिभिर्युते ॥७ ॥ भूतले चास्य पत्नी सा भक्ता मे गर्भबालका ।
सगर्भाऽपि निजकान्तमनु मर्तुं समिच्छति ॥८ ॥ पतिव्रता पतिं विना दुःखं सोढुमशक्तिका ।
ययौ चितां स्वामिनश्च तदा लोकैर्निवारिता ॥९ ॥ गर्भस्य नाशने गोपि! पापं बहुगुणं तव ।
पत्युः स्वर्गं तव जातं स्वर्गविमानकम् ॥3.78.१० ॥ रक्ष गर्भं पुत्रवती भविष्यसि समान्तरे ।
पत्युः पृष्ठे मरणे तु पुण्यं वै पतियोषितः ॥११ ॥ अगर्भाया भवत्येव सगर्भायास्तु दूषणम् ।
तस्मान्मा कुरु घातं स्वं सुखिनी वस गोव्रजे ॥१२॥ इत्येवं वार्यमाणाऽपि पपात पतिना सह ।
चितायां तावदेवाऽयं पतिस्तस्या विमानगः ॥१ ३॥ ददृशे व्योममार्गेण मा मैवं गोपि! मा कुरु ।
निषिषेध स्वहस्तेनोत्तोलयामास तां प्रियाम् ॥१४॥ अदग्धां तां समाश्वास्य दाहं प्रशाम्य तत्क्षणम् ।
विमाने तां समागृह्योपाऽऽदिशद् गर्भरक्षणे ॥१५॥ पुत्रस्य रक्षणं कृत्वा विवाह्य च ततः परम् ।
समायाहि मम स्वर्गं मा कृथाश्चाऽनुयात्रिकाम् ॥१ ६॥ इत्युक्ता सा प्रशान्ता च सुखिनी पतिवाक्यगा ।
पृथ्व्यां विमानात् पतिना प्रापिता शोकवर्जिता ॥१७॥ चितां नत्वा पतिं नत्वा ययौ गृहं हि गोपिका ।
भजते मां हरे कृष्ण कृष्णनारायण स्म च ॥१८॥ धर्मं भक्तिं व्रतं शीलं पालयत्येव गोपिका ।
सुषुवे च सुतं गोपी सुचन्द्रिका शुभाननम् ॥१ ९॥ ववृधे बालकश्चाऽपि युवा जातो विवाहितः ।
गोपी पुत्राय च ततो न्यवेदयत् पुराभवम् ॥3.78.२०॥ सर्वं वृत्तं निजपत्युः पुत्रोऽपि मुमुदे ततः ।
अथ स्वर्गं प्रगन्तव्यं मया ते पितरं प्रति ॥२ १ ॥ इत्युक्त्वा सा गोशकृतोपलिप्य भूतलं ततः ।
उपाविशत् क्षणं ध्यात्वा पतिं तत्याज वर्ष्म तत् ॥२२।
तावत्पत्युर्विमानं तद् देवदेवीसमन्वितम् ।
समायातं व्योमतश्चाऽऽरोहयामासुरेव ताम् ॥२३॥ सुचन्द्रिकां जयवाक्यैर्वर्धयन्त्योऽप्सरोवराः ।
गोपपुत्रो वधूयुक्तो व्यलोकयद् विहायसि ॥२४॥ पितरं देवरूपं च प्राणमन्मातरं ततः ।
विमानं क्षणमात्रेण गतं चाम्बरमूर्धनि ॥२५॥ विमानस्था मञ्जुघोषाऽप्सरोवरा तु गोपिकाम् ।
अपृच्छत् सुचन्द्रिकां च भर्तुः सन्निधिमेव ह ॥२६॥ केन व्रतेन कल्याणि! केनाऽऽचारेण वर्धिता ।
गोपी विधूय पापानि देवलोके समागता ॥२७॥ वह्न्युज्ज्वलाम्बरधरा स्वर्णचम्पकशोभना ।
ज्वलमाना च तेजोभिर्दिव्या कथं स्वरागता ॥२८॥ नाल्पेन तपसा गोपि! दानेन नियमेन वा ।
स्वर्गं लोकमनुप्राप्ता कथं वद समागता ॥२९॥ श्रुत्वा सुचन्द्रिका गोपी मञ्जुघोषां समब्रवीत् ।
कथं वै प्राप्यते स्वर्गं वद मे तत्र कारणम् ॥3.78.३०॥ मञ्जुघोषा ततः प्राह गोपीं शृणु च कारणम् ।
काषायवसना या स्यात् त्यागमार्गपरायणा ॥३ १॥ मुण्डा वा जटिला वा स्यात्तथा वल्कलधारिणी ।
तापसी दानपरमा बहुदा पुण्यशालिनी ॥२२॥ सर्वप्रदाऽतिथये या साधवे च महात्मने ।
सा स्वर्गगा भवेत् साध्वी पातिव्रत्यपरायणा ॥३३॥ पतिर्देवः पतिः कृष्णः पतिरेव परो वृषः ।
पत्याज्ञा परमो वेदः पत्युस्तुष्टिर्वृषः स्त्रियाः ॥३४॥ एवं या वर्तते साध्वी सा स्वर्गं विन्दतेऽच्युतम् ।
श्रुत्वा प्राह तदा गोपी शृणु विमानवाहिनि! ॥२५॥ नाऽहं काषायवसना नाऽपि त्यागपरायणा ।
न मुण्डा न जटिला वा नाऽपि वल्कलधारिणी ॥३६॥ और्णाम्बरादिधर्त्र्यास्मि नापि वै तापसी तथा ।
वनवासा दुग्धदाना किन्त्वतिथिं न वेद्म्यपि ॥३७॥ साधुसेवाकरी चाऽस्मि गोपी गोपानुयोजिता ।
पतिसेवापरा चाऽऽसं येन देवीत्वमागता ॥३८॥ आहितानि परुषाणि कदाचिन्नाऽब्रुवं पतिम् ।
श्रीकृष्णदेवसाधूनां पूजनेऽहं रताऽभवम् ॥३९॥ पत्युर्गवां सेविका च श्वश्रूश्वशुरवर्तिनी ।
पैशुन्ये न प्रवर्ते च न कापट्य मनस्यपि ॥3.78.४०॥ अस्थाने न च तिष्ठामि चाऽश्लीलं प्रवदामि न ।
असद्वा हसितं वाप्यहितं वा पापसम्भृतम् ॥४१ ॥ रहस्यं चाऽरहस्यं वा न वै करोमि सर्वथा ।
गवामर्थे निर्गतं मे भर्तारं गृहमागतम् ॥४२॥ जलान्नासनदानाद्यैः सेवयामि सदाऽनुगा ।
यदन्नं रोचते नाऽस्य यद्भोज्यं रोचते न च ॥४३॥ भक्ष्यं लेह्यं च पेयं च सर्वं तद् वर्जयाम्यहम् ।
कुटुम्बार्थे समग्रं वै कार्यं सदा करोमि च ॥४४॥ मङ्गलानि मम सर्वविधानि स्वामिनः कृते ।
अञ्जनं रोचनां स्नानं माल्यानुलेपनादिकम् ॥४५॥ प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ।
नोत्थापयामि भर्तारं सुखसुप्तं क्वचित् खलु ॥४६॥ आन्तराण्यपि कार्याणि करोम्यहं सुखान्विता ।
नाऽऽयासयामि भर्त्तारं तेन तुष्यति मे मनः ॥४७॥ गुप्तगुह्या सदा चास्मि तदाज्ञावशवर्तिनी ।
एवं प्रपाल्य वै पत्युश्चितायां निधनोत्तरम् ॥४८॥ निविष्टाऽपि निषिद्धा चोत्तोलिता जीविताऽऽहिता ।
पृथ्व्यां पुत्रं सवधूकं सम्पाद्य दिवमागता ॥४९॥ एवं वै मञ्जुघोषेऽहं दिवमेतत्समागता ।
पतिः प्राप्तो मया चात्र पुत्रो मे वर्तते भुवि ॥3.78.५०॥ एतादृश्यो विविधा वै गोप्यो भवन्ति भूतले ।
कृष्णगोप्यश्च ता जाताः कल्पकल्पान्तरेष्वपि ॥५ १॥ भजित्वा श्रीहरिं कृष्णनारायणं तथा पतिम् ।
एवमहं पतिं देवं भजित्वाऽत्र समागता ॥५२॥ श्रुत्वैवं मञ्जुघोषा सा प्रहृष्टा प्रशशंस ताम् ।
अन्या अप्सरसश्चापि शशंसुस्तां पतिव्रताम् ॥५३॥ बहुकालमुषित्वा च भोगान् भुक्त्वा ह्यनेकशः ।
सत्यलोकं ययौ साध्वी पत्या साकं सुचन्द्रिका ॥५४॥ सावित्री चात्र चाऽपृच्छत् स्वर्गाद् गच्छन्ति वै सुराः ।
मर्त्यलोकं चाऽवशेषं भोक्तंु त्वं कथमत्र वै ॥५५॥ सत्यं समागता साध्वि वद तत्र हि कारणम् ।
सुचन्द्रिका च सावित्रीमुवाच हृष्टमानसा ॥५६॥ स्वर्गे दृष्टं मया सर्वं सुखं भोगात्मकं परम् ।
परन्त्वनियमं तद्धि शीलव्रतविवर्जितम् ॥५७॥ देवानां नास्ति वै शीलं न शीलं देवयोषिताम् ।
अप्सरस्सु व्यवायश्च विद्यते परमो दिवि ॥५८॥ देवेषु चापि देवीनां प्रायशोऽपि तथा विधा ।
रीतिर्वै विद्यते तत्र सावित्रि! किं वदाम्यहम् ॥५९॥ कामरूपधरा देवा देव्यश्चापि तथाविधाः ।
विहरन्ति यथेष्टं वै मर्यादावर्जिताः खलु ॥3.78.६०॥ पातिव्रत्यं न देवीषु पत्नीव्रतं न नाकिषु ।
एवंविधा भुक्तशेषा व्रजन्ति मानवालयम् ॥६१ ॥ प्रधानेषु च देवेषु पत्नीव्रतं न विद्यते ।
का कथा चाऽल्पदेवानां ते मृता यान्ति मर्त्यकम् ॥६२॥ सञ्ज्ञा चान्द्री रोहिणी च पौलोमी ऋषियोषितः ।
एताश्चान्याः स्वल्पसङ्ख्या भवन्ति वै पतिव्रताः ॥६ ३ ॥ मया स्वर्गे मम पत्युर्विमाने वै पतिव्रतम् ।
पालितं सर्वथा नित्यं यथा पृथ्व्यां तथा दिवि ॥६४॥ हरेः पूजा कृता नित्यं वृषश्चापि प्रपालितः ।
अनन्यनरसंस्पृश्या भवामि पूर्वपुण्यतः ॥६५॥ श्रीहरेः कृपया चापि सावित्रि! तद्बलादहम् ।
सह पत्या सत्यलोकं चायाता नाऽन्यकारणम् ॥६६॥ अत्रोषित्वा प्रयास्यामि कृपया स्वामिनस्तव ।
वैकुण्ठं तु जलोर्ध्वे यत् पत्युर्हरेर्व्रतेन च ॥६७॥ इत्येवं चाऽवदत् साध्वी न्यूषतुस्तत्र वै चिरम् ।
ततो ययतुर्वैकुण्ठं विष्णोः पादाम्बुजे ह्युभौ ॥६८॥ गत्वा तत्र महासाध्वी नेमे लक्ष्मीं हरिप्रियाम् ।
ननाम विष्णुं गोपश्च ववन्दतुश्च तौ मुदा ॥६९॥ पृष्टा लक्ष्म्या कथं साध्वि सत्यलोकादुपागता ।
सुचन्द्रिका श्रियं प्राह कान्तभक्त्या समागता ॥3.78.७० ॥ कान्तोऽयं मे हि गोपालो विष्णुश्चाऽयं परेश्वरः ।
कान्तं भजामि नित्यं वै कान्तकान्तं च शाश्वतम् ॥७१॥ साध्वीधर्मं समापन्ना पातिव्रत्यपरायणा ।
कान्तधर्मबलेनाऽहं वैकुण्ठं समुपागता ॥७२॥ अथ तत्राऽप्युषित्वा सा चिरं पत्या समन्विता ।
ययौ गोलोकमेवाऽपि गोपी गोपेन शोभिता ॥७३॥ नेमे गोपी राधिकां च गोपः कृष्णं ननाम च ।
ऊषतुस्तत्र लोके तौ गोपीगोपगणेष्वपि ॥७४॥ राधा सुचन्द्रिकामाह कथं चाऽत्र समागता ।
वद मे कारणं गोपि! केन पुण्येन चागता ॥७५॥ सुचन्द्रिकाऽऽह राधां वै कृष्णकान्तस्य सेवया ।
कान्तस्य सेवया कान्तकान्तस्याऽपि च सेवया ॥७६॥ पातिव्रत्येन धर्मेण कृष्णधर्मेण गोगृहम् ।
आगताऽहं राधिकेऽत्र साध्वीधर्मेण योजिता ॥७७॥ पातिव्रत्यं परो धर्मः सर्वधर्मोत्तमोत्तमः ।
कृष्णधर्मः परो धर्मः साध्वीधर्मोत्तमोत्तमः ॥७८॥ मया नित्यं मम कान्तः पूजितो गोपसत्तमः ।
गोपानामपि गोपश्च कृष्णः सदा प्रपूजिताः ॥७९॥ तेन पुण्येन लोकेऽत्र चागता राधिके तव ।
उषित्वा च चिरं पश्चाद् यास्याम्यक्षरधाम वै ॥3.78.८०॥ कृष्णाज्ञया तु सा साध्वी कान्तयुतोषिता चिरम् ।
पातिव्रत्यं पालयित्वा ययौ धामाऽक्षरं ततः ॥८ १॥ अनादिश्रीकृष्णनारायणाश्रयं परात्परम् ।
ब्रह्मह्रदे चाप्लुता च महामुक्तानिकाऽभवत् ॥८२॥ मुक्तोऽभवत् पतिश्चापि ब्रह्मभावान्वितस्तदा ।
मायाकार्याणि सर्वाणि लीनानि वै द्वयोस्तदा ॥८३॥ एकभावानि तत्त्वानि जातानि च द्वयोस्तदा ।
आत्मतत्त्वं समस्तं वै समूर्तं शोभनं परम् ॥८४॥ पुरुषोत्तमरूपेण रूपितं चाऽभवत्तदा ।
पुंस्त्रीभावौ गतौ तत्र दिव्यभावावुपागतौ ॥८५॥ श्रीहरेस्तत्र सारूप्यं सालोक्यं सार्ष्टिताऽभवत् ।
सामीप्यं चाऽभवत्तत्र नेमतुः पुरुषोत्तमम् ॥८६॥ ऊषतुश्चाऽक्षरे धाम्नि जपन्तौ पुरुषोत्तमम् ।
अनादिश्रीकृष्णनारायणश्रीपरमेश्वर ॥८७॥ परब्रह्म हरे कृष्ण श्रीकृष्ण पुरुषोत्तम ।
इत्येवं तौ ततो लक्ष्मि मुक्तौ जातौ ममाऽक्षरे ॥८८॥ पूर्वं तौ लोमशात् प्राप्तौ मम मन्त्रान् भुवस्तले ।
तद्बलान्मम भक्तिश्च व्यवर्धत तयोश्चिरात् ॥८९॥ पतिव्रत्यं हारिव्रत्यं पत्नीव्रतं च शोभनम् ।
व्यवर्धत सदा गोप्या गोपस्याऽप्युत्तरोत्तरम् ॥3.78.९०॥ मे साधूनां सेवया च शीलेन सर्वथा तथा ।
सर्वलोकेषु मे भक्त्या प्राप्तवन्तो हि मां पतिम् ॥९ १॥ माणिक्या मे प्रिया धाम्नि जया च ललिता तथा ।
पप्रच्छुस्तां गोपिकां वै कथं चात्र समागता ॥९२॥ सुचन्द्रिकाऽऽह माणिक्यां मुक्तां श्रीपरमेश्वरि ॥ पतिशुश्रूषया साध्वीधर्मवृत्त्या तथा शुभे ॥९३॥ अनादिश्रीकृष्णपातिव्रत्यभक्त्या समागता ।
पतिर्मेऽयं महामुक्तो ब्रह्मह्रदे समप्लवात् ॥९४॥ सञ्जातश्चाऽऽहमेवापि ब्रह्मप्रियाऽस्मि सर्वथा ।
जाता मुक्तानिका साध्वी मुक्तरूपा हि माणिकि ॥९५॥ कृपालभ्या परामुक्तिः सर्वथा नैव संशयः ।
सतां सेवा हि सत्सङ्गः सेवया पुण्यशेवधिः ॥९६॥ पुण्यपुञ्जैर्विवेकश्च भवेदात्मपरात्मनोः ।
विवेकादात्मकल्याणे प्रवृत्तिर्जायते ततः ॥९७॥ पापनाशः पावनत्वं ताभ्यां भक्तिरुदेति च ।
भक्त्या च नामधामादिस्मरणं स्नेहसम्भृतम् ॥९८॥ स्नेहार्पणेनेष्टसिद्धिः सविविधा प्रजायते ।
परमात्मा सदेष्टश्चाऽनादिनारायणो हरिः ॥९९॥ सोऽयं सम्प्राप्यते सिद्धः पतिः कृष्णोऽतिवल्लभः ।
एवं मया हरिः कान्तः प्राप्तोऽत्राऽक्षरधामनि ॥3.78.१०० ॥ इत्युक्ता माणिकी तुष्टा प्रशशंस सुचन्द्रिकाम् ।
सखीं शीलवतीं प्राप्याऽऽनन्दिता सा बभूव च ॥१०१ ॥ सुचन्द्रिका सदा मुक्ता ह्युवास श्रीरिवाऽपरा ।
हरिप्रियाऽक्षरे धाम्नि लक्ष्मि भक्ता प्रिया मम ॥१० २॥ इत्येवं दर्शितं तेऽत्र साध्वीमाहात्म्यमुत्तमम् ।
सस्वामिन्या हि भक्ताया मे साध्व्या मोक्षकृत्परम् ॥१०३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सुचन्द्रिकाख्यगोप्याः पातिव्रत्येन हरिपातिव्रत्यभक्त्या च सपतिकायाः स्वर्गसत्यवैकुण्ठगोलोकाऽक्षरधाम-
गमनमित्यादिसाध्वीचमत्कारनिरूपणनामाऽष्टसप्ततितमोऽध्यायः ॥७८ ॥