०७५

श्रीनारायणीश्रीरुवाच-
दृष्ट्वा कृष्ण महाश्चर्यं निर्वृत्ताऽस्मि च वै तथा ।
भूयोऽपि तव माहात्म्यं वद मे च प्रदर्शय ॥१ ॥ श्रीपुरुषोत्तम उवाच-
पश्य लक्ष्मि महाश्चर्यं मुखान्मेऽग्निरजायत ।
इत्युक्ते वह्निरुत्पन्नो व्याप्नोत् पार्श्ववनेऽभितः ॥२ ॥ ज्वालामालासमाकूलोऽदहद् व्याघ्रवनं क्षणात् ।
सद्रुमं सतृणं विरुल्लतासस्यादिसंयुतम् ॥३ ॥ सपक्षिगणसङ्घातं सश्वापदसरीसृपम् ।
एवं वह्निर्महाज्वालो दग्ध्वा वनमशेषतः ॥४ ॥ हरेः पुरो मूर्तिमान् स चाययौ शिष्यवत्तदा ।
अनमत्पादयोश्चापि तिरोबभूव वै हरौ ॥५ ॥ अथ वन सर्वथैव दग्धं दृष्ट्वा हरिस्त्वहम् ।
सौम्येर्दृष्टिनिपातैस्तत् पुनः प्रकृतिमानयम् ॥६ ॥ तथैव तद्वनं भूयः प्रपुष्पितलताद्रुतम् ।
सपक्षिगणसङ्घुष्टं सश्वापदसरीसृपम् ॥७ ॥ अभवत् पश्य लक्ष्मि त्वं यथापूर्वं यथास्थितम् ।
दृष्ट्वाऽऽश्चर्यं च पप्रच्छ कान्तं लक्ष्मीर्नरायणम् ॥८ ॥ कोऽयमग्निः कथं कृष्ण वर्तते त्वयि सर्वदा ।
श्रुत्वा नारायणः प्राह शृणु तेजो हि मामकम् ॥९ ॥ बहुधा वर्तते मूर्तौ सङ्कर्षणात्मकं हि तत् ।
तथा रुद्रात्मकं चापि शङ्करात्मकमित्यपि ॥3.75.१ ०॥ सर्वसंहारकृत् तद्वै महाकालस्वरूपवत् ।
सर्वं चैश्वर्यरूपं मे वर्तते मयि सर्वदा ॥१ १॥ यदा यदा प्रलयाश्च भवन्ति लोकिनां तदा ।
ऐश्वर्यं तदिदं मे वै प्रवर्ततेऽति सृष्टिषु ॥१२॥ संहरामि समग्रं वै तेनैव साधनेन तत् ।
सृजामि च पुनः शक्त्या यथावत्कल्पनाकृतम् ॥१३॥ सृष्ट्यैश्वर्यं च तन्मेऽस्ति यथा सृष्टं वनं पुनः ।
भवत्यो ब्रह्मरूपिण्यः सृष्टा मया ममांऽशतः ॥१४॥ एतज्जगत् समग्रं वै सृष्टं तथा मयांऽशतः ।
मम चर्यापरीतस्य मे साधूनां प्रसेवया ॥१५॥ कालात्माऽग्निर्न दहति मे सङ्कीर्तनकारिणः ।
पश्यैनं लोमशं त्यक्त्वा त्यक्त्वा तदाश्रमं तथा ॥१६॥ ऋषीणामाश्रमाँस्त्यक्त्वा व्याप्नोद् वह्निर्न चाश्रमान् ।
एवं मे भक्तभक्तानामनिष्टं कर्तुमक्षमः ॥१७॥ ये मां भजन्ति मनुजास्तेषां कालो न विद्यते ।
माया न विद्यते तेषामुद्वेगो नापि विद्यते ॥१८॥ त्रेधा तापा न वै तेषां दुःखं तेषां न विद्यते ।
तेषां कष्टमहं सर्वं भक्षयामि न संशयः १९॥ कालकालोऽहमेवाऽस्मि जीवयामि ममाऽऽश्रितान् ।
कालमाज्ञापयाम्येव भोगान् भक्तस्य शाश्वतान् ॥3.75.२०॥ मा संहर कदाचित् त्वं मा जरां प्रापय क्वचित् ।
इत्येवं मम भक्तानां तिष्ठामि रक्षणे सदा ॥२१ ॥ इत्येतद् दर्शितं लक्ष्मि सामर्थ्यं मम गौरवम् ।
महिमा मम भक्तेश्च दर्शितस्ते महाबलः ॥२२॥ अहिंसा सत्यवचनं सर्वभूताऽनुकम्पनम् ।
व्रतं दानं च शान्तिश्च धर्मा वै भक्तिसंश्रिताः ॥२३॥ उपवासोऽपि वै भक्त्या गतार्थो भवति ध्रुवम् ।
ब्रह्मचर्यं च भक्त्यैव गतार्थं मयि जायते ॥२४॥ वेदव्रतं चाऽग्निकार्यं गुरुकार्यप्रसाधनम् ।
स्वाध्यायश्चेति धर्माः स्युर्गतार्था भक्तिकारिणः ॥२५॥ अतिथिव्रतता चापि प्रसादभोजनं च मे ।
भुक्ते परिजने पश्चाद् भोजनं समशीलता ॥२६॥ दम्पत्योरेव गृहिणो सुरेभ्योऽन्ननिवेदनम् ।
सतां सेवाऽनिशं चाऽपि गतार्था भक्तिकारिणः ॥२७॥ पालनं दानमुद्योगो यज्ञश्च भरणं तथा ।
पितृसेवा स्वामिसेवा गतार्था भक्तिकारिणः ॥२८॥ गवादेः पालनं चाऽग्निहोत्रं सत्पथवर्तनम् ।
त्यागो दमः स्वागतं च गतार्था भक्तिकारिणः ॥२९॥ शुश्रूषा च शुभाचारो दीनता भृत्यतादिकम् ।
दासीता दासता चेति गतार्था भक्तिकारिणः ॥3.75.३०॥ साधवो लोकसारा वै सनत्कुमारपूर्वजाः ।
धात्रा सृष्टाः पुरा लोके लोककल्याणहेतवः ॥३१॥ मया लक्ष्मि साधवस्तु भक्तिमन्तो विनिर्मिताः ।
बहवश्चाऽत्र संसारे मम माहात्म्यबोधकाः ॥३२॥ लोकाँस्तारयितुं कृत्स्नान् शक्ताः क्षितौ हि देवताः ।
ब्रह्मविद्या भजनं च मत्कथा ध्यानमुत्सवः ॥३३॥ मन्मन्त्रदानमित्येतत् कर्मषट्कं सतां सदा ।
शरणागतरक्षा च मोक्षश्च पापनाशनम् ॥३४॥ भक्तिदानं ब्रह्मशीलं कर्तव्यपञ्चकं सताम् ।
विद्वत्ता शास्त्रशीलत्वं स्वाध्यायो जपनं श्रुतम् ॥३५॥ आचारश्चेति षट्कं वै सतां स्वाभाविकं भवेत् ।
शमश्चोपरतिः सत्सु प्रीतिः सत्कृतिरित्यपि ॥३६॥ हरेः स्मृतिः सदा ब्रह्मस्थितिः सतां महान् वृषः ।
मानक्रोधादिराहित्यं स्निग्धवाणीमनोऽन्तरः ॥३७॥ अभ्यागतरतिः शेषप्रसादभोजनं तथा ।
क्षमा तृप्तिश्च सन्तोषः सतां गुणाः स्वभावजाः ॥३८॥ परिचर्या तु वृद्धानां गवां द्युवासिनां हरेः ।
निवृत्तिः स्वादुवस्तुभ्यो धर्मो मोक्षाय तिष्ठति ॥३९॥ आशापाशविमोक्षश्चाऽसङ्गिताऽऽध्यात्मचिन्तनम् ।
स्नेहपाशविहीनत्वं चात्मन्यात्मसमर्पणम् ॥3.75.४० ॥ परिव्रजति साधुर्यो मोक्षदृष्टेन कर्मणा ।
मुक्तो ह्यटति सर्वत्र मयि स्थिरो भवेत् सदा ॥४१ ॥ एष मोक्षविदां धर्मो गतार्थो भक्तिकारिणः ।
भक्तेः परतरं नास्ति शाश्वतानन्दधर्मभृत् ॥४२॥ अदुःखमुत्तमसुखमजराऽमरमव्ययम् ।
साधोर्मोक्षपदं चास्ते सहैव भक्तिकारिणः ॥४३॥ ते सुरैः समतां यान्ति द्योतयन्ति जगत्त्रयम् ।
भक्तिदयाधर्मपरास्तपसा दग्धकिल्बिषाः ॥४४॥ सन्तश्चक्रधराः पुण्या मम लोकचराः शुभाः ।
मालाचक्रधरा घ्नन्ति पापानि पापिनां क्षितौ ॥४५॥ कण्ठे कण्ठीधरा हस्ते मालाध्रा मद्धरा हृदि ।
भाले पुण्ड्रधरा देहे शीलध्रा भक्तिकारिणः ॥४६॥ चित्ते क्षमाधरा भावे स्नेहध्राः प्रीतिवृत्तयः ।
बुद्धौ मोक्षप्रियाश्चात्मन्येव ब्रह्मधराः सदा ॥४७॥ आश्रितेषु च वात्सल्यधरा धीध्रा विवेचने ।
मत्कथायां रसध्राश्च भूतेषूदासिताधराः ॥४८॥ भोग्येऽनासक्तियुक्ताश्चाऽऽवश्यके यात्रिका यथा ।
मयि तादात्म्यमापन्ना ब्रह्माम्बराः प्रपावनाः ॥४९॥ उपास्तिपक्षयुक्ताश्च सतां सङ्गकराः सदा ।
आश्रिताऽर्पितसन्तृप्ताः साधवः साधुभूषणाः ॥3.75.५० ॥ एषां समाश्रयाल्लक्ष्मि गतार्थं मोक्षसाधनम् ।
कर्तव्यं नाऽवशिष्येत धामस्थानां समागमात् ॥५ १ ॥ ऋषिधर्मः साधुधर्मः सत्ये शीले सदा रतिः ।
न स्तम्भी न च मानी स्यान्नाऽप्रसन्नो न विस्मितः ॥५२॥ पितृदेवार्चने रक्तो रात्रिम्मन्यो दिवा सदा ।
स्वापम्मन्यो जाग्रतौ च निम्नम्मन्यो गुरुत्तमे ॥५३॥ तमोमन्यः प्रकाशे च विषम्मन्यो रसोत्तमे ।
हासम्मन्यो महावृद्धौ दैन्यम्मन्यः सगर्वके ॥५४॥ सम्पत्सु विपदम्मन्यो मृतिम्मन्यश्च जीवने ।
धर्मम्मन्यो हरेः सङ्गे रतिम्मन्यो हृदन्तरे ॥५५॥ भक्तिमत्सु सुखम्मन्यो जनम्मन्यो वनादिषु ।
गतिम्मन्योऽच्युतगोत्रे तारयत्येव सज्जनः ॥५६॥ साधुस्तारयिता लक्ष्मि साध्वी तारणिका मता ।
त्यागे मूल्यं न मे चाऽस्ति मूल्यं भक्तौ हि मद्गृहे ॥५७॥ भक्तिमतां साधूनां पूजयामि चरणौ सदा ।
भक्तानां चापि साध्वीनां सम्मानं प्रकरोम्यहम् ॥५८॥ मयि भक्तिस्तदा स्याद्वै निवृत्तिश्चान्यतो यदा ।
शमे रतिर्मयि स्वापः क्रिडाकाण्डोऽपि वै मयि ॥५९॥ ऋषीकेशाः साधवस्ते साध्व्यश्चापि तथाविधाः ।
मम भक्तिभृतानन्दसन्दोहाप्लवसम्प्लुताः ॥3.75.६०॥ देशेषु मम वासेषु नदीनां निर्झरेषु च ।
स्रवन्तीनां निकुञ्जेषु पर्वतेषु वनेषु च ॥६ १॥ भक्तालयेषु वा सन्तो वसन्ति मम योगिनः ।
योगचर्यापराश्चापि व्योमशय्यासनास्तथा ॥६२॥ वृक्षाऽऽश्लेषाशना नित्यं वन्यपरिजनाः सदा ।
चीरवल्कलसंवीता मम भक्तिपरायणाः ॥६३॥ सुखं वसन्ति निर्विघ्ने सद्भिर्देवगणैः सह ।
सत्त्वस्थाः सर्वमुत्सृज्य दीक्षिता मयि माधवे ॥६४॥ एवंविधाः साधुवृत्ताः साधुशीला मदाश्रयाः ।
नरा नार्यः प्रिया मे वै तेषां लोकाः सनातनाः ॥६५॥ स्थिताः पापे समुत्सृज्य पापं कुर्वन्ति सत्क्रियाम् ।
पुण्यं भक्तिं तदा तेऽपि साधुत्वमुपयन्ति वै ॥६६॥ स्थितो ब्रह्मिष्ठधर्मेण ब्राह्मण्यमुपयाति च ।
यः कोऽपि मम योगेन ब्रह्मभूयं स गच्छति ॥६७॥ अध्यात्म नैष्ठिकं सद्भिर्ब्रह्मकामैर्निषेव्यते ।
वनं नारायणश्चाऽहं सतां वासो मयि ध्रुवे ॥६८॥ वनं गुरुस्तथा बोध्यो गुरौ वासः सतां सदा ।
हवनं मे च नैवेद्यं यज्ञोऽहं श्रीनरायणः ॥६९॥ चातुर्मास्यं सतां चाहं व्रतान्यहं सतां सदा ।
एवमाचारवन्तो वै साधवः साधुभूषणाः ॥3.75.७०॥ विमुक्ताः सर्वपापैस्ते चरन्ति साधवो मयि ।
सन्तः सत्पथनित्यास्ते प्रयान्ति परमां गतिम् ॥७ १ ॥ ब्रह्मलोकं महापुण्यं दिव्यर्द्धिमत् सुशाश्वतम् ।
प्रयान्ति मुनयः सिद्धा लक्ष्मि मत्पदसंश्रयाः ॥७२॥ स्वयं ते निर्भयाश्चाऽत्र ददत्यभयदक्षिणाम् ।
भक्तिलाभपरा नित्यं साधवः साधुभूषणाः ॥७३॥ सर्वभूतानुकम्पाश्च सर्वभूताऽऽर्जवव्रताः ।
सर्वभूतात्मभूताश्च साधवः साधुभूषणाः ॥७४॥ सर्ववेदेषु वा स्नानं सर्वभूतेषु दर्शनम् ।
सर्वात्मसमता येषां ते सन्तः साधुभूषणाः ॥७५॥ आर्जवं वै सतां धर्मो ह्यधर्मो जिह्म एव ह ।
आर्जवेन युता लोके देवताः सन्ति गोचराः ॥७६॥ व्यपेतमायो भक्तात्मा प्रीत्या सत्पथमाश्रितः ।
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥७७॥ शृणु लक्ष्मि मां विहाय करोति सत्क्रियामपि ।
ऐहिकं हि फलं तस्य विना भक्तिं हि नश्वरम् ॥७८॥ उपवासव्रतैर्यान्ति गन्धर्वलोकमुत्तमम् ।
मण्डूकवज्जलेशायी नागलोकं प्रयाति वै ॥७९॥ शष्पपत्रादिभक्षी तु प्रगच्छत्यमरावतीम् ।
शैवालपर्णभक्षी तु वारुणं लोकमृच्छति ॥3.75.८०॥ फलमूलाऽनिलाऽदस्तु यक्षलोकं प्रगच्छति ।
अग्नितपःपरो राजा प्राणरोद्धा नृपो भवेत्॥८ १ ॥ अनशने रतो राजा स्वर्गे दिवि प्रमोदते ।
जलाब्धौ देहमरणे वारुणं लोकमृच्छति ॥८२॥ अश्मना चरणौ भित्त्वा मृतो भवति गुह्यकः ।
हत्वाऽग्नौ देहमुत्सृज्य वह्निलोके प्रजायते ॥८३॥ वीररीत्या गतो लोकं शक्तस्य स तु विन्दते ।
कामगेन विमानेन मोदते स सुरादिभिः ॥८४॥ योगिदीक्षां गृहीत्वा च रुद्रलोकं प्रयाति सः ।
धनदानानि दत्त्वा तु कुबेरालयमृच्छति ॥८५॥ स्वर्णदानानि च दत्वा सूर्यलोकं प्रयाति सः ।
पेयदानानि दत्त्वा च चन्द्रलोकं प्रयाति सः ॥८६ ॥ वस्त्रदानानि दत्त्वा तु ग्रहलोकान् प्रयाति सः ।
कन्यादानानि दत्त्वा तु चाऽप्सरोलोकमृच्छति ॥८७॥ यानदानानि दत्त्वाऽत्र याति वैमानिकं गृहम् ।
अन्नदानानि दत्त्वाऽत्र पितृलोकं प्रयाति सः ॥८८॥ ब्रह्मदानानि दत्त्वाऽत्र सत्यलोकं प्रयाति च ।
ऐश्वर्यादिप्रदानेन यातीश्वरालयान् स वै ॥८९॥ भक्त्या सर्वस्वदानेन मम लोकं प्रयाति सः ।
यदि मां स्मरति तत्र चान्यथा याति तैजसम् ॥3.75.९०॥ वैराजपदमेवाऽयं मद्भक्त्या तु पदं मम ।
तानि सर्वाणि दानानि मह्यं तत्राऽन्तरात्मने ॥९१ ॥ स्मृत्वा ददाति भक्त्या चेन्नयामि ब्रह्म शाश्वतम् ।
एवं मे महिमा लक्ष्मि भावनामात्रगोचरः ॥९२॥ भावनाभक्षकश्चाऽहं भावनातन्तुबन्धनः ।
भावनारूपपत्रेण चोपतिष्ठामि सन्निधौ ॥९३॥ साध्व्यः सन्तो भावनाढ्यास्ततो मन्मयमूर्तयः ।
मदाचारा मम देहास्तारकाः पापिनां सदा ॥९४॥ तेभ्यो नाऽणुः प्रभेदोऽस्ति मम सर्वार्थयोजने ।
त एवाऽहमहं ते च हार्दं ते कथितं मम ॥९५॥ भवत्यो भक्तिमत्यो मे सर्वा ब्रह्मप्रियाः स्त्रियः ।
साध्व्य एव सदा स्थाऽत्र तारिका मोक्षदाः शुभाः ॥९६॥ भवतीनां निवासोऽत्राऽक्षरं धाम तदेव हि ।
भवतीनां सन्निधानं सत्सङ्गः शाश्वतो हि सः ॥९७॥ भवतीनां सेवनं च सदाऽऽत्मसेवनं परम् ।
भवतीनां दर्शनादि सदा मुक्तिप्रदं शुभम् ॥९८॥ भवतीनां क्रियाः सर्वा मद्योगाद् ब्रह्मसञ्ज्ञिकाः ।
भवतीनां शरीराणि पुरुषोत्तमवन्ति वै ॥९९॥ भवतीनां च सर्वस्वं चाऽहं श्रीपुरुषोत्तमः ।
ततः श्रीपुरुषोत्तम्यो भवत्यः सन्ति सर्वथा ॥3.75.१ ००॥ न मे मनाग् भवतीभ्यो भेदोऽत्र च परत्र च ।
यूयं चाहमहं यूयं सर्वं मे भवतीकृतम् ॥१० १॥ एवं मत्वाऽपरा या मद्भक्तियुक्ता भविष्यति ।
तदा तस्या भवतीनां तुल्यता वै भविष्यति ॥१ ०२॥ पठनाच्छ्रवणादस्य ज्ञानस्य श्रवणादपि ।
साध्वीभावोदयः स्याच्च ब्रह्मप्रियात्वमृच्छति ॥१ ०३॥ राधारमासमानत्वं भवेद् भक्त्या न संशयः ।
ब्रह्ममुक्तसमानत्वं भवेद् भक्त्या न संशयः ॥१ ०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वह्निप्रकाशनतिरोभावौ, साधुप्रतापो, विविधफलप्राप्तिः, साधुसङ्गमे मम प्राप्तिरित्यादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ॥७५ ॥